साङ्केतिकपदसूची
अ = अमरकोशःउ.को = उत्पलिनीकोशः अ = अनिट्त्रि.को = त्रिकाण्डकोशः वे = विकल्पेनेट् (वेट)नि = निरुक्तम् उ = उभयपदीमे. = मेदिनीकोशः प = परत्मनेपदीराज.नि = राजनिघण्टुः आ = आत्मनेपदीवा = वाचस्पत्यम् भ्वा = भ्वादिगणःवि.को = विश्वकोशः अ = अदादिगणःसं = संसारावर्तः दि= दिवादिगण:हा = हारावली जु = जुहोत्यादिगणःहे = हेमचन्द्रः स्वा= स्वादिगणःपुं = पुंलिङ्गम् तु = तुनादिगण:स्त्री = स्त्रीलिङ्गम् रु = रुदादिगण:न = नपुंसकलिङ्गम् त = तनादिगणःत्रि = त्रिषु लिङ्गेषु क्रया = क्रयादिगणःसे = सेट् चु = चुरादिगण:
1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)
विषयसूची
महाकविकालिदासप्रणीतं
नानार्थशब्दरत्नम्
[निचुलकविप्रणीततरलाव्याख्याया औणादिकपदार्णवार्थनिर्देशैः
उणादिव्युत्पत्त्या च संवलितम्]
Introduction vii-xxvii(1) प्रथमं निबन्धनम् 1-88(2) द्वितीयं निबन्धनम् 89-132(3) तृतीय निबन्धनम् 133-176 नानार्थशब्दरत्नस्थानां शब्दानाम् अकारादिक्रमेण सूची 177-216
2
अनुष्टुप्metre not read in every lineLatin letters: IntroductionLatin letters: viiLatin letters: xxvii
नानार्थशब्दरत्नम्
[अथ प्रथमं निबन्धनम्]
तमेव शिरसा वन्दे पुण्येतरफलादिदम् ।कीर्त्यं यं मोक्षबन्धादौ सव्यवामसितासितम् ॥ १अधुना पाणिनिशक्तिचन्द्रसूर्येन्द्रनिर्मिते ।शास्त्रनिर्णीतशब्दानां प्रकृत्यर्थो विवर्ण्यते ॥ २तत्राप्येकादिधात्वर्थे वाचकत्वे नियन्त्रिते ।महाभाष्यादिवल्लोके ग्रहीतुं न हि शक्यते ॥ ३अतो येनैतदखिलमायासातिशयं विना ।ज्ञायते सुष्ठु नानार्थशब्दरत्नं प्रदर्श्यते ॥ ४वर्गान्तः स्थादिवर्णान्तपदगुम्फनसुन्दरम् ।निबन्धनत्रयाङ्कं तत्कण्ठे कुर्वन्तु पण्डिताः ॥ ५
3 · p. 1
अनुष्टुप्metre not read in every line
नानार्थशब्दरत्नव्याख्यानम्
तरलाव्याख्या}
कलये कटितटपटलं निटिलाक्षं निगमपटलपटुभान्तम्कटकं कटकीकृतविषतटकं वितटाभिरामजटिलं तम् ।स्वमित्रकालिदासोक्तां शब्दरत्नार्थजृम्भिताम् ।तरलाख्यां लसद्व्याख्यामाख्यास्ये तन्मतानुगाम् ॥
4 · p. 1
अनुष्टुप्metre not read in every line
प्रकृतेरेव सर्वत्र सर्वलिङ्गत्वमुन्नयेत् ।नोद्वेगस्तत्र कर्तव्यः स्तथा भूमिकदर्शनात् ॥ ६ओंब्रह्मशम्भुविष्ण्वेन्द्रसूर्यचन्द्रादिके तथा । १अनन्तगजवाय्वग्निमहोदध्यादिके मतम् ।
5 · p. 1
अनुष्टुप्metre not read in every line
तरलाव्याख्या
स्वतन्त्रधातुतद्वन्द्वसङ्गतासङ्गतात्मिका ।प्रकृतिस्तत्र विज्ञेया न कौमारे त्वयं विधिः ॥ इति ।यद्यपि शक्तिः शम्भुः कुमारश्चापीन्द्रः सूर्यो निशाकर' इत्युक्तमपि -'श्रीशक्तिशम्भुसूचितसुविभक्त्याकलनं सिद्धपदयोगात् ।चक्रे कुमारमूर्तिर्व्याकरणं सर्ववेदसरसार्थम् ॥
6 · p. 1
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
१. ओं ओमित्यदोऽवतीत्यर्थे प्रत्ययेऽस्य टिलोपतः । १.६४२ज्वरत्वरेति प्रकृतेरूठो दीर्घे ततो गुणे ।रक्षकं सिद्धरूपत्वात्सत्त्वमर्थोऽस्य खल्वभूत् । … १.६४३अकारोकारयोः सन्धौ मकारेऽपि शिरःस्थिते ॥ १.६४६ब्रह्मविष्णुमहेशाख्यां वदन्त्येतदिहापरे।अमी शब्दास्त्रयो यस्य वाचकास्त्र्यम्बको हि सः ॥ १.६४७अम्बेः शब्दार्थकादम्बशब्दः शब्दार्थको यतः ।एवं यद्यप्यनेके स्युरर्थाः प्रणवगोचराः ॥ १.६४८
7 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अथ कवर्गान्ता:
कृकवाकुर्मयूरे स्यात्कुक्कुटे कोकिलादिके ।तक्कु <र्कु> र्वस्त्रे गृहारामप्राकारादिक इष्यते ।स्त्रीणां गृहोपकरणद्रव्ये लज्जादिकेऽपि च । ५न्यङ्कुर्गुरुकुलावासिशिष्ये मुन्यन्तरे मृगे ।परशावथ नाकुस्तु मुनावोषधिभेदके ।नम्रे वायौ महासत्त्वे धनुः शब्दादिके तथा ।
8 · p. 1
अनुष्टुप्metre not read in every line
तरलाव्याख्या
९. श्लीकुः - (न) (श्लिषेः कश्च - १.३० इति कुः) (श्लिष आलिङ्गने दि/प/अ । कु:) श्लिष्यति ग्रहादीनिति श्लीकु = ज्योतिषशास्त्रम् । १०. शङ्कुः - (पुं) (खरुशङ्कु - १.३६ इति कुः) (शकि शङ्कायाम् भ्वा/आ/से+कु:) शङ्कते अस्मादिति शङ्कुः = स्थाणुः ।११. शुष्कः-(त्रि) (सृवृभूशुषिभ्य: कक् - ३.४१ इति कक्) (शुष शोषणे दि/प/अ+कक्)शुष्यतीति शुष्कः = निस्स्नेहः । १२. सङ्कसुक: - (त्रि) (समि कस उकन् - २.३ इति उकन्) (कस गतौ भ्वा/प/से उकन्) सम्यक्कसन्ति पलायन्ते जना अस्मादिति सङ्कसुकः = दुर्जनः ।
9 · p. 1
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
९. श्लीकुः श्लीकुर्भृत्येऽपि च ज्योतिष्युद्युतेऽपि प्रकीर्तितः । १.२२७१०. शङ्कुः शुङ्कु: कोले गरे शस्त्रे संख्यापादपभेदयोः ॥ १.२४१यादोभेदे च पापे च स्थाणावपि च दृश्यते ।राजभेदे त्रिशङ्कुः स्याद्वैनतेयबिडालयोः ॥ १.२४२११. शुष्कः शुष्कशब्दो नीरसेऽर्थे वाच्यवल्लिङ्ग उच्यते । ३.९९१२. सङ्कसुकः दुर्जनास्थिरयोर्मालाकारे सङ्कसुकः स्मृतः।पाकुकोऽध्वर्युगौरीशफलकर्मादिके तथा ।अंशुको रेणुकिरणचन्द्रपुण्यजनादिके ।भीकस्तु कातरे सेतौ हरिणी पुण्यमानुषौ । १५बन्धकस्तु मृते दुष्टे बन्धिते दुरितादिके ।क्षेपकस्तु प्लवाङ्गे स्यात्पापिष्ठे पवनादिके ।जहकः पुरुषस्त्यागी साम्बो विष्णुः सदागतिः ।
10 · p. 1
अनुष्टुप्metre not read in every line
तरलाव्याख्या
;cउणादिनिष्पत्तिः}१३. पाकुकः - (पुं) (पचिनशोर्णुकन्कनुमौ च - २.३१ इति णुकन्. कः) (डुपचष्पाके भ्वा/उ/अ+णुकन्, कः) पचतीति पाकुकः = सूपकारः (मे) ।, १४. (अंशुक:) नंशुकः - (त्रि)(पचिनशोर्णुकन्कनुमौ च - २.३१ इति णुकन्, नुम्) (णश अदर्शने दि/प/से+णुकन्, नुम्)नश्यतीति नंशुकः = नाशक: (मे) ।, १८. जहक: - (पुं) (जहातेर्द्वे च -२.३५ इति क्वुन्) (ओहाक् त्यागे जु/प/अ+क्वुन्) जहाति परित्यजतीति जहकः = कालः ।,
11 · p. 1
अनुष्टुप्metre not read in every lineLatin letters: c
औणादिकपदार्णवः
१३. पाकुकः पाकुकः पाचकेऽध्वयुगौयौस्तु [नशेः कनुमि] नंशुकः। २.१४९१५. भीक: भीरुकस्तु प्रकथितः कातरे वाच्यलिङ्गकः । २.१५०१८. जहकः त्यागौकशीले जहक: काले च परिकीर्तितः ॥ २.१५४
12 · p. 1
अनुष्टुप्metre not read in every line
धमको लोहकारे स्याद्वैणिके वाचकादिके ।भिदको वज्रखड्गादौ शम्भुविष्णवादिके तथा । २०उज्झकः सम्भावके स्यात्त्यागयोग्ये दुरात्मनि ।रुचक: कामिनीसक्ते सूर्यादौ ज्ञानसङ्गते ॥कार्षकस्तु कुटुम्बी स्याड्डाम्बिकादिक इष्यते ।कृषकस्तु प्रतीते स्यादुदके लाङ्गलादिके ॥
13 · p. 1
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
१९. धमकः - (पुं) (ध्मो धम च -२.३६ इति क्वुन्.) (ध्मा शब्दाग्निसंयोगयोः भ्वा/ प/अ+क्वुन्,) धमतीति धमकः = लोहकारः ।, २३. कार्षक: - (पुं) (कृषेर्वृद्धिश्चोदीचाम् - २.३८ इति क्वुन्) (कृष विलेखने भ्वा/प/अ+क्वुन्) कर्षतीति कार्षक: = कृषीवलः ।,२४. कृषक: - (पुं) (कृषेर्वृद्धिश्चोदीचाम् - २.३८ इति क्वुन्) (कृष विलेखने भ्वा/प/अ+क्वुन्) कर्षति भीमिमिति कृषकः = कर्षकः।
14 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable)
औणादिकपदार्णवः
१९. धमकः धमक: स्वर्णकारे च व्याधौ मृत्यौ च कथ्यते । २.१५५२३. कार्षक: कृषीवले कार्षक: स्यात्कृषकोऽप्यभिधेयवत् । २.१५८२४. कृषकः यदा तु कृषक: फालवाची पुंसि तदा स्मृतः ॥ २.१५८
15 · p. 1
अनुष्टुप्metre not read in every line
उदकं तु जले क्षौद्रे गाने प्रेमादिकेऽपि च । २५वृश्चिक: कीटभेदे स्यान्नक्षत्रे चन्द्रमस्यपि ।कृषिको राज्ञि बाले च लेखके च जडादिके ॥स्यात्प्रापणिक इन्द्रादौ चारे विक्रयकारिणि ।स्यात्प्राकषिक आयत्ते वर्तके परमात्मनि ॥
16 · p. 1
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्यत्तिः
२५. उदकम् - (न) (उदकम् च - २.३९ इति क्वुन्) (उन्दी क्लेदने रु/प/से+क्युन्) उनन्तीति उदकम् = जलम् ।, २६. वृश्चिक: - (पुं) (वृश्चिकृषो: किकन् - २.४ इति किकन्) (ओव्रश्चू - छेदने तु/प/से+किकन्) वृश्चति छिनत्तीति वृश्चिकः = शूककीटः।, २७. कृषिक:- (पुं) (वृश्चिकृषोः किकन् -२.४ इति किकन्) (कृष विलेखने भ्वा/प/अ+किकन्) कर्षत्यनेनभूमिमिति कृषिक: = फालः ।, २८. प्रापणिक: - (पुं) (प्राङि पणिकषः - २.४१ इति किकन्) (पण व्यवहारे भ्वा/आ/से+किकन्) प्रापणायति इति प्रापणिक: = पण्यविक्रयी ।, २९. प्राकषिक:-(पुं) (प्राङि पणिकषः - २.४१ इति किकन्) (कष हिंसायाम् भ्वा/प/से+किकन्) प्राकषतिहिनस्तीति प्राकषिक: = षिङ्गः कामुकः।
17 · p. 1
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
२५. उदकम् उदकं सलिले क्लीबं क्वुन्प्रपञ्चोऽयमीरितः । २.१५९२६. वृश्चिकः वृश्चिको राशिभेदेऽपि शूककीटे च कथ्यते । २.१७१२७. कृषिक: कृषिकः पुंसि काले स्यात्कर्षके त्वभिधेयवत् । २.१७१२८. प्रापणिकः आगन्तुके प्रापणिकः पण्यविक्रयिणि त्रिषु । ३.१७२२९. प्राकषिकः मालाकारे प्राकषिक: परदारोपजीविनि। २.१७२शेमिकस्तु शिखायां स्याद्वल्मीके जलदादिके । ३०क्रयिको विक्रयी यक्षो वर्तकः सुरपूजकः ।स्यादापणिक आयत्तवर्तनाव्यवहारिषु ॥स्यादापनिक इन्द्रे स्यादिन्द्रनीलमयूरयोः ।स्यादापतिक ईहायां चोरे चाखनिकेऽपि च ॥आखुर्वराहे कर्के च मूषके जनभेदके । ३५
18 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क्त (wrong syllable)
तरलाव्याख्या
उणादिनिष्पत्तिः
३१. क्रयिकः - (पुं) (क्रिय इकन् - २.४४ इति इकन्) (डुक्रीञ् द्रव्यविनिमये क्र्या । उ/अ+इकन्) क्रीणातीति क्रयिकः = क्रेता ।, ३३. आपनिकः - (पुं) (आङि पणिपनि - २.४५ इति इकन्) (पन व्यवहारे स्तुतौ च भ्वा/आ/से+इकन्) आ पणति इति आपनिकः = इन्द्रनीलमणिः ।,३४. आपतिकः - (पुं) (आङि पणिपनि - २.४५ इति इकन्) (पत्लृ गतौ भ्वा/प/से+इकन्)आ समन्तात् पततीति आपतिकः = श्येनपक्षी ।, ३५. आखुः - (पुं) (आङ्परयोः - १.३३ इति कुः) (खनु अवदारणे भ्वा/उ/से+कुः) आखनतीत्याखुः = मूषिकः ।
19 · p. 8
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
३०. शेमिकः/सेमिकः सीमिकस्तरुभेदेऽपि वल्मीकेऽपि च कथ्यते। २.१७३३१. क्रयिक: क्रेतरि क्रयिको वाच्यलिङ्गकः परिकीर्तितः ।३२. आपणिक: वणिजः [वणिजि] स्यादापणिकोऽर्धरात्रेन्द्रनीलयोः ।२.१७४३३. आपनिकः स्तावकेऽप्यापनिक इत्युच्यते सूक्ष्मदर्शिभिः । २.१७५३४. आपतिकः श्येने च देवायत्ते च कालेऽप्यापतिकः स्मृतः । २.१७५३५. आखुः वराहे मूषकेऽप्याखुस्त्रियामपि तथाविधः । १.२२७२ फल्गुस्त्वसारे विज्ञाने मद्गुर्जलचरे खगे । ३६वल्गुः पक्षिणि चन्द्रादौ सुन्दरे गगनादिके ।नीलङ्गुस्तु क्रिमौ धृष्टे नारदे पापचिन्तके ।लिगुर्मनसि च प्रोक्तो भूम्यां गौर्यादिकेऽपि च । ३९भगवेत्यादिचान्द्रसूत्रादप्राप्तौ (फ?)भल्गुः । √भज सेवायाम् ।उक्तमुक्त(क्ता?)नुक्तरीतिः पाणिनीयेति चिन्तयेत् ।प्रायिकत्वादित्यनुक्तिर्निरूपणविजृम्भणे ॥सर्वत्र सर्वसङ्गत्या दुर्बोधत्वप्रसक्तितः ।निरन्तत्वाच्च बोध्दृणामशक्तेरिति मे मतिः ॥
20 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ध्दृ (wrong syllable)
उणादिनिष्यत्तिः
३६. फल्गुः- (स्त्री) (फलिपाटि-१.१८ इति उः) (उल निष्पत्तै भ्वा/प/से-उः) फलतीति फल्गुः = वृक्षविशेषः ।, ३७. वल्गुः - (त्रि) (वलेणुक्य - १.१९ इति उः) (वल संवरणे भ्वा/आ/ से+उः) वल्यते संव्रियते इति वल्गुः = सुन्दरम् ।, ३८. नीलङ्गु: - (पुं) (खरुशङ्कु - १.३६ इतिकु:) (नि+लगि गतौ भ्वा/प/से-कु:) निलङ्गति गच्छतीति नीलगुः = कृमिभेदः ।, ३९. लिगु- (न) (खरुशकु -१.३६ इति कुः) (लगे सङ्गे भ्वा/प/से+कुः) लगति विषयैः सहेति लिगु=मनः ।
21 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 म्या (wrong syllable)
औणादिकपदार्णवः
३६. फल्गुः नाद्रौ फल्गुर्मलय्वां स्त्री निस्सारे त्वभिधेयवत् । १.१६१३६. मद्गु: आत्वं बाहुलकान्नात्र मद्गुः पानीयवायसे ।न्यङ्कादीनां च सूत्रेण कुत्वमत्र विभाव्यताम् । १.११५३७. वल्गुः वल्गुः स्याच्छगले पुंसि सुन्दरे चाभिधेयवत् । १.१६७३८. नीलङ्गुः नीलङ्गुः कृमिजातौ स्यात् बम्भरालिप्रसूनयोः ।सृगालेऽप्येष दीर्घादिरर्थो दीर्घादिरेव वा ॥ १.२४३३९. लिगुः लिगुर्मूर्खे भूप्रदेशे मृगे वा न द्वयोर्हदि । १.२४४हिङ्गुस्त्वौषधमष्टात्ममृगवायुखगादिके । ४०अद्गस्तृषिः पुरोडाशो मुद्गो धान्यान्तरः शमी ।भृङ्गस्तु भ्रमरे शैले रमण्यांधार्यवस्तुनि ।शृङ्गः सानौ च दुष्टांशे सिंहपापिमृगादिके ।
22 · p. 9
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
