All kośas › Dvirūpādikośa
द्विरूपादिकोश Dvirūpādikośa
267 verses · text only, tagging comes next
Part 2 (2/3)
भवेद्ब्राह्मी ब्राह्मणी च बाणी बाणो बकोवकः ।बोधी बोधिद्रुमश्चापि बर्ही बर्हण उच्यते ॥ १०७ ॥
107
अनुष्टुप्
बर्हिश्च बर्हिश्शुष्मा च विसंविसमितीरितं ।ब्राह्मीको ब्राह्मिकश्चापि बन्धूरं बन्धुरं समम् ॥ १०८ ॥
108
अनुष्टुप्
बिम्बोष्ठं चापि बिम्बौष्ठं बन्धूकं बन्धुकं तथा ।बिब्बोकं चापि बेब्बोकं बहुळं बहु चेत्यपि ॥ १०९ ॥
109
अनुष्टुप्
भूष्णुर्भविष्णुर्भूमिश्च भूमी च स्यात् भुजाभुजः ।भीरुर्भीरूर्भरो भारः भाभा भूषा च भूषणा ॥ ११२ ॥
112
अनुष्टुप्
भृतिर्भृत्याभगोभागो भाषा भाषणमित्यपि ।भाद्रभाद्रपदौ तुल्यौ भ्राणो भ्रूणः प्रकीर्तितः ॥ ११३ ॥
113
अनुष्टुप्
भृङ्गारुश्चापि भृङ्गारो भर्त्सनं भर्त्सना तथा ।भाण्डीरश्चापि भण्डीरो भवेद्भृङ्गरजस्तथा ॥ ११५ ॥
115
अनुष्टुप्
भृङ्गराजोपि कथितो मेथिर्मेथी महिर्मही ।महश्च महसा प्रोक्तो मृष्टं म्लिष्टमपि स्मृतम् ॥ ११६ ॥
116
अनुष्टुप्
मणिर्मणी भवेन्माहो महश्च स्यात् मघोमखः ।मुस्ता च मुस्तकं चापि मस्तो मस्तक इत्यपि ॥ ११७ ॥
117
अनुष्टुप्
मुनिश्च स्यान्मुनी चापि मृदुर्मृद्वी तथै व च ।मसूरो मसुरश्च स्यात् मूसलं मुसलं तथा ॥ ११८ ॥
118
अनुष्टुप्
मद्गलो मुद्गलोपि स्यात् मद्गरो मुद्गरस्तथा ।महिला च महेला च मन्दिरं मन्दिरापि च ॥ ११९ ॥
119
अनुष्टुप्
स्यान्मार्गितं च मृगितं मार्जनं च मृजा तथा ।मृदुलं मृदु च प्रोक्तं मञ्जुलं मञ्जु चेत्यपि ॥ १२० ॥
120
अनुष्टुप्
मिहीका मिहिका च स्यात् मिहिरो महिरस्तथा ।मण्डूकश्चापि माण्डूको मकुळो मुकुळस्तथा ॥ १२२ ॥
122
अनुष्टुप्
मथुरा मधुरा चापि मन्थरो मन्दरस्तथा ।मर्दळो मर्दळश्चैव मध्यमं मथ्यमित्युच्यते ॥ १२३ ॥
123
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मार्जालश्चापि मार्जारो मुषितं मुष्टमित्यपि ।मंटपो मण्डपश्चापि मासारश्च मसारवत् ॥ १२५ ॥
125
अनुष्टुप्
मादनश्चापि मदनो मुकुंदः कुंद एव च ।मलकश्चाप्यामलको मृद्वीका मृद्विकापि च ॥ १२६ ॥
126
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्या (wrong syllable)
मार्गशीर्षो मार्गशिरो भवेन्मातृष्वसा तथा ।मातुस्स्वसा मत्तकेशी मत्तकाशिन्यपि स्मृता ॥ १२७ ॥
127
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
