All kośas › Gaṇamañjarī
गणमञ्जरी Gaṇamañjarī
41 verses · text only, tagging comes next
यगणाः
इति मगणाः ।
शलाका च पुलाका स्याद्विपञ्ची सद्बुधैः स्मृता ।पदाजी स्याच्चिरण्टीव प्रवेणी कथ्यते जनैः ॥ ६ ॥
2.6 · p. 61
अनुष्टुप्
श्रीपर्ण्यपि च मन्दाकी चक्राङ्गीति निगद्यते ।स्यादुल्लाघा च काम्बोजी पौलोमी कविभिः स्मृता ॥ ७ ॥
2.7 · p. 61
अनुष्टुप्
सुपर्णी चेदभिख्यैव कृपाणीति स्मृता मता ।अनन्ता च मनाका च विशाल्यैव निगद्यते ॥ ८ ॥
2.8 · p. 61
अनुष्टुप्
खलूरी तु मलूरीव मलूक्यपि च वर्ण्यते ।अवाकाऽपि पुलाक्या स्यात्कणेरीतीह कथ्यते ॥ ९ ॥
2.9 · p. 61
अनुष्टुप्
महीजाऽपि नदीजा च भवानी कथ्यते बुधैः ।शिवानी च गवाक्षी स्यात् हिमानीति स्मृता भुवि ।शुभाङ्गी च सुवेणी च सुवर्णेति निगद्यते ॥ १० ॥
2.10 · p. 61
अनुष्टुप्