उणादिनिष्पत्तिः
३४६ भिदिरम् (न) (इषिमदिमुदि - १.५१ इति किरच्) (भिदिर् विदारणे रु/उ/अ+किरच्) भिनत्ति विदारयतीति भिदिरम् = वज्रम् ।, ३४७. चन्दिर: (पुं) (इषिमदिमुदि - १.५१इति किरच्) (चदि आह्लादने भ्वा/प/से+किरच्) चन्दन्ति हृष्यन्ति लोका येनेति चन्दिर: =शशाङ्कः । हस्ती, ।, ३४८. तिमिरम् (न) (इषिमदिमुदि - १.५१ इति किरच्) (तिमि आर्द्रीभावेदि/प/से +किरच्) तिम्यति क्लिद्यति चक्षुरनेनेति तिमिरम् = चक्षुरोगविशेषः (मे) । हस्ती,अन्धकारः (मे), ३४९. मुहिरः (पुं) (इषिमदिमुदि - १.५१ इति किरच्) (मुह वैचित्र्ये दि/प/वे+किरच) मुह्यति ज्ञानरहितो भवत्यनेन लोकः इति मुहिरः = मन्मथः (मे) । मूर्खः (मे), असभ्यः (मे) (उ), कामुकः (मे), ३५०. मिहिरः (पुं) (इषिमदिमुदि - १.५१ इति किरच्) (मिह सेचने भ्वा/प/अ-किरच्) मेहयति सिञ्चति मेघजलेन भूमिमिति मिहिर: = सूर्यः (मे)। अर्कवृक्षः (मे),बुद्धः (मे), मेघः (मे), वायुः (मे), चन्द्रः (मे), वराहमिहिरः (मे), कामी (मे), मूर्खः (मे), वृद्धः (मे)।,
121 · p. 61
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
३४६. भिदिरम् भिदिर … योर्वजे भेदयुक्ते तु वाच्यवत् । १.२८९३४६. मन्दिरम् मन्दिरं, नगरेऽगारे मन्दिरा चाम्बुधौ तु ना । १.२९० ३४७,३४८.चन्दिरः,तिमिरम् चन्दिरोऽनेकपे चन्द्रे तिमिरं नयनामये ।१.२९०३४९,३५१. मुहिरः,मुचिरं मुहिर: कामुके मूर्खे मुचिरो दातृधर्मयोः । १.२९१३५०. मिहिर:तमिस्रे चाथ मिहिरो वृद्धमेघार्कवायुषु । १.२९१रुचिरः सुन्दरे चन्द्रे सूर्यादौ परमात्मनि ।रुधिरं रक्तमायान्नदैत्यशम्भुसुरादिषु ।आशिरः सूर्यचन्द्राग्निभोजनार्यखुरादिषु ।अजिरं वायुमातङ्गप्राङ्गणादिषु शङ्करे । ३५५शिशिरम् ऋतुदध्यन्नहिमचन्द्रादिके हरे ।
122 · p. 61
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
३५१. मुचिर: (त्रि) इषिमदिमुदि - १.५१ इति किरच्) (मुच्लृ मोक्षणे तु/उ/अ+किरच्) मुञ्चति धनादिकं ददातीति मुचिरः = दाता । (पुं) धर्मः (मे), वायुः (मे), देवता (मे)३५२. रुचिरम् (न) इषिमदिमुदि - १.५१ इति किरच्) रोचते इति रुचिरम् = मूलकम् । कुङ्कुमम्(मे), लवङ्गम्, (त्रि) सुन्दरम्, मिष्टम्, (स्त्री) गोरोचना, त्रयोदशाक्षरवृत्तिविशेषः, (पुं) सेनजित्पुत्रः ३५३. रुधिरम् (न) (इषिमदिमुदि - १.५१ इति किरच्) (रुधिर् आवरणे रु/उ/अ +किरच्)रुणद्धि रुध्यते इति वा रुधिरम् = रक्तम् (मे) । (पुं) मङ्गलग्रह: (मे),३५५. अजिरम् (न) (अजेरज च - २-४८ इति इनच्) (अज गतिक्षेपणयोः भ्वा/प/से +इनच्)१. अजति गृहाग्निः निस्सरत यत्र तत् अजिरम् = प्राङ्गणम् ।२. अजति गच्छति क्षणभङ्गुरमिति अजिरम् = शरीरम् ।३. अजन्ति इन्द्रियाणि गच्छन्त्यत्रेति तत् अजिरम् = विषयः (मे)(पुं) अजति गच्छति यः स: अजिर: = वायुः (मे) । मण्डूकः (मे)३५६. शिशिरम् (न. पुं) (अजिरशिशिर - १.५३ इति किरच्) (शश प्लुतगतौ भ्वा/प/से+किरच्) शशति गच्छति वृक्षादिशोभा यस्मिन् तत् शिशिरम् = ऋतुविशेषः (वि) (पुं) शशतिइतस्ततो गच्छतीति शिशिरः = हिम: (वि) । विष्णुः (त्रि) शीतगुणयुक्तः ।
123 · p. 61
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
३५२,३५३.रुचिरम्,रुधिरम् रुचिरं त्रिषु चारौ स्याद्रुधिरोऽङ्गारके पुमान् । १.२९२३५४. आशिरः आशिरः क्षीरविकृतौ भोजनेऽग्न्यर्कयोस्त्रिषु । १.२९७३५५. अजिर: अजिर: प्राङ्गणे काये विषये दर्दुरेऽनिले । १.२९७३५६. शिशिरम् शिशिरो ना हिमे न स्त्री ऋतुभेदे जडे त्रिषु । १.२९८सेनानिवेशस्थाने तु शिबिरं याचकांशुषु ।X[स्फा]रं गम्भीरमातङ्गबहुसाधनजन्तुषु ।९. खदिरः खाद्यमात्रे स्यात्खदिरे मांसजन्तुषु ।कठोरं कठिने नीचे दरिद्रेऽपि पिशाचके । ३६०चकोर: पक्षिबाणार्यघातुकाम्बरशम्भुषु ।किशोरोऽश्वेऽपि बालेऽपि चन्द्रशम्भुसुरादिषु ।होरा ज्ञाननिमित्ते स्यात्सन्मार्गे साधुसम्मते ।
124 · p. 61
अनुष्टुप्metre not read in every lineLatin letters: X
तरलाव्याख्या
उणादिनिष्पत्तिः
३५७. शिबिरम् (न) (अजिरशिशिर - १.५३ इति किरच्) (शीङ् स्वप्ने अ/आ/से +किरच्) शेरते राजबलान्यत्रेति शिबिरम् = निवेशः (कटकम्)। नृपस्य मूलस्थानम् ।, ३५८.(स्फा)रम् (स्फिरम्) (त्रि) (अजिरशिशिर - १.५३ इति किरच्) (स्फायी वृद्धौ भ्वा/आ/से +किरच्) स्फायते इति स्फिरम् = प्रचुरम् ।, ३५९. खदिरः (पुं) (अजिरशिशिर - १.५३ इतिकिरच्) खद स्थैर्ये हिंसायाञ्च भ्वा/प/से +किरच्) खदतीति खदिर: = मन्दः । वृक्षविशेषः, इन्द्रः, चन्द्रः।, ३६०. कठोरः (पुं) (कठि चकिभ्यामोरन् - १.६४ इति ओरन्) (कठ कृच्छ्रजीवने भ्वा/प/से+ओरन्) कठति पारुष्यमाचरतीति कठोरः = कठिनः । दारुणः, अतिविस्तृतः, पूर्णः ।,३६१. चकोर: (पुं,स्त्री) (कठिचकिभ्यामोरन् - १.६४ इति ओरन्) (चक तृप्तौ भ्वा/आ/से+ ओरन्) चकते चन्द्रकिरणेन तृप्यतीति चकोर: = पक्षिविशेषः ।, ३६२. किशोर: (पुं) (किशोरादयश्च- १.६५ इति ओरन्) (शु हिंसायाम् क्र्या/प/से +ओरन्) किञ्चित् शृणतीति किशोरः =अश्वशिशुः । तैलपर्ण्योषधिः, सूर्यः ।
125 · p. 63
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
३५९. खदिरम् खदिरे भेकभेदे स्त्री ना चन्द्रे दन्तधावने । १.३०२३६०,३६१. कठोरः,चकोर: कठोर: कठिने पूर्णे चकोरस्तु खगान्तरे ।३६२. किशोर: किशोरस्त्वश्वशावे स्यात्तरुणावस्थसूर्ययोः ।मयूरः पक्षिसाग्निसूर्यदैत्यविरोधिषु ।कशेरुर्घातुकादौ स्यान्मयूरे परमात्मनि । ३६५स्फारः समुद्रे सङ्घाते तक्रं तक्रे मृदादिषु ।शक्रो देवेन्द्रमातङ्गराजशम्भुभवादिके ।क्षिप्रं तीव्रे च सामुद्रे लवणे मूषकादिषु ।
126 · p. 63
अनुष्टुप्metre not read in every line
तरलाव्याख्या
३६४. मयूरः (पुं) (मीनातेरूरन् - १.६७ इति ऊरन्) (मीञ् हिंसायाम् क्र्या/उ/अ+ऊरन्) मीनाति हन्ति सार्पानिति मयूरः = बर्ही । मयूरशिखावृक्षः ।, ३६५. कशेरु: (पुं,न) (केश्र एरङ् चास्य - १.८८ इति ऊ:) (शॄहिंसायाम् क्र्या/प/से +ऊ:) कमुदकं शृणाति हिनस्तिनाशयतीति कशेरुः = घासविशेषः ।, ३६६. तक्रम् (न) (स्फायितञ्चि - २-१३ इति रक्) (तञ्चुसङ्कोचने रु/प/वे +रक्) तनक्ति सङ्कोचयति दुग्धं पादाम्बुदधिरूपेण परिणमयतीति तक्रम् = पादाम्बुसंयुतदधि ।, ३६७. शक्रः (पुं) (स्फायितञ्चि - २.१३ इति रक्) (शक्लृ शक्तौ स्वा/प/अ +रक्) शक्नोति दैत्यान्नाशयितुमिति शक्रः = इन्द्रः (मे) । कुटजवृक्षः (मे), ३६८. क्षिप्र: (पुं) (स्फायितञ्चि - २.१३ इति रक्) (क्षिप प्रेरणे त/उ/अ +रक) क्षिपयतीति क्षिप्रः =शीघ्रकारी । मर्मविशेषः ।
127 · p. 64
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
३६४. मयूरः मयूरो बर्हिचूडायामपामार्गे शिखण्डिनि । १.३४१३६५. कशेरुः कशेरुर्ना विदर्यां च तृणकन्देऽपि च स्त्रियाम् । १.३८०उत्प्रत्ययाबाहुलकात्कशेरुर्नकुलेन्द्रयोः ।कर्णिकारे वसावेण्यां शक्रकोपे गणेऽपि च ।३६६. स्फारः स्फार: स्यात्पुंसि विकटे करकादेश्च बुद्बुदे । २.४१३६६. तक्रम्. तक्रं तु गोरसे क्लीबं पादमात्राम्बुमिश्रिते । २.४२३६७. शक्रः शक्रो महेन्द्रे कुटजाऽर्जुनभूरुहयोरपि । २.४३३६८. क्षिप्रम् क्षिप्रं तु त्वरिते क्लीबं भेद्यगामि त्विदं त्रिषु । २.४४क्षुद्र दिने विषादे च राक्षसादौ हरादिषु ।सृप्रश्चन्द्रे सुरादौ च मनुष्यादौ मनादिके । ३७०तृप्रश्चन्द्रे पुरोडांशे ओदने भक्ष्यमात्रके ।दृप्रस्तु दर्पणे चन्द्रेऽप्याचार्ये शङ्करे भवे ॥वन्द्रस्तु पूजके दैत्ये दासे शम्भौ कुमारके ।समुद्रो मत्स्यहन्ता स्यात्सरित्पतिहरादिके ॥श्वित्रं वर्णे कुष्ठभेदे साम्बमूर्ती च मातरि । ३७५
128 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 3, syllable 7 पद (syllable split)
तरलाव्याख्या
उणादिनिष्पत्तिः
३६९. क्षुद्रः (पुं) (स्फायितञ्चि - २.१३ इति रक्) (क्षुदिर् सम्पोषणे रु/उ/अ +रक्)क्षोत्तुं शक्यते यस्सः क्षुद्रः = अधमः। तण्डुलावयवः, मक्षिकाविशेषः, क्रूरः, अल्पः, दरिद्रः ।,३७०. सृप्रः (पुं) (स्फायितञ्चि - २.१३ इति रक्) (सृप्लृ गतौ भ्वा/प/से +रक्) सर्पति गच्छतीति सृप्रः = चन्द्रः ।, ३७१. तृप्रः (पुं) (स्फायितञ्चि - २.१३ इति रक्) (तृप प्रीणने स्वा/प/से +रक्) तृप्यत्यनेनेति तृप्रः = घृतम् । पुरोडाशः, (त्रि) तर्पकः, दुःखम् ।, ३७२. दृप्रः (त्रि)(स्फायितञ्चि - २.१३ इति रक्) (दृप हर्षमोहनयोः दि/प/अ +रक्) दृप्यति बाधते इति दृप्रः =बलवान् ।, ३७३. वन्द्रः (पुं) (स्फायितञ्चि - २.१३ इति रक्) वदि अभिवादनस्तुत्योः भ्वा/आ/ से +रक्) वन्दने स्तौति देवादीन् पूजाकाले इति वन्द्रः = पूजकः । (न) कल्याणम् ।३७५. श्वित्रम् (न) (स्फायितञ्चि - २.१३ इति रक्) (श्विता वर्णे भ्वा/आ/से +रक्) श्वेततेअनेनेति श्वित्रम् = श्वेतकुष्ठम् । कुष्ठम् ।
129 · p. 65
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
३६९. क्षुद्रःक्षुद्रः स्यादधमक्रूरकृपणाल्पेषु वाच्यवत् । २.४४क्षुद्रा व्यङ्गानटीकम्पि [कण्ट] कारिकासरघासु च ।३७०,३७१. सृप्रः,तृप्रः सृप्रश्चन्द्रेऽथ तृप्रो ना पुराडाशे द्वयोर्न चेत् ।२.४७३७२,३७३. दृप्रः,वन्द्रः दृप्रः पुमान् बलवति भवेद्वन्द्रस्तु पूजके ।२.५०३७५. श्वित्रम् उद्रो जलचरेऽब्धौ संपूर्वः श्वित्रं रुजाभिदि । २.५१वृत्रस्तु दैत्ये दिने च पापकारादिके तथा ।वीरस्तु निर्जले पदमे ग्रामे वीरादिके तथा ॥मन्द्रो देशे मङ्गले च राज्ञि माधवशम्भुषु ।मुद्रा तु मुद्रिका स्वर्णं जरा राजतमेव च ॥खिद्रो रोगे च सूर्ये च चरादौ मदिरादिके । ३८०भिद्रस्तु दासे चापेऽपि माधवादौ कुमारके ।
130 · p. 65
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
३७६. वृत्रः (पुं) (स्फायितञ्चि - २.१३ इति रक्) (वृतु वर्तने भ्वा/आ/से +रक्) वर्तते इति वृत्रः = अन्धकार: (में) । शत्रु: (मे), दानवविशेषः (मे), मेघः (मे) पर्वतविशेषः (मे) इन्द्रः(मे), शब्दः ।, ३७७. वीरः (पुं) (स्फायितञ्चि - २.१३ इति रक्) (अज गतिक्षेपणयोः भ्वा/प/ से +रक्) अजति क्षिपति शत्रूनिति = वीरः। पतिः, पुत्रः, जिनः, नटः, विष्णुः, तण्डुलीयः, करवीरः, अर्जुनः, वराहकन्दः, लताकरजः, यज्ञाग्निः।, ३७८. मद्रः (पुं) (स्फायितञ्चि - २.१३इति रक्) मदिस्तुत्यादिषु भ्वा/आ/से +रक्) मन्दते इति मद्रः = देशविशेष: (मे)। हर्षः, (न)भद्रम् ।, ३७९. मुद्रा: (पुं) (स्फायितञ्चि - २.१३ इति रक्) (मुद हर्षे भ्वा/आ/से +रक्) मोदते अनयेति मुद्रा = प्रत्ययकारिणी । अङ्गुलिमुद्रा, चिह्नम्, भावमुद्राः ।, ३८०. खिद्रः (पुं) (स्फायितञ्चि- २.१३ इति रक्) (खिद्दैन्ये दि/आ/अ +रक्) येन खिद्यते दीनो भवति स खिद्रः = रोगः ।दरिद्रः ।, ३८१. भिद्रः(म्) (न, पुं) (स्फायितञ्चि - २.१३ इति रक्) (भिदिर् विदारणे रु/उ/अ +रक्) भिनत्तीति भिद्रम् = वज्रम् ।
131 · p. 66
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
३७६. वृत्रः वृत्रो रपौ घनद्भाण्डे [ध्वनौ ध्वान्ते] शैले चक्रे च दानवे । २.५१३७७. वीर: वीरस्तु सुभटे श्रेष्ठे राहौ स्कन्दकुबेरयोः ।पुरुहूते च शंभौ च वीरं शृङ्गान्तरेऽपि च । २.५३३७८. मद्रः देशभेदे च सन्तोषे मद्रः पुंसि निगद्यते । २.५६मद्रेभ्योऽञिति दिक्पूर्वपदाज्जनपदार्थकात् । २.५७३७९,३८०. मुद्रा,खिद्रः मुद्राप्रत्ययकारिण्यां खिद्रो रोगदरिद्रयोः । २.६०९a मन्द्रस्तु गम्भीरमृतशम्भुमाधवकम्बुषु ।चन्द्रः सोमे रमायां च रमण्यां भक्तवत्सले ।सूर्येऽग्नौ माधवादौ च महिष्यादावपीष्यते ।दह्रो देवे रवौ वह्नौ फालाक्षे कुपितादिके । ३८५दस्रस्तुरङ्गमे रश्दा(श्मा?)वश्विनीदेवतान्तरे ।दभ्रः समुद्रेऽप्यल्पेऽपि नीचमाधवशम्भुषु ।
132 · p. 66
अनुष्टुप्metre not read in every lineLatin letters: a
तरलाव्याख्या
उणादिनिष्पत्तिः
३८२. मन्द्रः (पुं) (स्फायितञ्चि - २.१३ इति रक्) (मदि स्तुतौ भ्वा/आ/से +रक्) मन्दते अनेनेति मन्द्रः = गम्भीरध्वनिः । वाद्यविशेषः (त्रि) हृष्टः, मदनशीलः ।, ३८३. चन्द्रः (पुं)(स्फायितञ्चि - २.१३ इति रक्) यदि आह्लादने भ्वा/प/से +रक्) चन्दयति आह्लादयति इतिचन्द्रः = चन्द्रमाः । कर्पूरम्, स्वर्णम्, जलम्, काम्पिल्लः, द्वीपविशेषः, विसर्गः, कमनीयः, मेचकः, शोणमुक्ताफलम्, योगोक्तेडानाडी, चन्द्रगुप्तनृपः, (त्रि) चन्द्रः, एकाङ्कः, (न) मृगशिरानक्षत्रम्,भ्रूमध्यभागस्य सोममण्डलम् ।, ३८५. दह्रः (पुं) (स्फायितञ्चि - २.१३ इति रक्) (दह भस्मीकरणेभ्वा/प/अ-रक्) दहतीति दह्रः = अग्निः । दावानलः, नरकम्, वरुणः, जठरम् ।, ३८६. दस्त्र: (पुं) (स्फायितञ्चि - २.१३ इति रक्) (दसु उपक्षये दि/प/से +रक्) दस्यति पासूनिति दस्त्रः = खर:(वि, मे), अश्विनीसुतः, (न) शिशिरम् ।, ३८७. दभ्रः (दम्भ्रः) (पुं) (स्फायितञ्चि - २.१३ इति रक्)(दम्भु दम्भने स्वा/प/से +रक्) दभ्नोतीति दम्भ्रः = समुद्रः । (त्रि) स्वल्पम्, (स्त्री) उत्तरा दिक् ।
