औणादिकपदार्णवः
७७६.गर्दभः गर्दभः श्वेतकुमुदे गण्डभेदेऽपि रासभे । ३.३५६ क्षुद्रजन्तुप्रभेदेऽपि रोगभेदेऽपि कथ्यते ।७७८.ऋषभः ऋषभः स्वरभेदे स्यात् अष्टवौषधे वृषे ।श्रेष्ठार्थे च वराहस्य पुच्छे रन्ध्रे च कर्णयोः । ३.३५७७७९. वृषभ: वृषभः पुरुषश्रेष्ठे वृषेऽपि परिकीर्तितः । ३.३६०७८०. लुष श?>भ: गन्धहस्तिनि हिंस्रे च लुषभः परिकीर्तितः । ३.३६१रासभः पुण्यकरणपूर्णजन्तुपरादिषु ।सुमः शिरीषपुष्पाण्डवृषवारिददेहिषु ॥मध्यमश्चमने दक्षे महादेवे भवादिके ।श्रवाय्यो यज्ञभागे स्याद्यागपश्वादिकेऽपि च ॥मधुपे माधवे शम्भौ कुलीरे पावनादिके । 785दक्षाय्यो ग्रन्थचातुर्यपूरुषाभ्रखगादिषु ।दधिषाय्य: पयःपूरे घृते मुद्गविरुद्धयोः ॥पूरुषे वमितद्रव्ये मणिते पूर्णकर्मणि ।स्तुवक्षिय्यः पशुपतौ गोमूलेन्द्रसुरादिषु ॥
241 · p. 121
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
७८०. लुषभः (पुं) (रुषेर्निल्लुष्च - ३.१२४ इति अभच्) (रूष हिंसायाम् भ्वा/प/ से+अभच्) रोषतीति लुषभः = मत्तहस्ती ।, ७८१. रासभ: (पुं) (रासिवल्लिभ्याञ्च - ३.१२५ इतिअभच्) (रासृ शब्दे भ्वा/आ/से। अभच्) रासते शब्दायते इति रासभः = गर्दभः ।, ७८४.श्रवाय्यः (पुं) (श्रुदक्षिस्पृहि - ३.९६ इति आय्यः) (श्रु श्रवणे भ्वा/प/अ+आय्यः) श्रावयतीति श्रवाय्यः = बलियोग्यपशुः ।, ७८६. दक्षाय्यः (पुं) (श्रुदक्षिस्पृहि - ३.९६ इति आय्यः) (दक्ष वृद्धौभ्वा/आ/से+आय्य:) दक्षते वर्धत इति दक्षाय्यः = गरुडः । गृध्रः, (त्रि) वर्धकः ।,
242 · p. 122
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
७८१. रासभ: रासभस्तु प्रकथितः चक्रीवति विशारदैः । ३.३६१७८४. श्रवाय्यः श्रवाय्यस्तु स्मृतोऽध्वयौं श्रवणीये क्रतौ पशौ । ३.३०२७८६. दक्षाय्यः दक्षाय्यो गरुडे गृध्रखगे दक्षतरेऽपि च । ३.३०२छित्वरः शङ्करे दैन्यजीविते मरुतादिषु । 790छत्वर: परमप्रीतवेदमेरुग्रहादिषु ।धीवरो मत्स्यघातार्यमणिभद्रार्भकादिषु ।पीवरः कपिमातङ्गजलराशिप्रभादिषु ।मीवरः पशुदौर्भाग्यपृथुरोगाक्षिखादिषु । 79518 चीवरं भिक्षुकावासवारिनाथरवादिषु ।तीवरो म्लेच्छपुष्पारपुण्यगोभूवृषादिषु ।
243 · p. 122
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्यत्तिः
७९०. छित्वरः (त्रि) (छित्वरछत्वर - ३.१ इति ष्वरच्) (छिदिर् द्वैधीभावे रु/उ/ अ+ष्वरच्) छिनतीति छित्वरः = छेदनद्रव्यम् । धूर्तः (मे), वैरी(मे) ।, ७९१. छत्वरः (पुं) (छित्वरछत्वर- ३.१. इति ष्वरच्) (छद अपवारणे चु/उ/से+ध्वरच्) छादयति अपवारयति वर्षादिकमितिछत्वरः = गृहम् । कुञ्जः ।, ७९२. धीवरः (पुं) (छित्वरछत्वर - ३.१ इति ष्वरच्) (डुधाञ् धारणपोषणयोः जु/उ/अ+ध्वरच्) दधाति मत्स्यानिति धीवरः = कैवर्तः। (स्री) धीवरपत्नी ।,७९३. पीवरः (त्रि) (छित्वरछत्वर - ३.१ इति ष्वरच्) (ओप्यायी वृद्धौ भ्वा/आ/से+ष्वरच्)पीवते प्यायते वा पीवरः = पीनः । मुनिभेदः, कच्छपः (मे) ।, ७९४. मीवरः (त्रि) (छित्वरछत्वर- ३.१ इति ष्वरच्) (मीञ् हिंसायाम् क्रया/उ/अ+ष्वरच्) मीनाति हिनस्तीति मीवरः = हिंस्त्रः ।७९५. चीवरम् (न) छित्वरछत्वर - ३.१. इति ष्वरच्) (चिञ्चयने स्वा/उ/अ+ष्वरच्चीयते तन्तुसन्तानैरिति चीवरम् = भिक्षुकवस्त्रम् ।
244 · p. 123
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
७९०. छित्वरम् छित्वरं छेदनद्रव्ये धूर्ते वैरिणि च त्रिषु । ३.१७९१,७९२. छत्वरम्,धीवरः छत्वरं कञ्जगृहयोः कैवर्ते धीवरः स्मृतः । ३.१७९३,७९४. पीवरः,मीवरः पीवर: कच्छपे स्थूले मीवरो हन्तुमानिनोः । ३.२७९५. चीवरम् भिक्षुकाणां प्रावरणे चीवरं स्यान्नपुंसकम् । ३.२७९६. तीवरः तीवरो ना जलनिधौ व्याधेऽपि परिकीर्तितः । ३.३नीवरो भूपदेवेन्द्रशम्भुमुक्तादिकादिषु ।गह्वरः पुरुषाहूते निकुञ्जाभ्रकरादिषु ।कट्परः स्त्रीवस्त्रभेदद्रव्यमायाविकारिषु ।संयद्वरः पुरप्रेतदेहमोहस्वरादिषु । 800अमत्रं भाजने चैत्ये प्रासादे वामनादिके ।
245 · p. 123
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
७९६. तीवरः (पुं) (छित्वरछत्वर - ३.१ इति ष्वरच्) (तॄ प्लवनतरणयो: भ्वा/प/ से+ष्वरच्) तीर्यत इति तीवरः = समुद्रः (मे), व्याधः (मे), वनिजक: (मे) (वि,प्र), वर्णसङ्करजातिविशेषः (स्त्री) तीवरी ।, ७९७. नीवरः (पुं) (छित्वरछत्वर - ३.१ इति ष्वरच्) (णञ् प्रापने भ्वा/उ/अ+ष्वरच्) नयत्यात्मानं यत्र कुत्रचित् देहयात्रानिष्पादनायेति नीवरः =भिक्षुः । वणिजकम्, वास्तव्यम्, पङ्कः, (न) जलम् ।, ७९८. गह्वरम् (न) (छित्वरछत्वर - ३.१इति ष्वरच्) (गाहू विलोडने भ्वा/आ/वे +ष्वरच्) ग्राह्यते इति गह्वरम् = गुहा । वनम्, रोदनम्, विषमस्थानम्, अनेकार्थसङ्कुलम्, (पुं) निकुञ्जः, (त्रि) गहनम् ।, ७९९. कट्वरम्,/b> (न) (छित्वरछत्वर- ३.१ इति ष्वरच्) (कटे वर्षावरणयोः भ्वा/प/से+ष्वरच्) कटति वर्षति रसान्तरमिति कट्वरम्= दधिरसः । व्यञ्जनम्, तक्रम् ।, ८००. संयद्वरः (पुं) (छित्वरछत्वर - ३.१ इति ष्वरच्) (यम उपरमेभ्वा/प/अ+ष्वरच्) संयच्छतीति संयद्वरः = नृपः ।, ८०१. अमत्रम् (न) (अमिनक्षिय - ३.१०५ इति अत्रन्) (अम गत्यादिषु भ्वा/प/से+अत्रन्) अमति भुङ्क्ते अन्नमत्रेति अमत्रम् = पात्रम् ।
246 · p. 124
अनुष्टुप्metre not read in every lineLatin letters: b
औणादिकपदार्णवः
७९७. नीवरः स्यान्नीवरो वाणिजके वास्तवे जटिलेऽपि च । ३.३७९८. गह्वरः गह्वरस्तु गुहादम्भनिकुञ्जभवनेषु च । ३.४७९९. कट्वरम् कट्वरं कुत्सिते वाच्यलिङ्गं तक्रे नपुंसकम् । ३.४८००. संयद्वरः संयद्वरः स्मृतोऽनूपे कैश्चिदुक्तो द्वितीयपः । ३.५८०१. अमत्रम् अमत्रं भाजने क्लीबमृक्षे नक्षत्रमुच्यते । ३.३११परिपूर्णे महादेवे प्रयत्नाकरवारिषु ।नक्षत्रं भरजोवीरदैत्यक्षत्रियभादिषु ।यजत्रं योक्त्रपाषाणशम्याफालाक्षजन्तुषु ।वरणे माधवे देहे परिपूर्णादिकेऽपि च । 805बन्धत्रं बा(भा?)स्वरायत्तमर्मघातादिकेऽपि च ।मधूकमुरवैद्याञ्जनादिकादिषु कर्मठे ॥गलत्रं च कलत्रं च क्रूरभार्याविहारिषु ।श्रोणिवामनाभ्यामसमर्मवारिदभादिषु ॥वरत्रा जगदुत्पातगजबन्धकदेहिषु । 810
247 · p. 124
अनुष्टुप्metre not read in every line
उणादिनिष्यत्तिः
८११. सुविदत्रम् (त्रि) (सुविदेः कत्र: - ३.१०८ इति कत्रः) (विद ज्ञाने/अ/प/से कत्रः) सुष्ठु वेद्यते इति सुविदत्रम् = कुटुम्बः ।, ८१२. अररम् (त्रि) ( अर्तिकमिभ्रमि - ३.१३२ इति अरः)(ऋ गतौ भ्वा/प/अ+अरः) ऋच्छति गच्छति यस्मात् तदररम् = कवाटम् । कवाटम् (पुं)चुरिकाभेदः, युद्धम्, यज्ञाङ्गम् ।, ८१५. कमरः (पुं) (अर्तिकमिभ्रमि - ३.१३२ इति अरः) कर्मुनान्तौ भ्वा/आ/से+अरः) कामयते असाविति कमरः = कामुकः ।, ८१७. चमरः (पुं) (अर्तिकमिभ्रमि- ३.१३२ इति अरः) (चमु अदने भ्वा/प/से+अर:) चमति भक्षयतीति चमरः =चमरगौः । दैत्यभेदः ।, ८१८. भ्रमरः (पुं) (अर्तिकमिभ्रमि - ३.१३२ इति अरः) (भ्रमु चलने भ्वा/प/से+अर:) भ्रमति प्रतिकुसुममिति भ्रमरः = मधुपः (मे) । कामुकः (मे) ।
248 · p. 125
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
८१५. कमरः कमरः कोमले बाले कामुकेऽपि प्रकीर्तितः । ३.३७९८१७. चमरम् चमरं चामरे स्त्री तु मञ्जरीमृगभेदयोः । ३.३८०८१८. भ्रमरः भ्रमरः कामुके भृङ्गे स्यादप्येष मधुद्रवे । ३.३७९पतिभ्रातरि वानीरे वारे भावे महाक्रतौ । 820वाशरः कुजने मूर्खे दुःखार्ते प्रबलादिषु ।मधुसूदनहेमाङ्गशङ्करादिषु पूरुषे ॥वासर: कुटिले काले विषवैद्ये महीधरे ।वस्त्रभेदे विरावे च पशुनाथे जगत्पतौ ॥कुरर: पक्षिभेदे स्यादसारे मोहनेऽपि च । 825गरुडे कुक्कुटे श्वभ्रे वारिदे शावभेदके ।अङ्गारश्चन्द्रशैवालकाष्ठभेदजवादिषु ।
249 · p. 125
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
तरलाव्याख्या
उणादिनिष्यत्तिः
८१९. देवरः (पुं) (अतिकमिभ्रमि - ३.१३२ इति अरः) (दिवु क्रीडादौ दि/प/से+अरः) दीव्यत्यनेनेति देवर: = पत्यु: कनिष्ठभ्राता । विधवाया: द्वितीयः पतिः ।, ८२३. वासरः (पुं, न)(अर्तिकमिभ्रमि - ३.१३२ इति अरः) (वस निवासे चु/उ/से+अरः) वासयतीति वासरः =दिवसः । (पुं) नागप्रभेदः । ८२५. कुररः (पुं) (कुवः क्ररन् - ३.१३३ इति क्ररन्) (कु शब्दे अ/ प/अ+क्ररन्) कौति शब्दयतीति कुरर: = कुरलपक्षी । क्रौञ्चः, मेषी ।, ८२७. अङ्गारः (न) (अङ्गिमदिमन्दिभ्य आरन् - ३.१३४ इति आरन्) (अगि गतौ भ्वा/प/से+आरन्) अङ्गति नाशंगच्छति तत् (निरग्नि साग्नि च) अङ्गारः = दग्धकाष्ठखण्डम् । उल्मुकम् (मे), (पुं) मङ्गलग्रहः (मे)
250 · p. 127
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
८१९. देवरः देवरस्तु बुधैर्भर्तुः कनिष्ठभ्रातरि स्मृतः । ३.३८१ ८२१,८२३.वाशरः,वासरः वासरो दिवसे रागे वस्रभेदे हुताशने ।अयं तु. वसतेर्ण्यन्ताद्गदितो दन्त्यमध्यमः । ३.३८२केचिद्द्वाशीति तालव्यं पठित्वा शब्दवाचिनः ।वाश्यतेर्वाशरं प्राहु: कोकिलज्वलनार्थकम् । ३.३८३८२५. कुररः कुरर: कथितो धीरः उत्क्रोशाख्ये विहङ्गमे । ३.३८४मदारश्चापि मन्दार: पुण्यभूगृहयोनिषु ।पारिभद्रकदेवेन्द्रभूपगोपादिकेऽपि च ।भृङ्गारश्चम्पके देवे काञ्चनाम्बरदैत्ययोः । 830भोज्यपात्रे विशुद्धे च कुम्भश्वेताश्वरोरिषु ।शृङ्गार: पन्नगे शम्भौ रसभेदे महात्मनि ॥कञ्जारः शैवभेदे स्यादविद्यामोहकेऽपि च ।जले ग्रहे विशुद्धादौ विपुलादौ महेश्वरे ॥
251 · p. 127
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
८२८. मदारः (पुं) (अङ्गिमदिमन्दिभ्य आरन् - ३.१३४ इति आरन्) (मदी हर्षे दि/ प/से+आरन्) माद्यति मत्तो भवतीति मदारः = हस्ती (मे) । सूकरः ।, मन्दार: (पुं) (अङ्गिमदिमन्दिभ्यआरन् - ३.१३४ इति आरन्) (मदि स्तुत्यादौ भ्वा प/आ/से+आरन्) मन्द्यते स्तूयते प्रशस्यतेवेति मन्दारः = मन्दारवृक्षः । देवतरूविशेष: (श) पारिभद्रवृक्षः (श), अर्कवृक्षः (श) हस्ती(श), धूर्त:(श), तीर्थविशेषः (श), ८३०. भृङ्गारः (पुं) (शृङ्गारभृङ्गारौ - ३.१३६ इति आरन्, नुम्, गुक्)(डुभृञ् धारणपोषणयोः जु/उ/अ+ आरन्, नुम्,गुक्) बिभर्ति पुष्यतीति भृङ्गारः = स्वर्णघटितवारिपात्रम् । भृङ्गराजः, (न) लवङ्गम्, सुवर्णम्, (स्त्री) झिल्लिका ।८२७. अङ्गार: अङ्गार उल्मुके न स्त्री पुंलिङ्गस्तु महीसुते । ३.३८४८२८. मदारः वराहे पानशौण्डे च मदारो न द्वयोर्मणौ ।ईदिद्दैवादिको हर्षार्थको नास्यनुमस्त्यतः । ३.३८५८२८. मन्दार: मन्दारस्तु भवेन्मन्देः स्तुत्याद्यर्थानुमन्वितः ।पारिभद्रेऽर्कपर्णे च सुरद्रौ हस्तिधूर्तयोः । ३.३८६८३० भृङ्गारी भृङ्गारी झिल्लिकायां स्त्री कनकालौ पुमानसौ । ३.३८७८३२. शृङ्गारः शृङ्गारः सुरते नाट्ये … (रसे च गज) मण्डने ।नपुंसकं लवङ्गेऽपि नागसंभवचूर्णयोः । ३.३८८मार्जारः प्रतिपाषण्डढङ्कब्रह्माण्डदेहिषु । 835जन्तौ शरीरकान्त्यादिपुरुहूतप्रियादिषु ।कुमारः प्रथमे वायौ महादेवे पृथुव्रते ॥गृहे च मन्मथे हेमव्योमनामादिकेऽपि च ।तरि रश्वे महादेवे माधवेऽपि विचण्डके ॥नौकाम्बरार्यफूत्कारवरान्नप्रणतादिषु । 840स्तरिर्यावे महाकाले कराले पापचिन्तके ।19 दुर्विनीते बन्धुहीने विहीने चतुरादिषु ।
252 · p. 128
अनुष्टुप्metre not read in every line
तरलाव्याख्या
मार्जारः । √कमु कान्तौ आरन्प्रत्ययः । किच्च उपधायाश्चोकारः कुमारः । √तॄ प्लवनेइरिः प्रत्ययः । तरिः । √स्त्यिङ् आच्छादने इत्प्रत्ययः तरिः ।
253 · p. 129
अनुष्टुप्metre not read in every line
उणादिनिष्यत्तिः