४०. हिङ्गु - (न) (खरुशङ्कु - १.३६ इति कुः) (हन हिंसागत्योः अ/प/अ+कु:) स्वगन्धेन अन्यगन्धान् हन्तीति हिगुः = रामठम् (मूलविशेषनिर्यास:) ।, ४१. अद्गः - (पुं) (गन् गम्यद्योः - १.१२ इति गन्) (अद भक्षणे अ/प/अ+गन्) अद्यते देवैः इति अद्गः =पुरोडाशः ।, ४१. मुद्ग: - (पुं) (मुदिग्रोर्गग्गै - १.१२५ इति गक्) (मुद हर्षे भ्वा/आ/से+गक्) मोदते अनेनेति मुद्गः = पक्षिविशेषः ।, ४२. भृङ्गः - (पुं) (भृञः किन्नुट् च - १.११२ इति गन्,नुट्) (डुभृञ् धारणपोषणयो: जु/उ/अ+गन्, नुट्) बिभर्त्यनुरागमिति भृङ्गः = भ्रमरः ।, ४३.शृङ्गः - (पुं) (शृणातेर्ह्रस्वश्च - १.१२३ इति गन्, नुट्) (शॄ हिंसायाम् क्र्या/प/से+गन्, नुट्)शृणातीति शृङ्गम् (मे)(उ.को) ।
23 · p. 10
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
४१. अद्गः भवेदद्गः पुरोडाशे शाखायामप्यसौ पुमान् । १.५४२४१. मुद्गः मुद्गो धान्यविशेषे स्यान्मौद्गो मुद्गादणित्यणि ।अन्नादौ मुद्गसंसृष्टेर्मौद्गीनं तु भवेत् खञि । १.५५४मुद्गानां भवने क्षेत्रे गर्ग: स्यात्तापसान्तरे ।४२. भृङ्गः भृङ्गशब्दस्तु पुंलिङ्गो भवेद्ध्वम्याट(शि/शृ)ङ्गयोः ।मधुव्रते भृङ्गराजे भृङ्गं क्लीबे गुडत्वचि । १.५४९४३. शृङ्गः शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके । १.५५०शर्ङ्गः पक्षिणि दुष्टात्मसिंहव्याघ्रादिकेऽपि च ।गर्गस्तु मुनिभेदे स्याद्गजपक्षिजनादिके । ४५गङ्गा सरिद्वरे जन्तौ पतङ्गः पक्षिसूर्ययोः ।लघू रम्येऽप्यसारे चाऽप्यल्पे पक्ष्यादिकेऽपि च ।
24 · p. 10
अनुष्टुप्metre not read in every line
तरलाव्याख्या
;cउणादिनिष्पत्तिः}४४. शार्ङ्गः - (पुं) (गणशकुनौ - १.१२४ इति गन्, नुट्) (शॄ हिंसायाम् क्र्या/प/से+गन्, नुट्) शृणातीति शार्ङ्गः = पक्षी ।, ४५. गर्ग: - (पुं) (मुदि ग्रोर्गग्गै - १.१२५ इति गः)(गॄ शब्दे क्र्या/प/से+ग:) गृणाति वेदध्वनिना शब्दायते इति (स्तौतीति) गर्गः = मुनिविशेषः ।,४६. गङ्गा - (स्त्री) (गन्गम्यद्योः १.१२ इति गन्) (गम्लृ गतौ भ्वा/प/अ+गन्) गमयति प्रापति ज्ञापयति भगवत्पदम् या सा = नदीविशेषः ।, ४६. पतङ्गः - (पुं) (पतेरङ्गच्यक्षिणि - १.११६ इति अङ्गच्) (पत्लृ गतौ भ्वा/प/से+अङ्गच्) पतति गच्छतीति पतङ्गः = पक्षी(मे) ।, ४७. लघु - (न) (लङ्घिबंहयोर्नलोपश्च - १.२९ इति कुः) (लघि गतौ भ्वा/आ/से+कुः) लङ्घते अनेनेति लघु = शीघ्रम् (मे) ।
25 · p. 11
अनुष्टुप्metre not read in every lineLatin letters: c
औणादिकपदार्णवः
विषाणोत्कर्षयोश्चाथ शृङ्गः स्यात्कूर्चशीर्षके ।स्त्रीविषायां स्वर्णमीनभेदयोः ऋषभौषधौ ॥ १.५५१४४. शाङ्र्गः शार्ङ्गशब्दः पक्षिभेदे मुनिपुत्रे च कथ्यते।शृङ्गशब्दाद्विकाराणि प्राहुश्चापे त्विमं बुधाः । १.५५३४५. गर्ग: गर्गादियञि गार्ग्यः स्यात् गोत्रे बहुषु तस्य लुक् ।गर्गाद्यञि स्त्रियां नैवं स्त्रियो गार्ग्य इतीह दिक् । १.५५५४६. गङ्गा गङ्गा स्त्री द्युसरित्यस्माच्छिवशुभ्रतिकादिगात् । १.५४१
26 · p. 11
अनुष्टुप्metre not read in every line
<अथ चवर्गान्ता:>
सर्जुर्वणिक्च ज्ञाने च विवेकी भूभृतादयः ।खर्जू: कण्डूतिपापाहिवृश्चिकादिषु सम्मतः ।मर्जुःश्शुध्दौ च वेदान्ते रजसि प्रोच्यते बुधैः । ५०राजा चन्द्रादिके शम्भौ नृपादौ भूषणादिके।
27 · p. 12
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
४८. सर्जू: - (स्त्री) (कृषिचमि - १.८१ इति ऊ:) (षर्ज अर्जने भ्वा/प/से ऊ:) अर्जने उपार्जतीति सर्जू: = वणिक् ।, ४९. खर्जूः - (स्त्री) (कृषिचमि - १.८१ इति ऊः) (खर्ज व्यथने भ्वा/प/से ऊः) खर्जति पीडयतीति खर्जू: = कण्डुः ।, ५०. मर्जूः - (पुं) (मृजेर्गुणश्च - १.८२ इति ऊः) (मृजूष् शुद्धौ अ/प/वे+ऊः) मार्ष्टि शोधयति वसनामिति मर्जू: = रजकः (मे) ।,५१. राजा - (पुं) (कनिन्युवृषि - १.५४ इति कनिन्) (राजू दीप्तौ भ्वा/उ/से+कनिन्) राजते शोभते इति राजा = प्रभुः ।
28 · p. 12
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
४६. पतङ्गः पतङ्गः शलभे शालिप्रभेदे पक्षिसूर्ययोः ।बिडाले च भवेत्पुंसि पारदे तु नपुंसकम् ॥ १.५३२४८. सर्जू: कार्मुके चाथ कथिता सर्जूर्वणिजि विद्युति । १.३७३४९. खर्जूः अऽप्यथ खर्जूर्निगद्यते ।कीटान्तरे च पामायां खर्जूरीपादपेऽपि च । १.३७३५०. मर्जूः स्त्रियां मर्जूः स्मृता शुद्धौ धावके पुंसि कथ्यते । १.३७४५१. राजा राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः । १.७५६मज्जा सन्धारणेऽपि स्याच्चर्मादौ च सुरादिके । अर्चिर्ज्वालादिविष्ण्वादिराजादिजलदादिके ।शोचिर्गभस्तिः सूर्याग्निवैरिपापविषादिके ।वसुरोचिः क्रतौ शम्भौ विष्णौ सूर्यादिके प्रभौ । ५५रुचिस्तु भाऽग्निभा ज्वाला खड्गधाराऽशिवादिके ।
29 · p. 12
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
५२. मज्जा - (स्त्री) (श्वनुक्षन्पूषन् - १.१५७ इति कनिन्) (टुमस्जो शुद्धौ तु/प/ अ कनिन्) मज्जति अस्थिषु इति मज्जा = अस्थिसारः।, ५३. अर्चिः - (स्त्री,न) (अर्चिशुचिहु- २.१०५ इति इसिः) (अर्च पूजायाम् भ्वा/प/से+इसिः) अर्च्यते इत्यर्चिः = अग्निशिखा (अ) ।,५४. शोचिः - (न) (अर्चिशुचिहु - २.१०५ इति इसिः) (शुच शोके भ्वा/प/से+इसि:) शोचतिजनः अनेनेति शोचिः = प्रभा ।, ५५. वसुरोचिः - (न) (वसौ रुचेः संज्ञायाम् - २.१०८ इति इसिन्) (रुच दीप्तौ भ्वा/प/से-इसिन्) वसवः रोचन्तेऽस्मिन्निति वसुरोचिः = यज्ञः ।
30 · p. 13
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
५२. मज्जा मज्जा पुमानस्थिसारे टाबन्तोऽप्ययमिष्यते । १.८१३५३. अर्चिः (सान्तोऽयम)र्चिरित्येतज्ज्वालाभासोः प्रकीर्तितम् ।इदन्तोऽप्यर्चिरित्यस्ति णिजन्तादचि डा (दच इः) कृते । २.३७७५४. शोचिः शोचिर्दीप्तौ शुद्धभावे पिङ्गलत्वे च कथ्यते। २.३७८५५. वसुरोचिः वसुरोचिर्यज्ञभेदे रोचिस्तु बहुलोक्तितः । २.३८४
31 · p. 13
अनुष्टुप्metre not read in every line
<अथ टान्ताः>
चाटुस्तु प्रियवादी स्यात्प्रियवाक्यं घटादिकम् ।पटुर्विशारदः पक्षिसूर्यचन्द्रादयोऽपि च ॥अपष्ठुः स्यादसारेऽपि नाले दुष्कारकादिके२a सत्यवादिनि सर्वज्ञे मर्यादाभ्रष्ट इत्यपि । ६०दुष्ठुः स्यादविनीतेऽपि समर्यादाद्यशोभने ।सुष्ठुस्तद्विपरीते स्यादाशुगादिषु सम्मतः ॥
32 · p. 14
अनुष्टुप्metre not read in every lineLatin letters: a
तरलाव्याख्या
शोभनं धातुरूपादिप्रत्ययादिप्रचारणा ।यथायोगं विचिन्त्या स्यादिति पूर्वप्रवर्तना ॥दुष्कारकादिके नखादिके । समर्यादादिः । विद्यादिः । आशुगादिषु विहगादिषु ।
33 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उणादिनिष्पत्तिः
५७. चाटु - (पुं,न) (दॄसनिजनि -१.३ इति ञुण्) (चट भेदने चु/उ/से ञुण्) चाटयते भिनत्ति मन इति चाटु = प्रियवाक्यम् ।, ५८. पटुः - (त्रि) (फलिपाटि - १.१८ इति उ:) (पट भाषार्थ: चु/उ/से,भ्वा/प/से+उः) पाटयतीति गमयतीति पटुः = दक्षः ।, ५९. अपष्ठुः - (पुं) (अपदुःसुषु स्थ: - १.२५ इति कुः) (ष्ठा गतिनिवृत्तौ भ्वा/प/अ+कु:) अपतिष्ठति अशोभनेतिष्ठति इत्यपष्ठः = बालः ।, ६१. दुष्ठु - (अ) (अपदुःसुषु स्थः - १.२५ इति कुः) (ष्ठा गतिनिवृत्तौ भ्वा/प/अ कुः) दुर्निन्दितं, तिष्ठतीति दुष्ठु = निन्दा ।, ६२. सुष्ठु - (अ) (अपदुःसुषुस्थः - १.२५ इति कुः) (ष्ठा गतिनिवृत्तौ भ्वा/प/अ+कु:) सुतिष्ठतीति सुष्ठु = प्रशंसा ।
34 · p. 14
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
नपुंसकं प्रकाशेऽस्य वसुरुच्योरिति त्विह ।पाठाद्वसिर्वसौ रोचिर्वज्रे द्वयमुदाहृतम् ॥ २.३८५५८. पटुः अथ त्रिषु पटुस्तीक्ष्णे नीरोगे निपुणेऽपि च ।नपुंसकं तु लवणे धीरैरेतदुदीर्यते । १.१६१कमठ: कच्छपे कामे सुन्दरे वामनेऽपि च ।स्त्रीणामुन्नतवक्षोजनितम्बादिषु सम्मतः ।काष्ठा निश्शङ्कवृत्तौ स्यात्काष्ठं दार्वादिके मतम् । ६५कुष्ठो गन्धद्रव्यभेदे व्याधिकामादिके मतः ।
35 · p. 14
अनुष्टुप्metre not read in every line
।। अथ डान्ताः ।।
आडुर्योनौ व्याधिरपि (फलेऽन्ने) च जलप्लवे ।छायायां मूलकन्दादौ यवागूजलधारणे ।
36 · p. 15
अनुष्टुप्metre not read in every line
तरलाव्याख्या
६३. कमठः - (पुं) (कमेरठः - १.१० इति अठः) (कमु कान्तौ भ्वा/आ/से+अठः) कामयते जलमसौ इति कमठः = कच्छपः ।, ६५. काष्ठम् - (न) (हनिकुषि - २.२ इति कथन्)(काशृ दीप्तौ भ्वा/आ/से+कथन्) कशते दीप्यते अग्नौ क्षिप्तमिति काष्ठम् = दारु ।,६७. (आड:) आडू: - (पुं) (अणो डश्च - १८६ इति ऊः) (अण शब्दे भ्वा/प/से+ऊ:)अणति शब्दयतीति आडू: = जलप्लवद्रव्यम्, उडुपः ।
37 · p. 15
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
६३. कमठः सुन्दरे कच्छपे खर्वे कमठः पुंसि कथ्यते ।भिक्षापात्रे तु कमठमिति प्राहुर्नपुंसकम् ॥ १.४१६६५. काष्ठा काष्ठा दारुहरिद्रायां कालमानप्रकर्षयोः । २.१२स्याद्दिशि स्थानमात्रे स्त्री काष्ठमाख्यातमिन्धने । २.१३६६. कुष्ठम् हथो विषण्णे कुष्ठं स्यादस्त्री रोगसुगन्धयोः । २.२६७. आडू: आडूस्तु कथ्यते धीरैः जलप्लवनसाधने । १.३७८उर्डूस्तु कच्छपे नावे भेके दाशे च शङ्करे ।परिवेषणभाण्डे च पवनात्मजभीमयोः । ७०षण्डो मेघे बलीवर्दे धर्मबुद्धौ नलादिके ।दण्डस्तु लगुडे दैत्ये खड्गादौ निग्रहादिके ।मण्डस्तु भक्तनिर्या धारणे च नभोमणौ ।
38 · p. 15
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्यत्तिः
७०. यवागू: - (स्त्री) (सृयुवचिभ्योऽन्यु - ३.८१ इति आगूच्) (युमिश्रणे अ/प/से+आगूच्) यूयते मिश्र्यते इति यवागू: = उष्णिका ।, ७१. षण्डः - (पुं,न) (ञमन्ताड्ड: - १.१११ इति डः) (षणु दाने त/उ/से-ड:) सन्यते दीयते इति षण्ड: = पद्मकुसुमादिसमूहः ।,७२. दण्डः - (पुं) (ञमन्ताड्डः - १.१११ इति डः) (दमु उपशमने दि/प/से+ड:)१. दाम्यति शान्तं करोत्यनेनेति दण्डः = राज्ञां चतुर्थोपायः २. दण्डयत्यपराधिनमनेनेति दण्डः = दण्डोपायः । व्यूहभेदः, अश्व: कोणः, मन्थानः, सैन्यम्, कालः, मानभेदः यमः, अभिमानः इक्ष्वाकुराजपुत्रः, विष्णुः, महादेवः ।, ७३. मण्ड: - (पुं,न) (अमन्ताड्डः - १.१११ इति डः) (मनज्ञाने दि/आ/अ+ड:) मन्यते ज्ञायते अनेन अन्नादिकमिति मण्डम् = सर्वेषामन्नदध्यादीनामगरसः ।
39 · p. 16
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
७१. षण्डः षम वैक्लव्य इत्यस्मात्षण्डः क्लीबे न षस्य सः । ४.२७७७२. दण्डः दण्डोऽस्त्री मदहिंसासेनालगुडेषु शासने राज्ञाम् ।मण्डे मानविशेषे व्यूहे रविपारिपार्श्विके यष्टौ ॥ १.४७०दण्डः प्रहरणं तस्यां दण्डा क्रीडा हि सा णतः । १.४७२गण्डो गण्डकभागादौ चरमेक्षादिके तथा ।भर्तृहीना तु मुण्डा स्त्री पुनर्भूर्मुण्ड इष्यते । ७५पण्डस्तु दैत्यमात्रे स्याद्दुश्चर्मणि शिवादिके ।चण्डोऽपि च तथा क्रूरे शङ्करे मदनादिके ।भण्डा तु दुर्भगिन्यां स्यात्कुटिलादिक इष्यते ।
40 · p. 16
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
७४. गण्डः - (पुं) (ञमन्ताड्डः - १.१११ इति डः) (गम्लु गतौ भ्वा/प/से+ड:) गच्छतीति गण्ड: = कपोलः, हस्तिकपोलः, (पुं) खड्गी, पिटकः, चिह्नम्, वीरः (मे), हयभूषणम् (मे), विष्कम्भादिषु दशमो योगः, ग्रन्थिः बुद्बुदः (मे), अश्विन्यादिनक्षत्राणां दण्डभेदः ।,७६. पण्डः - (पुं) (ञमन्ताड्डः - १.१११ इति डः) (पडि गतौ भ्वा/आ/से+ड:) पण्डतेनिष्फलत्वं प्राप्नोतीति पण्ड: = नपुंसकः । (स्त्री) ज्ञानम् ।, ७७. चण्डः - (पुं) (ञमन्ताड्ड: - १.१११ इति डः) (चण दाने भ्वा/प/से+डः) चणति अम्लरसं ददातीति चण्डः = तिन्त्रिणीवृक्षः । यमकिङ्करः (मे), दैत्यविशेषः (मे), कार्तिकेयः, (त्रि) अत्यन्तकोपनः ।
41 · p. 17
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
७३. मण्डः मण्डं मस्तुनि शाके च मण्डः स्यात्सारपिच्छयोः ।एरण्डे भूषणे चाथ मण्डा धात्र्यामुदाहृता ॥ १.४७९,४८०मण्डा तु पांसुलायां स्त्री त्रिषु हस्तादिवर्जिते ।७४. गण्डः गण्डो व्रणे कपोले पिटके गर्वे मृगान्तरे योगे । १.४८३मूलादिपृष्ठभागे हयभूषणबुद्बुदेऽप्युपाये च ।गण्डशब्दोऽस्य विषयेऽप्यभूत्प्रागेव दर्शितः । १.५००७६. पण्डः अथ पण्डशब्दोऽपि बुद्धावेष स्त्रियां मतः । १.४८५७७. चण्डः चण्डो ना तिन्त्रिणीवृक्षे यमकिङ्करदैत्ययोः । १.४८४चण्डी कात्यायनीदेव्यां हिंस्राकोपनयोषितोः ।चण्डा धनहरीशङ्खपुष्पयोस्त्रिष्वतिकोपने । १.४८५कुण्डं कुलालभाण्डादौ शब्दशास्त्रादिके तथा ।अग्न्यागारे तथा मन्त्रे योगवाक्यादिके तथा । ८०खण्डस्तु बकदेशे स्याद्विकारेऽप्याशुकादिके ।खाडोऽपि च तथा खड्गे व्याघ्रादौ च जलाश्रये ।३ घुण्डः ऋषिश्चर्म च तथा समुद्रादौ खगादिके ।