133 · p. 67
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
३८१. (छिद्रम्)भिद्रम् छिद्रं रन्ध्रे दूषणे च भिद्रं वज्रे प्रकीर्तितम् । २.६० ३८२,३८३.मन्द्रः,चन्द्रः मन्द्रः स्वरविशेषे ना चन्द्रो …[ऽम्बुनि हिमधु] तौ ।कर्पूरे शोचरूप्ये [मेचरूपे च] सुधायामपि न द्वयोः । २.६१३८५,३८६.दह्रः,दस्रः दह्रो वैश्वानरे दस्त्र: खरस्वर्लोकवैद्ययोः । २.६२३८७. दभ्रः दभ्रः स्वल्पे समुद्रेऽपि स्यादुस्रः किरणे तरौ । २.६३उस्रस्तु किरणे चन्द्रे गवि रोमादिके तथा ।वाश्रस्तु रोगे सैन्ये च संसारे परमात्मनि ।शिरः शिरसि सर्पादौ बुद्धिहीनमुखादिषु । ३९०हस्रस्तु दैत्ये गोविन्दे शङ्करे माधवादिके ।उपद्रवे च सिध्रस्तु साधौ शङ्करभानुषु ॥शुभ्रः शम्भौ शोभने च समीचीनेऽपि माधवे ।निद्रा निद्रामन्दमायादैत्यमाधवशम्भुषु ॥
134 · p. 67
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
३८८. उस्त्रः (पुं) (स्फायितञ्चि - २.१३ इति रक्) (वस निवासे भ्वा/प/अ +रक्) वसन्त्येभिः इति उस्त्रा: = रश्मयः । वृष: (मे), अर्जुनी (लताभेदः), सूर्यः (मे), अश्विनीपुत्रौ (मे, वि), (स्त्री) पृथिवी (मे), ३८९. वाश्रः (पुं) स्फायितञ्चि - २.१३ इति रक्) (वाशृ शब्दे दि/आ/से +रक्) वाश्यते अस्मिन्निति वाश्रः = दिवसः (मे) । मन्दिरम्, चतुष्पथः ।, ३९०. शिरः (न)(श्रयतेः स्वाङ्गे - ४.१९३ इति असुन्) (श्रिञ् सेवायाम् भ्वा/उ/से +असुन्) प्रधानेन्द्रियाणि श्रयन्तेऽस्मिन्निति शिरः = शीर्षम् । शिखरम् (म. भा), प्रधानम् (भाग), सेनाग्रम् ।, ३९१. हस्त्र:(त्रि) (स्फायितञ्चि - २.१३ इति रक्) (हसे हसने भ्वा/प/से +रक्) हसति निरर्थकमिति हस्त्र:= मूर्खः ।, ३९२. सिध्रः (पुं) (स्फायितञ्चि- २.१३ इति रक्) (षिध गत्याम् भ्वा/प/से +रक्) सेधति गच्छति सिध्यति वेति सिध्रः = साधुः । वृक्षः ।, ३९३. शुभ्रम् (न) (स्फायितञ्चि - २.१३इति रक्) (शुभ दीप्तौ भ्वा/आ/से +रक्) शोभते इति शुभ्रम् = अभ्रकम् (मे) ।
135 · p. 68
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
३८८. उस्रा अर्जुन्यामुपचित्रायामप्युस्रा परिकीर्तिता । २.६३३८९. वाश्रः वाश्रो ना दिवसे वाधे मन्दिरेऽपि चतुष्पथे । २.६४ ३९०,३९१,३९२.(शिरः)शीरः,हस्रः,सिध्रः-शीरस्त्वजगरे हस्रो मूर्खे सिध्रस्तु सज्जने । २.६५३९३. शुभ्रम् शुभ्रं स्यादभ्रके क्लीबं त्रिषु शुक्लप्रदीप्तयोः । २.६६३९४. निद्रा निद्रा बाह्येन्द्रियज्ञानविरामे परिकीर्तिता । २.७०चुक्रस्तु तिन्त्रिणिफले सुधान्नवदनादिके ।रम्रो रम्ये विनाशेऽपि विकस्रश्चन्द्रसूर्ययोः ॥आम्रश्चूते रोगयुक्ते दिने मन्दादिके मधौ ।ताम्रो दयायां नक्षत्रे दैत्ये सेर्ष्ये हरादिके ॥शूद्रोऽन्यवर्णे दीने च वह्नौ मायादिके मधौ ।दूरंगतौ महादेवे मनुष्यादौ भवादिके । ४००
136 · p. 68
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
३९४. निद्रा (स्त्री) (निन्देनलोपश्च - २.१३ इति रक्) (णिदि कुत्सायाम् भ्वा/प/से +रक्)निन्द्यते इति निद्रा । शयनम् ।, ३९५. चुक्रम् (न) (चकिरम्योरुच्चोपधायाः - २.१४ इति रक्)(चक तृप्ती भ्वा/आ/से +रक्) चक्रते तृप्यत्यनेनेति चुक्रम् = तिन्त्रिणी । पत्रशाकविशेषः (वि),(पुं) अम्लः (वि) ।, ३९६. (विकस:) विकुस्रः(पुं) (वै कसे: - २.१५ इति रक्) (कस गतौ भ्वा/ प/से +रक्) विकसतीति विकुस्रः = चन्द्रः ।, ३९७, आम्रम् (पुं, न) (अमितम्योर्दीर्घश्च - २.१६इति रक्) (अम गत्यादिषु भ्वा/प/से +रक्) अम्यते प्राप्यते इत्याम्रम् = चूतवृक्षः । चूतफलम्।,३९८. ताम्रम् (न) (अमितम्योर्दीर्घश्च - २.१६ इति रक्) (तमु काङ्क्षायाम् दि/प/से +रक्) ताम्यते आकाङ्क्ष्यते इति ताम्रम् = ताम्रकम् । रक्तवर्णः, द्वीपभेदः, कुष्ठभेदः ।, ३९९. शूद्रः (पुं)(शुचेर्दश्च - २-१९ इकि रक्, दः) (शुच शोके भ्वा/प/से+रक्) शोचतीति शूद्रः = अवरवर्णः ।
137 · p. 69
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
३९५. चुक्रः चुक्रुरित्येष कथितः तथाम्लेऽप्यम्लवेतसे ।चुक्री चाङ्गेरिकायां च वृक्षाऽम्ले चुक्रमिष्यते । २.६८३९६. रम्र: रम्र: रुम्रोऽरुणे पाठभेदाच्युम्रो नाशविषण्ण्योः । २.६९ ३९७,३९८.आम्रः,ताम्रम् आम्रः पुंसि रसाले स्यात्ताम्रं शुल्बेऽरुणे त्रिषु । २.७० ३९९. शूद्रः शूद्रस्तु वृषले गोपे त्वयं महदनन्तरः ।स्रियां शूद्री तु पुंयोगे जातौ शूद्रेति टाब्वशात् ॥ २.७२आभीर्यां तु महाशूद्री जतिपुंयोगयो: समा ।रुद्रः प्रचण्डे फालाक्षे निर्दु:खे ज्ञानिसूर्ययोः ॥जीरोऽग्नौ वरुणे बाणे वृद्धापश्वे महेश्वरे ।सुरा तु मदिरा देवाः सूरः सूर्ये महात्मनि ॥गृध्रस्तु कामुके चन्द्रे सेवेमानुष्यचित्तयोः ।१० शूरः समुद्रे वीरे च चीरं वल्कलमांसयोः । ४०५
138 · p. 69
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
४००. दूरम् (त्रि) (दुरीणो लोपश्च - २.२ इति रक्) (इण गतौ अ/प/अ +रक्) दुर्दुखेनेयते प्राप्यते इति दूरम् = अनिकटम् ।, ४०१. रुद्रः (पुं) (रोदेर्णिलुक् च - २.२२ इति रक्)रुदिर् अश्रुविमोचने अ/प/से +रक्) रोदयतीति रुद्रः = शिवः । देवतागणविशेषः, विश्वकर्मपुत्रविशेषः, भावविलासप्रणेता, अग्निमूर्तिविशेषः ।, ४०२. जीरः (पुं) (जोरी च - २.२४ इति रक्) (जु गताविति सौत्रः + रक्) वेगेन गच्छतीति जीरः = खड्गः (वि.मे), जीरकः, अणुः, (त्रि)विद्यावान्, क्षिप्रः ।, ४०३. सुरा (स्त्री) (सुसूधागृधिभ्य: क्रन् - २.२५ इति क्रन्) (षुञ् अभिषवेस्वा/उ/अ +क्रन्) सूयते पीडयते इति सुरा = मदिरा, चषक: (वि), (पुं) सुरः, देवः ।, ४०४.गृध्रः (पुं) (सुसूधागृधिभ्यः क्रन् - २.२५ इति क्रन्) (गृधु अभिकाङ्क्षायाम् दि/प/से +क्रन्) गृध्यति अभिकाङ्क्षति मांसानिति गृध्रः (मे) = पक्षिविशेषः । (त्रि) लुब्ध: (मे), ४०५. शूरः (पुं)(शुसिचिमीनां दीर्घश्च - २.२६ इति क्रन्) (शु गतौ भ्वा/प/से +क्रन्) शीरयति विक्रामयतीतियद्वा शवति वीर्य प्राप्नोतीति शूरः = वीरः (मे) श्रीकृष्णपितामहः, सूर्यः (वि, हे), सिंहः, सूकरः, चित्रकवृक्षः सालः, लकुचः, मसूरः, भटः (मे)
139 · p. 70
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
४००. दूरम् क्लीबे दूरं विप्रकृर्षे विप्रकृष्टे तु वाच्यवत् । २.७३४०१. रुद्रः रुद्रः शिवे शैषिकेऽणि रौद्रो नाट्यरसान्तरे । २.८०४०२. जीरः जीरः खड्गे वणिग्द्रव्ये जोरी चेत्यनुशासनात् । २.८६४०३. सुरा सुरो देवे सुरा मद्ये चषकेऽपि सुरा क्वचित् । २.८७४०४. गृध्रः सिन्धौ च गृध्रस्तु भवेत्खगभेदातिलुब्धयोः । २.९०मीरः समुद्रे पापे च कामुकादौ हरादिके ।वीध्रं तु गगने भानौ चन्द्राग्निशिवभानुषु ॥वीन्ध्रंस्तु चन्द्रे बाले च वप्रं प्राकारगेहयोः ।भूज्रः कामे च चित्ते च कामुकादौ खगादिके ॥न्याये महेश्वरे भानौ वसिष्ठादावपि स्मृतः । ४१०अग्रस्तु दैत्ये मायायां पापात्मनि बहुश्रुते ।c{तरलाव्याख्या}
140 · p. 70
अनुष्टुप्metre not read in every lineLatin letters: c
उणादिनिष्पत्तिः
४०६. मीरः (पुं) (शुसिचिमीनां दीर्घश्च - २.२६ इति क्रन्) डुमिञ् प्रक्षेपणे स्वा/उ/अ +क्रन्) मिन्वन्ति प्रक्षिपन्ति नद्यो जलान्यत्रेति मीरः = समुद्रः । पर्वतैकदेशः, सीमा, पानीयम्, ४०७. (बीन्ध्रम्) वीध्रम् (न) (वा विन्धेः - २.२७ इति क्रन्) (ञिइन्धी दीप्तौ रु/आ/से +क्रन्) विशेषण इन्धते दीप्यते इति वीध्रम् = विमलम्(अ)। नभः, वायुः, अग्निः ।, ४०८. वध्रम् (न)(वृधिवपिभ्यां रन् - २.२८ इति रन्) (वृधु वर्धने भ्वा/आ/से +रन्) वर्धत इति वर्धम् = चर्म ।,४११. अग्रम् (न) (ऋज्रेन्द्राग्रवज्र - २.२९ इति रन्) (अग कुटिलायां गतौ श्वा/प/से +रन्) अगति इति अग्रम् = प्रथमम् । पुरस्तात् (मे), (अवलम्बनम् (मे) पलपरिमाणम्, (न) प्रान्तम्(मे), समूहः, भिक्षाविशेषः, प्रधानम्, श्रेष्ठम् ।
141 · p. 71
अनुष्टुप्two metres in one verse
औणादिकपदार्णवः
४०५. शूरः शूरो ना कुक्कुटे वीरे तपने यादवे भटे । २.९०४०६. मीरः भवेत्कृच्छ्राटिकायां च मीरस्तु जलधौ पुमान् । २.९८४०७. वीध्रम् वीभ्रं तु विमले वाच्यलिङ्गकं परिकीर्तितम् ।अग्नौ वायौ च पुंसि स्यात्क्लीबं पूर्णेन्दुमण्डले ॥ २.९८४०८. वप्रम् वप्रस्तु स्यात्तीरतातप्राकारक्षेत्रसेतुषु ।स्कन्दे प्रजापतौ चापि प्रपातेऽपि च कथ्यते ॥ २.१०४वज्रः शक्रायुधे रत्ने बाणादौ मानसादिके ।विप्रो ब्राह्मणमायूरे नेत्रमाधवशम्भुषु ।कुप्रः कोपकरे शम्भौ दैत्ये दारुणकर्मणि ।चुप्रोऽजगरपक्ष्यादिमयूरादिहरादिषु । ४१५क्षुरस्तु खड्गे बाणे च पतङ्गादिरवादिके ।
142 · p. 71
अनुष्टुप्two metres in one verse
तरलाव्याख्या
उणादिनिष्पत्तिः
४१२. वज्रः (पुं) (ऋॄज्रेन्द्रग्रवज्र - २.२९ इति रन्) (वज गतौ भ्वा/प/से +रन्) वजति (निर्बाधं) गच्छति न प्रतिहन्यते इति स वज्रः = इन्द्रायुधम् । श्रीकृष्णप्रपौत्रः, विश्वामित्रपुत्रभेदः, श्वेतकेतुः, लोकिलाक्षवृक्षः बालकः, हीरकम्, वज्रपुष्पम्, लोहविशेषः ।, ४१३. विप्रः (पुं) (ऋॄजेन्द्राग्रवज्र- २.२९ इति रन्) (डुवप् बीजसन्ताने भ्वा/उ/अ +रन्) उप्यन्ते अस्मिन् धर्मादयः इति विप्रः =ब्राह्मणः । स्तवकर्ता, अश्वत्थः, मेधावी ।, ४१६. क्षुरः (पुं) (ऋज्रेन्द्राग्रवज्र - २.२१ इति रन्)(क्षुर विलेखने तु/प/से +रन्) क्षुरतीति क्षुरः = छेदनसाधनम् । नापितस्य लोमच्छेदकास्त्रम् (वि,मे),शफः, शरः । ४१७. खुरः (पुं) (ऋॄज्रेन्द्राग्रवज्र - २.२९ इत् रन्) (खुर छेदने तु/प/से+रन्) खुरति छिनत्ति इति खुर: शफः । छेदनवस्तु, खट्वादीनां पादुकम्, नखीनामकं गन्धद्रव्यम् ।,
143 · p. 72
अनुष्टुप्two metres in one verseimpossible sign sequence: रः (पुं) (ऋॄज्रेन्impossible sign sequence: रः (पुं) (ऋॄजेन्द्impossible sign sequence: रः (पुं) (ऋॄज्रेन्
औणादिकपदार्णवः
४११. अग्रं अग्रं पुरस्तादुपरि परिमाणे पलस्य च ।आलम्बने समूहे च प्रान्ते च स्यानपुंसकम् । २.११४अधिके च प्रधाने च प्रथमे चाभिधेयवत् । २.११५४१२. वज्रं वज्रं हीरकदम्भोलिवालुकामलकेषु च । २.१२७ ४१३. विप्रः वज्रा तु स्याद्गलूच्यां स्त्री विप्रः पुंसि द्विजे स्मृतः । २.१२७वज्रं वने च पुण्ये च चुनं तु वदने स्मृतम् ।४१६. क्षरः क्षुर: स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे । २.१२८खुरः खड्गे भटे सख्ये कल्याणे चन्द्रशेखरे ।भद्रं तथैव मानाध ब्रह्मचन्द्रभवादिके ।उग्रः शम्भौ प्रचण्डे च मिलिते माधवे रवौ ।भेरी(रः) भयंकरे शम्भौ ढक्का दुन्दुभिमादिषु । ४२०
144 · p. 72
अनुष्टुप्two metres in one verse
तरलाव्याख्या
उणादिनिष्पत्तिः
४१८. भद्रम् (न) (ऋज्रेन्द्राग्रवज्र - २.२९ इति रन्) (भदि कल्याणे भ्वा/आ/से+रन्) भन्दते इति भद्रम् = मङ्गलम् (मे) । मुस्तम् (मे), काञ्चनम् (मे) करणविशेषः(न, स्त्री), (पुं) शिवः, खञ्जरीटः (मे), वृषभ: (मे), कदम्बः (मे), करिजातिविशेष: (मे), जिनभेद:, रामचरः, स्नुही, सुमेरुः (मे), चन्दनम्, वसुदेवपुत्रः, सरोवरविशेषः, (त्रि) श्रेष्ठः, साधुः, द्वितीयासप्तमीद्वादशीतिथयः, देवदारुवृक्षः, कृष्णभगिनी, भारतवर्षस्थ: नदीभेदः ।, ४१९. उग्रः(पुं) (ऋॄजेन्द्राग्रवज्र - २.२९ इति रन्) (उच समवाये दि/प/से+रन्) उच्यति क्रुधा सम्बन्ध्यतेइत्युग्रः = शङ्करः । नृपविशेषः, क्षत्रियात् शूद्रायां जातः जातिविशेषः, शोभाञ्जनवृक्षः, केरलदेश: नक्षत्रगणविशेषः, धृतराष्ट्रपुत्रः, दानवविशेषः, विष्णुः, (त्रि) रौद्रम्, दारुणकर्म, (न) वत्सनाभनामविषम् ।, ४२०. भेरी (स्त्री) (वङ्क्र्यादयश्च -४-६६ इति क्रिन्) (ञिभी भये जु/ प/अ +क्रिन्) बिम्भ्यति शत्रवोऽस्या इति भेरी = दुन्दुभिः ।
145 · p. 73
अनुष्टुप्two metres in one verseimpossible sign sequence: (पुं) (ऋॄजेन्द्
औणादिकपदार्णवः
४१७. खुरः खुरः पुमान् कोलदले शफे च परिकीर्तितः । २.१२९४१८. भद्रं भद्रं स्यान्मङ्गले हेम्नि मुस्तके करणान्तरे । २.१३१भद्रो रुद्रे वृषे ताम्रचूडे मरुकदम्बके ।४१९. उग्रं उग्रं यथा तथा पश्यन्नुग्रंपश्यो दृशेः खशि । २.१३४ ४२०. भेरः भेर: स्यात्कातरे पुंसि भेरी स्याद्दुन्दुभौ स्त्रियाम् । २.१३५शुक्रो ग्रहे रेतसि च वर्णे च परमात्मनि ।शुक्लोऽपि तादृशार्थः स्यात्किं च सर्वार्थकोऽपि च ।गोरो वर्णे युद्धकारे सप्रयत्ने हरादिके ।इरा भूम्यां महादेवशक्तिमाधवगौरिषु ॥ इति रेफान्ताः । ४२४
146 · p. 73