८३३. कञ्जारः (पुं) (कञ्जिमृजिभ्यां चित् - ३.१३७ इति आरन्) (कञ्जिः सौत्र:+आरन्)कञ्जति रौतीति कञ्जारः = मयूरः । जठरम्, विरिञ्चिः, गजः, मुनिः व्यञ्जनम्, अर्कवृक्षः ।, ८३५. मार्जार:(पुं) (कुञ्जिमृजिभ्यां चित् - ३.१३७ इति आरन्) (मृजू शुद्धौ अ/प/वे आरन्) मर्ष्टि मुखमितिमार्जारः = बिडालः । रक्तचित्रकः, खट्वाङ्गः (वि,मे), ८३७. कुमारः (पुं) (कमे: किदुच्चोपधाया: -३.१३८ इति आरन्, उः) कमु कान्तौ भ्वा/आ/से+आरन्, उ:) काम्यत इति कुमारः = बालः । राजकुमारः (मे), शुकः (मे) अश्वशावक: (मे) वरुणवृक्षः सिन्धुनदः, मङ्गलग्रहः, स्वरभेदःगङ्गानदी (स्त्री), ८३९. तरिः (स्त्री) (अच इ: ४.१३८ इति इ:) (तॄ प्लवनतरणयोः भ्वा/प/से+इ:)तरत्यनयेति तरिः = नौका । दशा, वस्त्रादिपेटकः ।, ८४१. (स्तरिः) स्तरी: (स्त्री) अवितॄस्तॄतन्त्रिभ्यःई: - ३.१५८ इति ई:) (स्तृञ् आच्छादने क्रया/उ/से+ई:) स्तृणाति आच्छादयतीति स्तरिः = धूमः ।,
254 · p. 129
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
८३३. कञ्जारः कञ्जारो जठरार्केभमयूरमुनिधातृषु ।` कञ्जिधातुरसौ सौत्र इति धीरैर्विमृश्यताम् । ३.३९०८३५. मार्जारः मार्जारस्तु बिडाले स्यात्खट्वाङ्गेऽप्येष विश्रुतः । ३.३९१८३७. कुमारः कुमारो बालके स्कन्दे युवराजेऽश्ववारके । ३.३९१८३९. (तरिः) तरी: तरीर्ना मारुते वह्नौ स्त्री पेटी नौ दशासु च । ३.४२९तन्त्रिर्विरूपे वाय्वादौ महितादौ प्रगल्भके ।प्रवीणे ज्योतिषि प्राये कपोते चन्द्रमादिषु ।मा(पा?)त्रे माधवजम्बालपृथुकालवसारिषु । 845पियालुर्वृक्षभेदे स्यादसारे मधुरेऽपि च ।वमनादौ महासत्त्वकोमलाहारभूतिषु ॥अवि: प्रकाशे सूर्ये च परमात्मनि च भास्वरे ।वैद्युतेऽग्नौ महादेवे चतुर्मुखनरादिके ॥नशा विरामे परमे चक्राधारे महाशये । 850गुरौ महाक्रतौ भेदे विरोधकविहारयोः ।वर्षोऽब्धौ वारवाणे च संवत्सरवसन्तयोः ॥जम्बूद्वीपादिके वायौ पण्डिते परमात्मनि ।तर्षः सूर्ये प्रपन्ने च प्लवे चोत्तारके हरे ॥राज्ञि दातरि गोविन्दे वानरादौ दरीमुखे । 855
255 · p. 129
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 पर (syllable split)
तरलाव्याख्या
उणादिनिष्पत्तिः
८४३. तन्त्री: (स्त्री) (अवितॄस्तॄतन्त्रिभ्य: ई: - ३.१५८ इति ई:) (तत्रि कुटुम्बधारणे चु/ उ/से+ई:) तन्त्रयते लोकानिति तन्त्री: = वीणागुणः । वीणा, देहशिरा नदीविशेषः, रज्जुः, युवतीभेदः, गुडूची ।, ८५२. वर्षः (पुं) (कृतॄवदिहनिकमिकषिभ्यः सः - ३.६२ इतिसः) (वॄ वरणे क्रया/प/से) व्रियते इति वर्षः = देशः (मे) ।, ८५४. तर्षः (पुं) (वॄतॄवदिहनिकमिकषिभ्यः सः - ३.६२ इतिस:) (तॄ प्लवनतरणयोः भ्वा/प/से+सः) तीर्यतेऽसाविति तर्षः = समुद्रः । सूर्यः ।
256 · p. 130
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
८४१, ८४३.(स्तरिः,तन्त्रिी)स्तरी:,तन्त्री – स्तरीर्धूमे घने तन्त्रीर्धमन्यां वल्लरीगुणे ।नाडीतन्त्र्योः स्वाङ्ग इति बहुव्रीहौ न कप् ततः । ३.४३०८४६. (पियालु:)पियाल: राजादने पियाल: स्यात् वृक्षभेदेऽप्यरेफकः। ३.२१८८४८. (अवि:) अवी: रजस्वलायां स्त्रीत्वे स्यादवी: पुंसि पशौ स्मृतः । ३.४२९हर्षःस्थाने तुरङ्गादौ सून्या(च्या?)दौ पवने रिपौ ।सिंहो वराहे गोपाले दैत्यमात्रादिके पवौ ॥हंसः परात्मसूर्येन्दुयतिभूपप्रियादिषु ।पक्षिवर्णाशनादीनहरवैराग्यकादिषु ॥कंसः सर्पे च गरुडे पात्रभेदे च पण्डिते । 860दैत्यान्तरे विरुद्धे च वसिष्ठादौ रमादिके ।प्रहः प्रज्ञायुते शम्भौ फेने फाले परात्मनि ॥ग्रहराजे पशौ धीरे सुवर्णादौ पुरादिके ।अक्ष: पतङ्गमनुजपाशकाहारभूतिषु ॥19a दैत्यनेत्रादिमूलादिफलादिफलदादिषु । 865
257 · p. 130
अनुष्टुप्metre not read in every lineimpossible sign sequence: रिः,तन्त्रिी)स्तरीLatin letters: anearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
तरलाव्याख्या
उणादिनिष्पत्तिः
८५७. सिंहः (पं) (सिचेः संज्ञायां हनुमौ कश्च - ५.६२ इति कः) (षिच क्षरणे तु/उ/ अ+क:)सिञ्चति स्वमूत्रेण भूमिमिति सिंहः = पञ्चास्य: । सिंहराशिः (वि), सप्तमः(वि), (स्त्री) राहुमाता (वि), ८५८. हंसः (पुं) (वृतॄवदिहनिकमिकषिभ्यः सः - ३.६२ इति सः) (हन हिंसागत्योः अ/प/अ+स:) हन्ति सुन्दरं गच्छतीति हंसः = मानसौका:(मे) । निर्लोभनृपः (मे)विष्णुः (मे), सूर्यः, परमात्मा (मे), मत्सर:(मे), योगिभेदः (मे), शिवः, मन्त्रभेदः (मे), शरीरस्थावायुविशेषः (मे), तुरङ्गमप्रभेदः, गुरुः, पर्वतः, श्रेष्ठः ।, ८६०. कंसः (पुं) (वॄतॄवदिहनिकमिकषिभ्यः सः - ३.६२ इति सः) (कमु कान्तौ भ्वा/आ/से+सः) कामयतेपापात्मकं विषयादिभोगं यः सः कंसः = मधुराधीशः । (न, पुं) मह्यादिपानपात्रम्, ताम्रमिश्रणजनितधातुद्रव्यम् ।
258 · p. 131
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
७५९. हंसः हंसो विहङ्गभेदे स्यादर्के विष्णौ हयान्तरे ।योगमन्त्रादिभेदेषु परमात्मनि मत्सरे । ३.१८५निर्लोभनृपतौ भिक्षौ शरीरमरुदन्तरे । ३.१८६८६०. कंस: कंसोऽस्त्री तैजसद्रव्ये कांस्ये मानेऽप्ययं स्मृतः ।आर्हीयार्थेषु कथितः कंसाट्टिठनि कंसिकः । ३.१८७वृक्षः शङ्करवाराम्बुचन्द्रवृक्षसुरादिषु ।ऋक्ष</bश्शरीरभल्लूकगोविन्दार्याम्बुभूतिषु । 867द्वितीयं निबन्धनम्}
259 · p. 131
अनुष्टुप्metre not read in every lineLatin letters: b
तरलाव्याख्या
हरणे[प्र-उपसर्गात्?] अः । प्रहः । √गॄ निगरणे [अ] प्रत्ययः ग्रहः। √अक्ष प्राप्तौ अःअक्षः । √वृष सेचने कप्रत्ययः वृक्षः । √ऋक्ष रक्ष मक्ष गत्यर्थाः । ऋक्षः ।तरलाख्यायां द्वितीयं निबन्धनम् ॥}
260 · p. 132
अनुष्टुप्metre not read in every line
उणादिनिष्पत्तिः
८६४. अक्षः (पुं) (अशेर्देवने - ३.६५ इति सः) (अशू व्याप्तौ सङ्घाते च स्वा/आ/वे+सः) अश्नुते व्याप्नोतीति ।, अक्षः = पाषकः । पाशक्रीडा, विभीतकवृक्षः, शकट: (मे) व्यवहार:(मे), रुद्राक्ष: (मे), इन्द्राक्षः (मे), सर्प:(मे), चक्रम् (मे), आत्मा (हे), चक्षुः रावणपुत्र:(हे), जातान्धः (श,र.), गरुड: (श, र), शिवः (भार), सौवर्जलम् ।,८६६. ऋक्ष: (पुं) (ऋषेर्जातौ- ३.६७ इति सः) ऋषी गत्यादिषु तु/प/से+स:) ऋषति गच्छतीति ऋक्षः = भल्लूकः । पर्वतविशेषः, शोनानाकवृक्षः, अजमीडपुत्रः, (न) नक्षत्रम्, (स्त्री) मेषादिराशिः ।
261 · p. 132
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
८६४. अक्षः अक्षमिन्द्रियमक्षो ना रथाङ्गव्यवहारयोः ।पाशके शकटे कर्षे भूतभेदे कलिद्रुमे । ३.१९४८६६. वृक्षः स्नुषा पुत्रस्य भार्यायां स्याद्वृक्षस्तु महीरुहे । ३.१९८८६७. ऋक्षः कृत्सं पाथसि नक्षत्रे ऋक्षं स्यादिन्द्रयेऽपि च । ३.१९८ऋक्षोऽद्रिभेदे भल्लूके शोणकेऽपि प्रकीर्तितः । ३.१९९<अथ तृतीयं निबन्धनम>}कल्याणाचलकोदण्डः कल्याणानि करोतु नः ।सर्वमङ्गलया युक्तः सर्वमङ्गलदः शिवम् ॥श्रीशङ्कर! महादेव! देवदेव! जगत्प्रभो! ।विरूपाक्ष! विशालाक्ष! शुभाक्ष! विकाक्षकृत्¹ ॥खजाक: कठिने दर्व्यामरविन्दे मदोत्कटे ।महिते चन्द्रभूषे च वैद्यमूलादिकेऽपि च ।बलाक: पक्षिभेदे स्यादशरीराम्बुदादिषु । 870देवेन्द्रयममातङ्गशर्वगोपुच्छकादिषु ।मनाका कामिनी जाया मेघलिश्वरीभादिषु ॥गुवाकश्चर्मणि शिवे परमार्थे महात्मनि ।पशुजातौ कुलीरे च शङ्खे जलचरादिषु ॥
262 · p. 132
अनुष्टुप्metre not read in every linenearly अनुष्टुप्nearly अनुष्टुप्: pāda 2, syllable 5 री (wrong syllable)
तरलाव्याख्या
√खज मन्द्यादौ(मन्थे?) अस्मादाक प्रत्ययः, खजाकः । √वल संवरणे, सावर्ध्यात्बक् । बलाकः । √मन ज्ञाने मनाक:(का?)। √गुपू रक्षणे गुणभावः, पवयोः सावाच्च गुवाकः ।
263 · p. 133
अनुष्टुप्metre not read in every line
उणादिनिष्यत्तिः
८६८. खजाक: (पुं) (खजेराक: - ४.१३ इति आक:) (खज मन्थे भ्वा/प/से+आक:) खजति मथ्नाति इति खजाकः = मन्थानदन्डः । पक्षी, (स्त्री, पुं) दवीं ।, ८७०. बलाका(स्त्री) (बलाकादयश्च - ४.१४ इति आक:) (बल प्राणने भ्वा/प/से +आक:) बलति इतिबलाका = बकजातिः । (स्त्री) कामुकी (वि,शा) बकपङ्क्तिः ।;cऔणादिकपदार्णवः}८६८. खजाक: खजाक: स्यात्पुंसि दध्नो विकारे विहगान्तरे । ४.६८खजाका तु स्त्रियां दर्व्या बन्धक्यामपि कथ्यते ।८७०. बलाक: बलाका बकपङ्क्तौ च बिसकण्ठ्यां च वर्तते । ४.६९
264 · p. 133
अनुष्टुप्metre not read in every lineLatin letters: c
उणादिनिष्पत्तिः
८८४. (शर्करीक:) शर्शरीक: (पुं) (शॄपॄवॄञां द्वे रुक्याभ्यासस्य - ४.१९ इति ईकन्)(शॄ हिंसायाम् क्रया/प/से +ईकन्) शृणाति हिनस्तीति शर्शरीकः = धूर्तः । अश्वः, मङ्गलाभरणम्,अग्निः ।, ८८६. पर्प <र्व>रीकः (पुं) (शॄपॄवॄञां द्वे रु क्याभ्यासस्य - ४.१९ इति ईकन्) (पॄ पालनादौ जु/प/से + ईकन्) पिपर्तीति पर्परीकः = सूर्यः । वह्निः, जलाशयः ।, ८८९. अलीकम्(न) (अलीकादयश्च - ४.२५ इति कीकन्) अल भूषणपर्याप्तिवारणेषु भ्वा/प/से +कीकन्)अलति वारयतीति अलीकम् = मिथ्या । स्वर्गः, ललाटम्, अप्रियं, अल्पम् ।
265 · p. 133
अनुष्टुप्metre not read in every line
आणादिकपदार्णवः
८८४. (छर्करीक:) शर्शरीक: शहरीकस्तु हिंस्रेऽश्वे मङ्गल्याभरणेऽपि च । ४.८०८८६. (पर्वरीक:) पर्परीक: पर्परीकस्तु भक्ष्येऽग्नौ द्युमणौ च जलाशये । ४.८०८८९. अलीकम् अलीकमप्रिये पापे वितथेऽपि प्रकीर्तितम् । ४.९०मरूकः पवने देहे पृथुराजे विरोचने ।वित्तनाथे कुकुद्धे च कविदेवद्रुमादिषु ।अणूक:(कणूकः?) काकदेवेन्द्रगौतमार्यशिवादिषु ।वल्लू(लू?)कः कृष्णजम्बूकजलदेहगृहादिषु । 895उलूकः पृथिवीपालशचीपतिसुरादिषु ।पक्षिभूभृत्कुलाचार्यदेवभेदाब्धिसादिषु ।भल्लूकः पृथिवीपालखगमातङ्गदेहिषु ।
266 · p. 133
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्यत्तिः
८९२. मरूकः (पुं) (मृकनिभ्यामूकोकणौ - ४.३९ इति ऊक्) (भृङ् प्राणत्यागे तु/आ/अ +ऊक्) म्रियते इवेति मरूकः = मृगविशेषः । मयूरः, शटी ।, ८९४. (अणूकः) काणूक: (पुं) (मृकणिभ्यामूकोकणौ - ४.३९ इति ऊकन्) कण शब्दार्थ: भ्वा/प/से +ऊकण) कणतिशब्दायते इति कणूकः = काकः ।, ८९५. वलूकः (पुं) (वलेरुक: - ४.४ इति ऊक:) (वल संवरणे भ्वा/आ/से +ऊक:) वलते संवृणोतीति वलूकः = पक्षिविशेषः । (न) पद्ममूलम्८९६. उलूकः (पुं) (उलूकादयश्च - ४.४१ इति ऊकः) (वल संवरणे भ्वा/आ/से +ऊक:) वलतेऽसाविति उलूकः = पेचकपक्षी । इन्द्रः, तृणभेदः, देशभेदः ।, ८९८. भल्लूकः (पुं) (उलूकादयश्च- ४.४१ इति ऊकः) (भल्ल परिभाषणादिषु भ्वा/आ/से +ऊक:) भल्लते इति भल्लूकः = ऋक्षः ।श्योनाकप्रभेदः, कुक्कुरः ।
267 · p. 136
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
८९२. मरूकः मरूक: कोकमण्डूकमृगेष्वपि शिखावले । ४.११६ ८९४.(अणूकः)काणूकः – काणूकः पुंसि काके च श्रेयस्यपि निगद्यते । ४.११६८९५. वलूकः भवेदुत्पलमूले च वलूको विहगेऽपि च । ४.११७८९६. उलूकः उलूकः कुरुयोधे स्यात्पेचके जम्भभेदिनि । ४.११८८९८. भल्लूकः भल्लूकः स्यादच्छभल्ले ह्रस्वमध्योऽपि भल्लुकः । ४.१२२शालूकं जलजे चन्द्रे मूके गोविन्दभालयोः ।मण्डूकःश्वेतवाराहभेकवज्रिप्रभादिषु । 900 वृक्षभेदशुकप्राणपधुपा(मधुवा?)रिहरादिषु ।किकिः पक्षिविशुद्धात्मवायुपूरुषचारिषु ।स्तबकः पुष्पसन्दोहखड्गप्राकारनामसु ।करकः पृष्ठभागास्थ्निघटप्रोथसुरादिषु ।चरकं वैद्यशास्त्रे स्यादविद्यासारयोरपि । 905
268 · p. 136
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
८९९. शालूकम् (न) (शलिमण्डिभ्यामूकण् - ४.४२ इति ऊकन्) (शल गतौ भ्वा/प/से +ऊकण) शल्यते प्राप्यते यत्तत् = कुमुदमूलम् (अ) जालीफलम्, (पुं) मण्डूकः (शं.लि) कुमुदादिमूलम् ।, ९००. मण्डूकः (पुं) (शलिमण्डिभ्यामूकण - ४.४२ इति ऊकण्) मडि भूषायां हर्षे च चु/उ/से +ऊकण) मण्डयति भूषयति जलाशयमिति मण्डूकः = भेकः। शोणकः ।मुनिविशेषः, अश्वजातिभेदः, बन्धविशेषः ।, ९०३. स्तबकः (पुं) (स्थः स्तोऽम्बजवकौ - ४.१६इति अम्बच्) (ष्ठा गतिनिवृत्तौ भ्वा/प/अ +अम्बच्) तिष्ठतीति स्तम्बकः = गुल्मः (वि.मे)। गुच्छ:(मे, अ) ।, ९०४. करकः (पुं, न) (कृञादिभ्यः संज्ञायां वुन् - ५.३५ इति वुन्) (डुकृञ् करणे त/उ/अ +वुन्) (पुं) करोति जलमत्रेति करकः = कमण्डलुः ।, ९०५. चरकः (पुं) (क्वुन्शिल्पिसंज्ञयोरपूर्वस्यापि - २.३३ इति क्वुन्) (चर गतिभक्षणयोः भ्वा/प/से +क्वुन्) चरति स्वपरराष्ट्रस्य वृत्तिसङ्ग्रहणाय भ्राम्यतीति चरकः = चारः । नपुंसके शास्त्रबोधकम् ।