42 · p. 17
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
७९. कुण्डम् - (न) (क्वादिभ्यः कित् - १.११२ इति डः) (कुण शब्दोपकरणयोः तु/ प/से+डः) कुणति शब्दयतीति कुण्डम् = पात्रम् । जलाधारविशेषः, भिक्षापात्रम्, (पुं) जीवतिसति भर्तरि परपुरुषेण उत्पन्नः ।, ८१. खण्डः (पुं.न) (ञमन्ताड्डः-१-१११इतिडः) (खनु अवदारणेभ्वा/उ/से+डः) खन्यते अवदीर्यतेऽसौ इति खण्डः = विभागः । इक्षुविकारः, पुं मणिदोष: (भेदः) योगविशेषः ।, ८३. घुण्डः (पुं) (क्वादिभ्यः कित् -१-११२ इति डः) (घुण भ्रमणे भ्वा/आ/से +डः) घोणते भ्राम्यतीति घुण्डः = भ्रमरः ।
43 · p. 18
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
७९. कुण्ड कुण्डमग्न्यालये मानभेदे देवजलाशये । १.४९१कुण्डी कमण्डलौ जारात्पतिवत्नीसुते पुमान् ।पीठरे तु न नाशब्दो प्रकृत्यर्थात्कुणेरसौ ॥ १.४९२कुण्डं प्रकुण्डपूरं च णमुलन्ताव्यये इमे ।वर्षप्रमाण ऊलोपश्चेत्यादेरनुशासनात् ॥ १.४९३८१. खण्ड खण्डोऽस्त्री शकलेनेक्षुविकारमणिभेदयोःहरेणौ खण्डिका स्त्री स्यात्खण्डा वा खण्डिका कनि । १.४७६८३. घुण्डः भ्रमणार्थाद्घुणेर्धुण्डशब्दोऽत्र भ्रमरार्थकः ।करण्डः जले शरे नेत्रे कुत्सायामायुधे तथा ।सरण्डः पक्षिजातौ स्यात्पशुदिव्यचरादिके । ८५भरण्डः क्रिमिजातौस्यात्सङ्घाते भूधरादिके ।वरण्डो वस्तुसङ्घाते नृपेऽब्धौ च नरादिके ।करेणुस्तु सुरज्येष्ठे गजे शूद्रादिके तथा ।
44 · p. 18
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
८४. करण्डः (पुं) (अण्डन्कृसृभृवृञ: -१-१२६ इति अण्डन्) डुकृञ् करणे त/उ/अ+अण्डन्) क्रियते असाविति करण्डः = मधुकोषः । कारण्डपक्षी, दलाढकम्, भाण्डभेदः,खड्गः ।, ८५. सरण्डः (पुं) (अण्डन्कृसृभृवृञः-१-१२६ इति अण्डन्) (सृ गतौ भ्वा/प/अ+अण्डन्) सरतीति सरण्डः = धूर्तः । सरटः, भूषणभेदः, कामुकः, पक्षी ।, ८६. भरण्डः (पुं) (अण्डन्कृसृभृवृञः-१-१२६ इति अण्डन्) (डु भृञ् धारणपोषणयोः जु/उ/अ+अण्डन्) बिभर्तीति भरण्डः राजा ।वृषः भूः (मे), कृमिः (मे), स्वामी ।, ८७. वरण्डः (पुं) अण्डन्कृसृभृवृञः - १-१२६ इति अण्डन्)(वृञ् वरणे स्वा/उ/से+अण्डन्) वृणोतीति वरण्डः = अन्तरा वेदिः (वि. मे) । समूहः (मे,वि),मुखरोगः (मे, वि), ८८. करेणुः (पुं) (कृदृभ्यामेणुः - २-१ इति एणुः) (डु कृञ् करणे त/उ/ अ+ एणुः) करोतीति करेणुः = हस्ती (मे) । कर्णिकारवृक्षः, (स्त्री । हस्तिनी)
45 · p. 19
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
८५. सरण्डः सरण्डः सरटे धूर्ते विहङ्गे भूषणान्तरे । १.५६७८६. भरण्डः भरण्डशब्दः पुंस्येष: पोषके परिकीर्त्यते । १.५६४८७. वरण्डः वरण्डोऽप्यन्तरावेद्यां सन्दोहमुखरोगयोः । १.५६४८८. करेणुः करेणुः स्त्री करिण्यां स्यात्कर्णिकारे गजे च ना । २.१हरेणुः शङ्करे शैवे गन्धद्रव्ये दुरात्मनि ।हरिणस्तु मृगे रम्ये रामे चन्द्रादिके तथा । ९०बर्हिणस्तु मयूरे स्यात्सङ्घाते च नृपादिके ।द्रविणं तु धने सत्ये सिंहदेव नरादिके ॥इरिणं तूषरे खड्गे मुसले च नरादिके ।दक्षिणा दिशि मेघाब्धिभटयुद्धादिके पुमान् ॥
46 · p. 19
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
८९. हरेणुः (स्त्री) (कृहृभ्यामेणुः - २-१ इति एणुः) (हृञ् हरणे भ्वा/उ/अ + एणुः) ह्रियते इति हरेणुः रेणुकानामकं गन्धद्रव्यम् (मे) । कुलयोषित् (मे) (वि,प्र) ।, ९२. द्रविणम् (न)(द्रुदक्षिभ्यामिनन् - २.५ इति इनन्) (द्रु गतौ भ्वा/प/अ+इनन्) द्रवति गच्छतीति दूयते प्राप्यतेवेति द्रविणम् = धनम् काञ्चनम् (मे), पराक्रमः (मे) ।, ९३. इरिणम् (न्) अर्तेः किदिच्च - २.५१इति इनन्) (ऋ गतौ भ्वा/प/अ+इनन्) ऋच्छन्ति गच्छन्ति यत्र यस्माद्वा जनास्तत् इरिणम्= ऊषरभूमिः(मे) विट्खादिरः, शून्यम् ।,
47 · p. 20
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
८९. हरेणुः हरेणुः स्त्रीसतिने स्याद्रेणुकाकुलयोषितोः । २.१९०. हरिण हरिणः पुंसि सारङ्गे विशदे त्वभिधेयवत् ।हरिणी हरितायां च नारीभिद्बृत्तभेदयोः ॥ २.२०९९२. द्रविणम् द्रविणं न द्वयोर्द्वित्वे (योर्वित्ते) काञ्चने च पराक्रमे । २.१८६९३. इरिणं इरिणं तु स्मृतं शून्येऽप्पूषरेऽप्येतदुच्यते । २.१९५९४. दक्षिणा दक्षिण: सरलोदारपरच्छन्दानुवर्तिषु । २.१८७यज्ञावसानदेयेऽर्थे कान्तादिजनमात्रके । ९५रवणा घण्टिका घण्टाध्वनिप्रियरमादिषु ।रवणो रावणादौ तु तत्तल्लिङ्गवदुन्नयेत् ॥वरणा नगरे वृक्षे देवार्धवरणे तथा ।किरणस्तैजसे श्रेष्ठे सूर्याग्नौ क्रूरमानुषे ॥विक्षिप्तादौ विलोलादौ दैत्यादौ मानुषादिके । १००पुरणस्तु नृपे श्रेष्ठे समुद्रे नरवाहने ।
48 · p. 20
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
९६. (रवणा) रवण: (पुं) (सुयुरुवृञो युच् - २-७४ इति युच्) (रुशब्दे अ/प/से+युच्) रौतीति रवणः = उष्ट्र: । कोकिलः, शब्दनः, तीक्ष्णः, भण्डकः, चञ्जलः ।, ९८. वरणः(पुं) (सुयुरुवृञो युच् - २.७४ इति युच्) (वृञ् वरणे स्वा/उ/से+युच्) व्रियते इति वरण: =वृक्षविशेषः । प्रकारः (वि), उष्ट्रः, सेतुः तिक्तशाकः (वि,अ), वृतम्(वि) कुमारकः (अ),९९. किरण: (पुं) (कृपॄवृजिमन्दिनिधाञः क्युः - २-८ इति क्युः) (पॄ पालनपोषणयो: जु/प/से क्युः) कीर्यन्ते विक्षिप्यन्ते रश्मयः अस्मात् इति = किरणः । सूर्यचन्द्रयोः रश्मिः ।,१०१. पुरण: (पुं) (कृपॄवृजिमन्दिनिधाञः क्यु: - २-८ इति क्युः) (पॄ पालनपोषणयोः जु/प/से +क्युः) पिपर्ति पूर्यते जलैः वेति पुरणः = समुद्रः ।
49 · p. 21
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
वाच्यवद्दक्षिणा वाचि यज्ञदानप्रतिष्ठयोः ॥ २.१८७९७. रवणः रवण: शब्दने प्रोक्तं रवण: कोकिलेऽपि च । २.२८६९८. वरणा वरणस्तिक्तशाकेऽपि प्रकारे वरणं वृतौ । २.२८७९९. किरणः मयूखे किरणः पुंसि पूरणः सागरे पुमान् । २.३०५धिषणा पार्वती रम्भा बुध्द्याशीगगनादिके ।पृथिव्यां नाटके सत्यभामाद्याकृतिधारके ।धर्षणस्तु स्वभावे स्यात्तिरस्कारादिके तथा ।३a घुरणः शब्दसिंहादिवीरमत्स्यजलादिके । १०५जुहुराणो द्वारबन्धे वैश्वानरमनोज्ञयोः ।धर्मे च च्छन्दगे चित्रे रमण्यादौ च कुड्मले ॥अरणिस्त्वग्निहोत्रोपकरणे सूर्यचन्द्रयोः ।तत्प्रभायां च नक्षत्रे चरे देवादिके तथा ॥{तरलाव्याख्या}
50 · p. 21
अनुष्टुप्metre not read in every lineLatin letters: anearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
नियमनियमाभ्यां चानियमादिकमादरात्।अन्यथा मन्यते पुम्भिरिति पूर्वविदो विदुः ॥इति गुरुमतानुसारेण।
51 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उणादिनिष्पत्तिः
११५. जतु (न) (फलिपाटि - १-१८ इति उः) (जनी प्रादुर्भावे दि/आ/से+उः) जायते वृक्षेभ्य इति जतु = लाक्षा । कृमिः ।, ११६. कन्तुः (पुं) (कमिमनि - १-७२ इति कुः) (कमु कान्तौभ्वा/आ/से+कुः) कामयते प्राणी यैनेति कन्तुः । कामदेवः, हृदयम्, चित्रम् सुखीजनः । ११७.सेतुः (पुं) (सीतनिग - १-६९ इति तुन्) षिञ् बन्धने स्वा/उ/अ+तुन्) सिनोति बध्नाति जलमिति सेतुः = क्षेत्रादेरालिः (मे) । वरुणवृक्षः, प्रणवः, कुमारः ।, ११९. तन्तुः (पुं) (सितनिग- १-६९ इति तुन्) (तनु विस्तारे त/उ/से+तुन्) तनोति विस्तृणोतीति तन्तुः = सूत्रम् ।
52 · p. 22
अनुष्टुप्metre not read in every line
b>औणादिकपदार्णवः
११५. जतुः जतुः स्त्री चर्मपत्रायां न द्वयोर्हिगुलाक्षयोः ।जातुषं तु त्रापुषवद्विकारेषु (ग) णोः सतोः। १.१६६११६. कन्तुः कन्तुः कामे कुसूले च हृदयेऽप्युच्यते पुमान्।कन्तुः कुसूले कन्दर्प हृदये कामुके च ना। १.३५५११७. सेतुः वरणालिप्रकारेषु सेतुस्तन्तुर्गुणेऽन्वये। १.३४३११९. तन्तुः वरतन्तुर्मुनौ तत्र तित्तिरीत्यादिसूत्रतः। १.३४३गन्तुः काले खगे चारे मोक्षादौ च पुरोहिते । १२०मस्त्वन्नादौ जगन्मात्रे रामादधिविकारयोः ।सक्तुर्यवविकारे स्यात्परमाण्वादिके तथा ॥जीतुर्बिडाले गोविन्दे शङ्करादावपीष्यते ।धातुस्तु गैरिके भ्वादौ त्वगादौ शङ्करादिके ॥पितुरग्नौ च सूर्ये च चन्द्रे शम्भौ विलोचने । १२५
53 · p. 22
अनुष्टुप्metre not read in every line
उणादिनिष्पत्तिः
१२०. गन्तुः (पुं) (सितनिग - १-६९ इति तुन्) (गम्लृ गतौ भ्वा;/प/अ + तुन्) गच्छतीति गन्तुः = पथिकः ।, १२१. मस्तु (न) (सितनिग - १.६९ इति तुन्) (मसी परिणामे दि/प/से+तुन्) मस्यति परिणमतीति मस्तु = दधिभवमण्डम् (अ)। दधिजलम्।, १२२. सक्तुः (पुं) (सितनिग - १.६९ इति तुन्) (षच सेचने भ्वा/आ/से+तुन्) सच्यते समवेतः क्रियते इति सक्तः= भृष्टयवादिचूर्णम् ।, १२४. धातुः (पुं) (सितनिग - १.६९ इति तुन्) (डु धाञ् धारणपोषणयोः जु/उ/अ+तुन्) । १. दधाति धरति पोषयतीति धातुः = अश्मनो विकारः । आकाशादि महाभूतानि ।२. धीयते सर्वमस्मिन्निति धातुः = वातपित्तकफादि (मे) अस्थि, शब्दाद्याकाशादिगुणः, स्वर्णादिः, भ्वादिप्रभृतिषु क्रियापदानि (अ), वस्तु, मनः शिलाद्यश्मविकारे (मे), (त्रि) इन्द्रियाणि ।,१२५. पीतुः (पुं) (पः किच्च - १.७ इति तुन्) पा पाने, भ्वा/प/अ, पा रक्षणे अ/प/अ+ तुन्) पिबत्युदकादिकं, पाति प्राणिनो रक्षति वेति पीतुः = अग्निः। सूर्यः, यूथपतिः।
54 · p. 25
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
१२०. गन्तुः पान्थे गन्तुरयं स्यादाङ्पूर्वक: सनूगृहागते । १.३४६१२१.१२२. मस्तु,सक्तु मस्तुर्मण्डे सक्तुशब्दश्चूर्णार्थोऽभिहितोऽस्त्रियाम्। १.३४६१२४. धातुः स्यात्समासेऽथ धातुर्ना श्लेष्मरक्तरसादिषु। १.३४९१२५. पीतुः पीतुर्हस्त्यग्निसूर्येषु पुंसि क्लीबं तु चक्षुषि। १.३५२ऋतुस्तु काले स्त्रीपुष्पे वायौ सूर्यादिके तथा ।मन्तुस्तु वैमनस्ये स्याच्छास्त्रे चित्ते शिवादिके ॥४. जन्तुर्जतुवदित्युक्तो गातुरुद्गातरि स्मृतः ।समुद्रादौ शिवादौ च वाय्वादावपि सम्मतः ॥भातुः सूर्ये च चन्द्रे च वह्नौ विष्णवादिके तथा । १३०यातुः खगे प्रहारे च गम्यमानेऽपि चायुषि ।
55 · p. 25
अनुष्टुप्metre not read in every line
उणादिनिष्यत्तिः
१२६. ऋतुः (पुं) (अर्तेश्च तुः - १.७१ इति तुः) (ऋ गतौ भ्वा/प/अ +तुः) पुनः पुनः ऋच्छति गच्छत्यागच्छतीति ऋतुः = वसन्तादिः । शिवः, विष्णुः, दीप्तिः, मासः।,१२७. मन्तुः (पुं) (कमिमनि - १.७२ इति तुः) (मन ज्ञाने दि/आ/अ +तुः) मन्यते स्वभावः येनेति मन्तुः = अपराध: (मे) । मनुष्यः, प्रजापतिः (मे), १२८. जन्तुः (पु) (कमिमनि - १.७२इति तुः) (जनी प्रादुर्भावे दि/आ/से +तुः) जन्यते शरीरादि धारणेन प्रादुर्भवतीति जन्तुः =जीवः ।, १२९. गातुः (पुं) (कमिमनि - १.७२ इति तुः) (गौ शब्दे भ्वा/प/से +तुः) गायति षड्जादिस्वरान् आलापयतीति गातुः = गाथकः । कोकिलः (अ) भ्रमर: (अ) गन्धर्वः (अ) ।,१३०. भातुः (पुं) (कमिमनि - १.७२ इति तुः) (भा दीप्तौ अ/प/अ+ तुः) भाति प्रकाशयत इति भातुः = सूर्यः । दीप्तः, किरणः ।, १३१. यातुः (पुं) (कमिमनि - १.७२ इति तुः) (या प्रापणे अ/प/अ +तुः) याति गच्छतीति यातुः = अध्वगः । कालः, वायुः, (त्रि) क्रियापदं चेत् गच्छतु, (न)राक्षसः।
56 · p. 26
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
१२६. ऋतुः स्त्रीणां च कुसुमे काले मानभेदेऽप्यृतुः स्मृतः। १.३५२१२७. मन्तुः मन्तुः पुंस्यपराधे च मनुष्येऽपि प्रजापतौ। १.३५६१२८. जन्तुः,गातु: जन्तुः प्राणिनि गातुस्तु भृङ्गे पुंस्कोकिलेऽपि च। १.३५७१३०. भातुः गन्धर्वे गायके चाथ भातुः सूर्याग्निदीप्तिषु। १.३५८१३१. यातुः यातुर्ना पथिके काले यामे क्लीबं तु रक्षसि। १.३५८पातुस्तु रक्षके शम्भौ पञ्चभूतेषु पावने ।हेतुर्विष्णवादिकेऽब्दौ च केतुर्ग्रहपताकयोः ।आप्तुरग्नौ क्षये योनौ प्रभाजलपलादिके ।वस्तु देहे च नेत्रे च व्यवहारेऽवधारणे । १३५गतौ पदार्थे गेहे तु वास्तु सर्वत्र पूर्ववत् ।
57 · p. 26
अनुष्टुप्metre not read in every line
उणादिनिष्पत्तिः
