All kośas › Gaṇamañjarī
गणमञ्जरी Gaṇamañjarī
41 verses · text only, tagging comes next
भगणाः
इति जगणाः ।
संयशो दर्शनश्च स्यात्संशयो जम्बुकस्तथा ।फेरवो डुण्डुभश्चापि डुण्डुकस्सज्जनस्तथा ॥ ३२ ॥
7.32 · p. 64
अनुष्टुप्
कञ्चुकः कोकिलस्तु स्याद्गोक्षुरश्चानकस्तथा ।स्यात्पेचको गोलकश्व कूवकः कीचकोऽपि च ॥ ३३ ॥
7.33 · p. 64
अनुष्टुप्
वृश्चिकः स्वस्तिकश्चैव पक्षको मस्तकस्तथा ।कौशिकस्तुण्डिकः प्रोक्तः चित्रकं धारको मतः ॥ ३४ ॥
7.34 · p. 64
अनुष्टुप्
स्याच्चुम्बिको गोमुखं च पन्नगश्चात्मजः स्मृतः ।अण्डजो बाहजश्चापि काकुजो भूमिजं मतः ॥ ३५ ॥
7.35 · p. 64
अनुष्टुप्
सामजो निष्कुटश्च स्यात्कुक्कुटः कर्कटोङ्गजः ।कीकटो मर्कटश्चापि पिच्छटो मोरटं तथा ॥ ३६ ॥
7.36 · p. 64
अनुष्टुप्
रेवटो रेवटं च स्यात्तूत्कटः पर्कटो मतः ।शङ्करः किङ्करोऽपि स्यात्केशवः केतकः स्मृतः ।राघवो माधवश्चापि भानुजस्सानुजस्तथा ॥ ३७ ॥
7.37 · p. 64
अनुष्टुप्