269 · p. 137
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
८९९. शालूकम् कन्दे सौगन्धिकादीनां शालूकमिति कथ्यते । ४.१२३९००. मण्डूक: मण्डूको बन्धभेदेऽपि दर्दुरे शोणकेऽपि च । ४.१२४९०२. किकिः किकिः पक्षिणि च प्राज्ञे दीविः श्वापदधूतयोः । ४.१६९९०३. स्तबकः स्तबकः पुष्पसंघाते पुसि विद्वद्भिरुच्यते । ४.२५७९०५.(चरकम्)चरक: चरकः स्यान्मद्यपात्रे मद्यतत्पानयोरपि । २.१५२नरकं पाकदुष्कर्मदुर्गव्याधिषु चिन्तने ।20a सखा मित्रे सुन्दरे च चन्द्रशेखरमुख्ययोः ।माधवे पारियात्रे च दोहदान्तरचैत्ययोः ।शाखा ज्वाला चूडचेलशाखान्ताग्निशिखादिषु ।शिखा विटपभूपालकृपणार्तक्रियादिषु । 910मुखं तु लपनाचारदौर्जन्याह्वाननादिषु ।मूर्खः पिशाचदुष्टात्मपटादिषु महाक्रतौ ।
270 · p. 137
अनुष्टुप्metre not read in every lineLatin letters: a
तरलाव्याख्या
उणादिनिष्पत्तिः
९०६. नरकम् (न) (कृञादिभ्यः संज्ञायां वुन् - ५.३५ इति वुन्) (नॄ नये क्रया/प/से +वुन्) नृणाति क्लेशं नयतीति नरकम् (पुं) नरकनामक: देवाराति: (मे), ९०७. सखा (पुं) (समाने ख्यः - ४.१३६ इति इण्, सः) (ख्या प्रकथनें अ/प/अ +इण्) समानं ख्यायते जनैः इतिसखा = मित्रम् ।, ९१०. शिखा (स्त्री) (शीङो ह्रस्वश्च - ५.२४ इति ख:) (शीङ् स्वप्ने अ/आ/ से +ख:) शेतेऽसाविति शिखा = चूडा (मे) । शाखा (मे), बर्हिः (मे), ज्वाला, प्रपदम् (मे),प्रधानम् (हे), शिफा (हे), घृणिः (हे), स्मरज्वर: (श.र), लाङ्गलिषु अग्रमात्रकम् (मे), ९११.मुखम् (न) (डित्खनेर्मुट् स चोदात्तः - ५.२ इति अच्, अल्) (खनु अवदारणे भ्वा/उ/से +अच्, अल्) खन्यते विदार्यते अन्नादिकमनेनेति मुखम् = आस्यम्(मे) निःसरणम् (मे), प्रारम्भः (मे),उपाय: (मे), आद्यम्, प्रधानम्, शब्दः (मे), नाटकादिः (मे) वेदः, द्वारम्, अग्रभागः, गृहादिद्वारप्रवेशः,निर्गमश्च ।, ९१२. मूर्खः (त्रि) (मुहे: खो मूर्च - ५.२२ इति ख:) (मुह वैचित्र्ये दि/प/वे +ख:) मुह्यतीति मूर्खः = बालिशः । (पुं) माषः ।
271 · p. 138
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
९०७. सखावयस्ये च सहाये च सखा पुंसि सखी स्त्रियाम् । ४.३९०सख्युर्य इति सख्यं स्यात्सख्युर्भावे च कर्मणि । ४.३९१नखं पुनर्भवे नीचे दारिद्र्ये पापकर्मणि ।मूले विरिञ्चे कामे च महेशं ह्लादनादिषु ।मखः क्रतौ पुलोमे च मनुजे चन्द्रमस्यपि । 915शङ्करादौ महाशब्दमुनिगोबृन्दवारिषु ।भरगः पृथुले होमे कामपात्रे बलाहके ॥कुलाले वंशगे देवे महेशादिसुरादिषु ।नग: पतङ्गशैलेन्द्रभूजमूलशरादिषु ॥अर्घा पूजामहासत्त्वक्रियादेविगृहादिषु । 920सुख्या पूतिगन्धभेदजातीकुसुमवारिषु ।मरीचिर्मुनिमाणिक्यकान्ताग्निहरिदादिषु ।कणीचिः पुण्यकृद्व्योमभेकवालप्रियादिषु ।
272 · p. 138
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
तरलाव्याख्या
उणादिनिष्यत्तिः
९१३. (नखम्) नखः (पुं, न) (नहेर्हलोपश्च - ५.२३ इति ख:) (णह बन्धने दि/उ/अ +ख:) नह्यति बध्नाति रुधिरादिकमिति नखः = कररुहः (वि) । षण्ढः (वि), (पुं) खण्डम्, (न) ग्रन्धद्रव्यम्, (स्त्री, न) शुक्ति: (मे) ।, ९१९ नगः (पुं) (दहेगो लोपे दश्च नः - ५.६१ इति गः) (दहभस्मीकरणे भ्वा/प/अ +ग:) दहति दह्यते स नगः = पर्वतः । वृक्षः (मे), सर्पः, भास्करः ।,९२२. मरीचिः (पुं. स्त्री) (मृकणिभ्यामीचिः - ४.७० इति ईचिः) (मृङ् प्राणत्यागे तु/आ/अ +ईचि:) म्रियन्ते नश्यन्ति क्षुद्रजन्तवः तमांसि वा अनेनेति, मरीचिः = सूर्यकिरणः (पुं)मुनिविशेषः (वि)
273 · p. 139
अनुष्टुप्metre not read in every line
आणादिकपदार्णवः
९२२. मरीचिः मरीचिः कृपणे दीप्तावृषिभेदे च दृश्यते । ४.२०६तदपत्ये तु मारीचिर्बाह्वादित्वादिञा भवेत् ।९२३. कणीचिः कणीचिः पुष्पितलताकुञ्जयोः शकटे स्त्रियाम् । ४.२०७खरे वराहे देवेन्द्रे सुकुमारादिकेऽपि च ।श्वयीचिर्विपुलाहार्यमणिभद्रे परश्वथे । 925आदित्ये वरुणे क्रोडे पञ्चके पारिभद्रके ।अर्चिश्चतुरसेनाग्रव्याघ्रमण्डलनादिषु ॥तर्च्छः शरीरवाताग्निगोबृन्दाब्धिशमादिषु ।राजिः श्रेणिरमानारिमहिलाकदलीषु च ॥21 द्वाजिरादित्यपातालकर्मबेतालशम्भुषु । 930विश्वभोजः शशाङ्के स्यादायुधादौ प्रमातरि ।शकटः कुटिलागाररथभेदाम्बरीषयोः ।दैत्यान्तरमहेशाण्डजातिप्रेमास्पदादिषु ।
274 · p. 139
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ट (wrong syllable)
तरलाव्याख्या
उणादिनिष्पत्तिः
९२५. श्वयीचिः (स्त्री) (श्वयतेश्चित् - ४.७१ इति ईचिः) टुओश्वि गतिवृध्योः भ्वा/प/ से +ईचिः श्वयतीति श्वयीचिः = व्याधिः ।, ९२७. अर्चि: (स्त्री, न) (अर्चिशुचिहु - २.१०५ इति इसिः)(अर्च पूजायाम् भ्वा/प/से +इसिः) अर्च्यते इत्यर्चिः = अग्निशिखा (अ) । किरणः (मे) ।,९२९. राजिः (स्री) (वसिवपियजिराजि - ४.१२४ इति इञ्) (राजृ दीप्तौ भ्वा/उ/से +इञ्)राजते इति राजिः = श्रेणी (मे) । रेखा (मे), (पुं) आयुपुत्रविशेषः, रक्तसर्षपः, १३१. विश्वभोजः(पुं) (विदिभुजिभ्यां विश्वे - ४.२३७ इति असिः) (भुज पालनाभ्यवहरणयोः रु/आ/अ +असिः) विश्वंभुङ्क्ते प्रलयसमये कारणरूपेण स्वात्मनि स्थापयतीति विश्वभोज: = ईश्वरः । (त्रि) रक्षकः, इन्द्रः ।
275 · p. 140
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
पल्लवे पुष्पसङ्घाते निनादेऽश्वेऽपि चक्षुषि ।९२५. श्वयीचिः श्वयीचिस्तु पुमानिन्द्रे श्वयथावपि च कथ्यते । ४.२०८९२७. अचिः [सान्तोऽयम]र्चिरित्येतज्ज्वालाभासोः प्रकीर्तितात् [तम्]। २.३७७९२९. राजिः याजिर्यष्टरि राजिस्तु रेखापङ्क्योर्निगद्यते । ४.३६६९३२. शकटः पुंसि क्लीबे च कथित: शकटोऽनसि कोविदैः । ४.२२३अवटश्चर्म रज्जौ स्यात्कण्ठगर्तविलासयोः ।देवट: पशुचाण्डालबकव्याध्यक्तकादिषु । 935 शिखिपञ्चास्यपिष्टान्तरादित्याकारकादिषु ।कमटः कुटजे चन्द्रे वारिवाहादिकेऽपि च ।कङ्कटं वारवाणे स्यादविद्यासारयोरपि ।गरटि: <ट:> कुङ्कुमे ज्योतो(तिषि?) भूभृतान्तरमत्स्ययोः ।कुटिर्विशाले हेरम्बे महोत्पलविनिद्रयोः । 940किरीटं मकुटे हारे चर्वणे पर्वणि प्रिये ।
276 · p. 140
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
९३२. शकटः (पुं, न) (शकादिभ्योऽटन् - ४.८१ इति अटन्) शक्लृ शक्तौ स्वा/प/अ +अटन्) शक्नोति भारं वोढुमिति शकटः (यानविशेषः) = अनः । तिनिशवृक्षः, व्यूहविशेषः,शकटासुरः, मापनविशेषः ।, ९३५. देवटः (त्रि) (शकादिभ्योऽटन् - ४,८१ इति अटन्) देवृ देवनेभ्वा/आ/से +अटन्) देवते इति देवटः = शिल्पी ।, ९३८. कङ्कट: (पुं) (शकादिभ्योऽटन् - ४.८१ इति अटन्) (कटे वर्षावरणयोः भ्वा/प/से +अटन्) कं देहं कटति आवृणोतीति कङ्कट:= कवचः । सैनिकसामग्री, अङ्कुशः ।
277 · p. 141
अनुष्टुप्metre not read in every line
आणादिकपदार्णवः
९३४. अवटः अवटाद्या इतोऽन्येऽपि ज्ञेया एवं विधा इह । ४.२२५गोत्रे गर्गादिपठितादावट्यस्त्ववटाद्यजि ।९३५,९३८.देवटः,कङ्कटः - स्यात्कङ्कटस्तु सन्नाहे देवटः शिल्पिनि स्मृतः । ४.२२३९३७.(कमट:)करटः करटो गजगण्डे स्यात्कुसुम्भे निन्धजीविनि । ४.२२४एकादशाहादिश्राद्धे दुईटेऽपि वायसे ।करटी वाद्यभेदे स्त्री विबुधैः परिकीर्तिता ।९४०. कुटि: शरीरका … योस्तु कुटिः स्त्री परिकीर्तिता । ४.४०८होमे विषादे निद्रायां चन्दनाचलदेहयोः ।तिरीटं मुष्करे कोशे पराजितविशालयोः ।कृपीटं जलपाषण्डभूतिक्रोधाग्निभादिषु ।जटा मौनिशिखाभेदजननीजनकादिषु । 945पनिष्ठुरर्भके पुत्रे मनीषाहीनवैद्ययोः ।परमेष्ठी ब्रह्मशम्भुमदनाचार्यविष्णुषु ॥कठिः पर्वतदेवेन्द्रमूकसर्पपुरादिषु ।सुडः पञ्चास्यकेदारपरमातृष्वसादिषु ॥दृढः पीडाकरे व्योम्नि शरजन्मप्रकाण्डयोः । 950अञ्जिष्णुरभ्रपुष्पाण्डभेकगोकुलदेहिषु ।
278 · p. 141
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ण (wrong syllable)
तरलाव्याख्या
उणादिनिष्पत्तिः
९४१. किरीटम् (न. पुं) (कॄतॄकृषिभ्यः कीटन् - ४.१८४ इति कीटन्) (कॄ विक्षेपे तु/ प/से +कीटन्) कीर्यत विक्षिप्यते शिरसीति किरीटम् = मुकुटम् ।, ९४३. तिरीटम् (न) (कॄतॄकृषिभ्यःकीटन् - ४.१८४ इति कीटन्) (तॄ प्लवनतरणयोः भ्वा/प/से +कीटन्) तरति नद्यादिकमनेनेतितिरीटं = प्लवः, सुवर्णम् ।, ९४४. कृपीटम् (न) (कॄतॄकृपिभ्य: कीटन् - ४.१८४ इति कीटन्) (कृपू सामर्थ्य भ्वा/आ/वे +कीटन्) कल्प्यते तृयै इति कृपीटम् = उदकम् । कुक्षिः।, ९४५. जटा(स्त्री) (जनेष्टन्लोपश्च - ५.३ इति टन्) (जनी प्रादुर्भावे दि/आ/से +टन्) जायते प्रादुर्भवतीतिजटा = द्रीर्घा: केशाः । प्लवः (मे) ।, ९४७. परमेष्ठी (पुं) (परमे कित् - ४.१ इति इनिः) (ष्ठा गतिनिवृत्तौ भ्वा/प/अ +इनि:) परमे व्योग्नि चिदाकाशे तिष्ठतीति परमेष्ठी = ब्रह्म । विष्णुः, शिवः, जिन:, शालग्रामविशेषः, गुरुविशेषः, अजामीडपुत्रः ।,
279 · p. 142
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
९४७. परमेष्ठी परमेष्ठीविरिञ्चौ च पुंसि स्यात्परमेश्वरे । ४.४२९५१. अञ्जिष्णुः अत्रार्थेऽञ्जिष्णुरित्येवमिष्णुच्याठे प्रसिध्यति ।कर्णिः शिरीषचित्ताङ्कज्योति: पाठीनकान्तिषु ।21a कर्णमातरकान्ताभिप्रायादिषु सुरान्तरे ।वेणि: प्रवाहे गोविन्दे केशबन्धान्तरादिषु ।ज्यानिरग्निशशाङ्कार्यसूर्यमारुतभस्मसु । 955वृष्णिर्विरागगोपालभेदसाहसवीचिषु ।सृणि: खड्गेऽङ्कुशे व्योम्नि प्राणादिषु विरोधके ।<वानिः …>श्रेणि: पङ्क्ति: कालरात्रौ नदीभेदान्तरादिषु ।
280 · p. 142
अनुष्टुप्metre not read in every lineLatin letters: a
तरलाव्याख्या
उणादिनिष्पत्तिः
९५४. वेणिः (स्त्री) (वीज्याज्वरिभ्यो नि: - ४.४८ इति निः) (वी गतौ अ/प/अ+नि:) वेति शोभते इति वेणिः = केशरचनाविशेषः । नदीसमूहः ।, ९५५. जूर्णि: (स्त्री) (वीज्याज्वरिभ्योनि: - ४.४८ इति निः) (ज्वर रोगे भ्वा/प/से +निः) ज्वरति रोगी भवतीति जूणिः = स्त्रीरोगः ।वेगः, आदित्यः, देहः, ब्रह्मा, क्रोधः, द्रवयुतम्, तापकः, स्तुतिकुशलः ।, ९५६. वृष्णिः (पुं)(सृवृषिभ्यां कित् - ४.४९ इति निः) (वृषु सेचने भ्वा/प/से +निः) वर्षतीति वृष्णिः = मेघः ।यादवः (वि), कृष्णः, पाषण्डः (वि), चण्डः ।, ९५७. सृणिः (पुं) (सृवृषिभ्यां कित् - ४.४९ इतिनिः, कित्) (सृ गतौ भ्वा/प/अ +निः, कित्) सरति गज: अनयेति सृणिः = अङ्कुशः । शत्रुः ।
281 · p. 143
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
९५४. वेणिः वेणि: स्यात्कचबन्धेऽपि नदीनां मेलनेऽपि च । ४.१३५ ९५५.(ज्यानि:)जूर्णि: जूणिः स्त्रियां भवेद्रोगे सूर्येऽग्नौ च पुमानयम् । ४.१३८९५६. वृष्णि: - वृष्णिस्तु यादवे मेषे पाषण्डे चन्द्रमस्यपि । ४.१३९९५७. सृणिः सृणिः स्यादङ्कुशेऽग्नौ च सलिलेऽपि समीरणे । ४.१३८९५८. श्रेणिः श्रेणि: पङ्क्तौ सेकपात्रे सजातौ शिल्पिसंदृतौ । ४.१५५श्रोणिर्नदी तटीदेशप्राकारावार्यशम्भुषु ।तूर्णिर्विनीते सम्पन्ने समाख्ये सहजादिषु । 960भूर्णि: भङ्गे विशालाक्षे महिषे व्याघ्रधीरयोः ।उरण: पशुवाय्वग्निमेषदावानलादिषु ॥अमतिः स्वर्गहेरम्बरतिपतिशिवादिषु ।पतिर्भर्तरि भूपालेऽप्याचार्यादिषु सङ्कुले ॥
282 · p. 143
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ति (wrong syllable)
तरलाव्याख्या
उणादिनिष्पत्तिः
९५८. श्रेणि: (पुं, स्त्री) (वहिश्रिश्रुयुद्रु - ४.५१ इति निः, कित्) (श्रिञ् सेवायाम् भ्वा/उ/से +निः) श्रयति श्रीयते वेति श्रेणिः = पुरुषपङ्क्ति । पङ्क्तिः (मे), समानशिल्पिसंहतिः (मे), सेकपात्रम् ।, ९५९. श्रोणि: (स्त्री) (वहिश्रिश्रुयुद्रु - ४.५१ इति निः) (श्रु श्रवणे भ्वा/प/ अ+निः) श्रूयते (न तु दृश्यते) इति श्रोणिः = कटिः । कटिप्रदेशः (मे), ककुद्मती (अ),९६०. तूर्णिः (पुं) (वहिश्रिश्रुयुद्रु - ४.५१ इति निः) (ञित्वरा संभ्रमे भ्वा/आ/से +निः) त्वरतेयेन इति तूर्णिः = मलम् । श्लोकः, मनः, त्वरा, (त्रि) क्षिप्रम् ।, ९६१. भूर्णि: (स्त्री) (घृणिपृश्निपार्ष्णिचूर्णिभूणि - ४.५२ इति निः) (डुभृञ् भरणधारणपोषणेषु जु/उ/अ +निः)बिभर्ति सर्वमिति भूणिः = पृथिवी । मरुभूमिः, भर्ता (म.भा) ।, ९६२. उरण: (पुं, स्त्री) (अर्तेःक्युरुञ्च - ५.१७ इति क्युः) (ऋ गतौ भ्वा/प/अ +क्युः) ऋच्छति गच्छतीति उरण: = एडकः ।(स्त्री) एडका ।, ९६३. रमति: (पुं) (रमेर्नित् - ४.६३ इति अतिः) (रमु क्रीडायाम् भ्वा/आ/अ +अतिः) रमन्तेऽस्मिन्निति रमतिः = स्वर्गः । नायकः, काकः, कालः, कामदेवः ।