१३२. हेतुः (पुं) किमिमनि - १.७२ इति तुः) (हि गतौ वृद्धौ च स्वा/प/अ +तुः) हिनोति यो वा कार्यरूपेण वर्धतेऽसौ इति हेतुः = कारणम् । तैजसधातुविशेषः ।, १३३. केतुः (पुं)(चायः कि: - १.७३ इति तुः) (चायृ पूजानिशामनयोः भ्वा/उ/से +तुः) चाय्यते पूज्यते इति केतुः= ग्रहविशेषः । रक्तपताका (मे), शिखी (मे), रोग: दीप्तिः (मे), चिह्नम् (मे), प्रज्ञा, ज्यौतिषम् विग्रह: (मे) ।, १३४. (आप्तुः) अप्तु: (पुं) (आप्नोतेर्ह्रस्वश्च - १.७४ इति तुः) (आप्लृ व्याप्तौ स्वा/प/अ+ तुः) १. आप्नोति व्याप्नोति सर्वान् पदार्थानिति आप्तुः = शरीरम्। २. अप्यते भोगायप्राप्यते य: इति अप्तुः = शरीरम्।, १३५. वस्तु (न) (वसेस्तुन् - १.७५ इति तुन्) (वस निवासेभ्वा/प/अ +तुन्) वसतीति वस्तु = द्रव्यम्। पात्रभूतम्, पदार्थः, कार्यम्, अर्थः, इतिवृत्तम्।, १३६. वास्तु (पुं. न) अगारे णिच्च - १.७६ इति तुन्) (वस निवासे भ्वा/प/अ +तुन्) वसन्ति प्राणिनोयत्रेति वास्तु = गृहकारणयोग्यभूमिः । पोतः, वाटिका, पोतः, (न) वास्तोकशाकम्।
58 · p. 27
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
१३२. पातुः त्रिषु स्याद्रक्षके पातुः । १.३५९१३३. केतुः केतुर्ध्वजे गृहे चिह्ने किरणोत्पातवह्निषु । १.३५९सुकेतुर्यक्षभेदे स्यात्तालकेतुस्तु राक्षसे ।१३४. आप्तुः अप्तुर्योनावभीष्टार्थे शरीरे च ऋतावपि । १.३६०१३५. वस्तु वस्तु प्रमेयेऽप्याख्यातं परमार्थेऽपि न द्वयोः । १.३६२१३६. वास्तु पुंनपुंसकयोर्वास्तु सुरङ्गायां निकेतने ।शाकभेदे पुरे सीम्नि गृहभूमौ च कथ्यते ॥ १.३६३एधतुर्वारिधौ देहे पुरुषे च चराचरे ।वहतुस्तु तुरङ्गे स्यादग्नौ गोबालकादिके ।जीवातुः शङ्करे विष्णौ जीवातुर्जीवनौषधे ।नृतूर्दीर्घक्रिमिः सर्पश्चाखुमार्जालमूषकाः । १४०शृधूर्गुणे परिज्ञायां रुद्रव्याघ्रादिके तथा ।गरुत्पक्षिणि रम्ये च मण्यलङ्कारजन्तुषु ।
59 · p. 27
अनुष्टुप्metre not read in every line
उणादिनिष्पत्तिः
१३७. एधतुः (पुं) (एधिवह्योश्चतुः - १.७८ इति चतुः) एध वृद्धौ भ्वा/आ/से+चतुः) एधते वर्धतेऽसौ इति एधतुः = पुरुषः । अग्नि: (त्रि) वर्धितम्, वृद्धिः ।, १३८. वहतुः (पुं) (एधिवह्योश्चतुः - १.७८ इति चतुः) (वह प्रापणे भ्वा/उ/अ +चतुः) वहति भारमितिवहतुः = अनड्वान् (मे) । पथिकः (मे), विवाहकाले कन्यायै देयं वस्तु, विवाहः ।,१३९. जीवातुः (पुं, न) (जीवेरातुः - १-७९ इति आतु) जीव प्राणधारणे भ्वा/प/से +आतु) जीव्यते येन स जीवातुः = भक्तम्, आहारः । जीवनम्, जीवनौषधम् ।, १४०. नृतूः (पुं) (नृतिश्रृध्यो: कू: - १.९१ इति कू:) (नृती गात्रविक्षेपे दि/प/से +कू:) १. नृत्यतीति नृतूः = नर्तकः २.बाहुलकात् अधिकरणे कुप्रत्यये नृत्यत्यत्रेति नृतुः = भूमिः (स्थानम्) । दीर्घः क्रिमिः ।, १४०.आखुः (पुं) (आङ्परयो: - १.३३ इति कुः) (खनु अवदारणे भ्वा/उ/से +कु:) आखनतीत्याखुः= मूषिकः । वराहः, चोरः, देवताङ्गवृक्षः कृपणः ।, १४१. शृधूः (स्त्री) (नृतिशृध्योः कू: - १.९१इति कूः) शृधुशब्दकुत्सायाम् भ्वा/आ/से +कू:) शर्धते कुत्सितं शब्दयतीति शृधः =अपानवायुः । कुत्सितः
60 · p. 28
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
१३७. एधतुः एधतुः पुरुषेऽथाग्नौ वहतुर्वृषपान्थयोः ।विवाहकाले पित्राद्याल्लब्धे कन्याधनेऽपि च । १.३७१३९. जीवातुः जीवातुरस्त्रियां धर्मे जीवनेऽन्ने कृषीवले ।जैवातृकश्चन्द्रभिषगायुष्मत्सु कृषीवले ॥ १.३६८१४०.१४१. नृतूः शृधूःनृतूर्नटे क्रिमौ दीपे शृधूर्दीनोक्त्यपानयोः ।१.३८५गर्मुत्सुवर्णे चित्ते च याचके देवताचरे ।हरिद्वर्णे शाद्वले च सूर्याश्वे च मृगे दिशि ।वायौ च वामने देवे भवे विष्णौ जनादिके । १४५सरिन्नद्यां घृतादौ च समुद्रे बाणचित्तयोः ।कोपात्तृणे मृगे जन्तौ विश्वकर्मादिके तथा ॥योषित्स्त्रीजन्तुमात्रे स्याद्योनौ चित्ते च पल्वले ।शरदृतौ वत्सरे च व्याघ्रादौ कठिनादिके ॥४a दरद्व्याधौ क्षत्रिये च कुठारादौ च दारुणि । १५०भसज्जघने च मांसे च विष्ठायामोष्ठनिन्धयोः ।
61 · p. 28
अनुष्टुप्metre not read in every lineLatin letters: anearly अनुष्टुप्: pāda 1, syllable 3 दृ (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 धे (wrong syllable)
उणादिनिष्पत्तिः
१४३. गर्मुत् (स्त्री) (ग्रो मुट् च - १.९५ इति उतिः मुट्) (गॄ निगरणे तु/प/से +उतिः मुट्) गीर्यते भक्ष्यते प्राकृतैरिति = तृणधान्यविशेषः । स्वर्णम्, नडः ।, १४६. सरित् (स्त्री) (हृसृरूहियषिभ्य इति - १.९७ इति इतिः) (सृ गतौ भ्वा/प/अ +इतिः) सरतीति सरित् = नदी ।दुर्गा, सूत्रम्।, १४८. योषित् (स्त्री) (हृसृरुहियुषिभ्य इति - १.९७ इति इतिः) (युष सौत्र: +इतिः)योषति पुमांसं, युष्यते पुम्भि: वेति योषित् ।, १५०. दरत् (स्त्री) (शॄदॄभसोऽदिः - १.१२७ इति अदिः) (दॄ विदारणे क्रया/प/से+अदिः) दीर्यत इति दरत् = कूलम् । हृदयम्, पर्वतः (मे), भयम्(मे), म्लेच्छजातिः (अ), देशविशेषः (रा. त), प्रपातः (मे), १५१. भसत् (स्त्री) (शॄदॄभसोऽदिः- १.१२७ इति अदिः) (भस भर्त्सनदीप्त्योः जु/प/से +अदिः) बभस्ति भर्त्सयति प्रकाशते वाभसत् = जघनम् । अश्वमांसम् (मे), भास्करः (मे), योनिः (मे), मांसम् (मे), कारण्डवपक्षी (मे), प्लवः (मे), कालः (मे), भास्वरम् ।
62 · p. 29
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः ।
१४३. गर्मुत् गर्मुडुक्के खगे सूर्ये लताधान्यतृणान्तरे । १.४०८१४६. सरित् सरिन्नद्यां स्मृता रोहिन्मृग्यां वल्लीभिदि स्त्रियाम् । १.४१११४८. योषित् पुंसि त्वेष भवेत्सूर्ये स्मृता योषित्तु सुभ्रुवान् ।१.४१११५०. दरद् दरत्स्त्रियां प्रपाते च भयाद्रितिमिरेषु च ।कूले च हृदये चाथ दरद्देशेऽपि कथ्यते । १.४७२१५१. भसद् (भसत्स्त्री भास्वरे योनौ) भसज्जघन गुह्ययोः । १.४७३पृषदिबन्दौ मृगे वायौ मेघेऽब्धौ शीकरादिके ।पृषती वनिता रामा नदीमातृजनादिके ।बृहत्पुण्ये च पापे च विपुले गगनादिके ।बृहती तु तुलस्यां स्यादौषधौ कमलादिके । १५५महत्पूज्ये वरिष्ठे च महतीनदीवीणयोः ।जगत्सर्वे च सर्गे च जगती भूविलासयोः ।
63 · p. 29
अनुष्टुप्metre not read in every line
उणादिनिष्पत्तिः
१५२. पृषत: (पु) पृषिरञ्जिभ्यां कित् - ३.१११ इति अतच्) (पृषु सेचने भ्वा/प/से +अतच्) पर्षति सिञ्चति रेतः सेकं करोतीति पृषतः = बिन्दुयुक्तमृगः । बिन्दुः, द्रुपदराजपिता, सर्पविशेषः, वायुवाहनः, जलबिन्दुः ।, १५३. (पृषती) पृषन्तिः (पुं) (वर्तमाने पृषद्वृह - २.८२ इतिअतिः) (पृषु सेचने भ्वा/प/से+अतिः) पर्षति सिञ्चतीति पृषन्तिः = बिन्दुः ।,१५६. (महत्) महान् (पुं) (वर्तमाने पृषद्वृह - २.८२ इति अतिः) (मह पूजायाम् भ्वा/उ/से+अतिः) मध्यते पूज्यत इति महान् = महात्मा । उष्ट्रः (मे), शिवः, (स्त्री) दुर्गा, महती, (न) महत् ।, १५७. जगत् (न) (वर्तमाने पृषद्वृह - २.८२ इति अतिः) (गम्लृ गतौ भ्वा/प/अ +अतिः)गच्छतीति जगत् = विश्वम् । (पुं) वायुः, ईश्वरः, (त्रि) जङ्गमम् (स्त्री) जगती, छन्दः ।
64 · p. 30
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
१५२. पृषद् पृषन्मृगे स्यात्पुंल्लिङ्गे बिन्दु वाचि तु न द्वयोः । २.३०७पृषोदरन्तु पृषत उदरे परिकीर्तितम्।१५४. बृहत् बृहत्प्रवृद्धे विबुधैः कथितं वाच्यलिङ्गकम् । २.३१०विश्वावसोश्च वीणायां बृहती स्त्री निगद्यते ।१५५. बृहती बृहती क्षुद्रवार्तक्यां कण्टकार्ये च वाचि च । २.३०९वारिधान्यां महत्यां च छन्दोवसनभेदयोः ।१५६. महती महती वल्लकीभेदे राज्ये तु स्यान्नपुंसकम् । २.३१२तत्त्वभेदे पुमान् श्रेष्ठे विकारेऽपि च वाच्यवत् ।आत्समानाधिकरणे जातीये चास्य शिष्यते ।१५७. जगत् जगत् स्याद्विष्टपे क्लीबं वायौ ना जङ्गमे त्रिषु । २.३२११५७. जगती जगती भुवने क्ष्मायां छन्दोभेदे जनेऽपि च ।नृपश्चन्द्रे महादेवे सुधान्नाज्यादिके तथा ।वेमावन्ध्याधेनुर्भेदे धेन्वादौ स्थावरे तथा ।शंस्ता मित्रे च वरुणे सेनाध्यक्षे शिवादिके । १६०नृपादौ ब्राह्मणादौ च शाकादौ चातिदातरि ।शास्ता मन्ता महाज्ञाने बोद्धरि प्रबले तथा ॥स्तोता सुरादौ श्रेष्ठादौ धर्ता विष्णौ धरादिके ।होता तु ऋत्विगादौ स्याज्जामाता दुहितुः पतिः ॥पित्रादावप्येवमेव पिता जनकमेघयोः । १६५१५९. वेमा (पुं) (वेजः सर्वत्र - ४.१८९ इति इमनिन्) वेञ् तन्तुसन्ताने भ्वा/उ/अ +इमनिन्) वयत्यनेनेति वेमा = वापदण्डः ।, १६०. शंस्ता (पुं) (तृन्तृचौ शंसि - २.९१ इति तृन्)(शंसु स्तुतौ भ्वा/प/से +तृन्) शंसति स्तोतीति शंस्ता = स्तोता । समन्तभद्रः, (त्रि) शासकः,१६२. (शास्ता) शास्ति: (स्त्री) (वसेस्तिः - ४.१७९ इति ति:) शासु अनुशिष्टौ अ/प/से +तिः) शास्ति शिक्षते अनयेति शास्तिः = शासनम् ।, १६४. होता (पुं) (नप्तॄनेष्टुत्वष्टृ - २.९२ इति तृन्) (हुदानादनयो: जु/प/अ +तृण् जुहोतीति होता = ऋग्वेदवेत्ता। अग्निः, १६४. जामाता(पुं) (नप्तृनेष्टृत्वाष्ट्र - २.९२ इति तृन्) (मा माने जु/आ/अ + तृन्) जायां मिमीते मिनोति वेतिजामाता = दुहितृपतिः। धवः, सूर्यावर्तः ।, १६५. पिता (पुं) (नप्तृनेष्टृत्वष्टृ - २.९२ इति तृन्) (पारक्षणे अ/प/अ +तृन्) पाति रक्षत्यपत्य यः सः पिता = जनकः । गुरुः, ज्येष्ठपितृव्यः विष्णुःशिवः, रक्षकः।
65 · p. 30
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
१५९. वेमा अर्धर्यादिर्वायदण्डे वेमा स्याल्लोकवेदयोः ॥ २.४३४१६०. शंस्ता शंस्ता कर्तरि शास्ता स्यादाद्युक्त्या शास्तिरत्र चित् । २.३३३१६१. शस्ता शास्ता समन्तभद्रे ना शासके पुनरन्यवत् । २.३३३१६४. होता होतृपोतृप्रशास्तारो याजकान्तरवाचकाः । २.३४११६४. जामाता जामातृशब्दो जायायां कर्मण्युपपदे कृतः । २.३४६जामाता दुहितुः पत्यौ वल्लभेऽर्के सिते तिले ॥१६५. पिता पिता तु जनके पुंसि मातामहपितामहौ। २.३५०राजादौ राज्ञि देवेन्द्रे दुहिता तनया रमा ।गौरी वाणी रती रामा लता श्रीर्मदनादिषु ॥ज्योतिस्तेजसि कान्तौ च किरणादौ सुतादिके ।लतादौ रघुवीरादौ रामा रजतादिके ॥
66 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
।। [अथ] धान्ताः ।।
मधु क्षौद्रे माक्षिके च नवनीतसुधादिषु । १७०मधुर्वसन्ते दैत्ये च माधवे मकरध्वजे ।विधुरग्नौ वायुदेवे काले चन्द्रे रसाकरे ।
67 · p. 32
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
१६६. दुहिता (स्त्री) (नप्तृनेष्टृत्वष्टृ - २.९२ इति तृच्) (दुह प्रपूरणे अ/उ/अ +तृच्) दोग्धि विवाहादिकाले धनादिकमाकृष्य गृह्णातीति दुहिता, यद्वा दोग्धि गा इति (आर्षकालेकन्यासु एव गोदोहनभारस्थितेः तथा त्वम्) दुहिता = कन्या ।, १६८. ज्योति: (न) (द्युतेरिसिन्नादेश्चज: - २.१०७ इति इसिन्) द्युत दीप्तौ भ्वा/आ/से +इसिन्) द्योतते प्रकाशते ज्योतिः = अग्निः। नक्षत्रम्, प्रकाशः, (पुं) सूर्यः, मेथिका, विष्णुः, चन्द्रः । १७०. मधुः (नं) (फलियाटि १.१८ इति उ:)(मन ज्ञाने दि/आ/अ मधुः (पुं)+ उ:)मन्यन्ते विशेषेण जानन्ति जना यदिति मधु =मधम्,१७२. विधुः (पुं) (पॄभिदि - १.२३ इति कुः) (व्यध ताडने दि/प/अ +कु:) १. विरहिणंविध्यतीति विधुः (अ) = चन्द्रमाः । २. विध्यते राहुणेति विधुः शशाङ्क: (वि. को) । कर्पूरः (मे), विष्णुः (मे), राक्षसः, ब्रह्मा, आयुधः, वायुः (मे),
68 · p. 32
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
१६६. दुहिता वायव्यवद्यदत्रापि स्त्र्यपत्ये दुहिता स्त्रियाम् । २.३५२१६७. गौरी गौरः शशिनि गौरी तु नग्नकन्योमयोर्मता ।रोचनी रजनीपिङ्गा प्रियङ्गुवसुधासु च । २.१३९१६८. ज्योति: ज्योतिः पुंस्यनलेऽर्के च क्लीबं तेजोभदृष्टिषु । २.३८२१७०. मधुः/(धु) चैत्रवसन्तमधुद्रुमदैत्यविशेषेषु पुंसि मधुशब्दः ।क्लीबे त्वम्बुनि दुग्धे मकरन्दे क्षौद्रमद्यवाच्यस्त्री ॥ १.१६५१७२. विधुः विधुः शशाङ्के कपूरे हृषीकेशे च राक्षसे । १.१७६५. शुभ्रे रम्ये महाश्वेते जले शुक्त्यादिके तथा ।गृधुः कामे महादेवे माधवे मधुसूदने ।पृथुर्वेनसुते राज्ञि विस्तीर्णे श्रेष्ठयज्ञयोः । १७५माधः सिंहे सर्पभेकपक्षिसामान्यमूकयोः ।निधस्तु ब्राह्मणे धर्मशीले राज्ञि पुरन्दरे ॥समुद्रे वारि देवादौ शङ्करे मकरध्वजे ।ब्रह्मादौ च नरादौ च स्थिरादौ च समुन्नयेत् ॥रथो याने शरीरे च क्षीरे वृक्षे पतत्रिणि । १८०चीनी चीनाम्बरादौ च कामसोमहरादिषु ॥गाधः समुद्रे बाणे च खेचरे च चरे तथा ।
69 · p. 32
अनुष्टुप्metre not read in every line
तालाव्याख्या
उणादिनिष्पत्तिः