मदावनं मदवनं प्रपूर्वं परिकीर्तितं ।भवेद्युष्टं च युषितं ।योत्रं योक्त्रमपीरितम् ॥ १२९ ॥
129
अनुष्टुप्
जातुधानस्तथा रात्री रात्रिश्चापि निगद्यते ।रोदश्च रोदनं चापि भवेद्रागोनुरागवत् ॥ १३३ ॥
133
अनुष्टुप्
भवेद्राजा च राट्चापि राजी राजिश्च कथ्यते ।रेखा लेखा भवेद्रीढारुट्च तथा रुषा ॥ १३४ ॥
134
अनुष्टुप्metre not read in every line
रोषिका रोशिका,रात्रिंचरो रात्रिचरस्स्मृतः ।लज्जा कज्या तथा लक्ष्मिर्लक्ष्मी लक्ष्यं च लक्षवत् ॥ १३९ ॥
139
अनुष्टुप्
लक्षं सङ्ख्यार्थकं लक्षा लेख्यालेख्यमपि स्मृतं ।लाजो लाजाश्च कथिताः लोप्त्रं लोत्रं च गीयते ॥ १४० ॥
140
अनुष्टुप्
लोहिनीका लोहितिका लांगलीषा तथैव च ।लाङ्गलेशा च गदिता, व्याडो व्याळः प्रकीर्तितः ॥ १४२ ॥
142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लो (wrong syllable)
वल्ली वल्लिर्वणिर्वाणी व्रीडा व्रीडमपि स्मृतं ।वहो वहो वपिर्वापी वर्मी वर्मिक ईरितः ॥ १४३ ॥
143
अनुष्टुप्
वारो वालस्तथा वेशो वेषो वासा च वासकम् ।भवेद्वृष्टिस्तथा विष्टिः वेत्रो वेत्रमपि स्मृतम् ॥ १४४ ॥
144
अनुष्टुप्
वीर्यं वीरायितं चापि विश्वा विष्वापि च स्मृता ।वेश्या वेष्या च गदिता वंगाबंगः प्रकीर्तितः ॥ १४५ ॥
145
अनुष्टुप्
वज्रो वज्रमपि प्रोक्तं वीती वीतिश्च कथ्यते ।वार्वारि चापि गदितं वारो वासर इत्यपि ॥ १४६ ॥
146
अनुष्टुप्
व्रतती व्रततिश्चापि विटङ्कश्च विडङ्गवत् ।वैदेहिश्चापि वैदेही विपाशा च विपाट् तथा ॥ १४७ ॥
147
अनुष्टुप्
वाचालश्चापि वाचाटः वियामो वियमोपि च ।विश्वसृड्विश्वसृक्च स्यात् वलभी वलभिस्तथा ॥ १४८ ॥
148
अनुष्टुप्
वल्मिकं चापि वल्मीकं व्यायामो व्याम उच्यते ।विहारश्चापि वीहारो वहारश्चावहारवत् ॥ १५४ ॥
154
अनुष्टुप्
वेणीखरा भवेद्वेणीगरावानीपकस्तथा ।वनीपको वासुदेवो वासुश्चाथ विदारणम् ।१५६ ॥
170
अनुष्टुप्metre not read in every line
भवेच्छान्तं च शमितं श्रमश्श्रामोपि कीर्तितः ।शुष्कञ्च शुषितं चापि श्रान्तिं श्रान्तं प्रचक्षते ॥ १५८ ॥
158
अनुष्टुप्
शिखा च शिखरं शाटी शाटश्शम्भूश्च शम्भुवत् ।शम्पासम्पाशितं शातं शल्कश्च शकलस्तथा ॥ १५९ ॥
159
अनुष्टुप्
शेलुश्शेलूर्भवेच्छोणा शोणी शूण्डं च शुण्डवत् ।शंबं साम्बं शारसारौ भवेच्छोषश्च शोषणम् ॥ १६० ॥
160
अनुष्टुप्
श्यामालश्श्यामलोपि स्या च्छ्वशुरस्स्वसुरस्तथा ।शरारुश्चापि शारारुश्शबलं सबलं तथा ॥ १६२ ॥