283 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ह (wrong syllable)
औणादिकपदार्णवः
९५९. श्रोणिः निःश्रेणिस्त्वधिरोहिण्यां श्रोणिः स्यात्कटिमण्डले । ४.१५६९६०. तूर्णिः अपाये हानिराख्याता तूर्णिस्तरसि कथ्यते । ४.१५७९६१. भूणिः कपर्दकशते शास्त्रे भूर्णिस्तु भुवि कथ्यते ।धारके पोषकेऽप्येष मन्त्रभाष्ये तु दृश्यते । ४.१६१९६३. रमतिः रमतिर्नायके नाके काले कामे च कथ्यते । ४.१८८९६४. पतिः पतिर्धवे ना त्रिष्वीशे समासे घिन तु स्वतः । ४.१६९रमतिर्भागपादान्तप्राणदेवगृहादिषु । 965अवतिश्चर्मकोदण्डखिलपाषाणहरिषु ।अमात्यदुर्गभूपालज्वालामालादिषु प्रिये ॥वसति: मलिने चित्रे गोकर्णे कमलादिके ।अरतिः पृतनार्हाभिप्रेतरोमादिकेऽपि च ॥अङ्कति: पुत्रभूनाथपार्वतीपतिविष्णुषु । 970 अंहतिः शत्रुशयनसङ्कराहरकुम्भिषु ।
284 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ति (wrong syllable)
तरलाव्याख्या
उणादिनिष्पत्तिः
९६४. पति: (पुं) (पातेर्डतिः - ४.५७ इति अतिः) (पा रक्षणे अ/प/अ +डतिः) पाति रक्षतीति पतिः = भर्ता । मूलम्, गतिः ।, ९६५. अमतिः (पुं) (अमेरतिः - ४.५९ इति अतिः) (अमुगतौ भ्वा/प/से +अतिः) अमति गच्छतीति अमतिः = काल: (वि), चन्द्रः, (त्रि) दुष्टः, अज्ञानम्, अनभिसन्धिः ।, ९६८. वसति: (स्त्री) (बहिवस्यर्तिभ्यश्चित् - ४.६ इति अतिः) (वस निवासे भ्वा/प/अ +अतिः) वसन्त्यस्मिन्निति वसतिः = वास: (मे) । यामिनी (मे) ।, ९६९. अरति: (स्त्री) (अर्तेश्च - ५.७ इति अति:) (ऋ गतौ भ्वा/प/अ +अति:) ऋच्छति गच्छतीति अरतिः (स्वादिभीष्टवस्त्वलाभेन चेतसो यावऽनवस्थितिः सा अरतिः (सा. द) = उद्वेगः ।, ९७०. अङ्कतिः (पुं) (अञ्चेः को वा - ४.६१ इति अतिः कः) (अञ्चु गतिपूजनयोः भ्वा/प/से+अतिः, क:)अञ्चति गच्छतीति अङ्कतिः = वायुः । अग्निः, अग्निहोत्री (वि), ब्रह्मा ।, ९७१. अंहतिः (पुं)हन्तेरंह च - ४.६२ इति अतिः) (हन हिंसागत्योः अ/प/अ +अतिः) हन्यते दुरितमनयेतिअंहतिः = दानम् । रोग:, त्यागः, निर्वापणम्, अपवर्जनम् ।
285 · p. 145
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
९६५. अमति:अमतिस्त्वनभिप्राये रुजायां चन्द्रकालयोः । ४.१८४९६८. वसतिः वसतिस्तु निशि स्थित्यां जैनानामाश्रये गृहे । ४.१८५९६९. अरतिः अधृतौ रमणे [?] चैव क्रोधेऽप्यरतिरुच्यते ।४.१८७९७०. अङ्कति: ब्रह्माग्नियज्वपवनेष्वङ्कतिश्चाञ्चतिः पुमान् । ४.१८७९७१. अंहतिः रथमांसार्थकालेषु दानेऽप्यंहतिरुच्यते । ४.१८८वस्तिस्तिरस्कारवीरखड्गमारुतवाचकः ।देहभेदप्रशान्तात्मभेरिभाण्डादिकेऽपि च ।प्रतिः प्रकाशे लशुने कार्पासे कम्बलादिषु ।रुचितं मोहने ज्ञाने मनोज्ञे मन्मथादिषु । 975रचितं युक्तिदेवेन्द्रप्रभाकरशिवेन्दुषु ।22 कृषितं कृषिभूषाश्वगतिकान्तिप्रमादिषु ॥अतिश्चातिर्वायुमृगप्रेमव्योमादिकेऽपि च ।अतिथिः सूर्यभूपालमणियाचकवाचकः ॥मन्थाः मन्थनमारीचद्युतिदेवेन्द्रखाति(दि?)षु । 980
286 · p. 145
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
९७२. वस्तिः (न) (वसेस्ति: - ४.१७९ इति ति:) (वस निवासे भ्वा/प/अ +ति:) वसत्यत्र मूत्रमिति वस्तिः = नाभेरधोभागः (मे) । दशासूत्रम् (मे), ९७५. रुचितम् (त्रि) (रुचिवचिकुचि- ४.१८५ इति कितच्) (रुच दीप्तावभिप्रेतौ च भ्वा/आ/से +कितच्) रोचते इति रुचितम् =इष्टम् ।, ९७८. आतिः (पुं) (अज्यतिभ्यां च - ४.१३१ इति इण) (अत सातत्यगमने भ्वा/प/ से + इण) अतति निरन्तरं गच्छतीति आतिः = तित्तिरिपक्षी । (त्रि) सततगन्ता ।, ९७९ अतिथि:(पुं) (ऋतन्यञ्जि - ४.२ इति इथिन्) अत सातत्यगमने वा/प/से +इथिन्) अतति सतत्येनगच्छति इत्यनिथि: = आगन्तुः ।, ९८०. मन्थाः (पुं) (मन्धः - ४.११ इति इनि:) (मन्थ विलोडनेक्रया/प/से +इनि:) मथ्नातीति मन्थाः = मन्थानदण्डः । चापः, वज्रम् ।
287 · p. 146
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
९७८. अति:/आति: अति: समापनौ संयत्यातिव्य[तिस्त्व]निलगन्तृषु । ४.३८०९७९. अतिथि: अतिथि: कुशपत्रे स्यात्पुमानागन्तुके त्रिषु ।९८०. मन्थाः मन्था मथनदण्डे ना वज्र वाते बृहस्पतौ । ४.४३पन्थाः प्रचारमार्गाङ्कमृगत्वङ्मणिमन्तृषु ।शब्द: कादौ ध्वनिब्रह्मरमणीमरुतादिषु ॥शादः पीताम्बरादित्यकलिविद्रुमबन्धुषु ।तृणभेदार्यपाषण्डनिषादादिषु निस्स्पृहे ॥स्यन्दने मन्मथे स्वर्णे मधुपे मत्स्ययन्त्रयोः । 985मन्दो दैत्यविरूपाक्षविमलादिषु भूरुहे ।बृन्दा बृन्दावनारूढदैत्यकान्तादिषु प्रिये ॥कन्दस्तुन्दिलचम्पाकनीवाराकारभाविषु ।कुन्दः पुष्पवनार(रि?)ष्टविष्णुचन्द्रादिकेऽपरे ॥
288 · p. 146
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
९८१. पन्थाः (पुं) (पतस्थ च - ४.१२ इति इनिः) (पत्लृ गतौ भ्वा/प/से +इनिः) पतन्ति यान्त्यनेनेति पन्थाः = मार्गः । नरकविशेषः (मे), ९८२. शब्दः (पुं) (शाशपिभ्यां ददनौ- ४.९७ इति दन्) (शप आक्रोशे दि/उ/अ +दन्) शब्द्यते आडूयतेऽनेनेति स शब्दः = नादः,श्रोत्र - ग्राह्यगुणपर्यायविशेष: = निनदः ।, ९८९. कुन्दः (पुं. न) (अब्दादयश्च - ४.९८ इति दन्)(कु शब्दे अ/प/अ +दन्) कौतीति कुन्द: मल्लिकावृक्षः । (पं) कुन्दुरु नाम गन्धद्रव्यम् । विष्णुः, भ्रमियन्त्रभेदः, कुबेरस्य निधिभेदः ।
289 · p. 147
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
औणादिकपदार्णवः
९८१. पन्थाः लब्धवर्णैः पुंसि पन्थाः पदव्यां परिकीर्तितः । ४.४५९८२. शब्दः शब्दोऽक्षरयशोगीतव्योमवाक्यध्वनिष्वपि ।करोति शब्दं यस्तत्र शाब्दिकष्टकि कथ्यते । ४.२५९९८३. शादः शादस्तु कथितो धीरैः पुंसि जम्बालशष्ययोः । ४.१५८शाद्वलस्त्रिषु तद्युक्तदन्त्ययो [क्ते तदस्त्य] स्माड्वलज्वधेः ।९८९. कुन्दः कुन्दश्चक्रभ्रमे माध्ये निधिभेदे सुरद्विपे । ४.२६१अब्दादिषु परेऽप्येवमूहनीया यथामति ।वेदः सुवर्णकान्तारप्रियायज्ञाङ्गकादिषु । 990भिदि:भिदिपदे वह्निकुठाराक्रान्तमूर्तिषु ।दा(दो?)नचन्द्रपवनाचार्यशालाक्षकटिधेनुषु ।सारधि: करटुप्रेतक्षत्ताभ्रष्टविरोधिषु ।स्कन्ध(न्द?)श्चतुरवैयाघ्रचर्मनौकाग्निकान्तिषु ।पयोधाः कुटिले कामे परमात्मादिकेऽपि च । 995पुरोरोधाः पुरोधाश्च पुरोहितवसन्तयोः ।वर्ण(र्णो?)श्वमूकदावाग्नियज्ञाङ्गादिषु कर्मणि ।करन्नः कंत्तु(कर्तृ?)गोविन्दकमलासनभादिषु ।कलन्नश्चाशोकवेगवायुभूपालजातिषु ।
290 · p. 147
अनुष्टुप्metre not read in every line
उणादिनिष्पत्तिः
९९१. भिदिः (पुं) (कॄगॄशॄपॄकुटिभिछिदिभ्यश्च - ४.१४२ इति इ:) (भिदिर विदारणे रु/ उ/अ +इः) भिनत्तीति भिदिः = वज्रम् ।, ९९३. सारथि: (पुं) (सर्तेर्णिच्च - ४.८९ इति घतिन्) (सृ गतौ भ्वा/प/अ +घतिन्) सारयत्यश्वानिति सारथिः = सूतः ।, ९९४. स्कन्दः (पुं) (स्कन्देश्च स्वाङ्गे - ४.२०६ इति असुन्) (स्कन्दिर् गतिशोषणयोः भ्वा/प/अ +असुन्) स्कन्दति गच्छतिचेष्टते यस्सः स्कन्दः = बाहुमूलम् । वृक्षावयवः ।, ९९५. पयोधाः (पुं) (पयसि च - ४.२२९ इतिअसि:) (डुधाञ् धारणादौ जु/उ/अ +असिः) पयो दधातीति पयोधा: = वर्षन्मेघः । समुद्रः ।,९९६. पुरोधाः (पुं) (पुरसि च - ४.२३ इति असिः) (डुधाञ् धारणपोषणयोः जु/उ/अ +असिः) पुरोऽग्रे यजमानं दधातीति पुरोधाः = पुरोहितः (अ) ।९९१. भिदिः भिदिर्वजे प्रकथितः परशौ च्छिदिरिष्यते । ४.४०८९९३. सारथिः सारथिः पुंसि विबुधैः कथितो रथवाहके । ४.२३६22a कट<ड>न्न: पवने चन्द्रे शय्यायां वर्तुलादिके । 1000कादन्नश्चटिले भस्मे गोबिले शकटादिके ।निषिद्धवीरचण्डाश्वप्रलयाङ्काम्र शम्भुषु ॥ज्यानिरग्निमहासत्त्वयोग्यवारिधिजादिषु ।हानिर्विहारत्यागादनागादिशरभादिषु ॥योनि: कारणदेवेशभागपुच्छभवादिषु । 1005ग्लानिरादित्यकष्टाब्धिदुर्गन्धादिषु चन्द्रके ।मुनिः शशाङ्के कमठे सिंहे गोमायुवारिषु ।
291 · p. 148
अनुष्टुप्metre not read in every lineLatin letters: anearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
तरलाव्याख्या
उणादिनिष्पत्तिः
१००३. ज्यानिः (स्त्री) (वीज्याज्वरिभ्यो नि: - ४.४८ इति निः) ज्या वयोहानौ क्रया/ प/अ +निः) जिनाति वयोहीनो भवतीति ज्यानि: = वार्धक्यम् । हानि:, तटिनी ।, १००४. हानि:(स्त्री) (वहिश्रिश्रुयुद्रु - ४.५१ इति निः) (ओहाक् त्यागे जु/प/अ +निः) हीयते जहाति वेतिहानिः = क्षतिः ।, १००५. योनिः (पुं) (स्त्री) (वहिश्रिश्रुयुद्रु - ४.५१ इति नि:) (यु मिश्रणे अ/ प/से+नि:) यौति संयोजयतीति योनिः = कारणम् । जलम्, तन्त्रशास्त्रविशेषः, प्राणिनामुत्पत्तिस्थानम् । १००६. ग्लानिः (स्त्री) (वहिश्रिश्रुयुद्रु - ४.५१ इति निः) (ग्लै हर्षक्षये भ्वा/प/अ +निः) ग्लायति अनेन इति ग्लानिः = बलहीनता । रोगः ।, १००७. मुनिः (पुं) (मनेरुच्च - ४.१२२ इति इन्, उ:)(मन ज्ञाने दि/आ/अ +इन्, इ.) मन्यते मनुते वेति मुनिः = वाचंयमः । बङ्गसेनतरुः (मे), जनिः(मे) (स्त्री) दक्षकन्या, द्युतिमत: पुत्राणामन्यतमः, कुरुपुत्रभेदः ।
292 · p. 149
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
१००३. ज्यानिः ज्यानिः स्त्रियां वृद्धिहानिप्रभावेषु सरित्यपि । ४.१३७१००४. हानिः उपाये हानिराख्याता तूर्निस्तरसि कथ्यते । ४.१४७१००५. योनिः योनिर्द्वयोर्भगे स्थाने कारणाकारयोरपि । ४.१५१००६. ग्लानि: ग्लनिर्हर्षक्षये स्त्रियाम् । ४.१५७ ह्नानिर्ग्लानिसमानार्थः भवेद्बाहुलकादिषु । ४.१५८खनिर्द्रव्ये च नक्षत्रे कमले भूपदेहिषु ।ध्वनिमहेश्वरे सत्ये नादश्वापदधारिषु ।वनिर्वनमनोजातमृतवाराहकादिषु । 1010 सनिः संसारखड्गादिमृगराजादिकेऽपि च ।दमूना: पन्नगेऽश्वे च गृहे मू(मृ?)तादिकेऽपि च ।अमत: कालमृत्यौ च मर्त्यमातङ्गचारिषु ।वापिर्जलाशये चित्ते वक्त्रे कुटिलपूरुषे ।
293 · p. 149
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
१००८. खनि: (स्त्री) (खनिकष्यज्यसिव - ४.१३९ इति इः) (खनु अवदारणे भ्वा/उ/से +इ:) खन्यते यत्रेति खनिः = रत्नाद्युत्पत्तिस्थानम् (अ) ।, १००९. ध्वनि: (पुं) (खनिकष्यज्यसिवसि - ४.१३९ इति इ:) (ध्वन शब्दे भ्वा/प/से +इ:) ध्वननमिति ध्वनि: = शब्दः । ध्वन्यतेऽस्मिन्नितिध्वनिः = उत्तमकाव्यम् ।, १०१०. वनिः (पुं) (खनि कष्यज्यसिवसि - ४.१३९ इति इ:) (वन सम्भक्तौ भ्वा/प/से +इ:) वन्यते सम्भज्यते इति वनि: = अग्निः ।, १०११. सनिः (पुं. स्त्री) (खनिकष्यज्यसिवसि - ४.१३९ इति इ.), (षणु दाने त/उ/से +इ:) सनोति (ददातीति) यदितिसनिः = दानम् ।, १०१२. दमुना: (पुं) (दमेरुनसि: - ४.२३४ इति उनसिः) (दमु उपशमे दि/ प/से +असिः) दाम्यत्युपशमयतीति दमुना: = अग्नि: (अ) ।, १०१४. वापि: (स्त्री) (वसिवपियजिराजि-४.१२४ इति इञ्) (डुवाप् बीजसन्ताने भ्वा/उ/अ +इञ्) उप्यते पद्मादिकमस्यामिति वापि: = वापी ।
294 · p. 150
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
१००७. मुनिः मुनिः पुंसि वरिष्ठादौ वङ्गसेनतरौ जिने । ४.३६०१००८. खनिः आकारे स्यात्खनिय॑न्तात्खानिः स्यात्प्राच्यसूत्रतः । ४.३९७ १००९,१०१०,१०११. ध्वनि:,वनिः,सनि: -वनिरग्नौ सनिर्दाने भक्तौ च ध्वनिरारवे । ४.३९८अपि काव्यशरीरात्मन्यालोकादिकसम्मते ।१०१४. वापि वासिस्तु छेदनद्रव्ये वापी पुष्करिणी स्मृता । ४.३६५कपिः कल्याणचित्तेशवानराचार्यजन्तुषु । 1015कुल्फं पिपीलिकालेख्यस्वर्णकारादिकेऽपि च ।गुल्फं प्रतीकाम्बष्ठादिमुरादिप्रलयादिषु ॥शम्बा चारित्रकल्माषपीठबुद्धिद्रुमादिषु ।उल्बः स्तृणविशेषे स्यादविद्याकप्रियादिषु ॥कुल्बं विरोधिपातालघटकाठिन्यवस्तुषु । 1020रज्जौ चाधस्तम्ब इष्टे भोज्ये मौर्ख्यादिकेऽपि च ।नाभिरादित्यदेहाङ्गकस्तूरिफ्नसादिषु ।