१७४. गृधुः (त्रि) (पॄभिदि - १.२३ इति कुः) (गृधु अभिकाङ्क्षायाम् दि/प/से + कुः) गृध्यते अभिकाङ्क्ष्यते इति गृधुः = कामः । अभिलाषुकः ।, १७५. पृथुः (पुं) (प्रथिम्रदि - १.२८इति कुः) (प्रथ प्रख्याने भ्वा/आ/से +कु:) प्रथते विख्यातो भवतीति पृथुः = सूर्यवंशीयपञ्चमनृपः । अग्निः, ऋषिविशेषः, प्रियक्रतवंशोद्भवस्य विभोः पुत्रः, विष्णुः, (स्त्री) प्रथते विस्तरमेतीति पृथुः = कृष्णजीरकः (मे) । हिङ्गुपत्री, अहिपेनः, (त्रि) महत्, निपुणः ।, १८०. रथ: (पुं) (हनिकुषि-२.२ इति कथन्) (रमुक्रीडायाम् भ्वा/आ/अ +कथन्) रम्यतेऽनेन अत्र वेति रथः = कायः (वि) । वेतसवृक्षः (मे) (वे), तिनिशवृक्षः, स्यन्दनः (मे), चरणः ।
70 · p. 33
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
१७४. गुधुः गृधुः कामे १.१७७१७५. पृथुः पृथुस्त्रिषु स्यान्महति त्वक्पत्र्यां कृष्णजीरके । १.१९४१८०. रथः नीथो नेतरि च स्तोत्रे रथ: स्यन्दनकाययोः । २.२चरणे वेतसेऽप्येष विपश्चिद्भिः प्रयुज्यते।गाथा वृत्तान्तवीणा च चञ्चरीकादिषु स्मृता ॥जरूथं वत्सरे मांसे वार्धक्ये जीर्णपूलयोः ।वरूथः कङ्कटादौ स्याद् बले पार्श्वस्थखड्गयोः ॥ १८५वसनाशनयोश्चैव सङ्घाते रथगोपने ।पीथं जले पिथः शम्भौ विष्ण्वादौ मदनादिके ॥तीर्थं पुण्यादिके तीर्थः शङ्कराग्निवरादिषु ।
71 · p. 33
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
१८३. गाथा (स्त्री) उषिकुषिगर्तिभ्यस्थन् - २.८ इति थन्) गै शब्दे भ्वा/प/अ +थन्) गीयते इति गाथा = धार्मिकः श्लोकः । प्राकृतभाषा (मे), गीतम्, वृत्तम् ।, १८४. जरूथम् (न)(जॄवृञ्भ्यामूथन् - २.६ इति ऊथन्) जृष् वयोहानौ, दि/प/से +ऊथन्) जीर्यतीति जरूथम् =मांसम् । (पुं) असुरविशेषः, परुषभाषी (मे) ।, १८५. वरूथ: (पुं) (जॄवृञ्भ्यामूथन् - २.६ इति ऊथन्) (वृञ् वरणे स्वा/उ/से +ऊथन्) व्रियते रथोऽनेनेति वरुथः = रथगुप्ति: (हे,वि) ।ग्रामविशेष: (हे) तनुत्राणम् (मे) ।, १८७. पीथम् (न) (पातॄतुदिव - २.७ इति थक्) (पा पाने भ्वा/प/अ +थक्) पीयत अदः इति प्रीथम् = जलम् । (पुं) पिबति रसादीनिति पीथः = सूर्यः,अग्निः (वि), कालः (वि), १८८. तीर्थम् (न) (पातॄतुदिव - २.७ इति थक्) (तॄ प्लवनतरणयोः भ्वा/प/से +थक्) तरति पापादिकं यस्मात् तत्तीर्थम् = पुण्यस्थानादि । शास्त्रम् (वि), अध्वा(वि), क्षेत्रम् (वि), अपायः (वि), अवसरः नारीरजः, अवतारः (वि), पात्रम् (वि), उपाध्यायः(वि), अध्यापक, मन्त्री (मे.वि), योनिः (वि), दर्शनम्, घट्टः, विप्रः, आगम: । अग्निः, पुण्यकालः,(पुं) सन्यासीनामुपाधिविशेषः।
72 · p. 34
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
१८३. गाथा अन्तर्गृहऽपि गाथा तु स्यादाभाणकवृत्तयोः ।गाथाकारो नशब्देति टनिषेधादणा कृञः । २.१८१८४. जरूथं क्लीबे जरूथं मांसे स्याद्विशेषे त्वनुशासनात् ।१८५. वरूथ: वरूथं स्यात्तनुत्राणे रथ गोपनवेश्मनोः । २.२४अथो वरूथिनी सेनेत्यपि स्यादिनि कल्पिते । २.२५१८७. पीथं नवनीते जले पीथं पुमान् पीथो दिवाकरे ।तुत्थं खड्गादिके रम्येऽप्यञ्जनादौ मनोभवे ॥रक्थं सामनि वेदान्ते रिक्थं शास्त्रे धवे हरे । १९०सिक्थं मधूच्छिष्टपुर्योर्मुत्यौ काले च भेषजे ॥सार्थस्तु गच्छतां सङ्घे नट्यादौ च चरादिके ।गोपीतस्तु समुद्रे स्यात्तीर्थे नेत्रे जले खगे ॥प्रत्यूषकाले मरुति श्रोत्रे जिह्वाविलासयोः ।अथावगथ आनन्दे प्रातः सवनसोमयोः । १९५समिथोऽग्नौ च तद्द्रव्ये गायके जलदे जले
73 · p. 34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उणादिनिष्पत्तिः
१८९. तुत्थः (पुं) (पातॄतुदिव - २.७ इति थक्)तुद व्यथने तु/उ/अ + थक्) तुदति पीडयतीति तुत्थः = अग्निः (मे) । (न) रसाञ्जनम्, ग्रावा, (स्त्री) सूक्ष्मेला (मे), नीला (मे),१९०. रिक्थम् (न) (पातॄतुदिव - २.७ इति थक्) (रिचिर् विरेचने रु/उ/अ +थक्) रिङ्क्ते बहिर्गच्छति नश्यतीति रिक्थम् = धनम् ।, १९१. सिक्थम् (न) पातॄतुदिव - २.७ इति थक्) (षिचक्षरणे तु/उ/अ +थक्) सिञ्चति क्षरतीति सिक्थम् = मधूच्छिष्टम् (मे) । नीली, (पुं) भक्तपुलाक:(मे), ग्रासः ।, १९२. सार्थः (पुं) (सर्तेर्णित् - २.५ इति थन्) (स गतौ भ्वा/ष/अ +थन्) सरतीति सार्थः = गच्छतां सङ्घः (मे, वि) । वणिक्समूहः (मे, विप्र) ।, १९३. गोपीथम् (न) (निशीथगोपीथावगाथाः - २.१ इति थक्) (पा पाने भ्वा/प/अ + थक्) १. गावः पिबन्त्यस्मिन्निति गोपीथम् = जलाशयः । (पुं) २. गोप्यते रक्ष्यते अनेनेति गोपीथः = रक्षणम् ।, ३. गां वाणीं पृथिर्वोवा पातीति गोपीथः = पण्डितः ।, राजा । १९५. अवगथः(त्ति) (निशीथगोपीधावगथा: २.९ थक्)(गाड्.गतौ भ्वा/आ/अ +थक् ) अवगतेऽवगच्छति जानीतेऽसाविति अवगथ: प्रातः स्नातः ।,१९६. समिथ: (पुं) (समीण: - २.११ इति थक्) (इण् गतौ अ/प/अ +थक्) समन्तादेत्ययमिति समिथः = अग्निः । युद्धम् (वै. नि, वे. भा), आहुतिः ।
74 · p. 35
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
१८८. तीर्थं तीर्थं शास्त्रा (ध्वरक्षेत्रोपा) योपाध्यायमन्त्रिषु । २.२६१८९. तुत्थं तुत्थमञ्जनभेदे स्यात् (तुत्थोऽग्नावञ्जने) तुत्था नीली सूक्ष्मैलयोरपि । २.२९१९०. रिक्तम् मुख्योक्याट्ठगणौ नेष्टौ रिक्थं तु द्रविणे स्मृतम् । २.३११९१. सिक्थम् सिक्थो भक्तपलापेन (भक्तपुलोके ना) मधूच्छिष्टे नपुंसकम् । २.३२१९२. सार्थः सार्थो वणिक्समूहे स्यादपि सङ्घातमात्रके । २.२४१९३. गोपीथः गोपीथो यजमाने ना तीर्थे स्यादेष न द्वयोः । २.३४१९५. अवगथः प्रातस्नायिन्यवगथः प्रातः सवनसोमयोः २.३४५a सद्वृत्तौ साधुभावे च सङ्गीते मुरजध्वनौ ।तिथ: काले महाकाले शङ्करे मकरध्वजे ।पृथस्तु सेचिते द्रव्ये जलदेऽग्नौ निशाकरे ।गूथस्त्वहीने तद्देशचर्मरूपपुटान्तरे । २००यूथस्तु युगले बृन्दे स्नेहे सत्सङ्गवारिणोः ।प्रोथ: प्रभौ च देवेन्द्रेऽप्यश्वानां नासिकागर्भयोरपि ।मद्ये च नद्यां मधुनि प्रभायां चन्द्रसूर्ययोः ।स्वादु चन्दनवाय्वादौ फलादावमृतादिषु ।
75 · p. 35
अनुष्टुप्metre not read in every lineLatin letters: a
उणादिनिष्यत्तिः
१९८. तिथ: (पुं.) (तिथपृष्ठगूथयूथप्रोथा: - २.१२ इति थक्) (तिज निशाने चु/उ/से+ थक्) तेजयतीति तिथः = अग्निः । कामः, कालः, प्रावृट्कालः ।, २००. गूथम् (न. पुं) तिथपृष्ठगूथयूथप्रोथा: - २.१२ इति थक्) (गुपुरीषोत्सर्गे तु/प/अ+ थक्) गूयते उत्सृज्यते इतिगूथम् = विष्ठा ।, २०१. यूथम् (न) (तिथपृष्ठगूथयूथप्रोथाः - २.१२ इति थक्) (यु मिश्रणे अ/ प/से थक्) यौति यूयते मिश्रीक्रियते इति यूथः = समुदाय: (वि) ।, २०४. स्वादुः (त्रि) (कृवापाजि - १.१. इति उण्) (ष्वदास्वादने भ्वा/आ/से+उण्) स्वदते रोचते इति स्वादुः ।इष्टः, मनोज्ञः, मधुरः, मिष्टः, (स्त्री) द्राक्षा, (पुं) मधुररसः, गुडः, जीवकोषधिः ।
76 · p. 36
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
१९६. समिथः समिथोऽस्त्री रणे वह्नौ दृष्टो वेदनिघण्टुषु । २.३६१९८. तिथ: तिथः पुंस्यलकेशालेवे (पुंस्यनले कामे) पृष्ठं तु चरमे तनोः । २.३६देहावयवभेदेऽपि … (क्वचित्स्तोत्रे च) दृश्यते ।२००. गूथम् विष्ठायां तु भवेद्गूथं दीर्घोऽत्रैव निपातनात् । २.३८२०१. (यूथः) यूथी … (पुष्प)प्रभेदे स्यान्मागध्यां च कुरण्टके । २.३८,९यूथं तिर्यक्समूहे च प्रथमान्तेऽपि (बृन्दमात्रेऽपि) भाषितम् ।२०२. प्रोथ: प्रोथोऽश्ववे घोणायां नटस्त्रीगर्भयोरपि (नाकट्यामध्वगे त्रिषु) । २.४०२०४. स्वादु इष्टे च मधुरे चैव स्वादुस्त्रिषु निगद्यते । १.७१धर्मशीले चन्द्रभूषायां चरेऽप्यचरे सुरे । २०५क्लिदुश्चन्द्रे च नक्षत्रे सच्चित्ते चन्द्रशेखरे ।इन्दुश्चन्द्रे च धवले परदे मानसे मृते ॥कन्दुः पक्षिमृगादौ स्यात्पाकस्थाने हरादिके ।भिदुर्वज्रे परश्वादौ वीरादौ शङ्करादिके ॥मृदुस्तु मार्दवे चन्द्रे शिवऋष्यादिके तथा । २१०पादुः स्थाल्यां च शक्तौ चाप्यायुधे पादधारिका ।
77 · p. 36
अनुष्टुप्metre not read in every line
उणादिनिष्पत्तिः
२०६. (क्लिदुः) क्लेदुः (पुं) शॄस्वृस्निहि - १.१ इति उः) (क्लिदू आर्द्रिर्भवे दि/प/वे +3:) क्लेदयतीति क्लेदुः = चन्द्रः । सन्निपातज्वरः, मेलनम् ।, २०७. इन्दुः (पुं) (उन्देरिच्यादेः- १.१२ इति उः) (उन्दी क्लेदने रु/प/से+उ:) उनत्ति अमृतधारया भुवं क्लिन्नां करोतीति इन्दुः= चन्द्रः, कर्पूरः ।, २०८. कन्दुः (पुं, स्त्री) (स्कन्दे: सलोपश्च - १.१४ इति उ:) स्कन्दिर् गतिशोषणयोः भ्वा/प/अ+उ:) १. स्कन्दत्यस्मिन् जनताप इति कन्दुः = भोगस्थानम् । २.स्कन्दति शोषयति जलादिकमिति कन्दुः = लौहमयपाकपात्रम् (स्वेदनी), २०९. भिदुः (पुं) (पॄभिदि - १.२३ इति कुः) (भिदिर् विदारणे रु/उ/अ+कु:) भिनत्ति विदारयति इतिभिदुः = वज्रम् ।, २१०. मृदुः (त्रि) (प्रथिम्रदि - १.२८ इति कु:) (म्रद मर्दने भ्वा/आ/से + कुः) मर्धते म्रदितुं शक्यत अकठिनत्वादिति मृदुः = कोमलः, अतीक्ष्णः ।, २११. (पादुः) पादू: (न) (णित्कसिपद्यर्ते: - १.८५ इति ऊः) (पद गतौ दि/आ/अ +ऊ) पद्यन्ते गच्छन्ति ययेतिपादू: = चरणधारिणी पादुका ।
78 · p. 37
अनुष्टुप्metre not read in every line
ஔऔणादिकपदार्णवः
२०६. (क्लिदुः)क्लेदुः क्लेदुश्चन्द्रे च बन्धूके बन्धुर्ज्ञातौ च सोदरे । १.१३४२०७. इन्दुः इन्दुस्तु घनसारे च शशाङ्के च प्रकीर्तितः । १.१५३२०८. कन्दुः वा पुंसि कन्दुः स्वेदन्यां पाकस्थानेऽप्ययं स्मृतः । १.१५५२०९. भिदुः भेदके कुलिशे चैव भिदुर्विद्वद्भिरुच्यते । १.१७६२१०. मृदु पुमानग्नौ राजभेदे मृद्वतीक्ष्णे च कोमले । १.१९४२११. (पादुः)पादूः पादूरुपानहि स्थाल्यामारू पिङ्गलवृक्षयोः । १.३७८दोर्बाहौ शान्तपुरुषे सुधान्नजलदादिषु ।सदिः भूमौ च चित्ते चाप्याचार्ये राज्ञि भूभृतौ ।
79 · p. 37
अनुष्टुप्metre not read in every line
।। अथ धान्ताः ।।
बन्धुस्तु स्वजने चित्ते सिन्धुर्देशे नदे(ऽ?)सुरे ।विधुः कालाग्निवाय्वादिचन्द्रमादिषु कथ्यते । २१५गृधुः कामे च चित्ते च पामरे धनमूलके ।
80 · p. 38
अनुष्टुप्metre not read in every line
उणादिनिष्पत्तिः
२१२. दोः (पुं) (दमेर्डोसि: - २.६९ इति डोसिः) (दमु उपशमे दि/प/से+डोसिः) दाम्यत्यनेनेति दोः = बाहुः ।, २१४. बन्धुः (पुं) (शॄस्वृस्निहि - १.१ इति उः) (बन्ध बन्धने क्र्या/प/अ+उ:) स्नेहेन मनो बध्नातीति बन्धुः = सगोत्रः । ज्ञातिः, भ्राता (वि) बन्धूकपुष्पम् (वि),२१४. सिन्धुः (पुं) (स्यन्देः सम्प्रसारणम् घश्च - १.११ इति उः) (स्यन्दू प्रस्रवणे भ्वा/आ/वे+उ:)स्यन्दत इति सिन्धुः = समुद्रः । सिन्धुवारवृक्षः, रागविशेषः, मालकौशरागपुत्रः, गजमदः, वमथुः, (स्त्री) स्यन्यत इति सिन्धुः = नदी, नदीविशेषः, देशविशेषः ।, २१५. विधुः (पुं) (पॄभिदि - १.२३इति कुः) (व्यध ताडने दि/प/अ+कु:) १. विरहिणं विध्यतीति विधुः (अ) = चन्द्रमाः। २.विध्यते राहुणेति विधुः शशाङ्कः (वि. को) कर्पूरः (मे), विष्णुः (मे), राक्षसः, ब्रह्मा, आयुधःवायुः (मे), (त्रि) कर्ता ।, २१६. गृधुः (त्रि) (पॄभिदि - १.२३ इति कुः) (गृधु अभिकाङ्क्षायाम् दि/प/से+कुः) गृध्यते अभिकाङ्क्ष्यते इति गृधुः = कामः । अभिलाषुकः ।२१३. (सदि) सधिः सधिवैश्वानरे धीरैर्वृषभेऽपि निगद्यते । २.३८६२१४. बन्धुः ब्रह्मबन्ध्वादिषु परे स्थितः क्षेपेऽप्यसौ स्मृतः । १.१३४समानस्य सभावेन ज्योतिर्जनपदेत्यतः ।सबन्धुस्तुल्यबन्धौ स्यात्सवर्णादिष्वियं हि दिक् ।२१४. सिन्धुः नद्यां स्त्री नाम्बुधौ सिन्धुनदे देशेभदानयोः । १.१४९२१५. विधुः विधुः शशाङ्के कर्पूरे हृषीकेशे च राक्षसे । १.१७६विधुन्तुदो विध्वरुषोस्तुद इत्युच्यते तमः ।२१६. गृधुः गृधुः कामे धृषुर्दक्षे हृषुः सूर्याग्निराहुषु । १.१७७हर्षे च पॄभिदीत्यस्य कैश्चिदन्ते हृषीरणात् ।माधो मनुष्ये पश्वादौ राक्षसादौ सरीसृपे ॥सानुस्तु पर्वतप्रान्ते खड्गादौ रशनादिके ।जानुर्मनुष्ये जन्त्वादौ मानसादौ मनीषिते ॥तनुः शरीरे शैले च सूक्ष्मे चित्ते धनादिके । २२०६. धनुर्मनसि खड्गादौ राश्यादौ च बहुश्रुते ॥
81 · p. 38
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्यत्तिः
२१८. सानु: (पुं. न) (दृशनिजनि -१.३ इति ञुण्) (षणु दाने त/उ/से +ञुण) सन्यते सेव्यते मुनिप्रभृतिभिरिति सानुः = पर्वतसमभूभागः । वनम्, कोविदः, अर्कः, पल्लवः ।, २१९. जानु(न) (दॄसनिजनि - १.३ इति ञुण्) (जनीप्रादुर्भावे दि/आ/से +ञुण्) जायत इति जानु = ऊरुजङ्घयोर्मध्यभागः ।, २२०. तनुः (न) (अर्तिपॄवपिय - २.११४ इति उसिः) (तनु विस्तारे त/ उ/से +उसि:) १. तनोति तन्यते वेति तनुः = शरीरम् । २. तनोति कार्याण्यनेनेति तनुः, तनुः (स्त्री) - (भृमृशी - १.७ इति उ:) तनु विस्तारे त/उ/से +उ:) तन्यते कर्मपाशोऽनयेति तनुः =शरीरम् । त्वक् (मे), (त्रि) अल्पः, विरलः कृषः ।, २२१. धनुः (पुं) (भृमृशी - १.७ इति उः) (धनधान्ये जु/प/से +उः) धन्यते धनं प्राप्यते अनेनेति धनुः = चाप: (मे,वि), राशिविशेषः (मे.वि), प्रियङ्गुवृक्षः (मे.वि), धनुः (न) (अर्तिपॄवपिय. - २.११४ इति उसि:) धन शब्दार्थयो: भ्वा/प/ से +उसिः) धनतीति धनुः = चापः । राशिविशेष: (मे), प्रियालः (मे), आसनविशेषः, परिमाणविशेषः ।
