All kośas › Gaṇamañjarī
गणमञ्जरी Gaṇamañjarī
41 verses · text only, tagging comes next
रगणाः
इति यगणाः ।
मास्तका चाम्बिका चैव कूर्चिका मालिका तथा ।नीलिका रेणुका चापि मल्लिकाऽपि च पिण्डिका ॥ ११ ॥
3.11 · p. 62
अनुष्टुप्
कालिका तूलिका च स्यादूर्मिका चोष्ट्रिका तथा ।धेनुका कामुका चैव भिन्तिका नालिका स्मृता ॥ १२ ॥
3.12 · p. 62
अनुष्टुप्
स्यात्पालिका पालकीव नीलिका कालिका मता ।राजिका नर्तकी चापि तारका कर्णिका तथा ॥ १३ ॥
3.13 · p. 62
अनुष्टुप्
स्यात्कन्यका गौलिका च गोलिका पीठिका मता ।पिण्डिका बन्धकी तु स्याद्भक्तिका मेघला स्मृता ॥ १४ ॥
3.14 · p. 62
अनुष्टुप्
रोचना यामिनी चापि वालुका सल्लरीति च ।योगिनी गेहिनी चैव गेहली ग्रामणीस्तथा ॥ १५ ॥
3.15 · p. 62
अनुष्टुप्
कर्कटी मर्कटी च स्यान्मोरटा दूरटी तथा ।रोहिणी वारुणी चापि रेवती मालती मता ॥ १६ ॥
3.16 · p. 62
अनुष्टुप्
धारुणी धोरणीति स्यात् ब्राह्मणी कल्पना स्मृता ।पूरणी कारणी प्रोक्ता शिञ्जिनी मञ्जरी मता ।ब्रह्मसूर्विश्वसूश्चापि शष्कुली मष्कुली तथा ॥ १७ ॥
3.17 · p. 62
अनुष्टुप्