295 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
तरलाव्याख्या
उणादिनिष्पत्तिः
१०१५. कपिः (पुं) (कुडिकम्प्योर्नलोपश्च - ४.१४३ इति इ:) (कपि चलने भ्वा/आ/से +इ ) कम्पते यः सदा स ।, कपिः = वानरः (मे) । सिह्लकः (मे), विष्णुः (मे), करञ्जभेदः ।, १०१६. कुल्फः (पुं, न) (कलिगलिभ्यां फगस्योञ्च - ५.२६ इति फक्) (कल शब्दसङ्ख्यानयोः भ्वा/आ/से +फक्) कलते सङ्ख्याते इति कुल्फ: = शरीरावयवः । रोगः ।, १०१७. गुल्फः (पुं) (कलिगलिभ्यां फगस्योच्च - ५.२६ इति फक्) (गल अदने भ्वा/प/से +फक्) गलति मृत्तिकादिकं भक्षयतीति गुल्फ: = पादग्रन्थिः ।, १०१८. शम्बः (पुं) (शमेर्बन् - ४.९४ इति बन्) (शम उपशमेदि/प/से +बन्) शम्यते अनेनेति शम्बः = मुसलाग्रस्थं लोहमण्डलकम् (वि.मे) । लौहकाञ्ची, अनुलोमकर्षणम्, दरिद्रः, (त्रि) भाग्यवान्, पविः (वि.मे) शुभान्वितम् ।, १०१९. उल्बम् (न)(उल्बादयश्च - ४.९५ इति बन्) (उच समवाये दि/प/से +बन्) उच्यते इत्युल्बम् = जरायुः ।
296 · p. 151
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
१०१५. कपि कपिर्ना सिंहकार्केभकीटेषु मधुसूदने । ४.४०९१०१८. शम्बा शम्ब: स्यान्मुसलाग्रस्थलोहमण्डलके पवौ । ४.२४७शुभान्विते त्वयं प्रोक्तो विबुधैरभिधेयवत् ।१०१९. उल्बं उल्बं तु न द्वयोरुक्तं गर्भवेष्टनचर्मणि । ४.१४९वातप्रमीर्मृगे चन्द्रे सिंहे गोपाले मण्डले चिते ।23 पचेलिमा: प्रपन्ने च पुरादिषु विरोचने ।हर्षे धने निर्भित्त्यां स्यादसारे कुङ्कुमादिषु । 1025भूमिर्भूमण्डलाकारश्वभ्रजोलादिकेऽपि च ।क्रिमिः कुटिलजन्त्वण्डऽछायापुत्रादिकेऽपि च ।गिमिर्मातङ्गचण्डालदेहफूत्कारवारिषु ।
297 · p. 151
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
१०२२. नाभिः (पुं) (नहो भश्च - ४.१२५ इति इञ्, भः) (णह बन्धने दि/उ/अ +इञ्) नह्यते बध्नाति विपक्षादीनिति नाभिः (मे) = मुख्यनृपः । चक्रमध्यम् (मे) क्षत्रियः (मे), प्रियव्रतराजपौत्रः, गोत्रम्, प्रधानम्, शिव:, (स्त्री) कस्तूरिकमदः (मे), (पुं, स्त्री) उदरावर्तः ।, १०२३. वातप्रमी: (स्त्री)(वातप्रमी: - ४.१ इति ई:) (माङ् मनने जु/आ/अ +ई:) वातं प्रमिभीते वाताभिमुखं गच्छतीतिवातप्रमीः = वातमृगः। अश्वः, (त्रि) वायुवद्वेगगामी ।, १०२४. पचेलिम: (पुं) (पच एलिमच् - ४.३७ इति एलिमच्) (डुपचष्पाके भ्वा/उ/अ +एलिमच्) पचत्यसाविति पचेलिम: = सूर्यः ।अग्निः ।, १०२६. भूमिः (पुं) (भुवः कित् - ४.४५ इति मि:) (भू सत्तायाम् भ्वा/प/से +मि:) भवन्ति उत्पाद्यन्ते भूतान्यस्यामिति भूमिः = पृथिवी (मे) । स्थानमात्रम् (मे), जिह्वा योगिनामवस्थाविशेषः ।, १०२७. क्रिमिः (पुं) (क्रिमितमिशतिस्म्भामत इञ्च - ४.१२१ इति इन् इ:) (क्रमु पादविक्षेपे भ्वा/प/से +इन्, इ.) क्राम्यति पादान् विक्षिपतीति क्रिमिः = कीटः ।रोगविशेषः।
298 · p. 152
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
१०२३. वातप्रमी: वातप्रमीर्वातमृगे शमीवृक्षे हयेऽपि च । ४.१ वातप्रमीश्रीलक्ष्मीति पक्ष्येङ्यन्तात्सुसाधवः । ४.३१०२४. पचेलिमाः पचेलिमो वह्निरव्यो: कर्तरि प्रत्ययो ह्यसौ । ४.११३१०२६. भूमिः स्थानमात्रे च विबुधैर्भूमिर्भुवि च कथ्यते । ४.१३११०२७. क्रिमिः क्रिमिः कीटे च लाक्षायामीश्वरे चानुवृत्तितः । ४.३५७निमिरादित्यभूपालतरुणार्कादिकेऽपि च ।तिमिः पञ्चास्यनीवारशाश्वताहार्यकादिषु । 1030कर्म व्याप्ये तु वरुणक्रियाकौशलजन्तुषु ।वर्म प्रसङ्गपुच्छाङ्गद्विपनारीद्रुमादिषु ॥चर्म देहप्रभाढङ्कसर्पनाराचकादिषु ।शर्म स्वर्गसुखारामदेवघातादिकेऽपि च ॥जन्म चिन्तनपाषण्डवैशाखादिषु दारुणिः । 1035
299 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
तरलाव्याख्या
उणादिनिष्पत्तिः
१०३०. तिमिः (पुं) (क्रमितमिशतिस्तम्भामत इच्च - ४.१२१ इति इन्, इ:) तमु काङ्क्षायाम् दि/प/से +इन् इ:) तिम्यतीति यद्वा ताम्यति जलं सर्वदेति आकाङ्क्षतीति तिमि = मत्स्यविशेषः । समुद्रः ।, १०३१. कर्म (न) (सर्वधातुभ्यो मनिन् - ४.१४४ इति मनिन्) (डुकृञ् करणे त/उ/अ +मनिन्) यत्क्रियते तत् कर्म = क्रिया ।, १०३३, चर्म (न) (सर्वधातुभ्यो मनिन्-४.१४४ इति मनिन्) (चर गतौ भ्वा/प/से +मनिन्) चरति गच्छति येन तत् चर्म = त्वक्(मे)शरीरावरकं शस्त्रम् (मे) ।, १०३४. शर्म (न) (सर्वधातुभ्यो मनिन् - ४.१४४ इति मनिन्) (शॄ हिंसायाम् क्रया/प/से +मनिन्) शृणाति दुःखमिति शर्म = सुखम् । सुखी ।, १०३५. जन्म (न) (सर्वधातुभ्यो मनिन् ४.१४४)(जनी प्रादुर्भाव दि/आ/से +मनिन्) जायते इति जन्म = उत्पत्तिः ।
300 · p. 153
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
१०३०. तिमिः प्रसारणे कृमिरपि स्यात्तिमिर्ना झषान्तरे । ४.३५८गिलेऽगिलस्येति मुमा तिमिङ्गिल उदाहृतः ।१०३१. कर्म कर्म व्याप्ये क्रियायां च पुनपुंसकयोर्मतम् । ४.४१२घटते यः क … [र्मणि] स्यात् कर्म [कर्मठः स च] वाच्यवत् ।१०३२,१०३४. वर्म,शर्म सुत्रामा सुरनाथे ना शर्म वर्मेति नाम्यपि [नान्न्यमी] । ४.४१८मनिन्नन्ता इतोऽन्येऽपि ज्ञेया एवं प्रयोगतः ।१०३३. चर्म अजिने फलके चैव कथितं चर्म न द्वयोः । ४.४१५१०३५. जन्म … [जन्म] स्याज्जनने नर्म केलौ स्थाम बले स्मृतम् । ४.४१७ब्रह्म प्रजापतौ बोधाप्रचारसुतादिषु ।शक्मा चिन्तानलापूपसुधर्मादुष्टशारिषु ॥भरिमा चूतपुष्पादौ हरिमा शङ्करादिषु ।सरिमा वानरादौ स्याद्धरिमा वनितादिषु ॥स्तरिमा मेघगगनकल्पादौ जनिमा हृदि । 1040मनुष्यादौ सुखे चन्द्रे वे(हे?)मांशुककरादिषु ।
301 · p. 153
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
तरलाव्याख्या
उणादिनिष्पत्तिः
१०४२. नाम (न) (नामन् सीमन् - ४.१५ इति मनिन्) (म्ना अभ्यासे भ्वा/प/अ +मनिन्) म्नायते अभ्यस्यते यत् तत् नाम = अभिधानम् । लिङ्गम् ।, १०४४. वेमा (पुं) (वेञ:सर्वत्र - ४.१४९ इति इमनिन्) (वेञ् तन्तुसन्ताने भ्वा/उ/अ +इमनिन्) वयत्यनेनेति वेमा =वापदण्डः ।, १०४५. सुशर्मा (पुं) (मिथुने मनि: - ४.१५१ इति मनि:) (शॄ हिंसायाम् क्रया/प/ से +मनिः) सुष्ठु शृणाति यः स सुशर्मा = राजविशेषः । शोभनसुखविशिष्टः ।, १०४७. माया (पुं)(माछाससिभ्यो यः - ४.१०९ इति यः) (मा माने अ/प/अ +यः) मीयते अपरोक्षवत्प्रदर्श्यतेऽनयाइति माया = इन्द्रजालादिः । बुधि: (मे), दम्भ: शठता, प्रज्ञा, लक्ष्मीः, बुद्धमाता, दुर्गा, अविद्या, शक्ति: (पुं) असुरभेद: पीताम्बरः ।, १०४८. छाया (स्त्री) (माछाससिभ्यो य: - ४.१०९ इति यः)(छो छेदने दि/प/अ +यः) छ्यति छिनत्ति सूर्यादेः प्रकाशं नाशयतीति छाया = भावानुगा(श्यामा) । प्रतिबिम्बम् (मे), सूर्यपत्नी (मे), पालनम् (मे), उत्कोचः (मे), कान्तिः (वि), पङ्क्तिः (वि), तमः (वि), सदृश्यम् (मे), कात्यायनी । <१०४८. जाया जनी प्रादुर्भावे दि/आ/से +यक्>
302 · p. 154
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
१०४२. नाम नामाख्या प्रातिपदिके क्लीबं ख्याते तदव्ययम् । ४.४३५१०४४. वेम अर्धर्चादिर्वायदण्डे वेमा स्याल्लोकवेदयोः । ४.४३४१०४५. सुशर्मा सुशर्मेति मनिन्यन्तोदात्त एष न सिध्यति ।१०४७. माया माया स्याच्छाम्बरीबुध्योर्मायः पीताम्बरेऽसुरे ।अस्मायेत्यादिविनिना मायावी तद्वति त्रिषु । ४.३००पुत्रिकादौ प्रियाल्यादौ, वन्ध्या वन्ध्यादिकेऽपि च ।भाण्डागारकरज्जा स्याच्छक्यं गोत्रादिकेऽपि च । 1050रुचिष्यं मित्रपुष्पादौ भुजिष्या सेविकादिषु ।शर्करागुपशैलादौ मुकुरादौ च पुष्करम् ।
303 · p. 154
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
१०४९. वन्ध्या (स्त्री) (अघ्नयादयश्च - ४.१११ इति यक्) (बन्ध बन्धने भ्वा/आ/से +यक्) बध्यते प्रतिबध्यते अस्यां गर्भ इति वन्ध्या = अप्रसूता ।, १०५१. रुचिष्यम् (त्रि) (रुचिभुजिभ्यांकिष्यन् - ४.१७८ इति किष्यन्) (रुच दीप्तावभिप्रीतौ च भ्वा/आ/से + किष्यन्) रोचते तत्रुचिष्यम् = इष्टम् ।, १०५२. शर्करा (स्री) (श्रः करन् - ५.३ इति करन्) (शॄ हिंसायाम् क्रया/ प/से +करन्) शृणातीति शर्करा = खण्डविकृतिः । उपला (मे), कर्पूरांश: (मे), शर्करान्वितदेशः(मे) रोगभेदः (मे), शकलम् (मे) ।, १०५२. पुष्करम् (न) (पुषः कित् - ४.४ इति करन्) (पुष पुष्टौ क्रया/प/से +करन्) पुष्णातीति पुष्करम् = हस्तिशुण्डाग्रम् । कुष्ठौषधि (मे), द्वीप(मे), वाद्यभाण्डमुखम् (मे), जलम् (मे), व्योम (मे), खड्गफलम् (मे), पद्मम् (मे), (न) तीर्थभेद:(मे), पर्वतविशेषः (मे), (पुं) रोगविशेषः (मे), नागविशेषः (मे), सारसपक्षी (मे), नलभ्राता(मे), वरुणपुत्रः (मे), वाद्यविशेषः, (न)युद्धम्, असुरभेदः, विष्णुः ।
304 · p. 156
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
१०४८. छाया छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः । ४.३०२१०४९. वन्ध्या वन्ध्यस्त्वफलवृक्षादौ स्त्रियां स्यादप्रजस्त्रियाम् । ४.३१७१०५०. शर्करा शर्करा खण्डविकृतावुपलाकर्परांशयोः । ४.२६रोगभेदेऽपि शक्ले स्त्रियां विद्वद्भिरुच्यते ।शर्करा: सन्ति देशेऽस्मिन्नित्यर्थस्य विवक्षणे ॥स्युः शर्कराः शर्करिल: शार्करः शर्करावता ।इवार्थे शर्करादिभ्योऽण् शर्करेवेति शार्करम् ॥१०५२. पुष्करं पुष्करं पङ्कजे व्योम्नि पयः करिकराग्रयोः । ४.३४ औषधद्वीपविहगतीर्थरागोरगान्तरे ।तूर्यवक्त्रेऽपि कथितं काण्डे खड्गफलेऽपि च ।वरुणादौ च पद्मादौ कु(कि?)टर: कुङ्कुमादिषु ।देहल्यादौ च पक्ष्यादौ करीरं घुटिकादिषु ।सुवर्णादौ शरीरं तु देहपात्रादिके तथा । 1055कटि(टी?)रं कुटिशय्यादौ पटीरं तु घनादिषु ।उशिरः पावकादौ च सूर्यादौ शङ्करादिषु ।
305 · p. 156
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्ति:
१०५४. करीरः (पुं) (न) (कॄशॄपॄकटिपटिशौटिभ्य ईरन् - ४.३ इति ईरन्) (कॄ विक्षेपे तु/प/से +ईरन्) किरति विक्षिपति स्वदेहजावरणादीनीति करीरः = वंशाङ्कुरः । घटः, कण्टकिवृक्षः ।, १०५५. शरीरम् (न) (कॄशॄपॄकटिपटिशौटिभ्य - ४.३ इति ईरिन्) (शॄ हिंसायाम् क्रया/प/से+ ईरन्) शीर्यते रोगादिना यत् तत् शरीरम् = कलेबरम् । (त्रि) देहजातम् ।, १०५६. कटीर: (पुं)(कॄशॄपॄकटिपटिशौटिभ्य - ५.३ इति ईरन्) (कटे वर्षावरणयोः भ्वा/प/से +ईरन्) कट्यतेआव्रियते वाससा इति कटीरः = जघनम् ।, १०५६ पटीरम् (न) (कॄशॄपॄकटिपटिशौटिभ्य - ४.३ इति ईरन्) (पट पुटेति गतौ भ्वा/प/से +ईरन्) पटतीति पटीरम् = तितउः (मे) । तुङ्गम्, मूलकम्, केदारः, वारिदः, वेणुसर: वातिकः, खदिरः, उदरम्, कन्दर्पः हरणीयम् (वि) । १०५७. उशीरम् -(पुं, न) (वशेः कित् - ४.३१ इति ईरन्) (वश कान्तौ अ/प/से +ईरन्) उश्यते काम्यतेइत्युशीरम् = वीरणमूलम् ।
306 · p. 157
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
१०५३. (कुटर:)कुटरु: कुटरुर्वधका वस्त्रगेहेऽपि परिकीर्तितः । ४.२२११०५४. करीरम् वशाङ्कुरे करीरोस्त्री वृक्षभिद्धटयोः पुमान् । ४.९८करीरा चीरिकायां स्त्री दन्तमूले च दन्तिनाम् ।१०५५. शरीरम् वपुष्यस्त्री शरीरं स्यात्परे द्रव्येऽपि कथ्यते । ४.९९१०५६. कटीरम् फले परीरं दर्यान्तु कटीरो जघनेऽपि च ।१०५६. पटीरः पटीरश्चन्दनरसे कन्दुके (कण्टके) कार्मुके स्मरे । ४.१००१०५७. उशीरम् उशीरं वीरणतरोर्मूले स्यात्पुंनपुंसकम् । ४.१०५कुलीरं मैथुने वारि कम्बलादौ च गाधिजे ।गभीरश्चापि गम्भीरो वारिधौ गोकुलादिषु ।खर्जूरः पावके सूर्ये रजितादौ प्रगल्भके । 1060कर्पूरः कञ्चुके हेम्नि पटीरादौ महेश्वरे ।कण्डूरश्चेकिताने स्याद्बिलेशयशरादिषु ।मयूरः कपिचन्द्रार्कशिखिगोपालमूर्तिषु ।
307 · p. 157
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