अनुष्टुप्two metres in one verse
तरलाव्याख्या
उणादिनिष्पत्तिः
४२७. (मालुः) माला (स्त्री) (ऋज्रेन्द्राग्रवज्र - २.२९ इति रन्, लः) (मा माने अ/प/अ +रन्) मातिमानहेतुर्भवतीति माला = सक् । श्रेणी, पृक्का, (न) क्षेत्रम्, उन्नतभूतलम् (उ),(पुं) जातिविशेषः, जिन: (वि), जैनधर्मावलम्बी ।, ४२८. सलिलम् (न) (सलिकलि - १.५४ इति इलच्) (षल गतौ भ्वा/प/से इलच्) सलति गच्छति निम्नमिति सलिलम् = जलम् ।,४२९. कलिलम् (त्रि) (सलिकलि - १.५४ इति इलच्) (कल सङ्ख्याने भ्वा/आ/से +इलच्) कल्यते मिश्यते इति कलिलम् = गहनः ।, ४३०. अनिल: (पुं) (सलिकलि - १.५४ इति इलच्) (अन प्राणने अ/प/से +इलच्) अनिति जीवत्यनेन लोको इति अनिलः = वायुः । वसुविशेषः,वातरोगः, स्वातीनक्षत्रम् ।, ४३१. भण्डिल: (त्रि) (सलिकलि - १.५४ इति इलच्) (भडि परिभाषणे भ्वा/आ/से+इलच्) भण्डते परिभाषत इति भण्डिलः = परिभाषकः, दूतः । कल्याणम्,
147 · p. 74
अनुष्टुप्two metres in one verse
औणादिकपदार्णवः
४२५ आलु: सिध्यत्यालुः शाकभेदे घट्यामप्येष कथ्यते । १.१०८४२८,४२९. सलिलं,कलिलं स्याज्जले सलिलं मिश्रे गहने कलिलं त्रिषु। १.३०३४३०. अनिल: अनिल: पुंसि पवने । १.३०४ ४३१,४३२.भण्डिलः,भडिल: भडिल: सेवके शूरे भण्डिल: शुभदूतयोः । १.३०४शण्डिलो रोगयुक्ते स्यान्मुनौ मूर्खेऽसितीर्थयोः ।पिण्डिलो गगने स्थूलजङ्घे माधवचन्द्रयोः ।तुण्डिलो माधवे शिष्ये बहुभाषिणि शङ्करे । ४३५ कोकिल: कलकण्ठे स्यान्मधुरे भोज्यवस्तुनि ।भविलस्तु गृहे रम्ये कपिभव्यविभूतिषु ।
148 · p. 74
अनुष्टुप्two metres in one verse
तरलाव्याख्या
उणादिनिष्पत्तिः
४३२. भडिल: (पुं) (सलिकलि - १.५४ इति इलच्) (भडि परिभाषणे भ्वा/आ/से+इलच्) भण्डते इति भडिलः = सेवकः, शूरः ।, ४३३. शण्डिल: (पुं) (सलिकलि - १.५४ इति इलच्) (शडि रुजायाम् भ्वा/आ/से +इलच्) शण्डते रोगयुक्तो भवतीति शण्डिल: = रोगी ।मुनिविशेषः ।, ४३४. पिण्डिल: (पुं) (सलिकलि - १.५४ इति इलच्) (पिडि सङ्घाते भ्वा/आ/से +इलच्) पिण्डवदाकृतिरस्त्यस्येति पिण्डिल: = सेतुः । गणक: (सि. कौ), (स्त्री) गोडुम्बा,४३५. तुण्डिल: (पुं) (सलिकलि - १.५४ इति इलच्) (तुडि तोडने भ्वा/आ/से +इलच्)तुण्ड्यते पृथक्क्रियते दूरीक्रियते इति तुण्डिलः = मुखरः । उच्चनाभिर्जनः ।, ४३६. कोकिल: (पुं)(सलिकलि - १.५४ इति इलच्) (कुक आदने भ्वा/आ/से + इलच्) कोकते चूतपल्लवमादत्तेइति कोकिल: = स्वनामख्यातकृष्णवर्णमधुरस्वरपक्षी, अङ्गारः, छन्दोविशेषः ।, ४३७. भविल:(पुं) (सलिकलि - १.५४ इति इलच्) (भू सत्तायाम् भ्वा/प/से + इलच्) यो भवति स भविलः= भवितुं योग्यः = कामुकः, जारः ।
149 · p. 76
अनुष्टुप्two metres in one verse
औणादिकपदार्णवः
४३३. शण्डिल: शण्डिलस्तु मुनौ मूखें तीर्थे तु स्यान्नपुंसकम् । १.३०५४३४. पिण्डिल: पिण्डिलो गणके पुंसि स्थूलजङ्घे च कथ्यते । १.३०६४३५. तुण्डिलः स्यात्तुण्डिलस्तु मुखरे कोकिलस्तूच्यते पिके । १.३०६४३६. कोकिल: कोकिलेत्येव टाप् स्त्रीत्वे जातिपुंयोगयोः स्मृतः ।४३७. भविलः भविलं भवने प्रोक्तं भव्येऽपि च मनीषिभिः । १.३०७कपिलो वर्णभेदे स्यान्मुनौ मारशिवादिषु ।त्रिफला मेघपुष्पादिलतादिखदिरादिषु ।कमलं गगने तोये मण्डलं चन्द्रभूषयोः । ४४०कुण्डलं कर्णभूषायां सूर्यादौ पर्वतादिके ।शबलो वर्णभेदे स्यादाक्रोशे माधवादिषु ।
150 · p. 76
अनुष्टुप्two metres in one verse
तरलाव्याख्या
उणादिनिष्पत्तिः
४३८. कपिलः (पुं) (कमेः पश्च - १.५५ इति इलच्) (कमु कान्तौ भ्वा/आ/से+ इलच्) कामयते इति कपिल: = कपिलमहर्षिः। साङ्ख्ययोगप्रवर्तकः (मे), अग्निः (मे), कुक्कुरः, सिह्लकनामगन्धद्रव्यम् (मे), पिङ्गलवर्ण: (मे), विष्णुः (मे), नागविशेषः (मे), दानवभेदः (मे), ४३९. (त्रिफला) तृपला (स्त्री) (कलस्तृपश्च - १.१०४ इति कलः) (तृप प्रीणने स्वा/प/से +कल:) तर्पयतीति तृपला = लता । त्रिफला ।, ४४२. शबल: (पुं) (शपेर्बश्च - १.१०५इति कलः) (शप आक्रोशे भ्वा/उ/अ +कलः) शपति आकोशतीति शबल: = वर्णभेदः ।
151 · p. 77
अनुष्टुप्two metres in one verse
औणादिकपदार्णवः
४३८. कपिल: कपिला रेणुकायां च शिंशपागोविशेषयोः । १.३०८४४०. कमलं कमलं सलिले ताने जलजे व्योम्नि भेषजे । १.४५२शस्त्राणां छुरिकादीनां हेमाद्यौश्चिह्वितेऽजिने ।मृगभेदे तु कमल: कमला श्रीवरस्त्रियोः । १.४५३४४१.कुण्डलं कुण्डलं मण्डलं चेत्याद्यूह्यमेतेन कोविदैः । १.४२२कुण्डलं पाशवलयकर्णभूषासु कथ्यते ।गलूच्यां काञ्चनालौ च कुण्डली समुदीरिता । १.४२३ स्यान्मण्डलं द्वादशराजके च देशे च बिम्बे च कदम्बकेच ।कुष्ठप्रभेदेऽप्युपसूर्यके च भुजाप्रदेशेषु च मण्डलं स्यात् ॥ १.४२४४४२. शबल: शबलो वर्णभेदेऽपि मिश्रितेऽपि च वाच्यवत् । १.४२५वृषलो नीचपापीष्ठबहिष्कृतहरादिषु ।देवलो मुनिदेवीय-जनमाधवचीरिषु ।मलं पापे च किट्टे च मसूरादौ हरादिके । ४४५चपलश्चञ्चले चित्ते माधवे वाहनादिके ।शमलं शान्तवैराग्याशुचिचित्तसुरादिषु ।भ्र(भ्रू?मलो नेत्ररोगे स्यान्नेत्रे चित्तेऽनवस्थिते ।
152 · p. 77
अनुष्टुप्two metres in one verse
तरलाव्याख्या
४४३. वृषल: (पुं) (वृषादिभ्यश्चित् - १.१०६ इति कलः) (वृषु सेचने भ्वा/प/से+कलः) वर्षति सिञ्चति जलेनेति वृषलः = शूद्रः । चन्द्रगुप्तराजः, वाजी, अधार्मिकः ।, ४४५.मलम् (न) (पुं) (मृजेष्टिलोपश्च - १.१०७ इति कलः) (मृजू शुद्धौ अ/प/वे +कलः) मृज्यते शोध्यत इति मल: मलं वा = विट् (मे) । कर्पूरम्, वातपित्तकफाः (त्रि) पापम्, कृपणः (मे),४४६. चपलम् (त्रि) (चुपेरच्चोपधायाः - १.१०८ इति कलः) (चुप मन्दायां गतौ भ्वा/प/से +कलः) चोपति मन्दं मन्दं गच्छतीति चपलः = तरलः । चञ्चलः, चिकुरः, विकलः (पुं)मोन:(मे), चोरः(मे), प्रस्तरविशेषः (मे), क्षुवः (मे), मूषकविशेष: (मे)४४७. शमलम् (न) (शकिशम्योर्नित् - १.१०९ इति कलः) (शमु अशमने दि/प/से+कल:) शाम्यतीति शमलम् = अशुद्धम् । विष्ठा ।
153 · p. 78
अनुष्टुप्two metres in one verse
औणादिकपदार्णवः
४४३. वृषलः हये शूद्रेऽपि वृषल: कथितः पुंस्यथ स्त्रियाम् । १.४२६४४४. देवलः त्रिष्ववक्रेप्युदारे च देवलो देवजीवके । १.४२८४४५. मलं मलोऽस्त्री पापविट् किट्टे कृपणेऽप्यभिधेयवत् । १.४५६४४६. चपलः चपल: पारदे मीने चोरके प्रस्तरान्तरे । १.४५८४४७. शमलं शमलं पापशकृतोः क्लीबं स्यादशुकात्रिषु (?)। १.४६४मुसलो दण्डशम्भोरुकुरुदेवमहिन्दुषु ।स्थालं तु भाजने चित्ते मोक्षे वैराग्यचिह्नयोः । ४५०चत्वालं पात्रभेदे स्याद्याचके देवतादिके ।पातालं चरमात्रे चाप्यधो लोकेऽनवस्थितौ ।चण्डाल: क्रूरकर्मा स्याच्छङ्करो दैत्यसर्पयोः ॥। इति लान्ताः ॥
154 · p. 78
अनुष्टुप्two metres in one versedoubled daṇḍa: ॥।
तरलाव्याख्या
उणादिनिष्पत्तिः
४४९. मुसलम् (पुं, न) (वृषादिभ्यश्चित् - १.१०६ इति कल:) (मसु खण्डने दि/प/से +कलः) मुस्यति खण्डयतीति मुसलम् = स्वनामाख्याततण्डुलादिखण्डनार्थ निर्मितलौहाग्रयष्टिः । बलरामस्य आयुधविशेषः, ४५०. स्थालम् (न) (स्थाचति - १.११३ इति आलच्) (ष्ठा गतिनिवृत्तौभ्वा/प/अ +आलच्) तिष्ठत्यस्मिन् अन्नादिकमिति स्थालम् = हेमादिकृतभोजनपात्रम् ।४५२. पातालम् (न) (पतिचण्डिभ्यामालञ् - १.११४ इति आलञ्) (पत्लृगतौ भ्वा/प/से + आलञ्) पतन्त्यस्मिन् दुष्क्रियावन्तः इति पातालम् = सप्तलोकेष्वन्यतमः । बडवानलः (मे), लग्नाच्चतुर्थस्थानम्, विवरम्, नागलोकः (मे) (पुं) पतति जारणाद्यर्थं पारदादिकं यत्रेति पाताल:= औषधपाकार्थयन्त्रविशेषः ।, ४५३. चण्डालः (पुं) (पतिचण्डिभ्यामालञ् - १.११४ इतिआलञ्) (चडि कोपे भ्वा/आ/से +आलञ्) चण्डते कुप्यतीति चण्डालः = वर्णसङ्करजातिविशेषः ।क्रूरकर्मा ।
155 · p. 79
अनुष्टुप्two metres in one versenearly अनुष्टुप्
औणादिकपदार्णवः
४४९. मुसलः अयोऽग्रे पुंसि च क्लीबे मुसलं स्यात्स्त्रियां त्वसौ । १.४३४४५०. स्थालं उखायां पाटलायां च स्थाली स्थालं तु भाजने । १.५०४४५१. चत्वालं चत्वालो यज्ञकुण्डेऽपि दर्भेष्वपि च विश्रुतः । १.५०६४५२. पातालं पातालं भोगिलोके स्याद्विवरे वडवानले । १.५०७४५३. चण्डाल: क्रूरकर्मणि चण्डालो ब्राह्मण्यां शूद्रजेऽपि च । १.५०८पृथिवी भूमिगौरीशवसुदानमुखादिषु ।अश्वस्तुरङ्गमे मेघे चन्द्रमादौ खगादिके । ४५५पुष्वो वराहे दैत्ये च वह्नौ सूर्यादिके परे ।लट्वो बाल्ये मुरारौ च मूर्खे चण्डविरुद्धयोः ।११ कण्वो निमीलिते चित्ते मुनौ माधवदेवयोः ।
156 · p. 79
अनुष्टुप्two metres in one verse
तरलाव्याख्या
उणादिनिष्पत्तिः
४५४. पृथिवी (स्त्री) (प्रथे: षिवन्सम्प्रसारणं च - १.१४८ इति षिवन्) प्रथ प्रख्याने भ्वा/आ/से +षिवन्) प्रथते विस्तारं यातीति पृथिवी = भूमिः ।, ४५५. अश्वः (पुं) (अशूप्रुषिलटि - १.१४९ इति क्वन्) (अशू व्याप्तौ स्वा/आ/वे +क्वन्) अश्नुते मार्गं व्याप्नोतीत्यश्वः =घोटकः । वृष्णिवंशीयः नृपतिः दानवविशेष: (मे) ।, ४५६. पृष्व: (पुं) (अशूप्रषिलटि - १.१४९ इति क्वन्) (प्रुष दाहे क्या/प/से +क्वन्) पृष्णाति दहतीति प्रुष्वः = दिवाकरः । (स्त्री) जलबिन्दुः ।, ४५७. लट्वा (स्त्री) (अशूप्रुषिलटि - १.१४९ इति क्वन्) (लट बाल्ये भ्वा/प/से +क्वन्)लटति बाल इव भवति सेति लट्वा = करञ्जभेदः (वि,मे) । वाद्यभेदः (वि, मे), पक्षिविशेष: (ग्रामचटक:) (वि,मे), कुसुम्भम् शिली, तूलिका, द्यूतम्, (पुं) जातिविशेषः, रागभेदः, तुरङ्गः ।, ४५८. कण्वम् (न) (अशूप्रुषिलटि - १.१४९ इति क्वन्) (कण निमीलने चु/उ/से +क्वन्)कण्यते अपोद्यते येन जन इति कण्वम्। पापम् (मे), (त्रि) मेधावी, स्तोता, नृपभेदः, काश्यपगोत्रमुनिभेदः ।
157 · p. 80
अनुष्टुप्two metres in one verse
औणादिकपदार्णवः
४५४. पृथिवी षिवन् षवन् पाठभेदात्पृथिवी पृथवी क्षितौ ।पृथिव्याः पार्थिवो आओरर्थे प्राग्दीव्यतीयके ॥ १.६७४४५५. अश्वः हयपुंभेदयोरश्व: स्त्र्यश्वाजादिषु टाब्विधेः । १.६८०५४७. लट्वा लट्वा करञ्जभेदे स्यात्फले वध्ये खगान्तरे । १.६९८४५८. कण्वः कण्वं पापे मुनौ पुंसि काण्व्यस्तु यञि गर्यवत् ।कण्वादिभ्यो गोत्र इति यञन्तादणि शैषिके । १.६९९खट्वा तु शयने रामे रमायां मारुतादिके ।विश्वं गृहे रमण्यां च वनादौ जगदादिके । ४६० रुष्वो हिंस्रः पतङ्गादौ लष्वो नर्तकमानुषौ ।शिवं क्षेमे मङ्गले च पद्वा भूमिकुसूलयोः ।प्रह्वोऽनुकूले रम्ये च इष्व आर्ये मनोहरे ।शिवा लिङ्गाकृतौ स्थाणौ मुनिसर्पशिलादिषु ।
158 · p. 80
अनुष्टुप्two metres in one verse
तरलाव्याख्या
उणादिनिष्पत्तिः
४५९. खट्वा (स्त्री) अशूप्रुषिलटि - १.१४९ इति क्वन्) (खट काङ्क्षायाम् भ्वा/प/से +क्वन्) खट्यते काङ्क्ष्यते शयनार्थिभिरिति खट्वा = शय्या ।, ४६०. विश्वम् (अ) (अशूप्रुषिलटि- १.१४९ इति क्वन्) (विश प्रवेशने तु/प/अ +क्वन्) विशति अस्मिन्निति विश्वम् = संसारः ।,४६१. लष्व: (पुं) (सर्वनिघृष्व - १.१५१ इति व्रन्) (लष कान्तौ भ्वा/उ/से +वन्) लषयति नृत्ये शिल्पं युनक्तीति लष्वः = नर्तकः ।, ४६२. शिवम् (शिवः) (पुं) (सर्वविघृष्व - १.१५१ इति वन्)(शीङ् स्वप्ने अ/आ/से +वन्) शेतेऽस्मिन् सर्वमिति शिवः = शङ्करः । मोक्षः, ग्रहयोगः,वालुकम्, गुग्गुलुः, वेदः, पुण्डरीकद्रुमः, कृष्णधुस्तूरः, पारदः, देवः, लिङ्गः, पटलः ।,
159 · p. 81
अनुष्टुप्two metres in one verse
औणादिकपदार्णव:
४५९. खट्वा अतः स्त्रियां भवेत् खट्वाशब्दः पर्यङ्कवाचकः ।खट्वारूढो जांल्म इति क्षेपे तत्पुरुषः स्मृतः । १.७०१४६०. विश्वं विश्वा त्वतिविषायां स्त्री जगति स्यानपुंसकम्।न ना शुण्ठयां पुंसि देवप्रभेदेष्वखिले त्रिषु । १.७०२४६१. (रुष्व:)रिष्व: रिष्वो हिंस्रे कश्चिदिहर्दुपधादेनमभ्यधात् । १.७२८४६१. लष्वः पङ्गौ च नर्तके चैव लष्वो लिष्वोऽप्यसौ भवेत् । १.७२८४६२. शिवं क्लीबे शिवं भद्रमुखोदकेषु द्रव्ये त्रिषु स्याद्गिरिशे तु पुंसि । १.७२८ ४६४. शिवा शिवा भवेदामलकी भवानी हरीतकी सक्तुफला सृगालः । १.७२९यह्वा बुद्धौ शिवे ग्रामे गौर्यां माधवभूमिषु । ४६५सङ्गते करणे दाने मनुष्यादौ भवादिके ।जिह्वा ज्वाला च रसना खड्गादि: कामभूभृतौ ॥ग्रीवा गलश्च चतुरो याचको वारिधी रविः ।आमीवा गगने तोये शङ्करादौ भवादिके ॥कर्वो गर्वे वायुसर्पसूर्याग्निशिवभानुषु । ४७०
160 · p. 81
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