82 · p. 39
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
२१८. सानुः पुंनपुंसकयोः सानुः प्रस्थे मतुपि सानुमान् । १.९६२१९. जानुः जानु ताल्वादिकादेवं शरीरावयवार्थकात् । १.७०२२०. तनुःत्सरुः खङ्गादिमुष्टौ स्यात्तनुः स्त्री स्याद्वपुस्त्वचोः ।त्रिष्वल्पे विरले सूक्ष्मे तन्वीतनुरिति त्वम् । १.१११२२१. धनुःवनितावाचिनी प्रहुर्धनुस्तु स्याच्छरासने ।राशिभेदे प्रियालद्रौ धानुष्केऽपि निगद्यते । १.११२केचिद्धनुः पट इति प्रियालाख्या प्रचक्षते । १.११३श्येनः पक्षी मनश्चापि स्त्येनश्चोरे च जन्तुषु ।अविनोविहगेऽध्वर्यै आर्येऽप्यश्वादिके तथा ।वृजिनं दुरिते कष्टे कुटिले मूकमानुषे ।दारिद्र्ये व्यवसायादौ धर्मादौ नीचसेवने । २२५अजिनं पादपे पादे चर्ममूषकवारिषु ।कुडिनः पर्वते गेहोपरिभागादिकेऽज्ञके ।
83 · p. 39
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
२२२. श्येन: (पुं) हृश्याभ्यामितन् - ३. ९३ इति इतन्) (श्यै गतौ भ्वा/आ/अ+इतन्) श्यायते गच्छतीति श्येनः = शुक्लवर्णः (अ) । (त्रि) शुक्लवर्णयुक्तम् ।, २२२. स्त्येनः (पुं) (श्यास्त्यादृञविभ्य इनच् - २.४६ इति इनच्) (स्त्यै ष्ट्यै शब्दसङ्घातयोः भ्वा/प/अ+इनच्)स्त्यायतीति स्त्येन: = चौरः । अमृतम् ।, २२३. अविनः (पुं) (श्यास्त्याहअविभ्य इनच् - २.४६इति इनच्) (अव रक्षणादौ भ्वा/प/से+इनच्) अवति यज्ञमिति अविनः = अध्वर्युः ।,२२४. वृजिनम् (न) (वृजोः किच्च - २.४७ इति इनच्) (वृजी वर्जने अ/आ/से+इनच्) व्रज्यते इति वृजिनम् = पापम् । दुःखम्, रक्तचर्म, कुटिलकोश: (त्रि) कुटिलम्, पापविशिष्टम् ।,२२६. अजिनम् (न) (अजेरज च - २.४८ इति इनच्) अज गतिक्षेपणयोः भ्वा/प/से+इनच्) अजति नाशं गच्छतीति अजिनम् (अ) = कृष्णसारादित्वक् ।, २२७. कुण्डिन:/कुडिनः (पुं) बहुलमन्यत्रापि २.४९ इति इनच्/इ कुण्डते दहति प्रकाशत इति कुण्डिनः/कुडिनः ।
84 · p. 40
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
२२२. श्येन: पाण्डरे पत्रिणि श्येनो घञः सास्यां क्रियेति त्रे ।२२२. स्त्येनः मुमिश्येनतिलस्येति स्त्येनश्चेरे यकारवान् । २.१७६२२३. अविनः सुवर्णप्रतिमायां च शक्या पक्षिणि चाविनः । २.१८०२२४. वृजिनम् वृजिनं कल्मषे क्लीबं क्लिन्ने[केशे] ना कुटिलेऽन्यवत् ।२.१८१२२६. अजिनम् न द्वयोश्चर्मणि बुधैरजिनं परिकीर्तितम् । २.१८१२२७. (कुडिन:)कुण्डिनम्- कुण्डिनं नगरे क्लीबं कुण्डिनस्तापसे पुमान् । २.१८५<विपिनं…>तुहिनं घातुके सत्ये नीहारे पामरेऽपि च ।माहिनं बाणशय्यायां ब्रह्म चिन्तनमोक्षयोः ।सवनं यागमात्रे च जनमात्रे रदादिके । २३०यवनस्तु तुरुष्के स्यात्पिष्टादौ मानवादिके ।रशना रज्जुमात्रे स्याद्भोज्यवस्तुनि मानुषे ।
85 · p. 40
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
२२७. विपिनम् (न) वेपितुह्मोर्ह्रस्वाच २.५२ इति इनन् (टु वेपृ - भ्वा/आ/से + इनन्) वेपयतीति विपिनम् भवनम् ।, २२८. तुहिनम् (न) (वेपि तु तुह्योर्ह्रस्वश्च - २.५२ इति इनन्) तुहिर् अर्दने भ्वा/प/से+इनन्) तोहति अर्दयतीति तुहिनम् = हिमम्! (त्रि) शीतलम्।, २२९.महिनम् (न) (महेरिनण्च - २.५६ इति इनण) (मह पूजायाम् भ्वा/उ/से+इनन्) महति मह्यतेवेति महिनम् = राज्यम् ।, २३०. (सवनं) सवन: (पुं) (सुयुरुवृञो युच् - २.७४ इति युच्) (षुञ् अभिषवे स्वा/उ/अ+युच्) सुनोति निस्सारयति रसान् स सवनः = चन्द्रः । अध्वरः (मे), स्नानम्(मे), सोम (मे), वनविशिष्टः ।, २३१. यवनः (पुं) (सुयुरुवृञो युच् - २.७४ इति युच्) युमिश्रणे(अ/प/से+ युच्) यौति मिश्रीभवतीति (वर्णाश्रमविभागाभावात्) यवनः = जातिविशेषः (त्रि)वेगी, गोधूमः ।, २३२. रशना (स्त्री) (अशे रश च - २.७५ इति युच्) अशू व्याप्तौ स्वा/आ/ से+युच्) अश्नुते व्याप्नोतीति रशना =काञ्ची । (न) जिह्वा (मे), रज्जुः, रसनम् ।
86 · p. 41
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
२२८. तुहिनम् विपिनं तु वने क्लीबं तुहिनं तिमिरे हिमे । २.१९५२२९. माहिनम् माहिनो वाच्यवत्पूज्ये वाच्ये (राज्ये) तु स्यान्नपुंसकम्।२.१९८२३०. सवनम् सवनं यजने स्नाने सोमनिर्दलनेऽपि च । २.२८५२३१. यवनः कालचन्द्रमसोः पुंसि तुरुष्के यवनः पुमान् । २.२८५२३२. रशना आहायं रशनाशन्दो व्याप्तिभुज्यर्थकाशिजः । २.२८८जीदनोंऽन्ने(योजनो?) शिवादौ च परादौ वनितादिके ।द्योतनोऽग्नौ शिवादौ च सर्व श्रेष्ठादिके तथा ।स्यन्दनं सलिले चित्ते रथादौ पामरादिके । २३५रोचना किरणे कान्तौ सूर्यादौ मानसादिके ।रञ्जना रोचनद्रव्ये रागे चापि मनोहरे ॥भुवनं पञ्चभूतेषु शिवादौ सत्कथादिके ।सुवनं गर्भमोक्षे स्यात् स्मरणे चापि सङ्गतौ ॥
87 · p. 41
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्यत्तिः
२३५. स्यन्दनः (पुं) (गमेर्गश्च - २.७७ इति युच्) (स्यन्दू प्रस्रवने भ्वा/आ/वे +युच्) स्यन्दते चलतीति स्यन्दनः = रथ: (मे) । तिनिशवृक्षः (मे), वायुः (त्रि) शीघ्रम्, (न) जलम्, गमनम् ।, २३६. रोचना (स्त्री) (गमेर्गश्च -२.७७ इति युच्) (रुच दीप्तावभिप्रेतौ च भ्वा/आ/से +युच्) रोचते या इति रोचना = रक्तकह्रारम् । गोपित्तम् (मे) वरयोषित् (मे), वसुदेवपत्नी, (पुं) कूटशाल्मली, (त्रि) रोचकः ।, २३८. भुवनम् (न) (भूसूधूभ्रस्जिभ्यश्छन्दसि - २.७९ इति क्युन्)(भू सत्तायाम् भ्वा/प/से +क्युन्) भवन्त्यस्मिन् भूतानीति भुवनम् = जगत् (मे) सलिलम् (मे),गगनम् (मे), जनः (मे), भूतजातम्, (पु) मुनिविशेषः, चतुर्दशसङ्ख्या ।, २३९. सुवनः (पुं)(भूसूभ्रस्जिभ्यश्छन्दसि - २.७९ इति क्युन्) षूङ् प्राणिप्रसवे अ/आ/वे +क्युन्) सूते, सूयते वाविश्वमिति स सुवनः = ईश्वरः । सूर्यः, अग्निः, चन्द्रः ।
88 · p. 42
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
२३५. स्यन्दनम् स्यन्दनं रोचन इति प्रमुखाः केऽपि साधिताः। स्यन्दनं तु सृतौ नीरे तिनिशे ना रयोऽस्त्रियाम् ॥ २.२९५२३६. रोचना रोचना रक्तकल्हारे गोपित्तवरयोषितोः ।रोचनः कूटशाल्मल्यां पुंसि स्याद्रोचने त्रिषु ॥ २.२९६२३८. भुवनम् भुवनं विष्टपेऽपि स्यात्सलिले गगने बिले । २.३०२२३९. सुवनम् सुवनः स्यात्पुंसि सोमे सूर्याचन्द्रमसोरपि । २.३०२धुवनं धूपमात्रे स्याद्वने वृक्षादिके तथा । २४०भृञ्जनं पाकपात्रे स्याद्भ्राष्ट्रे कुत्सितमानसे ।पुरणं पालने राज्ये सन्तोषादिषु भूसुरे ॥६a वृजिनं गगने तोये पापादौ कामुकादिके ।मदना मोदने स्तोत्रे स्वप्ने कान्तौ खगादिके ॥निधनं पोषणे रात्रौ पर्वतादौ सुरादिके । २४५
89 · p. 42
अनुष्टुप्metre not read in every lineLatin letters: a
तरलाव्याख्या
उणादिनिष्पत्तिः
२४०. धुवनम् (धवनः) (पुं) (भूसूधूभ्रस्जिभ्यश्छन्दसि - २.७९ इति क्युन्) (धूञ् कम्पने चु/उ/से क्युन्) धूनयति कम्पयतीति धवनः =अग्निः । चालकः ।, २४१. भृञ्जनं (भृज्जनम्)(न) भूसूधूभ्रस्जिभ्यश्छन्दसि-२.७९ इति क्युन्) (भ्रस्ज पाके तु/उ/अ+क्युन्) भृज्यन्ते तण्डुलादयोऽस्मिन्नति भृज्जनम् = अन्नभर्जनकपालम् ।, २४२. पुरण: (पुं) (कॄपॄवृजिमन्दिविधाताञ:क्युः - २.८ इति क्युः) (पॄ पालनपोषणयोः जु/प/से+क्युः) पिपर्ति पूर्यते जलैः वेति पुरणः =समुद्रः ।, २४३. वृजिनम् (न) वृजेः किच्च - २.४७ इति इनच्) वृजी वर्जने अ/आ/से +इनच्) व्रज्यते इति वृजिनम् = पापम् । दुःखम्, रक्तचर्म, (पुं) कुटिलकेशः, (त्रि) कुटिलम्, पापविशिष्टम्।,२४५. निधनम् (न) (कॄपॄवृजिमन्दिविधाञः क्युः - २.८ इति क्युः) (डुधाञ् धारणादौ जु/उ/अ +क्युः) नितरां दधाति यत्तन्निधनम् = मृत्युः । नाशः (मे, हे) आधारः कुलम् (मे, हे) ।
90 · p. 43
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
२४०. धुवनम् धुवनस्तु स्मृतो वह्नौ धूपेऽपि परिकीर्तितः। २.३०३२४१. भृञ्जम् भृञ्जनं स्यादम्बरीषे छान्दसा भुवकादयः । २.३०४२४२. पूरण: - पूरणः सागो पुमान् । २.३०५२४३. वृजिनम् वृजिनं स्यादन्तरिक्षे मन्दनं न द्वयोः स्तुतौ । २.३०६वृजिनं कल्मषे क्लीबं क्लिन्ने (केशे) नाकुटिलेऽन्यवत् । २.१८०२४५. निधनम् गतौ तु मन्दना नाशे कुले तु निधनं स्मृतम् । २.३०६शवसानस्तु मार्गे स्याज्ज्वलने परमात्मनि ।जरसानस्तु पुरुषे वृक्षादौ पाञ्चभौतिके ॥आयुष्येऽपि च सङ्कल्पे विकल्पेऽपि च रोधसि ।भुजसानस्तु मेघे स्यात् स्थाने मनसि शङ्करे ॥सहसानो मयूरे स्यात्क्षमावति महाजने । २५०वृधसानस्तु पुरुषे याचके परमात्मनि ।मन्दसानेऽग्निचन्द्रार्कस्वप्नसंहारकान्तिषु ।
91 · p. 43
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
२४६. शवसानः (पुं) (छन्दस्यसनच्शुजॄभ्याम् - २.८४ इति असानच्) (शव गतौ भ्वा/प/से+असानच्) शवति गच्छतीति शवसान: = पन्थाः ।, २४७. जरसान: (पुं) छन्दस्यसानच्शुजॄभ्याम् - २.८४ इति असानच्) जॄष् वयोहानौ दि/प/से+असानच्) जीर्यतिजराग्रस्तो भवतीति जरसान: = मनुष्यः ।, २५०. सहसान: (पुं) ऋञ्जिवृधि - २.८५ इति असानच्) (षह मर्षणे भ्वा/आ/से +असानच्) सहते इति सहसान: = मयूरः ।, २५१. वृधसान: (पुं) (ऋञ्जिवृधि- २.८५ इति असानच्) (वृधु वृद्धौ भ्वा/आ/से+असानच्) वर्धतेऽसौ इतिवृधसान: = पुरुषः ।, २५२. मन्दसान: (पं) ऋॄञ्जिवृधि - २.८५ इति असानच्) मदि स्तुत्यादौ भ्वा/आ/से+असानच्) मह्यते इति मन्दसानः = अग्निः । प्राणी, निद्र, (त्रि) मोदमानः ।
92 · p. 44
अनुष्टुप्metre not read in every lineimpossible sign sequence: सान: (पं) ऋॄञ्जिवृ
औणादिकपदार्णवः
२४६. शवसानः शवसानस्तु मार्गे ना गन्तरि स्यात् त्रिलिङ्गकः । २.३२६२४७. जरसान: जरसानस्तु कथितः पुंलिङ्गः पुरुषे बुधैः । २.३२६ २५०,२५२.सहसानः,मन्दसान: - मन्दसानस्तु जीवाग्न्योः सहसानो यमे क्रतौ।२.३२७२४९. भुजसान: भुञ्जसानस्तु बलदे २.३२७२५१.वृधसान: बृद्धसानस्तु पूरुषे । २.३२७आशु <अशु> सानोऽग्निचन्द्रार्कब्राह्मणादिषु संस्तुते ।संस्तवानः स्तोतरि स्यान्माधवादौ शुकादिके ।युजानः सूर्यचन्द्राग्निशिवादिहरितादिके । २५५बुधानो मुनिदेवान्नगुरुशम्भुसुरादिके ।दृशानो ब्राह्मणे सूर्ये चन्द्रे ज्योतिषि माधवे ॥मुमुचानो यमे दैत्ये कामे शम्भौ महात्मनि ।युयुधानो युध्दशौण्डे खड्गादौ रशनादिके ॥पापिष्ठे कठिने दैत्ये यमे मोक्षे सुराधिपे । २६०
93 · p. 44
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्यत्तिः
२५३. अर्शसान: (पुं) (अतेर्गुण: शुट् च २.८६ इति असानच् ऋ गतौ भ्वा/प/अ/+ असानच् । ऋच्छ्यो प्राप्यते इति अर्शसान: । अग्निः), २५४. संस्तवान: (त्रि) सम्यानच्स्तुव: - २.८७ इति आनच्) ष्टुञ् स्तुतौ अ/प/अ +आनच्) संस्तौतीति संस्तवानः = सद्वक्ता। वाग्मी, उद्गाता, हर्षः ।, २५६. बुधान: (पुं) (युधिबुधिदृशिभ्यः - २.८८ इति आनच्) (बुधिर बोधने भवा/उ/से+आनच) बोधयतीति बधानः = गरुः। विज्ञः प्रियवादी, कविः। २५७. दृशान: (पं) (युधिबुधिदृशिभ्यः - २.८८ इति आनच्) दृशिर् प्रेक्षणे भ्वा/प/अ +आनच्) पश्यतीति दृशानः= आचार्य । ब्राह्मणः, विरोचनः, लोकपालः, (त्रि) दृश्यते अनेनेति दृशानम् = ज्योतिः ।, २५९. युयुधानः (युधानः) (पुं) (युधिबुधिदृशिभ्यः - २.८८ इति आनच्) युध संप्रहारे दि/आ/अ +आनच्) युध्यतेऽसै इति युधानः = रिपुः ।
94 · p. 45
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
२५३.(आशुसान:)अर्शसान: अर्शसानः कृशानौ ना हिंसितर्यप्ययं त्रिषु । २.३२८२५४. संस्तवानः संस्तवानस्तु कथितो महिषोद्गातृवाग्ग्षि । २.३२८२५५,२५६. युजानः,बुधानः युजानो द्विजसारथ्योर्बुधान: पण्डिते गुरौ।२.३३०२५७. दृशानः दृशानो ज्योतिरादित्यचन्द्रविप्रेषु कीर्तितः । २.३३०२५९. (युयुधान:) युधानः युधानी युद्धनिपुणे युजेः पाठे त्विहाश्रिते । २.३२९जुहुराणोऽग्निधर्मेन्द्रवयोवृद्ध मठादिके ।धमनी कण्ठसामीप्यनाडीरन्ध्रादिकेऽपि च ॥अद्मनि: स्वग्निचन्द्रार्कशिवदेवादिकेऽपि च ।वर्तनिः परिमार्गे च देवतानाम्नि शङ्करे ॥रिपुः शत्रौ महाकाले यमे शास्त्रज्ञपण्डिते । २६५अम्बूः रोगे जले पाने मृत्यौ चन्द्रार्कशम्भुषु ।