१०५८. (कुलीरम्) कुरीरम् (न) (कृञ् उच्च - ४.३३ इति ईरन्) (डुकृञ् करणे त/उ/अ +ईरन्) क्रियत इति कुरीरम् = मैथुनम् ।, १०५९. गभीरम् (त्रि) (गभीरगम्भीरौ - ४.३५ इति ईरन्) (गम्लृगतौ भ्वा/प/अ +ईरन्, नुम्) गच्छति जलमत्रेति गभीरम् = निम्नम् । गहनम्, प्रचण्डम्,आगाधम्, नीचस्थानम् ।, गम्भीरः (त्रि) (गभीरगम्भरौ - ४.३५ इति ईरन्, नुम्) (गम्लृ गतौ भ्वा/प/अ +ईरन्, नुम्) गम्यते प्राप्यते ज्ञायते वा स गभीरः = महासरः । गम्भीरम्, (पुं) जम्बीर:, पङ्कजम्, ऋङ्मन्त्रः, शिवः, हिक्कारोगभेदः (स्त्री ।, १०६०. खर्जूरः (पुं. स्त्री) (खर्जिपिञ्जादिभ्यऊरोलचौ - ४.९ इति ऊरः) (खर्ज मार्जने भ्वा/प/से +ऊर:) खर्जति मार्जयतीति खर्जूरः =वृक्षभेदः । वृश्चिकः, (न) खर्जूरः ।, १०६१. कर्पूरः (पुं, न) (खर्जिपिञ्जादिभ्य ऊरोलचौ - ४.९ इतिऊरः) (कृपू सामर्थ्ये भ्वा/आ/वे +ऊरः) कल्पते ज्वलने समर्थो भवतीति कर्पूरः = घनसारः ।
308 · p. 158
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
१०५८. कुलीरः लत्वे कपिलकादित्वा त्कुलीर: कर्कटे स्मृतः । ४.१०८१०५९. गभीरः,गम्भीरः निम्ने गभीरगम्भीरौ स्यातामचपलेऽपि च । ४.११०गम्भीराञ्ञ्य इति ज्येन गाम्भीर्यं तद्भवे त्रिषु ।१०६०. खर्जूरः खर्जूरं रूप्यफलयोः पुंसि वृश्चिकटीकयोः । ४.२३७१०६१. कर्पूरः कर्पूरं घनसारेऽस्त्रि वल्लूरं शुष्कजाङ्गले । ४.२३७१०६३. मयूरः मयूरो बर्हिचूडायामपामार्गे शिखण्डिनि । १.३४१मेरु: पर्वतशैलाग्रदेवश्रेष्ठादिकेऽपि च ।पेरुरर्काश्वमहिषभूर्जकन्तसरादिषु । 1065शित्रुः वृक्षमयूखाग्रवर्षविष्कनखादिषु ।श्मश्रुश्चुबुककेशाण्डकेशवानङ्गनादिषु ॥शत्रुर्द्वेषणभूपालचारद्वीपालिकेषु च ।रुरुर्मृगमयूराङ्कबलीवर्दादिकेऽपि च ॥शारिर्भुजङ्गभूपालपाशकाङ्गादिकेषु च । 1070
309 · p. 158
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
१०६३. मयूरः (पुं) (मीनातेरूरन् - १.६७ इति ऊरन्) (मीञ् हिंसायाम् क्रया/उ/अ +ऊरन्) मीनाति हन्ति सनिति मयूरः = बहीं । मयूरशिखावृक्षः ।, १०६४. मेरु: (पुं) (मिपीभ्यांरु: - ४.१०१ इति रु:) (माङ् माने जु/आ/अ +रु:) मिमीते ज्योतीषि उच्चत्वादिति मेरुः =मेरुपर्वतः । जपमालाग्रवर्तिनी ।, १०६५. पेरुः (पुं) (मिपीभ्यां रुः - ४.१०१ इति रुः) (पीङ् पाने दि/आ/अ +रु:) पीयते रसानिति पेरुः = सूर्यः । वह्निः समुद्रः, रक्षकः ।, १०६७. श्मश्रुः (स्त्री)(श्मनि श्रयतेर्डुन् - ५.२८ इति डुन्) (श्रिञ् सेवायाम् भ्वा/उ/से +डुन्) श्म मुखमाश्रयत इतिश्मश्रुः = पुरुषमुखरोमाणि ।, १०६८. शत्रुः (पुं) (रुशातिभ्यां क्रुन् - ४.१०३ इति क्रुन्) (शद्लृ शातने भ्वा/प/अ +क्रुन्) शादयतीति शत्रुः = रिपुः ।, १०६९. रुरुः (पुं) रुशातिभ्यां क्रुन् - ४.१०३ इति क्रुन्) (रु शब्दे अ/प/से +क्रुन्) रौतीतिरुरुः = मृगविशेष: (मे) । दैत्यः (मे)च्यवनपौत्र: मुनिविशेषः ।;cआणादिकपदार्णवः}१०६४,१०६५. मेरु:,पेरु: मेरुः स्यात्काञ्चनगिरौ पेरुः सूर्ये नृपेऽपि च । ४.२६९१०६८. शत्रुः शैषिकेऽणि समासे च शत्रुस्तु परिपन्थिनि । ४.२७१प्रज्ञादिपाठादत्रैव शात्रवोऽपि प्रकीर्तितः ।१०६९. रुरुः रुरुर्मृगान्तरे दैत्ये मुनिभेदे च कथ्यते । ४.२७०१०७०. शारि: शारिर्नाक्षोपकरणे स्त्रियां शकुनिकान्तरे ।युद्धार्थगजपर्याणे व्यवहारान्तरेऽपि च । ४.३७५शिरः सौभाग्यसौन्दर्यसंवत्सरलखादिषुभरिविष्णौ महेशाने कुक्षिम्भरकुठारयोः ।24 तरिः पर्वतशैलाग्रतटकुम्भस्वारादिषु ।ति(कि?)रिर्वराहमातङ्गमहोदधिशिवादिषु ।गिरिः कुटिलशर्वाणिवाणिगोत्रादिकेऽसुरे । 1075पुरिर्भूधरभूपालनगरार्कादिवाचकः ।
310 · p. 159
अनुष्टुप्metre not read in every lineLatin letters: c
तरलाव्याख्या
उणादिनिष्पत्तिः
१०७०. शारि:,/b> (स्त्री) (श्रः शकुनौ - ४.१२७ इति इञ्) (शॄ हिंसायाम् क्र्या/प/से+इञ्) शृणाति हिनस्तीति शारिः = शकुनिकाभेदः । युद्धार्थ गजपर्याणम् (मे), कपटः, (पुं) अक्षोपकरणम् (मे), (स्त्री) शारिका ।, १०७१. शिरिः (पुं) (कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च - ४.१४२इति इ:) शॄ हिंसायाम् क्रया/प/से +श:) शृणात्यनेनेति शिरिः = खड्गः । शलभः, शरः ।,१०७३. तरिः (स्त्री) (अच इ: - ४.१३८ इति इ:) (तृप्लवनतरणयोः भ्वा/प/से +इ:) तरत्यनयेति तरिः = नौका । दशा, वस्त्रादिपेटिकः ।, १०७४. किरिः (पुं) (कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च - ४.१४२ इति इ:) (कॄ विक्षेपे तु/प/से +इ:) किरति भूमिमिति किरिः = सूकरः । मेघः ।,१०७५. गिरिः (पुं) (कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च - ४.१४२ इति इ:) (गृ निगरणे तु/प/से +इ:) गिरति धारयति पृथ्वी, गीर्यते स्तूयते गुरुत्वाद्वा इति गिरिः = पर्वतः । चक्षुरोगविशेषः (मे)
311 · p. 160
अनुष्टुप्metre not read in every lineLatin letters: b
औणादिकपदार्णवः
१०७१. शिरि: शिरिस्तु शोके शलभे हन्तर्यपि निगद्यते । ४.४०६१०७२. तरिः रवि: सूर्ये पविर्वज्र स्त्रियावावि [स्त्रियां नावि] तरिस्तरी । ४.३९४१०७४. किरि: किरि: कारे च गन्धे च वराहे मूषकेऽपि च । ४.४०२१०७५. गिरिः गिरिर्गिरौ गरीये [गिरीजे] च क्रोडागह्वरशैलयोः । ४.४०३१०७६. पुरिः पुरिनगर्यां भूपाले निम्नगायामपीष्यते ।शालायां कुम्भदास्यां च शिलायां चित्रगुच्छके । ४.४०७वस्त्रं विलोलने वस्त्रे हरनेत्रादिकेऽपि च ।भस्त्राह्यमन्नं वस्याण्डजातकोकिलवारिषु ।राष्ट्रं राज्यविमाद्रङ्ककठिनार्कध्वनादिषु ।भ्राष्ट्रं भ्रमकसद्बन्धुमङ्गलाचारकारिषु । 1080वेष्ट्रम् जञ्जीरनीहारपनसार्चाङ्घ्रिभूतिषु ।आष्ट्रं पातालगगनवडवाङ्गारकादिषु ॥उष्ट्रः पिशाचकरभपोत्रिपुटिकरादिषु ।छत्रं कलत्रवैराग्यातपत्रादिषु सामनि ॥
312 · p. 160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 त्रि (wrong syllable)
तरलाव्याख्या
उणादिनिष्यत्तिः
१०७६. पुरि: (पुं) (कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च - ४.१४२ इति इः) पॄ पालनपूरणयोः चु/उ/से +इ:) पूर्यते जनैरिति पुरिः = नगरम् । राजा, नदी, (स्त्री) शरीरम्, सन्यासिनामुपाधिविशेषः ।, १०७७. वस्त्रम्, (न) (सर्वधातुभ्य: ष्ट्रन् - ४.१५८ इति ष्ट्रन्) (वस आच्छादने अ/आ/अ +ष्ट्रन्)वस्यते आच्छाद्यतेऽनेनेति वस्त्रम् = वसनम् ।, १०७८. भस्त्रा (स्त्री) (हुयामाश्रुभसिभ्यस्त्रन् - ४.१६७ इति त्रन्) भस, भर्त्सनदी यो: जु/प/से +त्रन्) भस्यते दीप्यते यया सा भस्त्रा = अग्निदीपिकचर्मनिर्मितयन्त्रविशेषः । चर्मप्रसेविका ।, १०८०. ,b>भ्राष्ट्र: (पुं) (भ्रस्जिगमि - ४.१५९ इति ष्ट्रन्) (भ्रस्ज पाके तु/उ/आ +ष्ट्रन्) भृज्यते आहारोऽत्रेति भ्राष्ट्रः = अम्बरीषम् । (न)आकाशम् ।, १०८१. वेष्ट्रम् (वैष्ट्रम्) (न) (भ्रस्जिगमि - ४.१५९ इति ष्ट्रन्) (विश प्रवेशने तु/ प/अ +ष्ट्रन्) विषशन्ति सज्जना: येनेति वैष्ट्रम् = त्रिविष्टपम् । (पु) विष्णुः, वायुः ।, १०८२. आष्ट्रम्(न) (भ्रस्जिगमि - ४.१५९ इति ष्ट्रन्) (अशू व्याप्तौ स्वा/आ/वे +ष्ट्रन्) अश्नुते व्याप्नोतीति आष्ट्रम्= आकाशम् ।, १०८३. उष्ट्रः (पुं) (उषिखनिभ्यां कित् - ४.१६१ इति ष्ट्रन्) (उष दाहे भ्वा/प/ से +ष्ट्रन्) ओषति दहतीति उष्ट्रः = क्रमेलकः ।, १०८४. छत्रम् (न) (सर्वधातुभ्यः ष्ट्रन् - ४.१५८इति ष्ट्रन्) (छद अपवारणे चु/उ/से +ष्ट्रन्) छादयत्यनेन आतपादिकमिति छत्रम् = आतपत्रम् ।;p[0162}तन्त्रं विचित्रसन्तानमन्त्रमायविहारिषु । 1085पात्रं पत्रप्रतीकारयोग्यभूचिह्नितादिषु ।नेत्रं लोचनवाञ्छर्तुदेशभेदादिकेऽपि च ॥गात्रं शिशिरकण्ठाम्रफलचैत्यादिकेऽपि च ।b>हात्रं नीरोगनिर्भाग्यशौर्यत्यागादिवाचकम् ॥नात्रं नलिनकोशाण्डतिन्त्रिणीपूतिकादिषु । 1090खात्रं द्युतिविशालाञ्छश्चरुस्वर्गादिकेऽपि चमूत्रं सामुद्रलवणमलमूत्रादिकेऽपि च ।होत्रं हेममरीच्यङ्घ्रिभूषाभेदादिवाचकम् ।यात्रा प्रयाणचमनपुरीमरणकाचका ।मात्रा क्रियायां भार्यायां जनन्यादिषु जानुनि । 1095
313 · p. 161
अनुष्टुप्metre not read in every lineLatin letters: bLatin letters: pLatin letters: bnearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
तरलाव्याख्या
उणादिनिष्पत्तिः
१०८६. पात्रम् (न) (दादिभ्यश्छन्दसि - ४.१६९ इति त्रन्) (पा पाने भ्वा/प/अ+त्रन्) पिबत्यनेनेति पात्रम् = भाजनम् (अ) । योग्यम् (अ) ।, १०८८. गात्रम् (न) (गमेरा च - ४.१६८इति त्रन्) (गम्लृ गतौ भ्वा/प/अ +त्रन्) गच्छति चेष्टतेऽनेनेति गात्रम् = शरीरम् (अ) । अवयव:(अ), स्तम्भः (वि) ।, १०९१. खात्रम् (न) (उषिखनिभ्यां कित् - ४.१६१ इति ष्ट्रन्) खनु अवदारणे भ्वा/उ/से +ष्ट्रन्) खन्यते येनेति खनित्रम् = खननसाधनम् । दारुणम्, वनम्, सूत्रम्, जलाधारः ।, १०९२. मूत्रम् (न) (सिविमुच्योष्टेरू च ४.१६२ इति ष्ट्रन्) (मुच्लृ मोक्षणे तु/उ/अ +ष्ट्रन्) मुच्यते त्यज्यते इति मूत्रम् = प्रस्रावः ।, १०९३. होत्रम् (न) (हुयामाश्रुभासिभ्यस्त्रन् - ४.१६७ इति त्रन्) (हु दानादनयोः जु/प/अ +त्रिन्) हूयत इति होत्रम् = आहुतिः । (त्रि) हविः,होमः (हे) ।, १०९४. यात्रा (स्त्री) (हुयामाश्रुभसिभ्यस्त्रन् - ४.१६७ इति त्रन्) (या प्रापणे अ/ प/अ +त्रन्) यायते इति यात्रा = गमनम् । यातनम् (मे), उत्सव: (मे), व्यवहारः, उपाय: (वि) ।24a अत्रं(अन्त्रम्?) भागे पुरोडाशे स्तोत्रे स्तोमादिकेऽपि च ।धत्रं धरणिकूष्माण्डबीजक्षीरार्णवादिषु ।गेहे चाथ तु वक्त्रं स्याद्गार्हपत्ये शिखादिषु ।वेत्रं लताजिनांभोजनन्दिनामज्वरादिषु ।सत्रं वने दवाग्नौ च यागादौ गोत्रभूभृतोः । 1100योत्रं रज्जुक्रियाहीनमात्रमायक्रियादिषु ।सूरिः पण्डितदैवज्ञजातव्योवा(मा?)दिवाचकः ।शिरः सिंहमहाराजशम्भुमस्तकवाचकम् ।
314 · p. 161
अनुष्टुप्metre not read in every lineLatin letters: a
तरलाव्याख्या
उणादिनिष्पत्ति:
१०९५. मात्रा (स्त्री) (हुयामाश्रुभसिभ्यस्त्रन् - ४.१६७ इति त्रन्) (मा माने अ/प/अ +त्रन्) मातीति मात्रा = मापनम् । कर्णभूषणम् (अ), वित्तम् (अ), परिच्छेदः (अ), अक्षरावयवः(अ), स्वल्पम् (अ), (न) कार्त्स्न्यम् (अ), अवधारणण् (अ), शाकः, कालविशेषः, इन्द्रियवृत्तिः । शिलोच्चयः, रूपम् ।, १०९७. धर्त्रम् (न) (गुधृवीपचिवचियमि - ४.१६६ इति त्रः) (धृधारणे भ्वा/उ/अ +त्र) धरतीति धत्रम् = गृहम् ।, १०९८. वक्त्रम् (न) (गृधृवीपचिवचियमि - ४.१६६ इति त्रः) (वच परिभाषणे अ/प/अ +त्रः) वक्ति अनेनेति वक्त्रम् = मुखम् । वस्त्रभेदः, छन्दोविशेषः ।, १०९९. वेत्रः (पुं) (गुधृवीपचिवचियमि - ४.१६६ इति त्रः) (वी गतिप्रजननादौ अ/प/अ +त्र)वेति गच्छतीति वेत्रम् = लताविशेषः । (पुं) असुरविशेषः ।, ११००. सत्रम् (अ) (गृधृवीपचिवचियमि- ४.१६६ इति त्रः) षद्लृ विशरणगत्यादौ भ्वा/प/अ +त्रः) सीदन्ति यत्रेति तत् सत्रम् =यज्ञसत्रम् । आच्छादनम् (मे, अ) यज्ञः (मे,अ) सदनम् (मे,अ), धनम् (मे,अ)।, ११०२. सूरिः(पुं) (सूडः क्रि: ४.६४ इति क्रिः) (षूङ् प्राणिप्रसवे अ/आ/वे/क्रि:) सूते सुभाषितानीति सूरिः= पण्डितः । कृष्णः, सूर्यः धीमान् (अ), कृती (अ), कृष्टि: (अ), लब्धवर्णः (अ), विचक्षणः(अ) । ११०३. शिरः (न) (श्रयते: स्वाङ्गे - ४.१९३ इति असुन्) श्रिञ् सेवायाम् भ्वा/उ/से +असुन्)प्रधानेन्द्रियानि श्रयन्तेऽस्मिन्निति शिर:-शीर्षम् । शिखरम् (म.भा) प्रधानम् (भाग) सेनाग्रम् ।
315 · p. 163
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
११०२. सूरिः सूरिर्विदुषि सूरिति नान्तोऽप्येवं तु तद्भ्रमः । ४.१८९प(व?)ठरो वज्रहाराश्च जिह्वा देवाङ्गनादिषु ।मठर: पुण्यशैवालयोऽक्षिव्यासार्कवाचकः । 1105ऊर्दर: दैत्यकमलमृगव्योमाब्जवाचकः ।अङ्गिराः सर्पशमनमुनिहेमार्धवाचकः ॥अप्सरा: स्वर्णदीकान्तादेवकान्ताप्सरादिषु ।अद्रिः शैलविरूपाक्षविरिञ्चिप्रियजन्तुषु ॥शुभ्रिः सत्ये ब्रह्मणि च वङ्क्रि: कुटिलदीनयोः । 1110
316 · p. 163
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