४६२. पट्वः (पुं) (सर्वनिघृष्व - १. १५१ इतिवन्) (पट् गतौ भ्वा/प/से +वन्) पठ्यते गम्यतेऽनेन अस्मिन् वेति पटवः = रथः, भूलोकः । मार्गः ।, ४६३. प्रह्वः (त्रि) (सर्वनिघृष्व - १.५१इति वन्) (ह्वेञ् स्पर्धायां शब्दे च भ्वा/उ/अ +वन्) प्रहूयते इति प्रह्वः = नम्रः । आसक्तिः ।, ४६५. यह्वः (पुं) (शेवयह्व - १.१५२ इति वन्) (या प्रापणे अ/प/अ+वन्) यान्त्यनेनेति यह्वः = महान् ।(स्त्री) बुद्धिः, नदी ।, ४६७. जिह्वा (स्त्री) (शेवयह्व - १.१५२ इति वन्) (लिह आस्वादने अ/ उ/अ +वन्/जिजये भ्वा/प/अ +वन्) १. लिहन्त्यनया इति जिह्वा = रसज्ञानेन्द्रियम् । २. जयति रसमनयेति जिह्वा = रसज्ञानेन्द्रियम् ।, ४६८. ग्रीवा (स्त्री) (शेवयह्व - १.१५२ इति वन्) (गॄ निगरणे तु/प/से +वन्) गीर्यतेऽनयेति ग्रीवा = कन्धरा ।
161 · p. 82
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
४६२. पद्वः पद्वो रथे च भूलोके प्रह्वस्तु विनयान्विते । १.७३०४६५. यह्वा यानस्य साधने यह्वे महत्यपि मतौ स्त्रियाम् । १.७३४४६७. जिह्वा जिह्वा तु रसनायां स्यात् द्विजिह्वः सूचकेऽप्यसौ । १.७३४४६८. ग्रीवा ग्रीवा गलसिरासु स्यात् गलेऽपि परिकीर्तिता । १.७३६४६९. आप्वा आप्वास्तु वायौ मीवा स्यादुदरक्रिमिवातयोः ।व्याख्या भेदादमीवोऽपि रोगवाच्येष दृश्यते । १.७३८कोशादिसूत्रे (शेवादिसूत्रे) स्त्रीलिङ्गनिर्देशोऽत्राविवक्षितः ।अन्यथापि प्रयोगाणामाप्वादिष्ववलोकनात् ॥ १.७३९गर्वोऽभिमाने धिक्कारे राक्षसादौ हरादिके ।शर्वः शङ्करदैत्येन्द्रौ विष्णुमायाविभूतिषु ॥दर्वः कन्या राक्षसश्च परश्वादौ सुरादिके ।धन्वा निर्जलदेशे स्यात्कठिने रौद्रचित्तयोः ॥द्युवा गृहे रमण्यादौ वसिष्ठादौ हरादिके । ४७५
162 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 श्वा (syllables merged)
तरलाव्याख्या
उणादिनिष्पत्तिः
४७०. कर्वः (पुं) (कॄगॄशॄदॄभ्यो व: - १.१५३ इति वः) (कॄ विक्षेपे तु/प/से +व:)किरति विक्षिपति मनः विषयेषु इति कर्वः = कामः (मे) । मूषक: (मे) ।, ४७१. गर्व: (पुं) (कॄगॄषॄदॄभ्यो वः - १.१५३ इति वः) (गॄ निगरणे तु/प/से +व:) गिरति मनुष्यमिति गर्वः =अहङ्कारः।, ४७२. शर्वः (पुं) (कॄगॄषॄदॄभ्यो व: - १.१५३ इति वः) (शॄहिंसायां क्र्या/प/से+व:) शृणाति सर्वः प्रजाः संहरति प्रलये, संहारयति वा भक्तानां प्रपानि इति शर्वः = शिवः ।,४७३. दर्वः (पुं) (कॄगॄषॄदॄभ्यो वः - १.१५३ इति वः) (दॄ विदारणे क्र्या/प/से +व:) दृणाति विदारयतीति दर्वः = राक्षसः। हिंस्रः, जातिविशेषः ।, ४७४. धन्वा (पुं) (कनिन्युवृषि - १.१५४ इति कनिन्) (धवि गत्यर्थः भ्वा/प/से +कनिन्) धन्वति जलाभावं गच्छतीति धन्वा = मरुदेश:(मे) । अन्तरिक्षम् (मे) (न) चापः (मे), स्थलं (मे) ।, ४७५. द्युवा (पुं) (कनिन्युवृषि - १.१५४इति कनिन्, उवङ्) (द्यु अभिगमे अ/प/अ +कनिन्, उवङ्) द्यौति अभिगच्छतीतिद्युवा = सूर्यः । द्यौः।
163 · p. 83
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
४७०,४७१. कर्वः,गर्व: कर्वः कामे मूषके च गोर्वो स्यादहङ्कृतौ । १.७४०४७२. शर्वः शर्वः शिवे स्यात्'योगे स्त्रियां ङीषानुगागमौ । १.७४१४७३. दर्वः (दर्पः) शर्वाणी तेन पार्वत्यां दर्वो रात्रिञ्चरे पुमान् । १.७४१४७४. धन्व धन्व क्लीबे शरासे स्यान्मरुदेशे पुमानयम् ।आष्टकं नाम धन्वेति भाष्ये ह्रस्वान्तदर्शनात् ॥ १.७६५४७५. द्युवा द्युवा त्वभिगते सूर्ये १.७६७देवा देवे प्रभायुक्ते सूर्यादौ मरुतादिके ।श्वा खड्गे वराहे च शुनके मानसादिके ॥
164 · p. 83
अनुष्टुप्metre not read in every line
।। इति वान्ताः ।।
आशुः सूर्ये मनुष्ये च वाय्वादौ वरुणादिके ।जलादौ हिमहेमादौ खड्गादौ सवनादिके ॥शिशुर्बाले कुमारे च बालवृक्षादिके हरौ । ४८०११a दृशुः सूर्ये कठोरे च रम्ये शङ्करमूलके ।पशुर्ग्राम्ये नाशके च मृगादौ कठिनादिके ।
165 · p. 84
अनुष्टुप्metre not read in every lineLatin letters: a
तरलाव्याख्या
उणादिनिष्पत्तिः
४७६. देवा (पुं) (दिवेर्ऋ: - २.९६ इति ऋ:) (दिवु क्रीडाविजिगीषादौ दि/प/से+ऋ:) दीव्यतीति देवा = देवरः ।, ४७७. श्वा (पुं) (श्वनुक्षन्पूषन् - १.१५७ इति कनिन्) टुओश्विगतिवृद्ध्यो: भ्वा/प/से +कनिन्) श्वयति गच्छतीति श्वा = कुक्कुरः ।, ४७८. आशुः (पुं)(कृवापाजि - १.१ इति उण्) (आशू व्याप्तौ स्वा/आ/वे +उण्) अश्नुते व्याप्नोतीति आशुः =व्रीहिः ।, ४८०. शिशुः (त्रि) (शः कित्सन्वच्च - १.२० इति उः) (शो तनूकरणे दि/प/अ +उ:) श्यतितनूकरोति पित्रोः शरीरमिति शिशुः = शिशुः । बालकः, गर्भः ।, ४८२. पशुः (पुं) (अर्जिदृशि - १.२७इति कुः) (दृशिर् प्रेक्षणे भ्वा/प/अ +कु:) सर्वानविशेषेण पश्यतीति पशुः = जन्तुविशेषः। प्रथमः,देवः, प्राणिमात्रम्, छगलः, यज्ञः, आत्मा, यज्ञोदुम्बरः, तन्त्रोक्ते साधकानां भावभेदः,(न) दर्शनम्।
166 · p. 84
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
४७६. देवा देवा तु देवरे पुंसि पण्डितैः परिकीर्तितः । २.३६५४७७. श्वा शुनके श्वा भसंज्ञायां संप्रसारण्यतद्धिते ।४७८. आशुः साध्वाशू अपि पृथ्वादी स्वादिम्नी केमनिच् ततः । १.८५४८०. शिशुः शिशुस्तु बालके पुंसि बालिकायां स्त्रियामसौ । १.१६८४८१. दृशुः दृशीरणे तु कथितो दृशुरादित्यवाचकः । १.१७८४८२. पशुः पशुः स्वर्गे शशाङ्केऽग्रे गवादिष्वपि जन्तुषु । १.१८०पांशुः पापे रज:कान्तिलेशादौ मरुतादिके ।परशुस्तु कुठारे स्याद्धिंस्रादौ राक्षसादिके ।अविषस्तु समुद्रे स्यादन्तरिक्षे शिवादिके । ४८५महिषी राजपत्नी स्यात् राक्षसे पशुमुख्ययोः ।आमिषं भक्ष्यमात्रे स्यात् अध्वरे कुटिलादिके ।
167 · p. 84
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
४८३. पांशुः (पुं) (अर्जिशि - १.२७ इति कु:) (पशि नाशने चु/उ/से +कु:) पंशयति नाशयति इति पांशुः = धूलिः । पर्पटः, कर्पूरविशेषः, Note:- पांसुरिति दन्त्यवानपि दृश्यते ।४८४. परशुः (पुं) (आङ्परयोः - १.३३ इति कुः) (शॄ हिंसायाम् क्र्या/प/से+कु:) परान् शत्रून् शृणाति हिनस्त्यनेनेति परशुः = अस्त्रविशेष:(वि) ।, ४८५. अविष: (पुं) (अविमह्योष्टिषच् - १.८५ इति टिषच्) अव रक्षणे भ्वा/प/से +टिषच) अवतीत्यविषः = राजा । समुद्रः, (स्त्री)पृथिवी, स्वर्ग:, नदी, (त्रि) रक्षकः, विषशून्यः ।, ४८६. महिषः (पुं) (अविमहयोष्टिषच् - १.८५इति टिषच्) महपूजायां चु/उ/से +टिषच्) महयति पूजयति देवाननेनेति महिषः = सैरिभः ।महिषासुरः, कुशद्वीपस्थपर्वतविशेषः, अनुह्लादस्य पुत्रभेद: देवगणभेदः, अग्निविशेषः, देशभेदः, (स्त्री) महिषस्य कृताभिषेकस्य नृपस्य पत्नी, सैरन्ध्री, औषधिभेदः ।, ४८७. आमिषम् (न, पुं)(अमेर्दिर्घश्च - १.४६ इति टिषच्) (अम गत्यादिषु भ्वा/प/से +टिषच्) अमिष्यते भुज्यते इतिअमिषम् = मांसम् । भोग्यवस्तु, सम्भोगः, उत्कोचः, सुंदराकाररूपादि, लोमसञ्चयः, लाभः, कामगुणः, रूपम्, भोजनम्, लोभः, लोभनीयविषयः, पर्णम्, जम्बीरफलम् ।,;cऔणादिकपदार्णवः}४८३. (पांशुः) पांसुः पांसुर्दूलौ पुंसि तद्वान् पांसुगो नागपांस्विति । (?)४८४. परशुः आखुवाहो गणपतौ परशुस्तु कुठारके ।पृषोदरादिपाठेन पशुरित्यप्ययं स्मृतः । १.२२८४८५. अविष: अविषो जलधौ राजन्याविषी तु दिवि क्षितौ । १.२८०४८६. महिषी महिषीत्यभिषिक्तायां सैरिभ्यामोषधीभिदि ।महिष्मान् देशभेदे स्यान्महिषाश्च ड्मतुब्विधेः । १.२८१४८७. आमिषं आमिषं पलले लोभे संभोगोत्कोचयोरपि । ` १.२८२सुन्दराकाररूपादिविषयेऽपि च कथ्यते ।रौहिषो बीजमातङ्गलतामृगहरादिषु ।तविषस्ताविषश्चापि देवकन्याहरिद्रयोः ।भूम्यां स्वर्गे महादेवे परमात्मनि भासुरे । ४९०स्यादव्यथिष आदित्ये सुखे स्वर्गे शिवादिके ।भूम्यां निशायां वन्ध्यायां रमागौर्योश्च रागिणि ।किल्बिषं गगने तोये देवेन्द्रादौ रमादिके ।
168 · p. 85
अनुष्टुप्metre not read in every lineLatin letters: NoteLatin letters: c
तरलाव्याख्या
उणादिनिष्पत्ति:
४८८. रौहिषम् (न) (रुहेर्वृद्धिश्च - १.४७ इति टिषच्) (रुह बीजजन्मनि प्रादुर्भावेच भ्वा/प/अ +टिषच्) रोहतीति रौहिषम् = तृणभेदः (सं) । (पुं) मृगविशेषः (सं),रोंहितमत्स्यः ।,४८९. तविषः, ताविषः (पुं) (तवर्णिद्वा - १.४८ इति टिषच्) (तेव इति तवतीति तविषः सौत्रो धातुः) व्यवसायः (मे), भेलः (मे), स्वर्गः (मे), समुद्रः (मे), वृद्धः (मे), महान्, शोभनाकरः (मे), (स्त्री) नदी, देवकन्या, भूमिः, बलम् (मे)
169 · p. 86
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
४८८. रौहिष: रौहिषो मृगभेदे स्यादरण्यमहिषे तथा । १.२८३रौहिषं तु तृणे प्रोक्तं लतायां रौहिषी स्मृता ।४८९. तविषस्ताविषः तविषस्ताविषश्चेति पुंसि स्वर्गे महोदधौ । १.२८४ङ्यन्तावेतौ स्मृतौ देवकन्यायां सरिति क्षितौ ।तविषी शोभनाकारे बिलेऽब्दव्यवसाययोः ।ताविषस्तापनीये ना ताविषं बलमुच्यते ।४९१. अव्यधिषः नाब्धौ सूर्येऽप्यव्यथिषो ड्यन्तो रात्रिभुवोरयम् । १.२८६४९३. किल्बिषं किल्बिषं कल्मषे रोगेऽप्यपराधे च कथ्यते । १.२८७पामरे परशौ जन्तौ वरुणादौ हरादिके ।असुः प्राणे महाकाले दैत्ये मा(मू?)र्खे विकारिणि । ४९५वसु द्रव्ये महेन्द्रे च भवादौ शङ्करादिके ।कासूर्बुद्धौ गवाध्यक्षे विकलाङ्गे च पातिते ॥सूर्यादौ मानसादौ च खगादौ गरुडादिके ।स्नेहुर्मित्रे च रोगे च मलिने माधवादिके ॥
170 · p. 86
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्यत्तिः
४९४. किल्विषम् (न) (किलेर्बुक्च - १.५ इति टिषच्, बुक्) (किल श्वैत्यक्रीडनयोः तु/प/से +टिषच्, बुक्) किलति क्रीडत्यनेनेति किल्बिषम् = पापम् । अपराधः, रोगः (अ) ।,४९६. वसुः (पुं) (शृस्वृस्निहि - १.१. इति उः) (वस निवासे भ्वा/प/अ +उ:) वकुलः। अनलः, रश्मि:, गणदेवताविशेषः, (स्त्री) वसुदीप्तिः, वृद्धौषधम्, दक्षस्य कन्याविशेषः, (न) वसुरत्नम्, जलम्, हाटकम्, (त्रि) वसुमधुरम्, शुष्कम् ।, ४९७. कासूः (स्त्री) (णित्कसिपद्यर्ते: - १.८५ इतिऊः) (कस गतौ भ्वा/प/से +ऊः) कसति कुत्सितशब्देन गच्छतीति कासूः = शक्त्यस्त्रम् ।विकलवाक्, दीप्तिः, रोगः, बुद्धिः । Note:- काशूः इत्यपि दृश्यते ।, ४९९. स्नेहुः (पुं) (शॄस्वृस्निहि- १.१ इति उः) (स्निह उपतापे दि/प/से +उ:) स्निह्यतीति स्नेहुः = रोगभेदः। चन्द्रः।;c[औणादिकपदार्णवः}४९५. असुः असुशब्दः पुंसि भूम्नि प्राणेषु परिकीर्तितः । १.१२३४९६. वसुः वसुर्ना देवभेदेषु योक्त्राग्निधनदांशुषु ।मधुरे तु त्रिषु क्लीबे सलिले धनरत्नयोः ॥ १.१२३४९७. कासू: कासूर्विकलवाचि स्यात्कुधीशक्त्यायुधामये ।कासूतरा तु कथिता ह्रस्वा सैव (तरब्ब) शात् ॥ १.३७७४९९. स्नेहुः स्नेहुर्हिमकरे व्याधौ त्रपुसीसकरङ्गयोः । १.१२१यक्षस्तु भक्षके दैत्ये देवयोनौ सुरादिके । ५००पक्षः समर्थे शारादौ देवादौ शङ्करादिके ।एवं रूपार्थविन्यासावैखरीसंप्रदर्शिताः ।१२ लिङ्गार्थादिविभागस्तु तत्तद्योग्यं समुन्नयेत् ।
171 · p. 87
अनुष्टुप्metre not read in every lineLatin letters: NoteLatin letters: c
इति श्रीकालिदासमहाकविविरचिते नानार्थशब्दरत्ने} ;c{कादिक्षान्तवर्णाद्यन्तार्थवच्छब्दप्रकरणे एकैकधात्वर्थविचाररमणीये
प्रथमं निबन्धनम्
तरलाव्याख्या
महाकविकालिदासकृतनानार्थशब्दरत्नकोशरत्नदीपिकायांतरलाख्यायां प्रथमं निबन्धनम् ।}
172 · p. 88
अनुष्टुप्metre not read in every line
उणादिनिष्यत्तिः
५००. (यक्षः) यक्ष्मः (पुं) (अर्तिस्तुसु - १.१३७ इति मन्) (यक्ष पूजायाम् चु/उ/ से+मन्) राजरोगः ।, ५०१. पक्षः (पुं) (गृधिपण्योर्दकौ च - ३.६९ इति सः कः) (पण व्यवहारे स्तुतौ च भ्वा/आ/से+सः कः) पणायति स्तौति वा यत्र स पक्षः = पञ्चदशाहोरात्राः । (वि,मे)१.शिवः, पतत्रम्, पार्श्वः (वि,मे), गृहम् (वि,मे), साध्यम्, विराधः, बलम्, सखा, शरपक्षः, चुल्लीरन्ध्रम्,राजकुञ्जरः, विहगः, वलयम्, शुद्धः, वर्गः, पिञ्छम्, देहाङ्गम् ।, पक्षः (न) (पचिवचिभ्यां सुट्च - ४.२१९ इति असुन्) (डुपचष्पाके भ्वा/उ/अ+असुन्) पचतीति पक्षः = पञ्चदशदिवसात्मकःकालः । पूर्वोत्तरपक्षै (मासार्धः) गरुत्, समूहः, पिञ्छ:, देहाङ्गम्, विहगः, शुद्धः, वर्गः, समूह: देहः ।
173 · p. 88
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
५०१. पक्षः पक्षो मासार्धके पार्श्वे गृहे साध्यविरोधयोः । ३.२०२केशादेः परतो बृन्दे बले सखिसहाययोः ।
174 · p. 88
अनुष्टुप्metre not read in every line
नानार्थशब्दरत्नम्
अथ द्वितीयं निबन्धनम्
कर्कोऽग्नौ दर्पणे वैद्ये बालभावयुतेऽपि च ।श्वेताश्वे शास्त्रकारे च महादेवे विभावसौ । 505चन्द्रे विष्णौ महाकाले विषवैद्ये सुयोधने ।मयूराङ्गे प्रतारे च सौधादौ मरुदादिके ।दाकस्तु यजमाने स्याद्दानशीले महाक्रतोजारे महेश्वरे चोरे चन्द्रे शाकान्तरे मृते ।ब्राह्मणे वडवाग्नौ च गजादौ दानवादिके । 510धाकस्तु वृषभे मृत्यौ स्वरूपादौ मरुस्थले ।शैलानुबन्धे चतुरे गोपाले परमात्मनि ।अन्ने पाचकभेदे च परंज्योतिषि भास्वरे ।