162
अनुष्टुप्
शम्बरं सम्बरं चापि शष्कुलिश्शष्कुलोपि च ।शतद्रुश्च शितद्रुश्च शाद्वलश्शाद्वलोपि च ॥ १६३ ॥
163
अनुष्टुप्
श्रवणं श्रावणं प्रोक्तं शबरश्शाबरस्तथा ।ष्ठेपनंष्ठीपनं तुल्यं स्फटा चापि स्फटस्तथा ॥ १६५ ॥
165
अनुष्टुप्
सूचिस्सूचीस्रवस्स्रावः स्वनस्स्वानः स्रुतिस्सृतिः ।सायं सायस्तथा सर्वश्शर्वस्सूनं प्रसूनवत् ॥ १६६ ॥
166
अनुष्टुप्
स्यालश्श्यालश्च कथितस्सूरश्शूरस्सखिस्सखा ।सूरस्सूरीसालशालौ सर्पस्सार्पस्सहास्सहः ॥ १६७ ॥
167
अनुष्टुप्
सन्ध्या सन्धिस्सुखं सौख्यं स्पर्शःस्परिश इत्यपि ।सुरा सुरीस्स्याच्च समस्समानस्स्तवनं स्तवः ॥ १६८ ॥
168
अनुष्टुप्
सिंहाणं चापि सिंघाणं सिन्दूरं सिन्दुरं मतं ।सौदर्यस्सोदरश्च स्यात्सौहार्दं सौहृदं स्मृतम् ॥ १६९ ॥
169
अनुष्टुप्
समाख्याच समज्ञा च संकरस्साङ्करस्सङ्करस्तथा ।संयामस्संयमश्चापि संहितं सहितं समे ॥ १७० ॥
170
अनुष्टुप्metre not read in every line
सृणीका सृणिका चापि स्फटिकं स्फाटिकं तथा ।सुत्रामापि च सूत्रामा सूकरश्शूकरोपि च ॥ १७१ ॥
171
अनुष्टुप्
स्तम्बघ्नस्तु स्तम्बघनः सवनं सावनं तथा ।स्वयम्भूश्च स्वयम्भुश्च साहस्रं च सहस्रवत् ॥ १७३ ॥
173
अनुष्टुप्
हहाहाहाहुहूर्हूहू हर्षोर्हरिष इत्यपि ।हृष्टं च हृषितं चापि हेषाह्रेषाहनुर्हनूः ॥ १७८ ॥
178
अनुष्टुप्
हारीतो हरितोपि स्यात् हिङ्गुलुश्चापि हिङ्गुलम् ।हज्जलो हिज्जलोपि स्यात् ह्रीबेरं हरिबेरवत् ॥ १८० ॥
180
अनुष्टुप्
भवेत् क्ष्वेळस्तथा क्ष्वेडः क्षमःक्षामः प्रकीर्तितः ।स्यात् क्षुत्क्षुतमपि प्रोक्तं क्षिरिका क्षीरिकापि च ॥ १८२ ॥
182
अनुष्टुप्
(इति द्विरूपपद्धतिस्समाप्ता)त्रिरूपकोशःअङ्कणं चाङ्गणं स्यादङ्गणा चापि कीर्तिता ।अरतिश्चापि निरतिर्विरतिश्च समं त्रयम् ॥ १ ॥
1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
(त्रिरूपकोशे क-ख-ग-च-ज-त-द-ध-पउदंस्यादुदकं चापि दकं च परिकीर्तितं ।भवेदेडुकमेडूकमैडुकं न्यस्तकीकसम् ॥ ५ ॥
5
अनुष्टुप्metre not read in every line
कंचुळीकः कंचुळिकः कञ्चुलूकः प्रकीर्तितः ।करजश्च करञ्जश्च करंजक इति स्मृतः ॥ ९ ॥
9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कं (wrong syllable)
गीर्पतिर्गीष्पतिश्च स्याद्गीःपतिः परिकीर्तितः ।चन्द्रिका चन्दिमा चापि चान्द्रीति परिकीर्तिता ॥ १२ ॥
12
अनुष्टुप्