११०४. वठरः (पुं) (वचिमनिभ्यां चिच्च - ५.३९ इति अरः, ठः) (वचपरिभाषणे/अ/ प/अ+अर:, ठः) वक्तीति वठर: = मूर्खः (मे) । कुक्कुट: (मे), अम्बठः (है) शब्दकारः, वक्रः ।, ११०५. मठर: (पुं) (वचिमनिभ्यां चिञ्च - ५.३९ इति अरः, ठः) (मन ज्ञाने दि/आ/अ +अरः, ठः) मन्यतेऽसाविति मठरः = मुनिभेदः ।, ११०७. अङ्गिराः (पुं) (अङ्गतेरसिति रुडागमश्च - ४.२३५ इति असिर, इट्) (अगि गतौ भ्वा/प/से +असिर्, इट्) अङ्गति प्राप्नोति जानाति वा धर्मंस अङ्गिराः = ऋषिभेदः । ईश्वरः, अग्निः ।, ११०८. अप्सराः (स्त्री:) (अर्तेरप्पूर्वादसिः - ४.२३६इति असि:) (सृ गतौ भ्वा/प/अ +असिः) अपसरति विरुद्धं गच्छतीति अप्सराः विद्युत् ।२. अद्भ्दः समुद्रजलेभ्य: सरति उद्गच्छति इत्यप्सराः = स्वर्वेश्या ऊर्वश्यादयः३. अप्सु जलेषु सरन्तीति अप्सरसः = किरणाः।११०९. अद्रिः (पुं) (अदिशदिभूशुभिभ्यः क्रिन् - ४.६५ इति क्रिन्) (अद भक्षणे अ/प/अ+क्रिन्) अदन्ति यत्रेति स अद्रिः = पर्वत:(अ) । सूर्यः (अ) वृक्षः (अ), परिमाणविशेषः,मानभेदः, सप्ताङ्कः ।
317 · p. 164
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
११०९. अद्रिः अद्रिः शैलद्रुमार्केषु शद्रिर्वद्रेभशर्करे (?) । ४.१९२१११०. शुभ्रिः शुभ्रिर्ब्रह्मणि सूर्ये ना शोभने त्वभिधेयवत् । ४.१९३१११०. वङ्क्रि वङ्क्रिः स्यात्कुटिले राजन्यप्येष कथितो बुधैः । ४.१९४वप्रिरादित्यकेदारदैत्यप्रेतादिवाचकः ।विश्रिर्भये महाकाये कबन्धे कामुकादिषु ॥उद्रिरब्धौ विशालाक्षे पञ्चाङ्गुलविहारयोः ।रात्रि:स्त्रियामाजननीशिवादेवाङ्गनादिषु ॥अत्रिर्मुनिमुखारामयोग्यफालादिवाचकः । 1115भावित्रं वमने नेत्रे त्रैलोक्यविमलादिषु ।वादित्रं वाद्यहोमेशध्वनिचर्मादिवाचकम् ॥गादित्रं गमने दैन्ये मूल्ये मोहविशालयोः ।चारित्रं चरिते नीरे गोबृन्दे बृंहितेऽपि च ॥
318 · p. 164
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
१११०. शुभिः (पुं) (अदिशदिभूशुभिभ्यः क्रिन् - ४.६५ इति क्रिन्) (शुभ शुभे भ्वा/आ/से +क्रिन्) शोभते इति शुभ्रि = ब्रह्मा ।, ११११. वप्रिः (पुं) (वङ्क्र्यादयश्च - ४.६६ इति क्रिन्) (डुवप् बीजसन्ताने भ्वा/उ/अ +क्रिन्) उप्यते बीजमत्रेति वप्रिः = क्षेत्रम् । दुर्गतिः,समुद्रः ।, १११५. अत्रिः (पुं) (अदेस्त्रिनिश्च - ४.६८ इति त्रिप्) (अद भक्षणे अ/प/अ +त्रिप्) अत्ति स्म, एकेनैव गण्डूषेण सर्वमेव गङ्गाजलं पीतवानिति अत्रिः = अत्रिमहामुनिः ।, १११६.भावित्रम् (पुं) (भूवादिगॄभ्यो णित्रन् - ४.१७ इति णित्रन्) (भू सत्तायाम् भ्वा/प/से +णित्रन्) भवतीति भवित्रम् = त्रैलोक्यम् ।, १११७. वादित्रम् (न) (भूवादिगॄभ्यो णित्रन् - ४.१७ इति णित्रन्) (वद व्यक्तायां वाचि भ्वा/प/से +णित्रन्) वदति ध्वनतीति वादित्रम् = तूर्यादि ।,१११८. गादित्रम् (न) (भूवादिगॄभ्यो णित्रन् - ४.१७ इति णित्रन्) (गॄ निगरणे तु/प/से +णित्रन्) गीर्यते इति गादित्रम् = ओदनम् । जलम् ।
319 · p. 165
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
११११. वप्रिः वप्रिशब्दस्तु विद्वद्भिः क्षेत्रवाची निगद्यते । ४.१९५१११४. रात्रिः रात्रिः क्षषायां स्त्री रात्रिंचररात्रिचरावुभौ । ४.१९७१११५. अत्रिः अत्री तु भक्षकेऽत्रिश्चादत्र सूत्रे त्रिपा मुनौ । ४.२०२25 अशित्रं चारुपिशुननीलकण्ठाग्रजादिषु । 1120कु(क?)टित्रं दन्तकेशान्तफलकाङ्गारहेतिषु ।वहित्रं खड्गशैवालपूगबोधायनादिषु ॥यानपात्रे च बन्धित्रं चतुरे मन्मथादिषु ।त्रोत्रं स्यादभये वीर्ये शौरिदेहप्रहारयोः ॥लोत्रं हृतद्रव्यभेदे स्पर्शे पादुकचैद्ययोः । 1125अञ्जलिः पतगे देहे कुटिले कोकिलादिषु ।अङ्गुलिर्वेत्रगोविन्दकलविङ्कध्वजादिषु ।
320 · p. 165
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ल (wrong syllable); pāda 3, syllable 3 ल (wrong syllable)
तरलाव्याख्या
१११९. चारित्रम् (पुं) (चरेर्वृत्ते - ४.१७१ इति णित्रन्) (चर गतौ भ्वा/प/से +णित्रन्) चर्यते इति चारित्रम् = वृत्तम् ।, ११२०. अशित्रः (त्रि) (अशित्रादिभ्य इत्रोत्रौ - ४.१७२ इति इत्रः)(अशू व्याप्तौ स्वा/आ/वे +इत्र) अश्नुते व्याप्नोतीति अशित्रः = चौरः । चरुः ।, ११२२. वहित्रम् (न)(अशित्रादिभ्य इत्रोत्रौ - ४.१७२ इति इत्र:) (वह प्रापणे भ्वा/उ/अ +इत्रः) वहति इति वहित्रम्= वाहनम् ।, ११२४. (त्रोत्रम्) तोत्रम् (न) (अशित्रादिभ्य स्त्रौत्रौ - ४.१७२ इति उत्रः) त्रैङ् पालने भ्वा/आ/अ +उत्र:) त्रायते येन तत् तोत्रम् = प्रहरणम् (प्रहारः), ११२६. अञ्जलि: (पुं) (ऋतन्यञ्जि –४.२ इति अलिच्) (अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु रु/प/वे +अलिच्) अनक्ति व्यक्तं करोतीतिअञ्जलि: = हस्तः । कुडवपरिमाणम् ।, ११२७. अङ्गुलिः (स्त्री) (ऋतन्यञ्जि - ४.२ इति उलि:) (अगि गतौ भ्वा/प/से +उलि:) (अङ्गति चलति चेष्टते इति अङ्गुलि: = अङ्गुली । गजकर्णिका हस्तिशुण्डाग्रभागः ।
321 · p. 166
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
११२६. अञ्जलिः अञ्जलिस्तु पुमान् हस्तसंपुटे कुडवेऽपि च । ४.८अञ्जलिः सर्ववन्द्यत्वात्सतन्नस्मिन्निति स्मृतः ।११२७. अङ्गुलिः अङ्गुलि: करशाखायां कर्णिकायां गजस्य च । ४.१८पुष्कलं गर्तगहनसमृद्धाभूदिकेषु च ।शैवलं जलनील्यादौ हेम्नि कुन्ते कलिद्रुमे ।पिञ्जा(जू?)लं पिञ्छमहिषभृङ्गहेरम्बवाचकम् । 1130वलूलं(रं?) मांसमस्तिष्कशा(श?)शजाजिसुमादिषु ।कण्डूल: कामुके श्वित्रे गोघृतादौ विकारिणि ।कुड्मलं मुकुले चित्ते कुसुमादौ विभावसौ
322 · p. 166
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
११२८. पुष्कलम् (न) (कलंश्च - ४.५ इति कलन्) (पुष पुष्टौ दि/प/अ +कलन्) पुष्यति पुष्टिं गच्छत्यनेनेति पुष्कलम् = ग्रास चतुष्टयात्मकभिक्षा । पूर्णः (हे), श्रेष्ठः (हे), उपचितः, भरतपुत्रः (पुं), नगरविशेषः ।, ११२९. (शैवलम्) शैवाल: (पुं) (शीङ्गो धुक्लक्वलञ्वालन: - ४.३८इति वलञ्) (शीङ् स्वप्ने अ/आ/से +वलञ्) शेते जले इति शैवाल: = शैवलम् । पद्मकाष्ठम् ।,११३०. पिञ्जूलम् (न) (खर्जिपिञ्जादिभ्य ऊरोलचौ - ४.९ इति ऊरः) (पिञ्ज हिंसायाम् चु/उ/से+ऊर:) पिञ्जयतीति पिञ्जूलम् = कुशवर्तिः ।, ११३१. (वलूलम्) वल्लूरम् (त्रि) (खर्जिपिञ्जादिभ्यऊरोलचौ - ४.९ इति ऊरः) (वल्ल संवरणे भ्वा/आ/से +ऊरः) वल्ल्यते (आतपादिना) संव्रियतेइति वल्लूरम् =शुष्कमांसम् । वनक्षेत्रम्, सूकरमांसम्, वाहनम्, ऊषरभूमिः ।, ११३३. कुड्मल: (पुं)(कुटिकुषिभ्यां क्मलन् - ४.१८६ इति क्मलन्) (कुड बाल्ये तु/प/से +क्मलन्) कुडतिवक्रीभवतीति कुड्मल: = मुकुलम् । नरकान्तरम् ।
323 · p. 167
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
११२८. पुष्कल: पुष्कलस्त्रिषु पूर्णे च श्रेष्ठे च परिकीर्तितः । ४.३८११२९. ङीषि शैलीत्यपि भवेज्जलनील्यां तु शैवलः ।प्रकोष्ठं (?) शैवले क्लीबे शैवालमपि शैवले । ४.११५११३०. पिञ्जूलम् पिञ्जूलं कुशवर्ता [वर्त्या] स्याल्लाङ्गूलं पुच्छशेफसोः । ४.२३८११३१. वलूरम् कर्पूरं घनसारेऽस्त्री वलूरं शुष्कजाङ्गले । ४.२३७११३२. कण्डोलः तदा कण्डोल इत्यासीच्चण्डाले पिटकेऽपि च । १.३४०कुष्मलं काष्ठपाषाणनीरजारिवृ(गृ?)हादिषु ।कुल्मलं नाम्नि चिह्ने च विरावाकारयोरपि । 1135वरुल: पत्तने शूरे प्रीते पोते विलोचके ।लोटुल: पन्नगे हेतौ तटित्खनवसन्तयोः ॥तडुल: पुण्यखट्वाङ्गपुत्रिकावैद्युतादिषु ।तण्डुल: कणबिन्द्विङ्कज्योतिःकाकाक्षिकुक्षिषु ॥उदलं चोदरे भोज्ये जठने क्षीरवैकृतौ । 1140अन्तरिक्षे च वरुणे महेशे पामरेऽपि च ।दर्विर्विश्वासके चेन्द्रे पात्रभूषाविकारिषु ।25a वर्विः शुकाम्बरे भा(मा?)षे शकले तिन्त्रिणीभिदि ।
324 · p. 167
metre not recognisedLatin letters: anearly अनुष्टुप्: pāda 1, syllable 3 ल (wrong syllable); pāda 3, syllable 3 ल (wrong syllable)
तरलाव्याख्या
उणादिनिष्पत्तिः
११३४. कुष्मलम् (न) (कुटिकुषिभ्यां क्मलम् - ४.१८६ इति क्मलम्) (कुष निष्कर्षे क्रया/प/से +क्मलम्) कुष्णति निष्कर्षतीति कुष्मलम् = पर्णम् । छेदनम् ।, ११३५. कुल्मलम् (न) (कुषेर्लश्च - ४.१८७ इति कमलन्) कुष निष्कर्षे क्रया/प/से +कमलम्) कुष्णतीतिकुल्मलम् = पापम् ।, ११३९. तण्डुलः (पुं) (सानसिवर्णसि - ४.१०७ इति उलच्, नुक्) (तडआधाते चु/उ/से +उलच्, नुक्) (ताड्यते आहन्यते इति तण्डुलः = तुषरहितो व्रीहिः, विडङ्गम्(मे)। धान्यादिनिकरः (मे) ।, ११४०. (उदलम्) उदरम् (न) (उदि दृणातेरजलौ पूर्वपदान्त्यलोपश्च- ५.१९ इति अच्) (दृ विदारणे क्रया/प/से +अच्) उदीर्यते तद्वायुनाऽग्निसहितेनेत्युदरम् =जठरम् ।, ११४२. दर्विः (स्त्री) (उल्मुकदर्विहोमिनः - ३.८४ इति मुकः, ल:) (दॄ विदारणे क्रया/प/से +मुकः, लः) दृणाति विदारयत्यनेनेति दर्वि: = कम्बिः ।
325 · p. 168
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
११३३. कुड्मलम् कुड्मलो,/b> मुकुले पुंसि न द्वयोर्नरकान्तरे ।११३९. तण्डुलः अब्गृहे पर्णसिर्धान्ये निस्तुषे तण्डुलः पुमान् । ४.२८९११४२. दर्विः दर्विस्तु शकटे दारु हस्तकेऽपि प्रकीर्तिता । ४.१६२जीर्विरादित्यकूष्माण्डवडवाग्निदृ(गृ?)हादिषु ।शीर्विर्विकारमालूरपनसार्जवघातिषु । 1145स्तीर्विर्दर्दुरभूपालमक्षिकाशङ्करादिषु ।जागृविर्वह्निशैलार्कभूपदेवेन्द्रचारिषु ॥दीदिविः स्वर्गपक्षेशतनुजाराध्यघातिषु ।दिविः कर्मणि कैलासे धर्मशीलेऽनवस्थिते ॥दिविश्वापदनीरोगगगनाम्बरचारिषु । 1150
326 · p. 168
अनुष्टुप्metre not read in every lineLatin letters: b
तरलाव्याख्या
उणादिनिष्यत्तिः
दर्विः (स्त्री) (वृदृभ्यां विन् - ४.५३ इति विन्) (दृङ् आदरे तु/आ/अ +विन्)आद्रियते इति दर्विः = दारुहस्तः ।, ११४३. वर्विः (पुं) (वृदृभ्यां विन् - ४.५३ इति विन्) (वृञ् वरणे स्वा/उ/से +विन्) वृणोति आहारमिति वर्वि: अति = भक्षकः ।, ११४४. जीर्विः (पुं) (जॄशॄस्तॄजागृभ्यां क्विन् - ४.५४ इति क्विन्) (जॄष् वयोहानौ दि/प/से+क्विन्) जीर्यते छिन्नीभवत्यनेनेति जीर्वीः = कुठारः। कायः, पशुः ।, ११४५. शीर्विः (त्रि) (जॄशॄस्तॄजागृभ्यः क्विन् - ४.५४ इति क्विन्) (शॄ हिंसायाम् क्रया/प/से +क्विन्) शृणातीति शीर्विः = किरातः ।, ११४६. स्तीर्विः (पुं) (जॄशॄस्तॄजागृभ्यः क्विन् - ४.५४ इति क्विन्) स्तृणातीति स्तीर्विः = नभः) रुधिरम्, तृणजातिः, अध्वर्युः, पयः, शक्रः ।, ११४७. जागृविः (पुं) (जॄशॄस्तॄजागृभ्यः क्विन् - ४.५४ इति क्विन्) (जागृनिद्राक्षये अ/प/से +क्विन्) जागर्ति साक्षिस्वरूपतयेति जागृविः = राजा । अग्निः, जागरणशोलः । ११४८. दीदिविः (पुं,न) (दिवो द्वे दीर्घश्चाभ्यासस्य ४.५५ इति क्विन्) (दिवु क्रिडादौ दि/प/से +क्विन्) दीव्यत्यस्मिन्निति दीदिविः = स्वर्गः। बृहस्पतिः, उदितः ।
327 · p. 169
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
११४३. वर्विः वर्विः स्याद्धस्मरे वाच्यलिङ्गको धरणौ स्त्रियाम् । ४.१६२११४४. जीर्विः फल्गौ च चटके काये पर्शे जीर्विर्निगद्यते । ४.१६३११४५,११४६. शीर्विः,स्तीर्वुः – शीर्विः क्रिमौ च हिंस्त्रे चाध्वर्यौ स्तीर्विर्नगेऽपि च । ४.१६३११४७. जागृविः जातवेदासि भूपाले जागृविः परिकीर्तितः ।११४८. दीदिविः वह्नौ स्वर्गे दीदिविर्ना धिषणे त्वेतदस्त्रियाम् । ४.१६४इल्वस्तु मत्स्ये दैत्ये च शिवाशिवभवादिषु ।कृ(शि?)श्वा गोमायुपाषण्डपाञ्चरात्रादिके तथा ॥रुत्वाश्ववागश्वपाककण्डकण्ड्वादिकेऽपि च ।पिता च जित्वा महिषे जेतरि प्रेमकारिणि ॥क्षित्वा तु नाशके वैद्ये सृत्वा पात्रप्रियादिषु । 1155धृत्वा तु धारणे निस्स्वे प्रित्वा हिंस्रे मृगादिके ।प्रसत्वा धर्मवैशाखगोखिलप्रहतादिषु ।
328 · p. 169
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्धि (wrong syllable)
तरलाव्याख्या
उणादिनिष्पत्तिः