175 · p. 89
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
५०४. कर्कः (पुं) (कृदाधारार्चिकलिभ्यः कः - ३.४ इति कः) (डुकृञ् करणे त/उ/अ+ क:) करोति आदिष्टं पालयति इति कर्क: = शुक्लाश्वः । कुलीर: दर्पण:, घट:, कर्कटराशिः, अग्निः, कर्कटवृक्षः ।, ५०८. दाक: (पुं) (कृदाधारर्चिकलिभ्य: क: - ३.४ इति कः) (डुदाञ् दाने जु/उ/अ+क:) ददातीति दाकः = दाता । यजमानः ।, ५११. धाक: (पुं) (कृदाधारार्चिकलिभ्यः क: - ३.४ इति कः) (डुधाञ् धारणपोषणयोः जु/उ/अ+कः) दधातीति दाकः = वृषः । स्तम्भः,आधारः, ब्रह्मा ।
176 · p. 89
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
५०४. कर्क: कर्को वह्नौ सिताश्वे च पुट [घट] भेदे च दर्पणे ।इवार्थ त्वत्र कार्कीक ईकका कर्कलोहितात् । ३.९१५०८,५११.दाकः,धाक: दा…धायकं…[दाको दातरि धाक:] स्यादाधारे वृषभेऽपि च । ३.९२महितादौ कठिन्यादौ महिषादौ सुरादिके ।राका तु पौर्णमास्यां स्याज्जलूकायां मृतादिके । 515वराहादौ वसिष्ठादौ पुरोभागादिवर्तके ।आतपे चतुरे रोम्नि मोहितादौ शिवादिके ॥अर्कः सूर्ये महाकाले चन्द्रे विष्णै मधुव्रते ।शिवादौ जतुकादौ च मन्दादौ मरुदादिके ॥कल्क: परन्तपे मृत्यौ विहारादौ विरोचने । 520विभावादौ महेशादौ परमात्मनि च चिन्तके ।सृकस्तु गरले वायौ महादेवे क्रतावपि ।12a निरामये द्विषच्छक्ते(च्चक्रे?) फालाक्षे बन्धिते मृते ।
177 · p. 89
अनुष्टुप्metre not read in every lineLatin letters: anearly अनुष्टुप्
तरलाव्याख्या
√रा(आ?)दाने राक: <का> । √अर्च पूजायाम् अर्कः । √कल संख्याने कल्कः ।(Tr. Com.11) √सृ गतौ किच्च सृकः ।
178 · p. 90
अनुष्टुप्metre not read in every lineLatin letters: TrLatin letters: Com
उणादिनिष्पत्तिः
५१५. राका (स्त्री) (कृदाधारार्चिकलिभ्यः कः - ३.४ इति क:) (रा दाने अ/प/अ+क:) राति ददातीति राका = नदीविशेषः (मे,वि) । कच्छूरोगः (मे,बि), (स्त्री) नवजातरजः,स्त्रो (मे,वि), राक्षसीविशेषः, पूर्णिमा (वि) ।, ५१८. अर्कः (पुं) (कृदाधारार्चिकलिभ्यः कः - ३.४ इतिक:) (अचं पूजायाम् भ्वा/प/से+क:) अर्चते इत्यर्कः = सूर्यः । इन्द्रः, ताम्रम्, स्फटिकः, पण्डितः, ज्येष्ठभ्राता, वृक्षविशेषः, निर्यासविशेषः ।, ५२२. सृकः (पुं) (सृवृभूशुषिमुषिभ्य: कक् - ३.४१ इतिकक्) (सृ गतौ भ्वा/प/अ+कक्) सरतीति सृक: =बाणः । पद्मम्, वायुः, वज्रः (स्त्री) सरणशीलम् ।
179 · p. 90
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
५१५. राका राका नद्यन्तरे प्रोक्ता नवजातरजः स्त्रियाम् ।संपूर्णेन्दुतिथौ चापि कच्छ्वामपि निगद्यते । ३.९२५१८. अर्कः अर्कोऽर्ककणे [पणे] स्फटिके रवौ ताने दिवस्पतौ । ३.९३५२०. कल्क: कल्कोऽस्त्री घृततैलादि शेषे दम्भे विभीतके ।विटिकट्टयोश्च पापे च त्रिषु पाशाशये पुनः । ३.९४५२२. सृकः सृक: सरणशीलेऽपि मारुते चोत्पले शरे । ३.९८सरटादौ मृगादौ च नद्यादौ पर्वतादिके ।वृकः शरावेऽप्यादित्ये श्वापदे मरुदन्तरे । 525महिषादौ विरूपादौ दीपादौ ज्योतिरादिके ।भूकश्छिद्रं क्रियाकाले चित्रे चित्राङ्गनादिषु ॥भूम्यामहत्ये नद्यादौ नागादौ गगनादिके ।शुष्क: कदल्यां मेघे च धनञ्जयवसन्तयोः ॥वायौ दयायुते श्रेष्ठे सूर्यकान्ते दुरात्मनि । 530कठिनादौ कठोरादौ वनितादौ प्रभाकरे ।मुष्को धीरे च वृषणे वृषके पापकर्मणिमूर्खादौ भूभृतादौ च वरेण्यादौ च भूपतौ ।
180 · p. 90
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ष्क (wrong syllable)
तरलाव्याख्या
उणादिनिष्पत्ति:
५२५. वृकः (पुं) (सृवृभूशुषिमुषिभ्यः कक् - ३.४१ इति कक्) (वृञ् वरणे स्वा/उ/से+कक्) वृणोतीति वृकः = ईहामृगः । काकः, पोतकः, बकवृक्षः, तस्करः, सरलद्रुमः, शृगालः, क्षत्रियः, अनेकधूपः ।, ५२७. भूकम् (न) (सृवृभूशुषिमुषिभ्य: कक् - ३.४१ इति कक्) (भू सत्तायाम् भ्वा/प/से-कक्) भवतीति भूकम् = छिद्रम् (मे)। (पुं) अन्धकारः।, ५२९. शुष्कः(त्रि) (सृवृभूशुषिमुषिभ्य: कक् - ३.४१ इति कक्) शुष शोषणेदि/प/अ+कक्) शुष्यतीतिशुष्कः = निस्स्नेहः । निष्प्रयोजनम् ।, ५३२. मुष्कः (पुं) (सृवृभूशुषिमुषिभ्य: कक् - ३.४१ इतिकक्) (मुष स्तेये क्रया/प/से+कक्) मुष्णाति वीर्यमिति मुष्कः = अण्डकोशः । मोक्षकवृक्षः,सङ्घातः, तस्करः, मांसलः ।
181 · p. 91
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
५२५,५२७.वृकः भूक: वृकस्तु श्वापदे काके भूकं तु छिद्रकालयोः । ३.९८५२९. शुष्कः शुष्कशब्दो नीरसेऽर्थे वाच्यवल्लिङ्ग उच्यते । ३.९९५३२, मुष्कः मुष्को मोक्षकवृक्षे स्यात्संघाते वृषणेऽपि च । ३.९९शुकस्तु वानरे दैत्ये पक्षिभेदे पवावपि ।शुकपुत्रे करीरे च कुलकादौ परात्मनि । 535वल्कं पक्वण्डके पुत्रे मात्सर्ये वारिदे X खे(मुखे?)।महितादौ वरेण्यादौ माहिष्मत्यादिकेऽपि च ॥उल्कः पिशाचे वैद्ये च वानरादौ निरा(शा?)करे ।अग्नौ महात्मनि प्रेते वाय्वादौ मरुदादिके ॥एकः सन्नाहने बिल्वे दैत्यान्तरमहेशयोः । 540सङ्ख्याभेदे प्रधाने च नरवाहन इत्यपि ।नारायणे परायत्ते वैद्युतादौ विरोचने ।
182 · p. 91
अनुष्टुप्metre not read in every lineLatin letters: Xnearly अनुष्टुप्: pāda 2, syllable 1 पर (syllable split)
तरलाव्याख्या
उणादिनिष्पत्तिः
५३४. शुकः (पुं) (शुकवल्कोल्का: - ३.४२ इति कक्) शुभ दीप्तौ भ्वा/आ/से+कक्) शोभते इति शुकः = कीरः (मे) । व्यासपुत्रः (मे), रावणमन्त्री (मे) शिरीषवृक्षः (मे), (न)ग्रन्थिपर्णम् (मे), वस्त्रम्, वस्त्राञ्चलम् ।, ५३५. वल्कम् (न) (शुकवल्कोल्काः - ३.४२ इति कक्)(वल संवरणे भ्वा/आ/से कक्) वलते इति वल्कम् = वल्कल: (मे) । शल्कः (मे), खण्डम् ।५३८. (उल्क:) उल्का (स्त्री) (शुकवल्कोल्का: - ३.४२ इति कक्) (उष दाहे भ्वा/प/से+कक्)ओषति दहतीति उल्का = तेज:पुञ्जः । अग्निशिखा ।
183 · p. 92
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
५३४. शुकः शुको व्याससुते कीरे रावणस्य च मन्त्रिणि । ३.१००शिरीषपादपे पुंसि ग्रन्थिपर्णे नपुंसकम् ।शुकानां संहतौ शौकं खण्डिकाद्यञि कथ्यते ।५३६. वल्कः वल्कोऽस्त्री वल्कले शल्के स्यादुल्का तु विभावसौ । ३.१०२५३८. उल्का निर्गतज्वलकाष्ठे च ज्वालायामपि कथ्यते ।५४०. एक: एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा ।साधारणे समानेऽल्पे संख्यायां च प्रयुज्यते । ३.१०३भेकस्तु वारिदे वायौ परमात्मनि च पूरुषे ।वरेण्ये वमनादौ च वरुणादौ महेश्वरे ।काकस्तु दौ(दै?)त्यभेदे स्यात्पक्षिभेदेऽपि वायसे । 545विषवैद्ये महासत्त्वे कालकूटे पुरादिके ।अत्कश्चन्द्रे महादेवे परमात्मनि विभञ्जने ॥13 पुरुहूते च पथिके खट्वादौ काञ्चनादिके ।मर्कस्तु चतुरे चैद्ये पूतकर्मणि गोपुरे ॥पुरीषे महितादौ च मरणादौ पुरातने । 550
184 · p. 92
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
५४३. भेकः (पुं) (इण्भीका - ३.४३ इति कन्) (ञिभी भये जु/प/अ कन्)बिभेतीति भेकः = मण्डूकः । मेघः ।, ५४५. काकः (पुं) (इण्भीका - ३.४३ इति कन्) (कै शब्देभ्वा/प/अ+कन्) कायति शब्दायते इति काकः = वायसः। पीठसपीं, द्वीपविशेषः, परिमाणभेदः, वृक्षविशेषः, शिरोऽवक्षालनम्, तिलकः, अतिघृष्टः, सुरतबन्धभेद: ईषज्जलम् ।, ५४७. अत्कः (पुं)(इण्भीका - ३.४३ इति कन्) (अत सातत्यगमने भ्वा/प/से+कन्) अतति निरन्तरं गच्छतीतिअत्कः = पथिकः । शरीरावयवः ।, ५४९. मर्कः (पुं) (इण्भीका - ३.४३ इति कन्) (मर्च शब्दादौ चु/उ/से+कन्) मर्चयति चेष्टते इति मर्कः = देहः । वायुः, वानरः,(त्रि) मर्जयिता ।
185 · p. 93
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
५४३. भेक: मण्डूके कातरे भेक: काको ना चिरजीविनि । ३.११९५४५. काकः वृक्षभेदे पीठसर्पिण्यपि द्वीपान्तरेऽपि च ।काका स्यात्काकनासायां काकोली काकजङ्घयोः । ३.१२० रक्तिकायां मलप्वां च काकमाच्यां च योषिति ।काकं सुरतबन्धे स्यात्काकानामपि संहतौ । ३.१२१५४७. अत्कः अत्कस्त्वासन्नपथिकशरीरावयवेषु ना । ३.१२४५४९. मर्कः मर्कः शरीरवाय्वग्नौ नवनीतेषु चेतसि । ३.१२४निहाको मारुते पुष्पे युते पुष्करवर्णके ।गोधायाममले पूर्णे मदनादौ महोत्पले ॥समीको वल्मीके मोहकारिणि पुण्यकर्मणि ।परमात्मनि मूल्ये च परज्योतिषि पूरुषे ॥परुषे पामरे नीचे महेशादौ प्रदातरि । 555यूका वराहे तैले च परमात्मनि च मारुते ।पुरुषे मेघवरजौ आदित्ये कुटिलात्मनि ॥नीरे कुलीरे काकोले वडवाग्नौ सुरादिके ।धूका तु कम्पने वायौ भीकरे विषदातरि ॥परिपूर्णे मनोज्ञे च महितादौ जलाशये । 560नीकाऽवतारे वैरे च वरणादौ सुखादिके ।
186 · p. 93
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 पर (syllable split)
तरलाव्याख्या
५५१. निहाका (स्त्री) (नौ ह: - ३.४४ इति कन्) (ओहाक् त्यागे जु/प/अ+कन्)नियतं जहाति भूमिमिति निहाका = गोधिका ।, ५५६. यूका (स्त्री) (अजियुधुनीभ्यो दीर्घश्च - ३.४७ इति कन्) (यु मिश्रणे अ/प/से+कन्) केशेषु यौतीति यूका = मत्कुणः ।, ५५९. धूकः (पुं) (अजियुधुनीभ्यो दीर्घश्च - ३.४७ इति कन्) (धूञ् कम्पने स्वा/उ/वे कन्) धुनोति.कम्पयतीति धूकः = वायुः । धूर्तः, कालः ।, ५६१. नीक: (पुं) (अजियुधुनीभ्यो दीर्घश्च - ३.४७इति कन्) (णीञ् प्रापणे भ्वा/उ/अ+कन्) नीयते इति नीकः = वृक्षविशेषः ।
187 · p. उणादिनिष्पत्तिः
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
५५१. निहाकः गोधिकायां तु विबुधैर्निहाका परिकीर्तिता । ३.१२८५५३. स्यमीका स्यमीका नीलिकायां स्त्री स्यमीको नाकुवृक्षयोः । ३.१३४५५६. यूका यूका केशक्रिमौ तद्वान् यूकालो लुकि (लचि) कथ्यते ।सिध्मादिषु क्षुद्रजन्तूपतापाच्चेति सूत्रणात् । ३.१३५५५९,५६१.धूका,नीका धूको वायौ कामिलायां धूकानीको द्रुमान्तरे । ३.१३६वासन्त्यां चन्द्रमकुटे पुलाके कोकिलादिके ।ह्रिकं विरोधे वैराग्ये वारिदे मूर्खवालयोः ।पीतने च रथे कूले महिष्यादौ च माधवे ।कठाकुः कुटिले सर्पे दरिद्रे यमदौत्ययोः । 565विरूपाक्षे कटोले च पतङ्गे परमात्मनि ।रावणे देवहरणे यज्ञवैरिणि गोपतौ ॥सुरादौ च वनादौ च मनोज्ञे महितादिके ।कुषाकुरग्नौ कल्लोले पूतात्मनि पुरोहिते ॥आदित्ये मकराक्षे च मनोज्ञादौ जगत्पतौ । 570पृदाकुर्वृक्षिके सर्प सरले संयुते दिवि ।परमात्मनि बाह्ये च पुरादौ मरणादिके ।
188 · p. उणादिनिष्पत्तिः
अनुष्टुप्metre not read in every line
तरलाव्याख्या
५६५. कटाकु: (पुं) (कठिकुषिभ्यां काकु: - ३.७७ इति काकु:) (कठ कृच्छ्रजीवने भ्वा/प/से+काकु:) कटति कृच्छ्रेण जीविकां निर्वाहयति इति कटाकुः = पक्षी ।, ५६९. कुषाकुः (पुं) (कठिकुषिभ्यां काकु: - ३.७७ इकि काकु:) (कुष निष्कर्षे क्रया/प/से-काकुः) कुष्णातिविदारयतीति कुषाकुः = कपिः । अग्निः, अर्कः, (त्रि) परोत्तापी ।, ५७१. पृदाकु: (पुं) (पर्देर्नित्सम्प्रसारणमल्लोपश्च - ३.८ इति काकु:) (पर्द कुत्सिते शब्दे भ्वा/आ/से+काकु:) पर्दतेइति पृदाकुः सर्पः (मे) । वृश्चिकः (वि,मे) व्याघ्रः, चित्रकः (वि,मे) कुञ्जरः, वृक्षः ।
189 · p. 95
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
५६३. ह्रीका ह्रीका ह्रीकेति शब्दौ द्वावपि लज्जाभिधायिनौ । ३.१३७५६५,५६९. कठाकुः,कुषाकुः कठाकुर्विहगे शुभ्रे कुषाकुर्नाग्निसूर्ययोः । ३.२२०शयानकश्च रमणे महिते मसुरेऽपि च ।13a निद्रायुते महिष्यादौ घर्घरे मदिरादिके ।भयानको विरूपे स्यादसारे मधुसूदने । 575महेश्वरे च मदने मारुतादौ विलोडिते ।लवानकं दरिद्रे स्याद्दात्रे लूताहरिद्रयोः ॥मूषके मुदिरे मोघे सुरूपादौ सुरादिके ।पूतात्मनि पुराणे च मर्दिते विरुतादिके ॥धानकं धमने द्रव्ये पूतात्मनि मरुस्थले । 580सचिवादौ वरेण्यादौ पुरुहूतादिकेऽपि च ।उल्मुकं विमलद्रव्ये पायसे चैत्यभेदके ।अलाते परमेशे च परिपूर्णे शिवादिके ।
190 · p. 95
अनुष्टुप्metre not read in every lineLatin letters: a
तरलाव्याख्या
उणादिनिष्पत्तिः
५७३. शयानक: (पुं) (आनकः शीङ्भियः - ३.८२ इति आनक्) (शीङ् स्वप्ने अ/ आ/से+आनक्) शेतेऽसाविति शयानकः = सर्पः। कृकलासः ।, ५७५. भयानकः (पुं) (आनकः शीङ्भियः -३.८२ इति आनक्) (ञिभी भये जु/प/अ+आनक्) बिभ्यत्यस्मादिति भयानकः =व्याघ्रः (मे) । राहुः (मे), रसविशेषः (मे), (त्रि) भयङ्करः (मे) । ८२. उल्मुकम् (न) (उल्मुकदर्विहोमिन: - ३.८४ इति मुकः, लः) (उष दाहे भ्वा/प/से+मुकः) ओषति दहतीतिउल्मुकम् = अङ्गारः । वृष्णिवंशीयराजा ।
191 · p. 96
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