तादृशश्चापि तादृक्च तादृक्षश्चाप्युदाहृतः ।त्रिफला तृफला चापि त्रिफलं चापि कीर्तितम् ॥ १५ ॥
15
अनुष्टुप्
द्वयी द्वयं च द्वितयं दिशा दिग्दिश इत्यपि ।देवकी दैवकी चापि द्वैकी च परिकीर्तिता ॥ १६ ॥
16
अनुष्टुप्
दुरितं च दुरीतं च दुरीतिश्च निगद्यते ।समा दुत्तूर धुत्तूर धूत्तूरा कितवे स्मृताः ॥ १७ ॥
17
अनुष्टुप्
नारिकेळो नाळिकेरो नाडिकेरश्च कथ्यते ।पूः पुरी च पुरं चापि पाण्डुः पाण्डुरपाण्डरौ ॥ २० ॥
20
अनुष्टुप्
पर्षश्च परिषच्चापि परीषच्चापि गद्यते ।पृथिविः पृथिवी च स्यत् पृथ्वी च परिकीर्तिता ॥ २१ ॥
21
अनुष्टुप्
(त्रिरूपकोशे प-भ-म-र-ल-व-श-स-ह )पल्यायणं पल्ययणं पल्याणं च निगद्यते ॥
220
अनुष्टुप्metre not read in every line
पराभवः परीभवः परीभावश्च कथ्यते ।भ्रमश्चापि भ्रमिश्चापि भ्रमीति परिकीर्तिता ॥ २५ ॥
25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 भ (wrong syllable)
भीरुको भीलुको भीरुः भिदिरं भिदुरं भिदुः ।भ्रकुंसश्च भ्रूकुंसश्च भ्रूकुंसश्चेति कथ्यते ॥ २६ ॥
26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भ्रू (wrong syllable)
मन्थो मन्थाश्च मन्थानः मुन्मुदाप्रमुदास्समाः ।मार्ताण्डश्च मृताण्डश्च मार्तण्डश्च प्रकीर्तितः ॥ २८ ॥
28
अनुष्टुप्
वाग्वाचा च वचश्च स्यात् वृत्तिर्वार्तं च वृत्तवत् ।भवेद्विघ्नं च विघ्नश्च विघ्ना परिनिगद्यते ॥ ३१ ॥
31
अनुष्टुप्
भवेद्वृद्धिश्च वृद्धी च वार्धी चेति निगद्यते ।वलग्नं चावलग्नं च लग्नं च परिकीर्तितम् ॥ ३२ ॥
32
अनुष्टुप्
वाणिज्यं च वणिज्यं च वणिज्या चापि कीर्तिता ।शुण्डश्शुण्डा च शुण्डारश्शरदश्शारदश्शरत् ॥ ३५ ॥
35
अनुष्टुप्
शर्करास्याच्छर्करिल श्शार्करः परिकीर्तितः ।शकुला शकुलश्चापि शकुली च प्रकीर्तितः ॥ ३६ ॥
36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्छ (wrong syllable)
सदृक्सदृक्षस्सदृशस्सुषीरं सुषिरं सुषिः ।स्वप्नश्च स्वपनं च स्यात्स्वापश्चापि प्रकीर्तितः ॥ ३८ ॥
38
अनुष्टुप्
स्फोरणं स्फोरणा स्फोरः संधासन्धानसन्धयः ।भवेद्धर्म्यश्च हर्म्यञ्च तथा हर्मोऽपि च स्मृतः ॥ ४० ॥
40
अनुष्टुप्
(इति त्रिरूपपद्धतिस्समाप्ता)चतूरूपकोशःअथ चतूरूपकोशःश्रीहर्षकृतः—– चतूरूपे — अ-क-ग-च-ज-झ-त-द-ध-न-प-ब-भअग्रमग्र्यं तथाग्रीयमग्रियं च प्रचक्षते ।अङ्कूरमङ्कुरं च स्यादङ्कुरोङ्कूर इत्यपि ॥ १ ॥
1
अनुष्टुप्metre not read in every line