११५२. क्रुश्वा (पुं स्त्री) (शीङ्क्रुशि - ४.११३ इति क्वनिप्) (क्रुश आह्वाने रोदने च भ्वा/प/से +क्वनिप्) क्रोशति रौतीति क्रुश्वा = शृगालः ।, ११५३. (रुत्वा) रुह्वाषयव। (पुं) (शीङ्क्रुशि - ४.११३ इति क्वनिप्) रुह बीजजन्मनि प्रादुर्भावे भ्वा/प/अ +क्वनिप्) रोहतीति रुह्वा-वृक्षकः ।,११५४. जित्वा (पुं) (शीङ्क्रुशि - ४.११३ इति क्वनिप्) (जि जये भ्वा/प/अ +क्वनिप्) जयतीति जित्वा =जयशीलः ।, ११५५. क्षित्वा (पुं) (शीङ्क्रुशि - ४.११३ इति क्वनिप्) (क्षि निवासगत्योः तु/प/अ +क्वनिप्) क्षयति नाशयति क्षियति गच्छति वा स क्षित्वा = वायुः ।, सृत्वा (पुं) (शीङ्क्रुशि - ४.११३ इति क्वनिप्) (सृ गतौ भ्वा/प/अ +क्वनिप्) सरतीति सृत्वा = प्रजापतिः ।११५६. धृत्वा (पुं) (शीङ्क्रुशि - ४.११३ इति क्वनिप्) (धृञ् धारणे भ्वा/उ/अ +क्वनिप्)धरतीति धृत्वा = धर्मः । विप्रः, समुद्रः, अन्तरिक्षम्, मेधावी, विष्णुः, भूमिः, धारकः ।
329 · p. 170
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
११५१. (इल्व:) इल्वल: मृगशीर्षशिरोदेशस्थिततारासु चेल्वलाः । ४.२९१ ११५३,११५४,११५५. (रुत्वा)रुह्वा, जित्वा, क्षित्वा -रुह्वा जेतरि जित्वाथ क्षित्वा काले च मारुते । ४.३२३११५५. सृत्वा नाद्यं तु क्षित्वरी सृत्वा धाता माता तु सृत्वरी । ४.३२३११५६. धृत्वा धृत्वा विष्णौ धृत्वरी स्त्री भूमौ विद्भिरुच्यते । ४.३२४लविर्दात्रे विरोधे च घातुके कठिनादिके ।अलिशा मांसभेदे स्यादबुद्धि च क्रियादिके ।सानसी: वर्णकनकहेमशैलद्रुमादिषु । 1160वर्णसी रूपकरुणाहारद्रुमसुरादिषु ।पर्णसि: जलजातेः स्यात्साधे(ध्ये?) तत्त्वेऽखिलात्मने ॥पिशिर्वज्रिमहादंष्ट्रे वाद्यादौ वयसि प्लवे ।करीषं कलिबृन्दे स्यात्सन्तोषे विद्रुमादिषु ॥
330 · p. 170
अनुष्टुप्metre not read in every line
तरलाव्याख्या
११६०. सानसिः (पुं) (सानसिवर्णसि - ४.१०७ इति असिः) (षणु दाने त/उ/से+असिः) सन्यते दीयते दक्षिणाद्यर्थमिति सानसिः = सुवर्णम् ।, ११६१. वर्णसिः (पुं) (सानसिवर्णसि- ४.१०७ इति असिः, नुक्) (वृञ् वरणे स्वा/उ/से +असिः, नुक्) वृणोति निम्नस्थलमितिवर्णसिः = जलम् ।, ११६२. पर्णसिः (पुं) (सानसिवर्णसि - ४.१०७ इति असिः, नुक्) (पॄ पालनपूरणयो: जु/प/से +असिः, नुक्) पिपर्ति जलेन पूरितं भवतीति पर्णसिः = जलगृहम् ।पद्मम्, शाकम्, आभरणक्रिया ।, ११६४. करीषः (पुं, न) (कॄतॄभ्यामीषन् - ४.२६ इति ईषन्)(कॄ विक्षेपे तु/प/से +ईषन्) कीर्यते विक्षिप्यते इति करीषः = शुष्कगोमयम् ।
331 · p. 171
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 पर (syllable split)
औणादिकपदार्णवः
११५७.(प्रसत्वा)प्रशत्वा प्रशत्वा सागरे पुंसि स्त्रीतु नद्यां प्रशत्वरी । ४.३२९११६०. सानसिः सानसिः काञ्चने देहे प्रभूते पाकशासने । ४.२८७११६१. वर्णसिः वर्णसि: पाथसि वृञो नुक्यसिप्रत्ययेऽप्यतः । ४.२८७११६२. पर्णसिः अब्गृहे पर्णसिर्धान्ये निस्तुषे तण्डुलः पुमान् । ४.२८९११६४. करीषम् पुंसि क्लीबे च कथितः करीषः शुष्कगोमये। ४.९४पुरुषः पन्नगे दैत्ये परमात्मनि च पूरुषे । 1165नहुषो राज्ञि गरुडे (दा?)नवान्तरभेकयोः ।26 कलुषं नवनीतेः स्यान्निः सारे कुड्मलादिके ॥मानुषः शैलदैत्याश्च चन्द्रज्योत्स्नादिकेऽपि च ।लनुष: पङ्कजे मूल्ये वराके मांसभेदके ॥पीयूषं गगने हेम्नि नवनीते मृतादिके । 1170मञ्जूषा पेटिकायां स्यान्नार्यन्तरविशालयोः ।
332 · p. 171
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ष (wrong syllable)
तरलाव्याख्या
उणादिनिष्यत्तिः
११६५. पुरुषः (पुं) (पुर: कुषन् - ४.७४ इति कुषन्) (पुर अग्र गमने तु/प/से+कुषन्) पुरति अग्रे गच्छतीति पुरुषः = पुमान् । आत्मा, साङ्खयतत्त्वज्ञः (वि.से) पुन्नागपादपः, विष्णुः, शिवः, जीवः, दुर्गा, अश्वस्थानकभेदः ।, ११६६. नहुष: (पुं) (पॄनहिकलिभ्य उषच् - ४.७५ इति उषच्) (णह बन्धने दि/उ/अ +उषच्) नह्यते इति नहुषः = नागभेदः । राजभेदः,विष्णुः ।, ११६७. कलुषम् (न) (पॄनहिकलिभ्य उषच् - ४.७५ इति उषच्) (कल शब्दसङ्खयानयोःभ्वा/आ/से + उघच्) कल्यते क्षिप्यते नरके येन तत् कलुषम् = पापम् । (त्रि) अनच्छः ।,११७०. पीयूषम् (न) (पीयोरूषन् - ४.७६ इति ऊषन्) पीय सौत्रधातुः = ऊषन्) पीयते इति पीयूषम् = अमृतम् । सप्तदिवसावधिदुग्धम् । बाहुलकात् पक्षे गुणे पेयूषम् = अभिनवपयः (अ),११७१. मञ्जूषा (पुं) (मस्जेर्नुम्च - ४.७७ इति ऊषन्) (टुमस्जो शुद्धौ तु/प/अ +ऊषन्) मज्जति द्रव्यमस्मिन्निति मञ्जूषा = पिटकः । पाषाणः, मञ्जिष्ठा ।
333 · p. 172
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः ।
११६५. पुरुषः पुरुषः पुरुषे सांख्यज्ञे च पुत्रागपादपे । ४.२१०११६६. नहुषः नहुषो राज्ञभेदेऽपि छागभेदे भुजङ्गमे । ४.२१७११६७. कलुषम् कलुषं पातके क्लीबमाविले त्वभिधेयवत् । ४.२१७११७१. मञ्जूषा मञ्जूषा पेटके स्त्री स्याद्वीणाच्छादनके तुरी । ४.२१९११७३. कार्षिः कार्षिर्ब्रह्मणि वृद्धे च छान्दसोऽयं विभाव्यताम् । ४.३७४अङ्गूषा कुञ्चके रङ्गवृक्षे रोम्नि कुलार्चिते ।करिण्यामथ कार्षीः स्यादातुरे युद्धदोत्रयोः ।समुद्रेऽथ शिरीष: स्याद्वृक्षबाहुभवादिषु ।पुरीषं विष्कनीहारनवनीतादिकेऽपि च । 1175 अम्बरीषः शकुन्तादौ चर्मादौ मालुधानरे ।यवनस्तु तृणे चोरे वासि: कर्पूरखड्गयोः ।घसिस्तृणेऽह्नि मनुजे कसिः काष्ठे विलोमके ।
334 · p. 172
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
११७३, कार्षिः (पुं) (कृषर्वृद्धिश्छन्दसि - ४.१२६ इति इञ्) (कृष विलेखने भ्वा/प/अ +इञ्) कर्षत्याकर्षतीति कार्षिः = अग्निः ।, ११७४. शिरीषः (पुं) (शॄपॄभ्यां किञ्च - ४.२७ इति ईषन्) (शॄ हिंसायाम् क्रया/प/से +ईषन्) शृणाति झटिति म्लायतीति शिरीषः = वृक्षविशेष: (कपीतनः) ।, ११७५. पुरीषम् (न) (शॄपॄभ्यां किञ्च - ४.२७. इति ईषन्) (पॄ पालनपूरणयोः जु/ प/से +ईषन्) पिपर्ति शरीरमिति पुरीषम् = विष्ठा(अ) । उदकम्, वर्चस्कम् (अ) ।, ११७६.अम्बरीषः (पुं) (अम्बरीष: - ४.२९ इति ईषन्) (अबि शब्दे भ्वा/आ/से +ईषन्) अम्बतेशब्दयति पच्यमान: आहारो यत्र इति अम्बरीषः = भ्राष्ट्रम् । किशोरः, भास्करः, नाभागराजपुत्रः, नरकभेदः, आम्रतकवृक्षः, अनुतापः ।
335 · p. 173
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
११७४,११७५.शिरीषः,पुरीषः शिरीषो वृक्षभेदे ना पुरीषं विशि न द्वयोः । ४.९५ ११७६. अम्बरीषम् अम्बरीषं रणे राष्ट्रे क्लीबं पुंसि नृपान्तरे । ४.९७नरकस्य प्रभेदे च किशोरे भास्करेऽपि च ।आम्रातकेऽनुतापे च स्यात्खण्डपरशावपि ।११७७. वासि: वासिस्तु छेदनद्रव्ये वापी पुष्करिणी स्मृता । ४.३६५असिः खड्गे पवित्रे च दिने पुष्पोदकेऽपि च ।वसिश्चारुकरे पुण्ये दासः सेवकवारिषु । 1180 रोहिर्व(र्वा?)र्ता विरिञ्चादौ पुरादौ परमात्मनि ।प्रहिः कूले प्रमादे च पसने(पनसे?) गरुडेऽपि च ।अहि: पर्वतनागाश्वभूरुहादौ प्ररोचके ।
336 · p. 173
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
११७७. (यवसः) यावसः (पुं) वहियुभ्यां णित् - ३.११९ इति असच्) यु मिश्रणादौ अ/ प/से +असच्) यूयतेइति यावसः = यवससमूहः । (यवस:) यवास: (पुं) (ऋतन्यञ्जि - ४.२० इति आसः) (यु मिश्रणे अ/प/से +आसः) यौतीति यवास: = दुरालभा (यासः) । खदिर भेदः ।,वासिः (पुं) (वसिवपियजिराजि - ४.१२४ इति इञ्) (वस निवासे भ्वा/प/अ +इञ्) वस्यते आच्छाद्यते इति वासिः = छेदनवस्तु ।, ११७८. घासिः (पुं) (जनिघसिभ्यामिण - ४.१२९ इति इण्)(घस्लृ अदने भ्वा/प/अ +इण्) घसति भक्षयति सर्वमिति घास: = अग्निः। (त्रि) तृप्पादिः ।,११७९. असिः (पुं) (खनिकष्यज्यसिवसि - ४.१३९ इति इ:) (असु क्षेपणे दि/प/से +इ:)अस्यते इति असि: = खड्गः ।, ११८०. वसिः,/b> (पुं) (खनिकष्यज्यसिवसि - ४.१३९ इति इ:) (वस आच्छादने अ/आ/अ +इ:) वस्ते आच्छादयत्यनेनेति वसिः = वसनम् ।, ११८०. दासः (पुं)(दंसेष्टटनौ न आ च - ५.१ इति टटनौ +आ) दसि दंशनदर्शनयोः चु) उ/से +टटनौ + आ)दंसयति पश्यति वा स: दासः =सेवक: (वि)। शूद्रः (वि), दानपात्रम् (वि), धीवरः, (स्त्री) दासी ।
337 · p. 174
अनुष्टुप्metre not read in every lineLatin letters: b
औणादिकपदार्णवः
११७८. घासिः धासिः प्रकथितो धीरैः भक्ष्येऽपि च हुताशने । ४.३८० ११७८,११७९,११८०. (कसिः)कषिः, असिः, वसिः -कषिर्वज्रेऽजिराजौ स्यादसि: खड्गे वसि: पटे। ४.३९७११८१. रोहिः रोही रोहितकद्रुमे । ४.३४५ ११८२. प्रहिः प्रहिः पुंसि प्रकथितो विबुधैः कूपवाचकः । ४.३८९रह: अमात्ये पयसि प्रवहणे विचिन्तके ।वहः कल्लोलशैवालतुरङ्गवृषभादिषु । 1185 हश्चन्द्रे परिपूर्णे च महेशे परमात्मनि ।गुहः(नीहः?) किरातपिशुनयोग्यशादभवादिषु ।सिंहः कुरङ्गमृदुलपञ्चास्यादिकरेषु च ।पक्षः पार्श्वप्रियश्वाब्धिशुकाङ्गाराक्षिमूर्तिषु ।वक्षः सुपर्णकुत्साश्यपक्षकाठिन्यकान्तिषु । 1190
338 · p. 174
अनुष्टुप्metre not read in every line
तरलाव्याख्या
√गौ शब्दे निपूर्वात् ऊहः प्रत्यय: नीगुहः । √सिङ् शातने सिंहः । √पा पानेअकारलोप: क्ष: पक्षः । √वृङ् वरणे वक्षः ।
339 · p. 175
अनुष्टुप्metre not read in every line
उणादिनिष्पत्तिः
११८१. रोहिः (पुं) (हृपिषिरुहिवृति - ४.११८ इति इन्) (रुह बीजजन्मनि प्रादुर्भावे च भ्वा/प/अ +इन्) रोहतीति रोहि: = बीजम् ।, ११८२. प्रहिः (पुं) (प्रे हरते: कूपे - ४.१३४ इति इण्) (हृञ् हरणे भ्वा/उ/अ +इण्) प्रकर्षेण जलं ह्रियतेऽत्रेति प्रहि: = कूपः । ११८३. अहिः (पुं) (आङि श्रिहनिभ्यां - ४.१३७ इति इण्) हन हिंसागत्योः अ/प/अ +इण्) आहन्तीति अहि: =वृत्रासुरः (अ,मे), सर्पः (अ,मे), सूर्यः, पथिकः, राहुः, वप्रः, खलः, आश्लेषानक्षत्रम् ।, ११८४.रहः (न) (देशे ह च - ४.२१४ इति असुन्) (रमु क्रीडायाम् भ्वा/आ/अ +असुन्) रमन्तेऽस्मिन् इति रहः = एकान्तः । तत्त्वम् (मे), रहस्यम् (मे), ११८८. सिंहः (पुं) (सिचेः संज्ञायां हनुमौ कश्च- ५.६२ इति कः) षिच क्षरणे तु/उ/अ +कः) सिञ्चति स्वमूत्रेण भूमिमिति सिंह: = पञ्चास्यः । सिंहराशि: (वि) सप्तमः (वि), (स्त्री) राहुमाता (वि) ।, ११८९. पक्षः (न) (पचि वचिभ्यां सुट् च- ४.२१९ इति असुन्) (डुपचष्पाके भ्वा/उ/अ +असुन्) पचतीति पक्षः = पञ्चदशदिवसात्मकःकालः । पूर्वोत्तरपक्षौ (मासार्धः), गरुत्, समूहः, पिञ्छ:, देहाङ्गम्, विहगः, शुद्धः वर्गः, देहः ।, पक्ष:(पुं) (गृधिपण्योर्दको च - ३.६९ इति सः, क:) (षण व्यवहारे स्तुतौ च भ्वा/आ/से +सः, कः)पणायति स्तौति वा यत्र स पक्षः पञ्चदशाहोरात्राः (वि,मे), पत्रम्, शिवः, पार्श्व: (वि,मे), गृहम् (वि.मे) साध्यम्, विरोधः, बलम्, सखा, शरपक्षः, चुल्लीरन्ध्रम्, राजकुञ्जरः, विहगः ।
340 · p. 175
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
११८३. अहिः अहित्रेर्वृत्रे च सर्पे च स्यादाहेयं तु तद्भवे । ४.३९३आचक्षा विस्तृतेऽनूरौ परमात्मनि वाचके ।विरागिणि गणे ने(णे?) च परिचारे प्रभाकरे । 1192तृतीयं निबन्धनं सम्पूर्णम्}
341 · p. 175
अनुष्टुप्metre not read in every line
तरलाव्याख्या
√चङ् याचने आपूर्वादाचक्षा ।तरलाख्यायां तृतीयं निबन्धनम्॥ श्री कृष्णार्पणमस्तु ॥}
342 · p. 176
अनुष्टुप्metre not read in every line
उणादिनिष्पत्ति:
११९०. वक्षः (पुं) (पचिवचिभ्यां सुट् च - ४.२१९ इति असुन्) (वच परिभाषणे अ/ प/अ + असुन्) वक्ति येन तदिति वक्षः = हृदयम् ।, ११९१. (आचक्षा) आचक्षुः (स्त्री) (मुहे:किच्य (बहुलमन्यत्रापि) २.११७ इति उसिः) (चक्षिङ्व्यक्तायां वाचि अ/आ/से +असिः) (आचक्षिङ्ख्याङ् उसिः) आसमन्तात् <आ> चष्टे इति आचक्षुः = विद्वान् ।
343 · p. 176
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
११८९. पक्षः पक्षो मासार्धके पार्श्वे गृहे साध्यविरोधयोः ।केशादेः परतो वृन्दे बले सखिसहाययोः । ३.२०२
344 · p. 176
अनुष्टुप्metre not read in every line