५७३. शयानक: शयानकस्तु विबुधैः पुमानजगरे स्मृतः । ३.२२७५७५. भयानक: भयानक: स्मृतो व्याने रसे राहो भयङ्करे । ३.२२७५७७. लवाणकम् लवाणकं लवित्रे स्यात्समीरे तु धवाणकः । ३.२२८५८०. धानकम् दीनारभागे विद्वद्भिः धाणक: परिकीर्तितः । ३.२३०५८२. उल्मुकम् अलातेन समानार्थमुल्मुकं स्यान्नपुंसकम् । ३.२३०वर्तिका वमने रम्ये मनोज्ञे मदनालये ।लेखोपकरणे चित्ते वाविले निरुपद्रवे । 585कृत्तिका नक्षत्रदेवदैत्यतारादिकेऽपि च ।वैरानुबन्धे चतुरे कुण्डादौ गोलकादिके ॥भित्तिका तु शिशीरे स्यादसारे गुरुकारके ।कुठारे गोकुले पूले विषाणे देवतालये ॥स्वरूपादौ विचारादौ विमानादौ कठोरके । 590लत्तिका वलने मेघभेदे मूले विरोचने ।महादेवे परात्मादौ मुष्कादौ परिचारिते ।
192 · p. 96
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कृ (wrong syllable)
तरलाव्याख्या
;cउणादिनिष्यत्तिः}५८४. वर्तिका (स्त्री) (वृतेस्तिकन् - ३.१४६ इति तिकन्) (वृतू वर्तने भ्वा/आ/से+तिकन्) वर्ततेऽसाविति वर्तिका = वर्तकपक्षी । अजशृङ्गी ।, ५८६. कृत्तिका (स्त्री) (कृतिभिदिलतिभ्यः कित् - ३.१४७ इति तिकन्) (कृती छेदने तु/प/से-तिकन्) कृन्तति इतिकृत्तिका = कृत्तिकानक्षत्रम् ।, ५८८. भित्तिका (स्त्री) (कृतिभिदिलतिभ्यः कित् - ३.१४७ इति तिकन्) (भिदिर् विदारणे रु/ड/अ-तिकन्) भिद्यते इति भित्तिका = कुड्यम् । पल्ली ।,५९१. लत्तिका (स्त्री) (कृतिभिदिलतिभ्यः कित् - ३.१४७ इति तिकन्) (लति: सौत्र:+तिकन्) लततीति लत्तिका = गोधा ।;cऔणादिकपदार्णवः}५८४. वर्तिका दीपार्चिर्द्रव्यगुडिकापक्षिजातिषु वर्तिका । ३.४०४ ५८६. कृत्तिका कृत्तिका तारकाभेदे चर्मण्यपि निगद्यते ।पौर्णमासी कृत्तिकया युक्ता कार्त्तिक्युदाहृता । ३.४०५५८८,५९१. भित्तिका,लत्तिका भित्तिका वाहिनीभित्त्योः स्याद्गोधायां तु लत्तिका । ३.४०७इष्टका धान्यभेदे स्यादसारे मधु दैवते ।मृद्विकारे वराहे च महिषादौ मनोहरे ।अष्टका पितृकार्ये स्यादविद्यामूलकर्मणोः । 595खमिन्द्रिये महासत्त्वे वरुणे यमदैत्ययोः ।स्वर्गे खड्गे पुराणे च वैराग्यादौ च शङ्करे ॥यवागू: पुत्रिकायां स्यादसारे चैद्यमूकयोः ।14 प्रभावयुक्ते चतुरे गोकुलादौ सुरादिके ॥शघः पूतात्मनि प्रेते देशान्तरविनिद्रयोः । 600कूष्माण्डे गोविशेषे च चन्द्रे लोकान्तरादिषु ।शार्जास्ते प्रक्रियाकारे मदनाख्यौषधेऽपि च ॥परिपूर्णे विहारादौ विरोधादौ शिवादिके ।पचः पुच्छे पुण्यकरे महिषीभेदकारयोः ॥महात्मनि प्रयुक्ते च सूत्रादौ वनितादिके । 605
193 · p. 97
अनुष्टुप्metre not read in every lineLatin letters: cLatin letters: cnearly अनुष्टुप्: pāda 2, syllable 6 पु (wrong syllable)
तरलाव्याख्या
;cउणादिनिष्पत्तिः५९३. इष्टका (स्त्री) (इष्यशिभ्यां तकन् - ३.१४८ इति तकन्) (इष इच्छायाम् तु/प/ से+तकन्) इष्यते असाविति इष्टका = गृहादिनिर्माणार्थदग्धमृत्तिकाखण्डः ।, ५९५. अष्टका (स्त्री) (इष्यशिभ्यां तकन् - ३.१४८ इति तकन्) (अशू व्याप्ती स्वा/आ/वेट-तकन्) अश्नुते इतिअष्टका ।, ५९८. यवागू: (स्त्री) (सृयुवचिभ्योऽन्यु - ३.८१ इति आगूच्) (यु मिश्रणे अ/प/ से+आगूच्) यूयते मिथ्यते इति यवागूः = उष्णिका ।
194 · p. 98
अनुष्टुप्metre not read in every lineLatin letters: c
औणादिकपदार्णवः
५९३. इष्टका इष्टका मृद्विकारे स्यात्प्रासादाधुपयोगिनि । ३.४०७ ५९८. यवागूः स्त्रियां यवागू: पक्वान्नशिष्टावस्राविताम्भसि । ३.२२५विभस्तु पृतनादौ स्यान्मुनिचन्द्रे विरोधके ।श्वाx(प?)दे परिपाके च परमात्मादिकेऽपि च ।यज्युः पुरातने चित्ते वित्तनाथे प्रजापतौ ।चन्द्रशेखरवैराग्यमहोदधिभवादिषु ।विरुतादौ विशेषादौ भूम्यादौ मरुतादिके । 610मृज्झस्तु माधवे मत्स्ये परञ्ज्योतिषि पुरुषे ।विभावसौ विरुध्दादौ मरादौ भावनादिके ॥लोष्ठः पुरातने सर्प मधुपे परमात्मनि ।मये यमे महाकाले चतुरादौ नरादिके ॥पिठ(पीठं?)स्स्वरे वरेण्ये च कुमारे याजकद्विजे । 615यजमाने मनोज्ञे च भवादौ वारिदादिके ।मृडः शर्वे मधुद्रव्ये माञ्जिष्ठे प्रणतादिके ॥पुण्यनाथे प्रकर्तादौ प्रमाणे मूलकारणे ।विढः प्रचण्डखद्योते विपरीते प्रमर्दके ॥प्रणुते रविवारे च विकारिणि मदादिके । 620
195 · p. 98
अनुष्टुप्metre not read in every lineLatin letters: x
तरलाव्याख्या
उणादिनिष्पत्तिः
६०८. यज्युः (पुं. त्रि) (यजिमनि - ३.२ इति युच्) (यज देवपूजने भ्वा/उ/अ+युच्) यजतीति यज्यु = अध्वर्युः ।, ६१३. लोष्टम् (पुं. न) (लोष्टपलितौ - ३.९२ इति क्त:) लूञ्छेदने क्रया/उ/से। क्त:) लोष्ट्यते इति लोष्टम् = मृत्तिकाखण्डम् । पलितम् (न) ।
196 · p. 99
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
६०८. यज्यु: यज्युः शिष्टेऽपि चाध्वया । ३.५५६१३. लोष्टः पुनपुंसकयोर्लोष्टो मृत्सङ्घाते निपात्यते । ३.२८४कृष्णा प्रपञ्चिते मुख्ये प्रचुरे भास्वरेऽपि च ।वर्णभेदे वरेण्ये च मृगान्तरविशेषयोः ॥14a मासे नारायणे मूर्ख वैनतेयजलादिके ।लक्षणं नाम्नि देहे च परमात्मनि च चन्द्रके ॥ज्योतिर्व्रते प्रपन्ने च प्रचुरादौ प्रभद्रके । 625द्रोणोऽश्वत्थामपितरि प्रभद्रकविलीनयोः ।
197 · p. 99
अनुष्टुप्metre not read in every lineLatin letters: anearly अनुष्टुप्: pāda 2, syllable 1 पर (syllable split)nearly अनुष्टुप्
तरलाव्याख्या
उणादिनिष्पत्तिः
६२१. कृष्ण: (पुं) (कृषेर्वर्णे - ३.४ इति नक्) (कृष विलेखने भ्वा/प/अ नक्)कर्षत्यरीन् महाप्रभावशक्त्या इति कृष्ण: = श्रीकृष्णः । कृष्णपक्षः, कृष्णसारमृगः, वेदोक्तासुरविशेषः, श्यामवर्णः, परब्रह्म, वेदव्यासः, अर्जुनः, कोकिल:, काकः, (न) अशुभकर्म, (स्त्री) द्रौपदी, नीलिवृक्षः, पिप्पली, द्राक्षा ।, ६२४. लक्षणम् (न) (लक्षेरट् च - ३.७ इति नः, अट्) (लक्ष दर्शनाङ्कनयोः चु/आ/से+नः, अट्) लक्ष्यतेऽनेनेति लक्षणम् = चिह्नम्(वि) । नाम (वि,मे),(पुं) सौमित्रिः (वि,मे) (स्त्री) सारसी(मे), हंसी (मे), अप्सरोविशेषः ।
198 · p. 100
अनुष्टुप्two metres in one verse
औणादिकपदार्णवः
६२१. कृष्णा व्यासार्जुनानिहरिकोकिलकाकशूद्रतामित्रपक्षकलिनीलगुणेषु कृष्णः ।द्रव्ये त्रिषु द्रुपदजातटिनीकणा चकृष्णाऽथ लोहमरिचे दुरितं च कृष्णम् ॥ ३.१५६२४. लक्षणं लक्षणो लक्ष्मणश्चेति रूपद्वयमुदाहृतम् ।लक्षणं नाम्नि चिह्ने च रामभ्रातरि लक्ष्मणः । ३.२१लक्षणा हंसयोषायां सारस्यामपि कथ्यते ।सेनान्तलक्षणेति ण्ये लाक्षण्योऽपत्यमस्य चेत् । ३.२२६२६. द्रोण: द्रोण: कृपीपतौ काकभेदवृश्चिकयोश्च ना ।अस्त्र्याढके तञ्चतुष्के द्रोणी काष्ठाम्बुवाहिनी । ३.३७परिमाणान्तरे मुख्यकार्यके चन्द्रमस्यपि ।विवाहिते प्रपूर्णे च महात्मनि पुरादिके ।धनुरभ्यासयोग्ये च वलिते परिणाहिते ।तृष्णापि हि सा वैराग्यमनोज्ञवनितादिषु । 630 प्रबलातुरपूर्णांशुपातालप्रणतादिषु ।शुष्ण: प्रपञ्चे वैद्ये च मत्यादौ मरुतादिके ।सूर्यादौ सूपकारादौ चतुरादौ ज्वरादिके ।गेष्णुर्वरेण्ये शस्त्रज्ञे सङ्गीताश्रयवारिषु ।प्रपन्ने प्रस्तुते शाब्दे वैरोचनिपुराणयोः । 635दि(दे?)ष्णुः परम्परायातप्रभुप्रणतसारिषु ।पिपासातुरवैमाननेत्ररोगप्रभादिषु ।
199 · p. 100
अनुष्टुप्two metres in one verse
तरलाव्याख्या
√तृष पिपासायां नप्रत्ययः तृष्णा। √शुष शोषणे नप्रत्ययः शुष्णः । √गै शब्दे,√दाञ् दाने आभ्यामिष्णुच् प्रत्ययः अत्, गुणः । गेष्णुः देष्णुः ।;cउणादिनिष्यत्तिः}६२६. द्रोण: (पुं) (कॄवॄजॄ - ३.१ इति नः) (द्रु गतौ भ्वा/प/अ+नः) द्रवतीति द्रोण:= काष्ठपात्रम् । द्रोणाचार्याः, दग्धकाकः, वृश्चिक:, चतुःशतधनुःपरिमितजलाशयः मेघनायकः, वृक्षविशेषः, (स्त्री) काष्ठाम्बुवाहिनी, आढकपरिमाणम्, द्रुममयरथः ।, ६३०. तृष्णा (स्त्री) (तृषिशुषि- ३.१२ इति नः) (जितृषा पिपासायां दि/प/से+नः) तृष्यति क्राङ्क्षति पिपासति वा यया सातृष्णा = पानेच्छा (वि) । तर्पणम्, रोगविशेषः, लोभः ।, ६३२. शुष्णः (पुं) (तृषिशुषि - ३.१२ इतिनः) (शुष शोषणे दि/प/अ+न:) शोषयतीति शुष्ण: = सूर्यः । (न) बलम् ।, ६३४. गेष्णुः (पुं) (गादाभ्यामिष्णुच् - ३.१६ इति इष्णुच्) (गौ शब्दे भ्वा/प/अ+ इष्णुच्) गायतीति गेष्णुः =गायकः । नटः ।, ६३६. देष्णु: (त्रि) (गादाभ्यामिष्णुच् - ३.१६ इति इष्णुच्) (डुदाञ् दाने जु/ प/अ-इष्णुच्) ददातीति देष्णुः = दाता। रजकः॥
200 · p. 101
अनुष्टुप्two metres in one verseLatin letters: c
औणादिकपदार्णवः
६३०,६३२. तृष्णा,शुष्णः पिपासालिप्सयोस्तृष्णा शुष्ण: सूर्याग्निरश्मिषु । ३.४५ ६३४,६३६. गेष्णुः,देष्णुः गेष्णुर्नटे गायके च देष्णुर्दातरि दुर्दमे । ३.५२अक्ष्णस्तुषे खण्डके च खण्डे पूतात्मजन्तुनोः ।मणिप्रभादौ मन्दादौ कलविङ्कादिकेऽपि च ।स्थाणुस्तु शङ्करे दैत्ये वीरभद्रे विरोधके । 640रावणादौ महात्मादौ निश्चलादौ द्रवादिके ।वेणुः शलाकावैराग्यपुत्रवंशादिकेषु च ॥दौत्यादौ देवतानाथे नारदादौ विरोचिषि ।वणुः प्रमोदिते पूर्ते शरीरे चतुरादिके ॥नद्यादौ नरवाहादौ गजादौ च महेश्वरे । 645रेणुः पुरातने सूक्ष्मे परागे पांसुले क्रतौ ।
201 · p. 101
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
६३८. अक्ष्णम् (न) (कृत्यशूभ्यां वस्न: - ३.१७ इति क्स्नः) (अशू व्याप्ती स्वा/आ/वे+क्स्नः) अश्नुते इति अक्ष्णम् = अखण्डम् (अ) । ६४०. स्थाणुः (पुं) (स्थो णुः - ३.३७ इति णुः) (ष्ठा गतिनिवृत्तौ भ्वा/प/अ +णुः) तिष्ठतीति स्थाणुः = शिवः (मे), ब्रह्मा (वि), कील: (मे,वि), जीवकगन्धद्रव्यम्, (पुं, न) अस्त्रभेदः, ध्रुवम् (मे) ।, ६४२. वेणुः (पुं) (अजिवृरीरिभ्यो निञ्च- ३.३८ इति णुः) (अज गतौ भ्वा/प/से+णुः) अजति गच्छति वायुवेगेन कम्पते इति वेणुः =वंश: (वि) । नृपविशेष: (वि) । Note:- अजेर्व्यघभपोः (२.४.५६) इत्यजधातो: वीभावः ।,६४६. रेणुः (पुं) (अजिवृरीरिभ्यो निञ्च - ३.३८ इति णु:) (री गतिरेषणयोः क्रया/प/अ+णुः) रिणाति गच्छति हन्यते वेति रेणुः = धूलिः (मे) । (पुं) विडङ्गः, पर्पटः (मे) रेणुका, पांशुः ।
202 · p. 102
अनुष्टुप्metre not read in every lineLatin letters: Note
औणादिकपदार्णवः
६३८. अक्ष्णः कृत्स्नं कुक्ष्यम्बुसर्वेषु भवेदक्ष्णमखण्डके । ३.५३६४०. स्थाणुः स्थाणुः कीले पशुपतौ पुमानस्त्री ध्रुवे स्मृतः । ३.८९६४२. वेणुः वेणुनृपान्तरे वंशे वर्णुर्देशे नदान्तरे । ३.८९६४६. रेणुः रेणुः स्त्रीपुंसयोर्धूलौ पुमान् पर्याटके पुनः । ३.९०<स्थाणुरीशे…>विष्णुर्नारायणे पूर्णे मधुसूधनवारिणोः ।15 शम्याकादौ शुभाङ्गादौ बुद्धदेवादिकेऽपि च ।नारायणो मुनौ दैत्ये गानान्तरविशारयोः ।मनुष्यादौ महेशादौ मत्स्यादौ वारिदाधिषु । 650करुणा नरके यानेऽप्यश्वे मूके दयावति ।दयादौ रमणादौ च दानवादी विभावसौ ॥वरुणो दारुणे क्रूरे चैत्यप्रासादमालयोः ।पादुकादौ पुराणादौ वरेण्ये परमात्मनि ॥तरुणः शङ्करादौ स्याद्धर्मे मौनीन्द्रचन्द्रयोः । 655
203 · p. 102
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
६४७. विष्णुः (पुं) (विषे: किञ्च - ३.३९ इति णुः) (विष्लृ व्याप्तौ जु/उ/अ+णुः)वेवेष्टि व्याप्नोति चराचरं जगदिति विष्णुः = नारायणः । अग्निः, शुद्धः ।, ६५१. करुणः (पुं)(कॄवृदारिभ्य उनन् - ३.५३ इति उनन्) (कृ विक्षेपे तु/प/से+उनन्) करोति मन: आनुकूल्यायेतिकरुणः =दया । रसविशेषः, वृक्षविशेषः, दयावान्) (स्त्री) कृपा ।, ६५३. वरुण: (पुं) (कॄवॄदारिभ्यउनन् - ३.५३ इति उनन्) (वृञ् वरणे स्वा/उ/से+उनन्) व्रियतेऽसाविति वरुणः = उत्तमं जलम्(वि) । देवताविशेष:, वृक्षविशेषः (वि) प्रतीचीपतिः (वि), सूर्यः (वि) ।, ६५५. तरुण: (त्रि) (त्रोरश्च लो वा - ३.५४ इति उनन्) (तॄ प्लवनतरणयोः भ्वा/प/से+उनन्) तरति प्लवते प्रमोदसलिलेइति तरुणः = युवा । नूतनः (पुं) स्थूलजीरकः, पुरण्डः, (न) कुञ्जपुष्पम्, (स्त्री) युवतिः, गृहकन्या,दन्तीवृक्षः, चीडानामगन्धद्रव्यम् ।
204 · p. 103
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
६४७. विष्णुः विष्णुर्नारायणे पुंसि सूर्ये च वसुदेवते । ३.९०६५१. करुण करुणस्तु रसे वृक्षे कृपायां करुणा मता । ३.१५२ ६५३. वरुणः वरुणस्तरुभेदेऽपि(ऽप्सु) प्रतीचीपतिसूर्ययोः । ३.१५२क्षुधार्ते यौवनयुते चतुरे परमात्मनि ।अरुणश्चन्द्रपाषाणसूर्यसारथिभूतिषु ॥कान्तिकल्याणवैशाखवरादौ मनुजादिके ।धरुणो वरुणे सूरौ जन्त्वादौ पनसादिके ॥काकुमारे विधिप्रायकायपूतादिकेऽपि च । 660 वरेण्यः शङ्करादौ स्याद्वरुणादौ विलोलिते ।वप्रादौ परमात्मादौ परमार्थे विरोधिके ।आरुण्यं मानसे वायौ खड्गादौ सरितां पतौ ।गहने वैरभेदे च बाणादौ वपनादिषु ।शकन्तश्च शकन्तिश्च मारुते महितादिषु । 665