95 · p. 45
अनुष्टुप्metre not read in every linenearly उपजातिः
तरलाव्याख्या
उणादिनिष्यत्तिः
२७४. होमः (पुं) (अर्तिस्तुसु- १.३७) इति मन्) (हु दानादनयोः जु/प/अ+मन्) हूयते दीयते अनेनेति होमः = यज्ञः ।, २७५. सर्मः (पुं) (अर्तिस्तुसु - १.१३७ इतिमन्) (सू गतौ भ्वा/प/अ +मन्) स्त्रियते गम्यते इति सर्मः = गमनम् ।, २७६. धर्मः (पुं,न) अर्तिस्तुसु - १.१३७ इतिमन्) (धृञ् धारणे भ्वा/उ/अ +मन्) धरति लोकान्, ध्रियते पुण्यात्मभिरिति वा धर्म: = शुभादृष्टम् । पुण्यम् (वि), न्यायः (वि), स्वभावः (वि), आचारः (वि), उपमा, क्रतुः (वि), अहिंसा, उपनिषत्, (पुं) धनुः (अ), यमः (वि), सोमपः सत्सङ्गः, देवताविशेषः ।, २७७. क्षेमम् (पुं. न) अर्तिस्तुसु- १.१३७ इति मन्) (क्षि क्षये भ्वा/प/अ +मन्) क्षयति दुःखं नश्यति यत्रेति क्षेमम् = कुशलम् ।मोक्षः ।, २७८. क्षौमम् (पुं,न) (अर्तिस्तुसु - १…१३७ इति मन्) (टुक्षु शब्दे अ/प/से+मन्) क्षौतीति क्षैमम् = दुकूलम् (मे) । अट्टालकः, अतसीवस्त्रम् (मे) शणजवस्त्रम् (मे) हर्म्यभेदः
96 · p. 46
अनुष्टुप्two metres in one verse
औणादिकपदार्णवः
२७३. सोमः सोमः कुबेरे पितृदेवतायां वसुप्रभेदे च निशाकरे च । १.६१४ दिव्यौषधिश्यामलताशरीरकर्पूरनीरानलवानरेषु ।सोमोऽस्य देवतेत्यर्थे सौम्यं सोमाट्ट्यणि त्रिषु ।२७४,२७५.होमः,सर्म: हवि: प्रक्षेपयोर्वक्ता होमः सर्मस्तु सर्पणे । १.६२०२७६.धर्मः धर्म: पुण्ये यमे न्याये स्वभावाचारयोः क्रतौ । १.६२०उपमायामहिंसायां चापे चोपनिषद्यपि ।धर्म्योऽस्मादनपेते स्यात्प्राप्ये चानेन वाच्यवत् ।२७७. क्षेम: क्षेमं स्यान्मङ्गले लब्धरक्षणे चोरकेऽपि च । १.६२४क्षेमा धनहरीगौर्योः क्षेमः ख्यातः क्लमान्विते ।भौमः सूर्ये च चन्द्रेऽग्नौ शिवादौ क्षोदमात्रके ।यामो रात्रौ च सेतौ च मोक्षे रामादिके तथा । २८०पद्मं तु कमलादौ स्यान्निध्यादौ ललितादिषु ।यक्ष्मा रोगे च जलदे नेमो वायौ जलादिके ॥
97 · p. 46
अनुष्टुप्two metres in one verse
उणादिनिष्पत्तिः
२७९. भौमः (भामः) (पुं) (अर्तिस्तुसु - १.१३७ इति मन्) (भा दीप्तौ अ/प/अ+मन्) भाति प्रकाशतेऽसाविति भामः = सूर्यः (मे) । दीप्तिः (मे), भगिनीपतिः, अर्कवृक्षः, क्रोधः (मे),२८०. यामः (पुं) (अतिस्तुसु - १.१३७ इति मन्) (या प्रापणे अ/प/अ+मन्) यातीति यामः = दिवारात्र्यो: चतुर्थभागैकभागः (प्रहर:) मे! संयमः (मे) देवगण: भेदः, गमनम् ।, २८१. पद्मम् (पुं,न) (अतिस्तुसु - १.१३७ इति मन्) (पद गतौ दि/आ/अ+मन्) पद्यते प्राप्यते इति पद्मम् =अरविन्दम् । गजस्य मुखादिस्थः बिन्दुविशेषः (पद्मकम्), व्यूहविशेषः (मे), निधिभेदः (मे), सीसकम्, कल्पविशेषः (पुं) दाशरथिः, नागविशेषः, बलदेवः, शरीरस्थो नाडीचक्रभेदः, ओषधिविशेषः, जिनचक्रवर्तिभेदः, रतिबन्धभेदः, मूलाधारादिचक्रे षुस्थितानि पद्मानि ।, २८२. यक्ष्मः (पुं) (अर्तिस्तुसु-१.१३७ इति मन्) (यक्ष पूजायाम् चु/उ/से+मन्) राजरोगः ।, २८२, नेमः (पुं) (अर्तिस्तुसु - १.१३७ इति मन्) (णीञ् प्रापणे भ्वा/उ/अ+मन्) नयतीति: नेमः = कालः । अवधि: (मे),खण्डम् (मे), प्राकारः (मे, हे) कैतवम् (मे, हे), अर्धम् (मे, हे), गर्तः (मे,हे), नाह्यादिः, अन्यः, सायङ्कालः, मूलम्, ऊर्ध्वम् ।
98 · p. 49
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
२७८. क्षौमम् क्षोम एव क्षौम इति प्रज्ञाद्यणि भवेदयम् । १.६२६२७९. (भौमः) भाम: भामः क्रोधे रवौ दीप्तौ भामा योषित्यपि स्त्रियाम् । १.६२७२८०. यामः यामस्तु पुंसि प्रहरे संयमेऽपि च कथ्यते । १.६२८२८१. पद्म पद्मं स्यात्पन्नगे व्यूहे निधौ संख्यान्तरेऽम्बुजे । १.६३३पद्मकं बिन्दुजालेऽपि पद्मा भार्गीश्रियोरपि ।२८२. यक्ष्म अन्तः स्थादिः पुमान् यक्ष्मः[क्ष्मा?] क्षयरोगस्य वाचकः । १.६३४ग्रामो(सो?) जनपदे भक्ष्यद्रव्ये चापि मनोहरे ।ओमो नभसि देवेषु नगरे चन्द्रमादिषु ।स्यूमस्तु रज्जौ जलदे जले वाय्वर्कधेनुषु । २८५शुष्मो वायौ बले सूर्ये इष्मः सूर्यवसन्तयोः ।युध्मः शरदि युद्धे च इध्मः स्यात्समिति प्रिये ।
99 · p. 49
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
२८३. ग्रामः (पुं) (ग्रसेरा च - १.१४ इति मन्) (ग्रसु अदने भ्वा/आ/से+मन्) ग्रसतेऽत्तियो ग्रस्यत अनेनेति वा ग्रामः (वि) = बहुजनवसतिः । शब्दादिपूर्वकश्चेत् समूहार्थः(वि)=शब्दग्रामः, भीतग्रामः, गुणग्रामः शिवः (वि), स्वरभेदः (वि), २८५. स्यूमः (पुं) (अविसिवि- १.१४१ इति मन्) (षिवु तन्तुसन्ताने दि/प/से +मन्) सीव्यति तन्तून् सन्तनोतीव प्रसरतीतिस्यमः = किरणः । (न) जलम ।, २८६. इष्मः (पं) (इषियधीन्धि - १.१४२ इति मक्) (इषु इच्छायाम् तु/प/से +मक्) इष्यत इति इष्मः = वसन्तः । (इष गतौ दि/प/से +मक्) इष्यतीतिइष्मः = कालः ।, कामदेवः ।, २८७. युध्मः (पुं) (इषियुधीन्धि १-१४२ इति मक्) (युध संप्रहारेदि/आ/अ +मक्) १. युध्यते इति युध्मः = सङ्ग्रामः । २. युध्यते येनेति युध्मः = योद्धा (मे) ।शरभः, धनुः (मे), बाण: (मे),२८३. ग्राम: ग्रामः स्वरे संवसथे बृन्दे शब्दादिपूर्वकः । १.६५०संपूर्वः संयुगे प्रोक्तश्चुरादिष्वेव दर्शितः ।ग्रामता तु स्त्रियां ग्रामबृन्दे विद्वद्भिरुच्यते ।२८५. स्यूमः स्यूमस्तु किरणे पुमान् । १.६५५२८६. शुष्मः शुष्मस्तेजोऽर्कयोरग्नौ शुष्मं क्षीरे बलेऽपि च । १.६५६२८६. इष्मः इष्मः कामे वसन्ते स्यादीष्मो वा पाठभेदतः । १.६५७२८७. युध्मः युध्मो योद्धरि बाणे च संयुगे कार्मुकेऽपि च ।१.६५८काले चापि च दस्मस्तु यजमाने प्रभावपि ॥स्त्यामश्चन्द्रे गतौ सूर्ये चरादौ मनुजादिके ।धूमोऽग्निभेते(दे?) चलिते नरे मेघे च वाहने । २९०७a सूमश्चन्द्रेऽन्तरिक्षे च क्षरे भानौ महेश्वरे ।युग्मं योगे च सत्ये च धर्म पापविरोधके ।
100 · p. 50
अनुष्टुप्metre not read in every lineLatin letters: a
तरलाव्याख्या
उणादिनिष्यत्तिः
२८७. इध्मः (पुं. न) (इषियुधीन्धि - १.१४२ इति मक्) (ञि इन्धि दीप्तौ रु/आ/से +मक्) इध्यतेऽग्निरनेनेति इध्मः =समित् ।, २८८. दस्मः (पुं) (इषियुधीन्धि - १.१४२ इति मक्)(दसु उपक्षये दि/प/से +मक्) दस्थति अक्षयं करोति द्रव्यस्य दक्षिणादिनेति दस्मः = यजमान:(अ) (मे) । चौर: (अ) (मे), हुताशनः (अ) (मे), खलः, दर्शनीयः ।, २९०. धूमः (पुं) (इषियुधीन्धि- १.१४२ इति मक्) धृञ् कम्पने स्वा/अ/वे +मक्) धुनोतीति धूमः = आर्द्रेन्धनप्रभाव:(भम्भः) ।, २९१. सूमः (पुं) (इषियुधीन्धि -१.१४२ इति मक्) (षुङ् प्राणिगर्भविमोचने अ/आ/ वे +मक्) सूते जनयति प्राणिगर्भं विमुञ्चतीति सूमः = अन्तरिक्षम् । क्षीरम्, जलम्।, २९२. युग्मम्(न) (युजिरुचि - १.१४३ इति मक्) (युज संयमने चु/उ/से +मक्) युज्यते इति युग्मम् = द्वयम् । द्वितीयचतुर्थषष्टाष्टमदशमद्वादशराशयः, मेलनम् (वि), मिथुनम् ।,
101 · p. 51
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
२८७. इध्यः इध्मः पुंसि प्रकथितः काष्ठे काले च सूरिभिः ।(केचित्पुंसि वदन्त्येनं) काले काष्ठे तु न द्वयोः॥ १.६५८२८८. दस्म: दस्मस्तु यजमाने स्याच्चारे हीने हुताशने । १.६५९२८९. (स्त्यामः)श्यामः श्याम: स्यान्मेचके वृद्धदारके हरिते घने ।वटद्रुमे प्रयागस्य श्यामा स्त्री वागुरा स्मृता ॥ १.६६०२९०. धूमः अग्निकेतौ देशभेदे धूमः पुंसि निगद्यते ।धूम्या तु कथितो धीरैः स्त्रियां धूमकदम्बके ॥ १.६६३२९१. सूमः सूमो रवौ चन्द्रमसि विहायसि च कथ्यते । १.६६४रुक्मं स्वर्णेऽग्नौ चापि सूर्ये चन्द्रावतंसके ।तिग्मं तीक्ष्णे च सूर्ये च वह्नौ पापात्मकेऽसुरे ।हिमं तुषारे पापे च घातुके यमदैत्ययोः । २९५भीष्मो भयङ्करे शान्तनवे चन्द्रावतंसके ।भीमोऽपि पाण्डवे चित्ते भयङ्करवसन्तयोः ।शामः शान्ते च नक्षत्रे मधुपे यमदैत्ययोः ॥। इति मान्ताः ॥
102 · p. 51
अनुष्टुप्metre not read in every linedoubled daṇḍa: ॥।
तरलाव्याख्या
उणादिनिष्पत्तिः
२९३. रुक्मम् (न) (युजिरुचि - १.४३ इति मक्) (रुच दीप्तौ भ्वा/आ/से +मक्)रोचते शोभते इति रुक्मम् = काञ्चनम् (वि, मे), लोहम् (वि, मे), नागकेसरम्, (पुं) वर्णः (उ), (त्रि) दीप्तिशीलम्, धुस्तूरम् ।, २९४. तिग्मम् (न) (युजिरुचि - १.१४३ इति मक्) (तिज निशानेचु/उ/से +मक्) तेजयतीति तिग्मम् = तीक्ष्णम् । क्षत्रियविशेषः (मे), वज्रम् (वि), २९५. हिमम्(त्रि) (हन्तेर्हि च - १.१४४ इति मक्) (हन हिंसागत्योः अ/प/अ +मक्) हन्ति उष्माणमितिहिमम् = तुषारः । (पुं) चन्दन वृक्षः, चन्द्रः, कर्पूरः, हेमन्तर्तुः, हिमालयः ।, २९६. भीष्मः (पुं)(भियः षुग्वा - १.१४५ इति मक्, षुक्) (ञिभी भये जु/प/अ +मक्, षुक्) बिभ्यत्यस्मादितिभीष्मः, भयानकः, गाङ्गेय: (मे), गङ्गापुत्र: भीष्मः, राक्षसः, शिवः ।
103 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ट (wrong syllable)
औणादिकपदार्णवः
२९२,२९३. युग्मम्,रुक्मम् द्वयेनौजेन युग्मं स्याद्रुक्मं काञ्चनलोहयोः । १.६६७२९४. तिग्मम् तिग्मं तु वाच्यवत्तीक्ष्णं पुंसि वह्नौ च भास्करे । १.६६८२९५. हिमम् हिमं स्यात्तुहिने क्लीबं चन्दने शीतले त्रिषु । १.६६८हिमे महति विद्वद्भिर्हिमानी कथिता स्त्रियाम् । १.६६९२९६. भीष्मः भीष्मस्तु भीषणे रुद्रे गाङ्गेये च निशाकरे । १.६७१२९७. भीमः भीमोऽम्लवेतसे शम्भौ घोरे चापि वृकोदरे । १.६७१
104 · p. 52
अनुष्टुप्metre not read in every line
[।। अथ यान्ताः ।।]
पायुः पाने गलेऽपानदेशे पापात्मनि प्रिये ।वायुर्महेश्वरे वायौ गोमायुर्मृगधूर्तके । ३००सिंहे भयङ्करे दैत्ये शङ्करादावपीष्यते ।आयुरायुष्यमोद्गर्यजनभान्वापिकेषु च ।जरायुरुल्बं गर्भाशये चापि कफपाथसी ।
105 · p. 52
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
२९७. भीमः (पुं) (भियः षुग्वा - १.१४५ इति मक्) ञिभी भये जु/प/अ +मक्) बिभ्यत्यस्मादिति भीमः = भयानकः, द्वितीयपाण्डवः, विष्णु: शिव:(मे), अम्लवेतसः (मे), गन्धर्वविशेषः, महादेवस्य आकारमूर्तिः, दानवभेदः, भयहेतुः, रसः ।, २९९. पायुः (पुं) (कृवापाजि- १.१ इति उण, युक्) पा पाने भ्वा/प/अ, पा रक्षणे अ/प/अ +उण, युक्) १. पिबत्यनेनतैलादिकमिति पायुः = गुदस्थानम् २. पाति रक्षतीति पायुः = रक्षकः ।, ३००. वायु: (पु) (कृवापाजि - १.१ इति उण्) (वा गतिगन्धनयोः अ/प/अ+उण्, युक्) वातीति वायुः = पवनः ।(पुं) प्रकाशः, असुरविशेषः ।, ३०२. आयुः (न) (एतेर्णिच्च - २.११५ इति उसिः) इण् गतौ अ/ प/अ +उसि:) एति गच्छतीत्यायुः = जीवनकालः। घृतम् ।, ३०३. जरायु: (पुं) (किञ्जरयोः श्रिणः) - १.४ इति जुण) (इण् गतौ अ/प/अ +जुण्) जरामेतीति जरायुः = गर्भाशय: (अ)।अग्निजालवृक्षः, जटायुः । <अव्ययमालायां सान्तः अव्यमित्यपि>
106 · p. 52
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
२९९. पायु: अग्रिवायू च वाय्वग्नी पायुः स्याद्रक्षके गुदे । १.६८शरीरावयवत्वे तु सति यत्प्रत्यये त्वतः । १.६६३००. वायुः वायुस्तु पुंसि विबुधैः पवमाने प्रकीर्तितः ।३०२. आयु: आयुर्जीवितकाले स्यान्मनुष्येऽप्यूर्वशीसुते । १.९० ३०३. जरायुः गर्भाशये जरायुर्ना शफे च विमलेऽम्बुजे । १.१०६शयुःसर्पे च सिंहे च गजे ब्रह्मणि मानुषे ।मयुस्तुरङ्गवदने नावे मन्मथदीपयोः । ३०५वि<पि/पी>युः काले महाकाले गजे कण्ठे च भाXनि<सानुनि?> । मृगयुर्व्याधमा(ह?)र्यक्षक्षत्रियेश्वरभानुषु ।देवयुर्धार्मिके राज्ञि स्यात्केवलयुराशुगे ।मानयुस्तु वरिष्ठे च दासे रम्ये मनोहरे ।गुहयुः सिंहवाताग्निमुनिसर्पादिके तथा । ३१०मित्रयुर्वत्सले रम्ये मुनौ चन्द्रे च शङ्करे ।
107 · p. 52
अनुष्टुप्metre not read in every lineLatin letters: X
तरलाव्याख्या
उणादिनिष्पत्तिः
३०४. शयु: (पुं) (भृमृशी १.७ इति उ:) शीङ्स्वप्ने अ/आ/से +उ:) शेते इति शयुः= अजगरः । (त्रि) शयानः ।, ३०५. मयुः (पु) (भृमृशी - १.७ इति उ:) (डुमिञ् प्रक्षेपणे स्वा/उ/अ +उः) किन्नरः । मृगः (वि), ३०७. मृगयुः (पुं) (मृगय्वादयश्च - १.३७ इति कुः) (पाप्रापणेअ/प/अ +कु:) मृगं हन्तुं यातीति मृगयुः = व्याधः (मे) (वि) । गोमायुः (मे) (वि), ब्रह्मा (मे)(वि), ३०८. देवयुः (त्रि) (मृगय्वादयश्च - १.३७ इति कु:) (या प्रापणे अ/प/अ +कु:) देवं यातीति उपास्यत्वेन प्राप्नोतीति देवयुः = धार्मिकः (मे)! (पुं) देवः।३०४. शयुः मरुर्धन्वनि शैले च भवेदजगरे शयुः । १.११०३०५. मयुः मयुस्तुरङ्गवदने मृगेऽपि परिकीर्तितः । १.११४३०६.(वियुः) पीयुःपीयुः कालो रवौ घूके सुवर्णे वामनेऽपि च । १.२४३३०७. मृगयुः मृगयुर्ब्रह्मणि ख्यातो गोमायुव्याधयोरपि । १.२४५ ३०८.३११.देवयुः,मित्रयु: देवयुर्धार्मिके ख्यातो मित्रयुः सज्जने मुनौ । १.२४५अध्वर्युर्याजके सूर्ये चन्द्रे शेखरचित्तयोः ।