205 · p. 103
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
६५७. अरुणः (पुं) (अर्तेश्च - ३.६ इति उनन्) (ऋ गतौ भ्वा /प/अ-उनन्) ऋच्छति गच्छतोति अरुण: = सूर्यसारथिः । सूर्यः, अर्कवृक्षः, ईषद्रक्तवर्णः, शब्दरहित: कपिलवर्णः, कुष्ठभेदः, पुन्नागवृक्षः, (न) कुङ्कुमम्, सिन्दूरम् ।, ६६१. वरेण्यः (त्रि) (वृञ एण्य: - ३.९८ इति एण्यः)वृञ् वरणे स्वा/उ/से एण्यः) व्रियते लोकैरिति वरेण्यः = प्रधानः । श्रेष्ठः, भृगुपुत्रविशेषः, शङ्करः, कुङ्कुमम् ।, ६६५. शकुन्तः (पुं) शकेरुनोन्तोन्त्युनयः - ३.४९ इति उन्त) (शक्लृ शक्तौ स्वा/प/अ उन्त) शक्नोति उत्पतितुमिति शकुन्तः = पक्षी । कीटभेदः (मे) ।
206 · p. 104
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
६५५. तरुणः तरुण: कुब्जपुष्ये ना रुचके यूनि तु त्रिषु । ३.१५३६५७. अरुण: अरुणो व्यक्तरागेऽर्के सन्ध्यारागेऽर्कसारथौ । ३.१६५निश्शब्दे कपिले कुष्ठभेदे ना गुणिनि त्रिषु।अरुणातिविषाश्यामा मञ्जिष्ठात्रिवृतासु च ।६६१. वरेण्यः वरेण्यशब्द: कथितो वरणीयेऽभिधेयवत् । ३.३०५मधुरे पारधे(दे?) ऽशूरे पतङ्गादौ महेश्वरे ।हस्तो नक्षत्रभेदे स्यादाचार्ये युद्धदुर्मदे ॥वरुणे चरदैवे चमणे मोहक्रियादिषु ।करुणादौ करादौ च वालादौ च महिम्नि च ॥मर्तः पुरीषे मनुषे पुण्डरीकाक्षपुष्कयोः । 670वराहे दन्तदे नीरचरमाङ्गक्रियादिषु ।15a गर्तश्चरवणे मूर्चावलग्नादौ विशेषके ।
207 · p. 104
अनुष्टुप्metre not read in every lineLatin letters: anearly अनुष्टुप्: pāda 1, syllable 7 व्र (wrong syllable)
तरलाव्याख्या
उणादिनिष्पत्तिः
६६५. शकुन्तिः (पुं) (शरेरुनोन्तोन्त्युनयः - ३.४९ इति उन्ति) शक्लृ शक्तौ स्वा/प/ अ+उन्ति) शक्नोति उत्पतितुमिति शकुन्तिः = विहङ्गः (मे) । भासपक्षी ।, ६६७. हस्तः (पुं) (हसिमृग्रिण्वामिद - ३.८६ इति तन्) (हसे हसने भ्वा/प/से+तन्) हसति विकसतीति हस्त:= पाणिः । हस्तिशुण्डः ।, ६७०. मर्तः (पुं) (हसिमृग्रिण्वामिद - ३.८६ इति तन्) (मृङ् प्राणत्यागेतु/आ/अ-तन्) १. म्रियते असाविति मर्तः = मनुष्यः । २. म्रियन्तेऽत्रेतिमर्तः = भूलोक: माणवकः ।६७२. गर्तः (पुं) (हसिमृग्रिण्वामिद - ३.८६ इति तन्) (गॄ निगरणे तु/प/से+तन्) गिरति ग्रसति स्वस्मिन् पतितं जीवजातादिकमिति गर्तः = अवटः । त्रिगर्तदेशः, रोगभेदः, कूपः, नरकविशेषः, गृहम्, रथः, सभास्थाणुः ।
208 · p. 105
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
६६५. शकुन्तः, शकुन्तिः शकुन्त: कीटभेदेऽपि भासे पक्षिणि चोच्यते ।खगे शकुन्तिः शकुनिः करणे सौबले खगे ३.१३९६६९. हस्तः हस्तः करे करिकरे सप्रकोष्टकृते करे ।ऋक्षे केशात्परो व्रते वेः परो व्याकुलार्थकः । ३.२३४हस्ते च दीयते कार्यमिति वा हस्त्यमन्यवत् ।६७०. मर्तः स्त्रियां तु टापि हस्ताथ मर्तो भूलोक जन्मनोः । ३.२४०६७२. गर्तः गर्तस्त्रिगर्तभेदे स्यादवटे च कुकुन्दरे । गर्वोत्तरपदाद्देशवाचिनश्छविधानतः । ३.२४२कुरङ्गादौ वसिष्ठादौ पूलादौ च महोत्पले ।एतः समरदेवाण्डजातभेदमुरादिषु ।वात: पिशाचमातङ्गमारुताहारकादिषु । 675अन्तो मृत्युप्रभाहीननाशनायासकादिषु ।दन्तोऽम्बुजे कुलीरे च कुञ्जे कुन्ते जगद्गुरौ ॥वनेऽहिबिले तैलपक्वभेदार्यमादिषु ।लोत: खड्गादिके वायौ पुन्नागे परमात्मनि ॥
209 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
तरलाव्याख्या
उणादिनिष्पत्तिः
६७४. एतः (पुं) (हसिमृग्रिण्वामिद - ३.८६ इति तन्) (इण् गतौ अ/प/अ+तन्)आ सम्यक् एति गच्छतीति एत: = मृगः । चित्रवर्णः (मे), (न) आगतम् ।, ६७५. वातः (पुं)(हसिमृग्रिण्वामिद - ३.८६ इति तन्) (वा गतिगन्धनयोः अ/प/अ+तन्) वातीति वात: =वायुः । रोगविशेषः ।, ६७६. अन्तः (अ) (अमेस्तुट् च - ५.६ इति अरन्) (अम गतिशब्दसम्भक्तिषु भ्वा/प/से+ अरन्) अमति गच्छति यत्रेति अन्तः = मध्यम्।, अन्तः (पुं) (हसिमृग्रिण्वामिद –३.८६ इति तन्) (अम गतौ भ्वा/प/से+तन्) अमति नाशं गच्छतीति अन्तः = नाशः । स्वरूपः,प्रान्त:, सीमा, निश्चयः, अवयवः, (न) स्वरूपम्, स्वभावः, (न, पुं) शेषः, (त्रि) अन्तिकः, अतिमनोहरः।, ६७७. दन्तः (पुं) (दरिद्रातर्यालोपश्च - १.९ इति ऊः) (दरिद्रा दुर्गती अ/प/से ऊः) दरिद्राति दुर्गतिं करोतीति दद्रुः = कुष्ठभेदः ।
210 · p. 106
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
वृकगीयमित्येतज्जाताद्यर्थेषु कथ्यते ।६७४. एतः एतस्तु कबुरे पुंसि त्रिषु तद्वति विश्रुतः । ३.२४३६७५. वातः वातः स्यात्पुंसि पवने धातुरोगप्रभेदयोः । ३.२४५६७६. अन्त: मृताववसिते रम्ये समाप्तावन्त इष्यते ।अन्ते जाताद्यन्तिमं स्यादन्ताच्चेति डिमज्विधेः । ३.२४९६७७. दन्तः दन्तोऽद्रिकटके कुञ्जे रदनेऽप्युनतोपले । ३.२५३६७९. लोत: लोत: पुंसि तु मेषे स्याल्लोतमश्रुणि चोरिते । ३.२६२असृक्काले भलीने च सुरपूज्यादिकेऽपि च । 680 पोतोऽभिषायके पूज्ये पात्रभेदे परात्परे ।बाले विलीनेऽभिज्ञे चानभिज्ञे विरुतादिषु ।धूर्तः शठे कुमारे च दत्तूरे वरुणादिके ।ततं वाद्यादिके भानौ पुन्नागप्रलयादिषु ।व्याप्तं वीरुद्विरुद्धाश्वपूर्णकुम्भादिकेऽपि च । 685मृतो जीवितनाशे स्याद्विपर्यासार्यभूतिषु ।
211 · p. 106
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
६७९. लोत: (पुं, न) (हसिमृग्रिण्वामिद - ३.८६ इति तन्) (लूञ्छेदने क्रया/उ/से +तन्) लुनातीति लोतः = नेत्राम्बु (मे) । मेषः, चिह्नम्, चोरितम् ।, ६८१. पोत: (पुं) (हसिमृग्रिण्वामिद- ३.८६ इति तन्) (पूञ् पवने क्रया/उ/से+तन्) पुनाति कुलम् इति पोत: = पुत्रः । गृहस्थानम्,वस्त्रम्, दशवर्षीयहस्ती, समुद्रयानम् ।, ६८३. धूर्तः (पुं) (हसिमृग्रिण्वामिद - ३.८६ इति तन्)(धुर्वी हिंसायाम् भ्वा/प/से+तन्) धूर्वति हन्तीति धूर्तः = धुस्तूरवृक्षः । चोरकः, (न) विल्कलवनणम्, खण्डलवणम् (मे), लौहकिट्टम्, विटः, धृतकृत् ।, ६८४. ततम् (न) (तनिमृङ्भ्यां किञ्च - ३.८८इति तः) (तनु विस्तारे त/उ/से+तः) तनोतिमनोऽनेनेति ततम् = वीणादिवाद्यम् । (पु) सन्तानम्,वायुः (मे) विस्तार: (मे), पिता, पुत्रः ।, ६८६. मृतम् (न) (तनिमृङ्भ्यां किञ्च - ३.८८ इति तः)(मृङ् प्राणत्यागे तु/आ/अ+त:) म्रियते येन तत् मृतम् = गतप्राणम् । याचितवस्तु (अ), (त्रि) मृतः ।
212 · p. 107
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
६८१,६८३. पोतः,धूर्तः पोतः शिशौ वहित्रे च धूर्तो धुत्तूरभूरुहे । ३.२६३६८४. ततम् ततं व्याप्ते विस्तृते च वाच्यवल्लिङ्गमिष्यते । ३.२६६६८६. मृतम् मृतं तु याचिते मृत्यौ क्लीबं मृत्युमति त्रिषु ।नञ्मर्वमेतत्कैवल्ययज्ञशेषसुधाम्बुषु ॥ ३.२६९अक्तं विरुद्धदेवेन्द्रवत्समत्स्यादिकादिषु ।दूत: प्रचण्डमार्ताण्डसन्धिविग्रहकारकाः ।विरूपाक्षप्रभाकारमैरावणविभाकराः ।तातस्तरुणफूत्कारवायुजन्तुकुलादिकाः । 690प्रचुराचारवैराग्ययोगवेनसुतादिकाः ।पलितं चरुभेदे स्यादाकाराकृतिभाविषु ।पाण्डुकेशादिके चित्ते दत्ते द्रव्ये वरादिषु ।
213 · p. 107
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
६८७. अक्तम् (त्रि) (अञ्झिघृसिभ्यः क्तः - ३.८९ इति क्तः) (अञ्जू व्यक्तिम्रक्षणकान्तिगतिषुरु/प/वे+क्तः) अनक्ति अज्यते वेति अक्तम् = परिच्छिन्नम् । व्यस्तम् (वि. को), ६८८. दूतः (पुं)(दुतनिभ्यां दीर्घश्च - ३.९ इति क्तः) (दु गतौ भ्वा/प/अ +क्तः) दूयते वार्तावहनार्थम् = वार्ताहरः ।, ६९०. तात: (पुं) (दुतनिभ्यां दीर्घश्च - ३.९ इति क्तः) (तनु विस्तारे त/उ/से क्तः) तनोति विस्तारयतिगोत्रादिकमिति तात: =पिता । अनुकम्प्यः (वि,मे) (त्रि) पूज्यः।, ६९२. पलितम् (न) (फलेरितजादेश्चपः - ५.३४ इति इतच्) फल निष्पत्तौ क्रया/उ/से+इतच्) फलति निष्पन्नं पक्वमिव भवतीतिपलितम् = जरसा केशश्वैत्यम्(अ) शौलजम्, तापः, कर्दमः,(पुं) वृद्धः, (स्त्री) वृद्धा ।, पलितम्(न) (लोष्टपलितौ - ३.९२ इति क्तः) लूञ्छेदने क्रय/प+क्तः) पल्यते प्राप्यते तत्पलितम् = वृद्धावस्थया केशादीनां शुक्लत्वम् । पलितम् (न) ।
214 · p. 108
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
६८७. अक्तम् अक्षिते च परिच्छिन्नेऽप्यक्तमित्यभिधीयते । ३.२७०६८८. दूतः स्यात्सन्देशहरे दूतो दूती गौरादिङीष् वशात् । ३.२७४६९०. तात: तातोऽनुकम्प्ये जनके शीङो बाहुलकादिह । ३.२७६६९२. पलितम् पलितं शैलजे तापे केशपाके च वर्तते ।कुतिश [क्रियते] येन पलितं पलितं करणो हिसः । ३.२८५पलितं भावुकोऽप्येषां खित्वात् पूर्वपदस्य मुम् ।पलिता स्त्री न त्वतुल्यशिष्टङीपो निषेधनात् । ३.२८८हरितो वर्णभेदे स्यादसारे कुटिलादिके ।रोहितो वारुणच्छत्रमत्स्यमारुतभाविषु । 695पिशितं चञ्चलाद्धानौ पारिजातप्रभादिषु ।मांसमाहिष्यदेवेन्द्रकर्णभूषणदेहिषु ॥भरतो राजदेवेन्द्रशम्भुमाधवनादिषु ।चन्द्रसूर्याग्निकान्त्यार्यभ्रमणान्तरकादिषु ॥
215 · p. 108
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्यत्तिः
६९४. हरितः (पुं) (हश्याभ्यामितन् - ३.९३ इति इतन्) (हृञ् हरणे भ्वा/उ/अ-इतन्) हरति नयनमनांसीति हरितः = हरिद्वर्णः । सिंहः, (त्रि) हरिद्वर्णयुक्तः, दुर्वा (मे) ।, ६९५. रोहितः(पुं) (रुहे रश्च लो वा - ३.९४ इति इतन्) रुह बीजजन्मनि प्रादुर्भावे भ्वा/प/अ+इतन्) रोहतीतिरोहितः = मीनविशेषः (अ, मे) । हरिश्चन्द्रपुत्र: मृगभेदः (अ,मे), रोहितकवृक्षः (मे), अग्निघोटकः, रक्तवर्णः, (न) कुङ्कुमम् (मे), रक्तम् (मे), ऋजु (मे), शक्रशरासनम् ।, ६९६. पिशितम् (न)(पिशेः किञ्च - ३.९५ इति इतन्) (पिश अवयवे तु /प/से+इतन्) पिंशति अवयवीभवतीतिपिशितम् = मांसम् । मांसम् (मे), (स्त्री) जटामांसी ।, ६९८. भरत: (पुं) (भृमृदृशियजि- ३.११इति अतच्) (भृञ् भरणे भ्वा/उ/अ+अतच) भरति राज्यमिति भरतः = रामानुजः ।अलङ्कारादिशास्त्रस्य सूत्रकर्ता (मे) नटः (मे), दौष्यन्तिः(मे), डावरः, तन्तुवायः, क्षेत्रम्, पावकपुत्रः, कैकेयीपुत्रः ।
216 · p. 109
अनुष्टुप्metre not read in every line
आणादिकपदार्णवः
६९४. हरिता स्याद्दूर्वायां तु हरिता हरिद्वर्णयुतेऽन्यवत् । ३.२८९६९५. रोहित रोहितं रुधिरे क्लीब मृजुशक्रशरासने । ३.२९१रोहितो मीनमृगयोर्भदे रोहितकद्दमे।रोहितं रक्तगोशीर्ष कुङ्कुमाजिकुचन्दने ।६९६. पिशितम् मांसे तु पिशितं क्लीबे मांस्यां तु पिशिता स्त्रियाम् । ३.३०१६९८. भरतः भरतः पावके पुंसि लोकपालेऽपि कथ्यते । ३.३३६यजतोऽग्निप्रभापूर्णकोमलप्राणराजिषु । 700पचतः पृथुले काले मृत्यौ प्रद्योतनादिके ।अमतश्चञ्चले नीरे चमत्कारादिकेऽपि च ॥हयत: पर्वते वज्रे विमलादौ शरादिके ।खलतः <ति:> संशये वित्ते शौर्ये दानवनादिषु ॥शयथश्चन्द्रकुल्माषपोलकादिषु पूरुषे । 705रवथ: श्चरणे कुञ्जभेदे पुण्यकरादिषु ।
217 · p. 109
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 3 थ (wrong syllable); pāda 3, syllable 3 थ (wrong syllable)
तरलाव्याख्या
उणादिनिष्यत्तिः
७००. यजतः (पुं) (भृमृदृशियजि - ३.११ इति अतच्) यज देवपूजादौ भ्वा/उ/ अ+अतच्) यजतीति यजतः = ऋत्विक् । ऋषिविशेषः ।, ७०१. पचतः (पुं) (भृमृदृशियजि - ३.११ इति अतच्) (डुपचष्पाके भ्वा/उ/अ+अतच्) पचतीति पचत: = अग्निः । सूर्यः, इन्द्रः,(त्रि) परिपक्वम् ।, ७०२. अमत: (पुं) (भृमृदृशियजि - ३.११ इति अतच्) (अम गतौ भ्वा/प/ से+अतच्) अमति गच्छतीति अमतः = कालः । रोगः, मृत्युः ।, ७०५. शयथ: (पुं) (शीङ्शपिरु- ३.११३ इति अथः) (शी स्वप्ने अ/आ/से+अथः) शेते इति शयथः = अजगरः। मृत्युः,निद्रालुः, वराहः, मत्स्यः ।, ७०६. रवथः (पुं) (शीङ्शपिरु - ३.११३ इति अथ:) (रु शब्दे अ/प/से-अथः) रौतीति रवथः = कोकिलः ।
218 · p. 110
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
७००. यजतः यष्टव्ये यजतः प्रोक्तः कृष्णवर्णे च पावके । ३.३२२७०१. पचत: सति ङोषि भवेद्गौयों वह्नौ तु पचतः पुमान् । ३.३२६७०२. अमतः अमत: कालमृत्यौ च रोगेऽपि च निगद्यते । ३.३२७७०४. (खलतः) खलति: अमुण्डनेऽपि निष्केशे खलतिः पुंसि च स्त्रियाम् । ३.३३०७०५. शयथः शयथो वाहने व्याधौ मृत्यावपि च पुंस्यसौ । ३.३३१७०६. रवथः रवथः कोकिले भीरौ शब्दनेऽपि च कथ्यते । ३.३३२गमथ: पण्डिते मूल्ये विशाले वैद्युतादिके ।वञ्चथ: पिशुने पूर्णे वनिताभृतराजके ।जीवथः कोकिले फेने मरुद्बुन्देवरादिषु ।प्राणथः सोमविष्ण्वीन्द्रशुम्भमारुतवाजिषु । 710स्यादावसथश्च वल्मीक वेश्मा [xx] भरादिषु ।शमथ: कुटिलाचारशमपूर्णादिकेऽपि च ।दमथः परमार्थेस्यादविद्याकारकादिषु ।
219 · p. 110