108 · p. 54
अनुष्टुप्metre not read in every line
।। इति यान्ताः ।।
कारुरिन्द्रे शिल्पकारे विश्वकर्मशिवादिके ।८ दारु काष्ठे महाकाले भेद्यमात्रे महाक्रतौ ।भरुभर्तरि धर्मे च स्वामिचित्तखगादिके । ३१५मरुर्गिरौ जलाभावदेशे दैत्ये च पापिनि ।
109 · p. 55
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
३११. मित्रयुः (पुं) (मृगय्वादयश्च - १.३७ इति कु:) (या प्रापणे अ/प/अ+कु:) मित्रं यातीति मित्रयुः = हितैषी । लोमहर्षणशिष्यः, गोमायुः (मे) (वि), व्याध: (में) (वि), ब्रह्मा (मे)(वि), ३१३. कारु: (पुं) (कृवापाजिमिस्वदिसाध्यशूभ्य उण- १.१ इति उण्) डुकृञ् करणे त/उ/ अ+उण्) करोतीति कारुः = शिल्पी । (पुं) विश्वकर्मा ।, ३१४. दारु (न) (दॄसनिजनिचरिचटिभ्योञुण् - १.३ इति ञुण्) (दॄ विदारणे भ्वा/प/से+ञुण्) दीर्यत इति दारु = काष्ठम् । (त्रि) शिल्पी,दाता, दारकः देवदारु, पित्तलम् ।, ३१५. भरुः (पुं) (भृमृशीतॄचरित्सरितनिधनिमिमस्जिभ्य उः –१.७ इति उ:) (डुभृञ् धारणपोषणयो: जु/उ/अ, भृञ् भरणे भ्वा/उ/अ+उ:) भरति बिभर्तिजगदिति भरुः = विष्णुः । (पुं) समुद्रः, स्वामी, स्वर्णम् (मे), शिवः (मे), भर्ता (हे), विष्णुः (हे) ३१६, मरु: (पुं) (भृमृशी - १.७ इति उः) (मृङ् प्राणत्यागे तु/आ/अ+उः) म्रियन्ते अस्मिन् जलाभावेन प्राणिनः इति मरुः = निर्जलदेशः (मे) । पर्वत:, धन्वा, मरुवकवृक्षः, वसूनामन्यतमः, सूर्यवंशीय-भालिराजविशेषः ।
110 · p. 55
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
३१३. कारु: कारुः शिल्पीन्द्रयोशिशल्पे कारके विश्वकर्मणि । १.१८३१४. दारुः पुन्नपुंसकयोर्दारुरिन्धने परिकीर्तितः ।दार्वाघाट: पक्षिभेदे दाराव हन इत्यतः ॥ १.९५३१५. भरुः भरुस्तु काञ्चने शम्भी स्वामिन्यपि निगद्यते । १.१०९३१६. मरुः मरुर्धन्वनि शैले च भवेदजगरे शयुः । १.११०तरुर्वृक्षे प्लवे मत्स्ये जलजन्तौ सुमोक्षके ।चरुः पूते च पाके च चरमात्रे रवावपि ।त्सरुः खड्गैकदेशे स्याद्वारावाणे मनोहरे ।शरुः खड्गे शरे क्रोधे पापिष्ठे दैत्यकीलयोः । ३२०स्वरुर्बाणादिके मेघे सूर्यादौ घातुकादिके ।बभ्रुस्तु पिङ्गले विष्णौ नकुलेऽपि बिडालके ।
111 · p. 55
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
३१७. तरुः (पुं) (भृमृशी - १.७ इति उः) (तॄप्लवनतरणयो: भ्वा/प/से+उः) तरन्ति नरकमनेन रोपकाः इति तरुः = वृक्षः । तारकः, तरुविकारः ।, ३१८. चरु: (पुं) (भृमृशी १.७ इतिउः) (चर भक्षणे भ्वा/प/से+उ:) चरन्ति भक्षयन्ति देवता इममिति चरुः = हव्यान्नम् (मे)। हव्यान्नपाकभाण्डम् (मे), ३१९. त्सरु: (पुं) (भृमृशी … १.७ इति उ:) (त्सरछद्मगतौ भ्वा/प/से+उ:)त्सर्यतेऽसै इति त्सरुः = खड्गादिमुष्टि: १ सर्पः ।, ३२०. शरु: (पुं) (शॄस्वृस्निहि - १.१ इति उ:)(शॄ हिंसायां क्र्या/प/से +उ:) शीर्यते येनेति शरुः = आयुधम् । क्रोधः(है), वज्रम् (हे), बाणः (हे),गन्धर्वविशेषः (हे), हिंसा, (त्रि) हिंसकः।, ३२२. बभ्रुः (पुं) (कुर्भ्रश्च - १.२२ इति कु:) (डुभृञ् भरणे जु/उ/अ+उ:) बिभर्ति भरति वेति बभ्रुः। शिवः (मे), विष्णुः (मे), अग्निः (मे), (ध.को)नकुल. (मे) (ध.को), विशालः (मे), मुनिविशेष: (धरणीकोषः), देशभेदः, खलतिः, कपिलवर्णः, लोमपादसुतः, देवावृधसुत:- विश्वामित्रपुत्रभेदः (स्त्री) कपिलागौः, (त्रि) पिङ्गल: (मे) (ध)
112 · p. 56
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
३१७,३१८. तरुः,चरु: तरुर्वृक्षे चरु: स्थाल्यां तत्स्थत्वादोदनेऽप्ययम् । १.११०३१९. त्सरु: त्सरुः खड्गादिमुष्टौ स्यात्तनुः स्त्री स्याद्वपुस्त्वचोः । १.१११३२०. शरुः शरुः पुंस्यायुधे कोपे शरव्यं शरवे हितम् । १.१२०३२१. स्वरुः स्वरुर्वर्ज्रऽपि यूपांशे विशिखेऽप्यध्वरेऽपि च । १.१२१३२२. बभ्रुः बभ्रुरग्नौ च खलतौ विष्णौ रुद्रे बिडालके ।विशाले नकुले पुंसि पिङ्गले त्वभिधेयवत् ॥ १.१७१पुरुस्तु धर्म लोकः स्याद्राज्ञियोग्यसमुद्रयोः ।कुरुर्देशे क्षत्रिये च मुनावेकत्र सुन्दरे ।हरिद्रुर्वृक्षभेदे स्यान्मृगभेदे खगादिके । ३२५मित्रद्रुस्तु समुद्रे स्यान्मृधुपे यमदैत्ययोः ।शतद्रुस्तु नदेऽब्धौ च लवणे यमवारिणोः ।खरुस्तु पुरुषे जन्तौ परमात्मनि च शङ्करे ।
113 · p. 56
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
३२३. पुरुः (पुं) (पॄभिदि - १.२३ इति कुः) (पॄपालनपूरणयो: जु/प/से+कु:) पिपर्तिपूर्यते वेति पुरुः = देवलोकः । ययातिपुत्र: (मे), परागः (मे), दैत्यः (त्रि), नदीभेदः, पर्वतभेदः, शरीरम्, प्रचुरम्, प्राज्य: (मे), ३२४. कुरुः (पुं) (कॄग्रोरुच्य - १.२४ इति कु:) (डुकृञ् करणे त/उ/अ कुः) करोति पूजादिकमिति कुरुः = पुरोहितः । अग्नीध्रराजपुत्रः, देशविशेषः, भक्तः ।,३२५. हरिद्रुः (पुं) (हरिमितयोर्द्रुवः - १.३४ इति कु:) (द्रु गतौ भ्वा/प/अ कुः) हरिभिः द्रूयतइति हरिद्रुः = वृक्षविशेषः । दारुहरिद्रा ।, ३२६. मित्रदुः (मितद्रुः) (पुं) (हरिमितयोर्द्रुवः - १३४ इति कु:) (द्रु गतौ भ्वा/प/अ+कु:) मितं द्रवतीति मितद्रुः = समुद्रः । मितमार्गः, (त्रि) परिमितगतिः ३२७. शतद्रुः (स्त्री) (शते च - १.३५ इति कु:) (शत + द्रु गतौ भ्वा/प/अ +कु:) शतधाद्रवतीति शतद्रुः = नदीविशेषः ।
114 · p. 57
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
३२३. पुरुः नृपभेदे परागे च देवलोके पुरुः पुमान् ।धर्मे शीले जलनिधौ स्यात्प्राज्ये त्वभिधेयवत् ॥ १.१७४३२५. हरिद्रुः वृक्षे दारुहरिद्रायां हरिद्रुस्तापसान्तरे । १.२३१३२६. मित्रद्रुः मितद्रुशब्दस्तु पुमान् कथितो वरुणालये । १.२३४३२७. शतद्रुः शतद्रुस्तु नदीभेदे लवणेऽपि च कथ्यते । १.२३५३२८. खरुः खरुर्दन्ते हरे दर्पे हये कामे च पुंस्यथ ।वाच्यलिङ्गः क्रूरमूर्खश्वेतेषु परिकीर्तितः ॥ १.२४०मन्दुरा वाजिशालायां मङ्गलादौ फलादिके ।स्वाप्नलावण्यमार्गादिशङ्करादिखगादिके । ३३०वाशुरा रात्रिजीमूतझिल्लीपत्रखगादिके ।चतुरो दक्षरक्षादिमुन्यादिवरणादिके ॥चङ्कुरो भूधरे रम्ये मण्यादावपि माधवे ।अङ्कुरोऽन्वयजीवात्मबीजभाग्यसुरादिषु ॥
115 · p. 57
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
३२८. खरुः (पुं) (खरुशङ्कु - १.३६ इति कु:) (खनु अवदारणे भ्वा/उ/से+कु:)खनति शरीरमिति खरुः = कामदेवः (वि.त्रि), ३२९. मन्दुरा (स्त्री) (मन्दिवासि - १.३८ इति उरच्) (मदि स्तुत्यादौ भ्वा/आ/से+उरच्) मन्दन्ते स्वपन्ति मोदन्ते वा अश्वा यत्रेति मन्दुरा =वाजिशाला (मे), ३३१. वाशुरा (स्त्री) (मन्दिवाशि - १.३८ इति उरच्) (वाशृ शब्दे दि/आ/से +उरच्) वाश्यन्ते जन्तवः अस्यामिति वाशुरा = रात्रिः (मे) (हे) । गर्दभः (मे) (हे), करिणी ।,३३२. चतुरः (त्रि) (मन्दि वाशि - १.३८ इति उरच्) (चते याचने भ्वा/उ/से+उरच्) चत्यते याच्यते इति चतुरः = निपुणः। नेत्रगोचरः, उपभोगक्षमः, (पुं) चक्रगण्डुः, वक्रगतिः ।,३३३. चङ्कुरम् (न) (मन्दिवाशि - १.३८ इति उरच्) (चङ्क गतौ इति सौत्रोधातुः) चङ्कति सर्वतो भ्रमति येन इति चङ्कुरम् = प्रयाणसाधनम् । (पुं) रथः (मे), वृक्षः ।, ३३४. अङ्कुरः (पुं)(मन्दिवाशि - १.३८ इति उरच्) (अकि लक्षणे भ्वा/आ/से+उरच्) अङ्कयतीत्यङ्कुरः =बीजोद्भवः । जलम् (मे), रक्तम् (मे), लोम (मे);cऔणादिकपदार्णवः}३२९. मन्दुरा मन्दुरा वाजिशालायां शयनीयेऽपि वेश्मनि । १.२५५मन्दुरायां तु जातो यस्तत्र मन्दुरजस्त्रिषु ।३३१. वाशुरा वाशुरा वासितारात्र्योः पुंसि त्वेष खरे शुनि । १.२५७३३२. चतुरः दक्षे धीरे च चतुरो भावे ष्यञिह चेद्भवेत् । १.२५८३३३. चङ्कुरः चङ्के: सौत्राच्चङ्कुरः स्यात् वृक्षे दैत्ये रथेऽपि च ।विथुरो राक्षसे रात्रिसभये यमदैत्ययोः । ३३५८a मुकुरो दर्पणे मेघे मत्स्ये पुष्पे निमीलिते ।दर्दुरो श्वा च मण्डूक: कामी गोमायुरित्यपि ॥असुरो दैत्यनावाङ्गदुष्टलोकपुरादिके ।मसुरो धान्यभेदे स्यात्पुण्यं स्त्रीपरमात्मनोः ॥
116 · p. 58
अनुष्टुप्metre not read in every lineLatin letters: cLatin letters: a
तरलाव्याख्या
उणादिनिष्पत्तिः
३३६. मुकुरः (पुं) (मुकुरदर्दुरौ - १.४ इति उरच्) (मकि मण्डने भ्वा/आ/से+उरच्) मङ्कते अलङ्करोति येन सः मुकुरः = दर्पणः । वकुलद्रुमः । कुलालदण्डः, मल्लिकालता,कोरकः, Note:- मकुरः इत्यस्य उपधायाः उकारपक्षे मुकुरः ।, ३३७. दर्दुरः (पुं) (मुकुरदर्दुरौ –१.४ इति उरच्) (दॄ विदारणे क्र्या/प/से+उरच्) दृणाति कर्णै शब्देनेति दर्दुरः = भेकः । मेघः, वाद्यभाण्डभेदः, पर्वतविशेषः, राक्षसः, अभ्रकधातुभेदः, (स्त्री) दृणाति दारयति वा असुरानितिदर्दुरा = चण्डिका ।, ३३८. असुरः (पुं, स्त्री) (असेरुरन् - १.४२ इति उरन्) (असु क्षेपणे दि/ प/से+उरन्) अस्यति ।, देवान् क्षिपतीति असुरः = दैत्यः । सूर्यः, राहुः ।, ३३९. मसूरः (पुं, स्त्री)(मसेरूरन् - ५.३ इति ऊरन्) (मसी परिणामे दि/प/से ऊरन्) मस्यति परिणमतीति मसूरा =वेश्या । व्रीहिभेदः, उपधानम् (मे), (स्त्री) पादरोगः ।
117 · p. 59
अनुष्टुप्metre not read in every lineLatin letters: Notenearly अनुष्टुप्: pāda 1, syllable 6 ख (wrong syllable)
आणादिकपदार्णवः
३३४. अङ्कुर: अङ्कुरो रुधिरे रोम्णि पानीयेऽभिनवोद्भिदि ।दीर्घमध्योऽपि खजूरादिष्वङ्कूरो निगद्यते ॥ १.२६१३३५. विथुरः विथुरस्तु प्रविश्लेषे विकले चोररक्षसोः । १.२६३३३६. मुकुरः कुलालदण्डे मुकुरोऽप्युत्वे बाहुलकादिह । १.२६५३३७. दर्दुरः दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः ।दर्दुरा चण्डिकायां च ग्रामजाले च दर्दुरम् ॥ १.२६५३३८. असुरः असुरो दानवे सूर्ये प्रज्ञाद्यण्यासुरोऽपि च । १.२७२३३९. मसुरः मसुरः पुंसि वा व्रीहिभेदे स्त्री पण्ययोषिति ।मसूरः पञ्चमे पादे दीर्घमध्योऽपि वक्ष्यते । १.२७६श्वशुरो दम्पती पिता रम्यश्चन्द्रः शिखामणिः । ३४० इषिरोऽग्निमयूरार्यकाममानुषजन्तुषु ।मदिरा भूमिगौरीशसुराकान्तापुरादिषु ।मुदिरो मेघदेवेशफालाक्षरविभूतिषु ।चिदिरो भानुचन्द्राग्निदिनमूषकजन्तुषु ।छिदिरोऽग्निर्मयूरश्च बलशस्त्रखगादिके । ३४५
118 · p. 59
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
३४०. श्वशुरः (पुं) (शावशेराप्तौ - १.४४ इति उरन्) अशू व्याप्तौ स्वा/आ/से +उरन्) आशु आप्तव्यः । पतिपत्न्योः पिता (अ), Note:-"आश्वाप्तव्यः श्वशुरः" इति महाभाष्ये एकशेषप्रकरणे ।, ३४१. इषिरः (पुं) (इषिमदिमुदि - १.५१ इति किरच) इषु इच्छायाम् तु/प/ से-किरच्) इष्यति इच्छति यमिति इषिरः = अग्निः (मे) । आहारः (मे), गतिशीलः, (स्त्री) भूमिः(मे) ।, ३४२. मदिरा (स्त्री) (इषिमदिमुदि - १.५१ इति किरच्) (मदी हर्षे दि/प/से+किरच्) माह्यत्यनयेति मदिरा = मादकद्रव्यविशेषः(मे) । वसुदेवपत्नी, (पु) रक्तखदिरः ।, ३४३. मुदिरः(पुं) (इषिमदिमुदि - १.५१ इति किरच्) (मुद हर्षे भ्वा/आ/से+किरच्) मेदन्तेऽनेन प्रजा इतिमुदिरः = मेघ: (वि, मे) कामुकः (वि, मे), भेकः ।, ३४४. खिदिरः (पुं) (इषिमदिमुदि - १.५१इति किरच्) (खिद दैन्ये दि/आ/अ-किरच्) खिद्यते कृष्णपक्षेण इति खिदिर: = चन्द्रः। दीन:,तापसः ।, ३४५. छिदिरः (पुं) (इषिमदिमुदि - १.५१ इति किरच्) (छिदिर् द्वैधीकरणे रु/उ/अ+किरच) छिद्यतेऽनेनेति छिदिरः = करवालः । परश्वधः (वि. मे) पावकः, रज्जुः ।
119 · p. 60
अनुष्टुप्metre not read in every lineLatin letters: Note
औणादिकपदार्णवः
३४०. श्वशुरः दम्पत्योस्तु पिताऽन्योन्यं तयोः श्वशुर उच्यते । १.२७७३४१. इषिरः इषिरस्तु भवेद्वह्ना वाहारेऽप्येष विश्रुतः । १.२८७३४२. मदिरा स्त्रियां तु मदिरा मद्ये पाने मत्ते तु वाच्यवत् । १.२८८ ३४३,३४४.मुदिरः,खिदिर: मुदिरः कामुके मेघे खिदिरस्त्रसचन्द्रयोः।१.२८८३४५. छिदिरः छिदिरः पावके रज्जौ खड्गे रन्ध्रे परश्वधे । १.२८९भिदिरं वज्रमूर्त्योः स्यान्मन्दिरं गृहजन्तुषु ।चन्दिरो गजचन्द्राश्ववनितापालकादिषु ॥तिमिरस्तु मुनीन्द्वोश्च मेघमानसवारिषु ।मुहिरो मूर्खकामार्यचित्तशम्भुहरादिषु ॥मिहिरः सूर्यचन्द्राग्निसज्जनार्यखगादिषु । ३५०मुचिरं ज्ञानवैराग्यमोक्षमेघहरादिषु ।
120 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्