अनुष्टुप्metre not read in every lineLatin letters: xx
तरलाव्याख्या
उणादिनिष्यत्तिः
७०७. गमथः (पुं) (शीङ्शपिरु - ३.११३ इति अथः) (गम्लृ गतौ भ्वा/प/अ+अथ:) गच्छत्यनेनेति गमथ: = पन्थाः, (त्रि) पथिकः ।, ७०८. वञ्चथ: (पुं) (शीङ्शपिरु - ३.११३ इतिअथः) (वञ्चु प्रलम्भने चु/आ/से+अथः) वञ्चयते प्रतारयतीति वञ्चथः = धूर्तः । वञ्चना, कोकिलः । ७०९. जीवथः (पुं) (शीङ्शपिरु - ३-११३ इति अथः) (जीव प्राणधारणे भ्वा/प/से+अथः) जीवत्यनेनेति जीवथः = प्राणः । कूर्मः, मयूरः, मेघः, (त्रि) धार्मिकः, चिरायुः ।, ७१०. प्राणथ: (पुं)(शीङ्शपिरु - ३.११३ इति अथः) (अन प्राणने अ/प/से+अथः) प्राणित्यनेनेति प्राणथ: =वायुः । बलवान्, प्रजापतिः, तीर्थम् ।
220 · p. 111
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
७०७. गमथः गमथः पथिके प्रोक्तो वर्त्मन्यप्येष दृश्यते । ३.३३३७०८. वञ्चथ: वञ्चथः कोकिले काले धूर्तेऽपि परिकीर्तितः । ३.३३३७०९. जीवथः जीवथो धर्मशशिनोरायुष्मति च कथ्यते । ३.३३४७१०. प्राणथः बलिनि ग्रामनिचये प्राणथ: स्यात्प्रजापतौ । ३.३३५७११. आवसथ: वेश्मन्यावसथ: पुंसि भवेत्क्षपणकेऽपि च ।अनन्तावसथेति ज्ये त्वावसथ्यमपि स्मृतम् । ३.३३८वसत्यावसथे योऽसौ स्यादावसथिकः ष्ठलि । ३.३३९७१२,७१३.शमथः,दमथः शमथ: सचिवे शान्तौ दमथो दमदण्डयोः। ३.३३६भरथश्चन्द्रशम्भ्वर्कचिह्नजन्त्वादिकेऽपि च ।रुवथः श्वा कुक्कुटश्च मारुतः पशुराशुगः । 715सथ: परम्परायातवैरशामकदादिषु ।प्रथश्चतुरवैयाघ्रचन्दनाचलतन्तुषु ॥विथः सु खाङ्गमालूरविमलप्राणधारिषु ।मुथ: पाहरपातलपौरपुत्रमुखादिषु ॥16a इनः सूर्ये सृपे दैत्ये ईश्वरे परमादिषु । 720सीनं शरीरे पोतादौ सूनृते विकचादिके।
221 · p. 111
अनुष्टुप्metre not read in every lineLatin letters: anearly अनुष्टुप्: pāda 1, syllable 7 त (wrong syllable)
तरलाव्याख्या
उणादिनिष्पत्तिः
७१२. शमथ: (पुं) (शीङ्शपिरु - ३.११३ इति अथ:) (शमु उपशमे दि/प/से+अथ) शाम्यतीति शमथः = शान्तिः । मन्त्री (मे), Note:- बहुलग्रहणात् सिद्धम् ।, ७१३. दमथः (पुं)(शीङ्शपिरु - ३.११३ इति अथः) (दमु उपशमने दि/प/से+अथ:) दाम्यतीति दमथः = दमः ।दण्डः ।, ७१४. भरथः (पुं) (भृञश्चित् - ३.११४ इति अथः) (डुभृञ् धारणपोषणयो: जु/उ/अ+ अथः) बिभर्तीति भरथः = राजा । अग्निः ।, ७२०. इन: (पुं) (इप्सिञ्जि - ३.२ इति नक्) (इण्गतौ अ/प/अ-नक्) एतीति इनः = सूर्यः । प्रभुः, नृपभेदः ।, ७२१. सिनम् (न) (इण्सिञ्जि - ३.२इति नक्) (षिञ् बन्धने स्वा/उ/अ+नक्) सिनोति बध्नाति आत्मानमिति सिनम् = शरीरम् । (पुं)ग्रासः, काण: ।
222 · p. 112
अनुष्टुप्metre not read in every lineLatin letters: Note
औणादिकपदार्णवः
७१४. भरथः भरथः पावके पुंसि लोकपालेऽपि कथ्यते । ३.३३६७१५. रुवथ: रविदिभ्यां किदित्यन्ये रुवथं कुक्कुटेऽब्रवीत् । ३.३३७७२०. इन: इन: सूर्ये नृपे पत्यावात्मनीन्द्रे च कथ्यते । ३.७७२१. (सीनम्) सिनम् सिनं शरीरे क्लीबं स्यात्काणे पुंसि सिनः स्मृतः । ३.७ओनं शान्ते प्रपूर्णे च विशालादौ विलोचिते ।फेनश्चरुविशेषे स्यादाविले विमलादिषु ।हिनो मर्त्ये पृथुद्रव्ये कोकिलादौ विचोरके ।धाना: प्रचण्डभृष्टान्नतण्डुलादिषु मरुस्थले । 725वस्नम् विचित्रे द्रव्ये च विपुलादौ महेश्वरे ।
223 · p. 112
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
७२२. (ओनं) ऊनः (त्रि) (इण्सिञ्जि - ३.२ इति नक्) (अव रक्षणादौ भ्वा/प/से+नक्) अव्यत इति ऊनः = अपरिपूर्णः । न्यूनम् ।, ७२३. फेन: (पुं) (फेनमीनौ - ३.३ इति नक्) (स्फायी वृद्दौ भ्वा/आ/से+नक्) स्फायते वर्धते इति फेनः = समुद्रफेनः । उशद्रथस्य पुत्रः ।,७२४. मीन: (त्रि) (फनमीनौ - ३.३. इति नक्) (मीञ् हिंसायाम् क्रया/उ/अन्नक्) मीनाति हिनस्तीति मीन: = मत्स्यः (वि) । राशिविशेषः (वि), अवतारविशेषः ।, ७२५. धाना (स्त्री) (धापृवस्यज्यतिभ्यो नः - ३.६ इति नः) (डुधाञ् धारणपोषणयोः जु/उ/अ+न:) दधातीति धाना= भृष्टयवः (वि)। धान्यकम् (वि), अङ्कुरः, भिन्नः, चूर्णसक्तवः ।, ७२६. वस्त्र: (पुं, न) (धापृवस्यज्यतिभ्यो न: - ३.६ इति न:) (वस निवासे भ्वा/प/अ+नः) वसति येन सः इति वस्नः पारिश्रामिकम् ।
224 · p. 113
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
७२३. फेन: फेनः सारस्वतकफे फेनिलस्तद्वति त्रिषु ।फेनादिलच्चेति चेन फेनलो लज्वशाद्भवेत् । ३.१२७२४. (हिनः) मीन: फेनावानित्यपि भवेन्मीनो राश्यन्तरे झषे ।ठकि प्राग्वहतीये स्यान्मैनिको मीनहन्तरि ॥ ३.१४मीनस्यैकस्य पर्यायेष्वित्वात्प्रत्ययो भवेत् ।७२५. भृष्टयवे प्रोक्तो धान्याकेऽभिनवोद्भिदि । ३.१६७२६. (वस्नम्) पर्णं पर्णं तु छदने क्लीबं पुंलिङ्गः किंशुके स्मृतः ।भारद्वाजे तु पर्णीयं पार्णमन्यत्र वाच्यवत् । ३.१७वस्नः स्याद्वेतने मूल्ये वसनद्रव्ययोरपि ।ठना वहत्यावहति हरतीत्यत्र वस्निकः । ३.१८अत्नं वयस्के गोपाले दैवे चित्तादिकेऽपि च ।कर्णं फलित्रे चलिते रोगार्ते वैद्युतेऽपि च ।श्रोत्रे दारगृहीते च राजपूरुषजन्तुषु ।धेन(नु?)स्समुद्रे वदने वरदे पुण्यकारिणि । 730शङ्करे करुणाकारे माहिष्यादिक्रियाकरे ।सूना दुहिता दीना वनिता महतादिषु ।स्तनयित्नुर्मुकुन्दाब्धिवरुणालयमादिषु ।
225 · p. 113
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
७२७. अत्नः (पुं) (धापृवस्यज्यतिभ्यो न: ३.६ इति नः) (अत सातत्यगमने भ्वा/प/ से+न) अतति सततं गच्छतीति अत्नः = सूर्यः ।, ७२८. कर्ण: (पुं) (कॄवॄजॄ - ३.१ इति नः) (कॄविक्षेपे तु/प/से+नः) कीर्यते क्षिप्यते शब्दो वायुना यत्र, किरतीति कर्णः = श्रवणेन्द्रियम् । राधेयः, सुवर्णालिवृक्षः, धृतराष्ट्रपुत्रः (म.भा), ७३२. सूना (स्त्री) (सुञो दीर्घश्च - ३.१३ इति नः) (षुञ् अभिषवे स्वा/उ/अ+नः) सूयते हन्यते यत्रेति सूना=वध्यस्थानम् (मे) गलशुण्डिका (मे), पुत्री, मृगादिमांसविक्रयः, मृगपक्षिवधस्थानम्, (न) प्रसवम्(मे), पुष्प (मे) ।, ७३३. स्तनयित्नुः (पुं)(स्तनिहषिपुषि - ३.२९ इति इत्नुच्) (स्तन देवशब्दे चु/उ/से इत्नुच्) स्तनयतीति स्तनयित्नुः=मेघः(मे, वि) । मेघध्वनिः (वि), विद्युत्, मृगः (वि), रोगः (वि), मृत्युः ।,
226 · p. 114
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
७२७. अत्नम् अत्नः सूर्ये बाहुलकात्पङ्गौ श्रोणोऽपि लभ्यते । ३.२०७२८. कर्णः कर्णः पृथाज्येष्ठसुते सुवर्णालौ श्रुतावपि । ३.२८७३०. (धीन) धेनुः धेनुः समुद्रे नद्यां तु धेना क्वचन वाच्यपि । ३.४५७३२. सूना सूनं प्रकथितं धीरैरुच्छूने वाच्यलिङ्गकम् ।पुष्पे च प्रसवे क्लीबं सूना पुत्र्यां वधस्थले । ३.४६पोषयित्नुः कोकिलाक्षिपूर्णमारुतवेणुषु ।गादयित्नुः पुष्पवासवकुलाम्बरशम्भुषु । 735 मादयित्नुर्वसिष्ठाश्यचन्द्रदेवार्यभूरिषु ।कृत्नुर्विश्वप्रिये शिल्पिविश्वकर्मादिकेऽपि च ।उपहत्नुर्मरीच्यत्रिव्याधिप्रवरणादिषु ।जिगत्नुः प्राणवायौ स देवेन्द्राग्निसुरादिषु ।
227 · p. 114
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
७३४. पोषयित्नुः (पुं) (स्तनिहृषिपुषि - ३.२९ इति इत्नुच्) (पुष पुष्टौ चु/उ/से-इत्नुच्) पोषयतीति पोषयित्नुः = कोकिल: (वि, मे) । द्विजः (वि,मे)। भर्ता, (त्रि) पोषणकर्ता ।, ७३५. (गादयित्नुः) गदयित्नु: (पुं) (स्तनिहृषिपुषि - ३.२९ इति इत्नुच्) (गदी देवशब्दे चु/उ/से+इत्नुच्)गदयति कामयुक्तं करोतीति गदयित्नुः = कन्दर्पः । जल्पाकः, कामुकः, शब्दः ।, ७३६. (मादयित्नुः)मदयित्नुः (न) (स्तनिहृषिपुषि - ३.२९ इति इत्नुच्) (मदी हर्षग्लानयोः दि/प/से+इत्नुच्) मदयतीतिमदयित्नुः = मद्यम् (मे) । (पुं) कामदेवः (मे), मदयुक्तः, मेघः, शौण्डिकः ।, ७३७. कृत्नु: (त्रि)(कृहनिभ्यां कत्नु: - ३.३ इति क्त्नुः) (डुकृञ् करणे त/उ/अ+क्त्नुः) करोतीति कृत्नुः = शिल्पी ।७३९. जिगत्नु: (पुं) (गमे: सन्वच्च - ३.३१ इति क्त्नु) (गम्लृ गतौ भ्वा/प/अ+क्त्नुः) गच्छतीति जिगत्नुः = प्राणवायुः ।
228 · p. 115
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
७३३. स्तनयित्नुः स्तनयित्नुः पुमान् मेघे मृगे रोगे धनध्वनौ । ३.७५७३४. पोययित्नुः हर्षयित्नुः सुते हेम्नि पोषयित्नुः पिके द्विजे । ३.७५७३५.गदयित्नुः गदयित्नुः पुमान् कामे जल्पाके कामुकेऽपि च । ३.७६७३६. मदयित्नुः मदयित्नुर्मदे कामे पुमान्मद्ये नपुंसकम् । ३.७६७३७. कृत्नुः कृत्नु: शिल्पिनि हत्नुस्तु व्याधौ शस्त्रेऽपि कथ्यते । ३.७७७३९. जिगत्नु जिगत्नुस्तु प्रकथितो गतिशीले विशारदैः । ३.७७वक्नुर्विरोचने वैन्ये मुकुन्देऽप्यद्रिभेदके । 740वाचालके मदस्राविगजे प्रव्रजितादिषु ।क्षुधुनश्चतुरे म्लेच्छे व्याघ्रादौ शङ्करादिके ॥वयनं मत्स्ये देवाण्डवारिनाथार्यकारिषु ।यमुनश्चतुरे शान्ते दुविनीते प्रियेऽपि च ॥17 नदीपर्वतकालिङ्गशिशुपागोविभूतिषु । 745वेतनं वितनं चापि भृतिदानादिधेनुषु ।
229 · p. 115
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्स्ये (wrong syllable)nearly अनुष्टुप्
तरलाव्याख्या
उणादिनिष्पत्तिः
७४०. वग्नुः (पुं) (वचेर्गश्च - ३.३३ इति नुः, गः) (वच परिभाषणे अ/प/अ+नुः, गः) वक्तीति वग्नुः = वक्ता । वावदूकः, शब्दः ।, ७४२. क्षुधुनः (पुं) (क्षुधिपिशिमिथिभ्यः कित् - ३.५५इति उनन्) (क्षुध बुभुक्षायाम् दि/प/अ+उनन्) क्षुध्यति भोक्तुमिच्छतीति क्षुधुनः = बुभुक्षावान् । म्लेच्छभेदः ।, ७४३. वयुनम् (न) (अजियमिशीङ्भ्यश्च - ३.६१ इति इनन्) (अज गतिक्षेपणयोःभ्वा/प/से+उनन्) वीयते गम्यते प्राप्यते विषयः अनेनेति वयुनम् = प्रज्ञानम् (वै,नि) (पुं)(देवतागारम्, कुशाश्वस्य पुत्रभेदः ।, ७४४ यमुना (स्त्री) (अजियमिशीङ्भ्यश्च - ३.६१ इति उनन्) (यम उपरमे भ्वा/प/अ+उनन्) यमयतीति यमुना = दुर्गा । यमुनानदी, यमभगिनी ।,७४६. वेतसः (पुं) (वेञ्स्तुट्च - ३.११८ इति असच्, तुट्) (वेञ् तन्तुसन्ताने भ्वा/उ/ अ+असच, तुट्) वयति तन्तून् सन्तनोतीति वेतसः = लताविशेषः । जलजाताग्निः ।
230 · p. 116
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
७४०.(वक्नु:)वग्नुः वावदूकार्थको वग्नुशब्दस्त्रिषु निगद्यते । ३.८०७४२. क्षुधुनः क्षुधुनो म्लेच्छजातौ स्यात्पिशुनं कुङ्कुमे स्मृतम् । ३.१५४७४३,७४४.वयुनम्,यमुना वयुनं देवसदने यमुना तु नदीभिदि । ३.१६६७४६. वेतनम्, वितनम् स्या,b>द्वेतनं भृतौ क्लीबे यस्तु तेनोपजीवति ।ठकि वैतनिकस्तत्र पत्तनं पुरभेदने । ३.४११पापः शरावे माङ्गल्ये विनुन्ने परमार्थके ।दुर्विनीतेऽपि किट्टेऽपि वामनादौ वनादिषु ।नेपः पुरोहिते दाने मारुते ध्वनदम्बुदे ।वेष्प: कूपे दुराचारे विरुद्धादौ वरादिके । 750च्युपो वायौ वरानन्दे चन्दने वामनादिषु ।स्तूपो विरूपे खड्गादौ वनितादौ विरोधके ।
231 · p. 116
अनुष्टुप्metre not read in every lineLatin letters: b
तरलाव्याख्या
उणादिनिष्पत्तिः
७४७. पापम् (न) (पानीविषिभ्यः पः - ३.२३ इति पः) (पा रक्षणे अ/प/अ+प:)पायात् रक्षेदस्मादिति पापम् = किल्बिषम् । अधर्मः, अनिष्टम्, दुरदृष्टम्, (पुं) पापः ।, ७४९. नेप:(पुं) पानीविषिभ्य: पः - ३.२३ इति प:) (णीञ् प्रापणे भ्वा/उ/अ+प:) नयति प्रापयति शुभमितिनेप:- पुरोहितः (न) उदकम् ।, ७५०. वेष्पः । (पुं) (पानीविषिभ्य: प: - ३.२३ इति प:) (विष्लृ व्याप्तौ जु/उ/अ+प:) वेवेष्टि व्याप्नोतीति वेष्पः = पानीयम् ।, ७५१. च्युपः (पुं) (च्युव: किञ्च –३.२४ इति पः) (च्यु भाषणे भ्वा/आ/से+प:) च्यवन्ते भाषन्ते अनेनेति च्युपः = मुखम् ।,७५२. स्तूपः (पुं)(स्तुवो दीर्घश्च - ३.२५ इति पः) (ष्टुञ् स्तुतौ अ/उ/अ+प:) स्तूयत इति स्तूपः = पवित्राविशेषान् संरक्षितुं संस्थापितं स्तम्भाकारं स्मृति चिह्नम् । सङ्घातः, निष्प्रयोजनम्, बलम् ।
232 · p. 117
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
७४८. पापः पापं तु किल्बिषे पापस्तद्वति स्यात्त्रिलिङ्गकः।समासे कुत्सितैरस्य पापनापितकादयः । ३.५८७४९. नेपः नेपः पुरोहिते नीपस्त्वत्र बाहुलकाद्गुणे ।अकृते सति बन्धूके नीलाशोके कदम्बके । ३.५९७५०.(वेष्य:)वेपः उक्तो वेपस्तु पानीये सेपः स्याद्वन्धसाधने । ३.६० ७५१. च्युपम् च्युपं तु वक्त्रवचनमाहुः क्लीबे विमर्शकाः । ३.६० ७५२. स्तूपः स्तूपः पुंसि समुच्छ्राये विद्वद्भिः परिकीर्तितः । ३.६१सूर्पः प्रलयगेहाङ्गप्रमाणपटहादिषु ।खट्वश्च वारिदे बाले दुर्विनीते वृकादिके ।तल्पं कलत्रे देवेशे मानवादिषु भूतले । 755 सर्षपश्चर्वणद्रव्यभेदे मारुतदेवयोः ।ओषधिद्रव्यमालूरचन्द्रवारिदभूमिषु ।उषपश्चन्द्रमकुटे सूर्ये चन्द्रेऽथ कारके ।कुटप: प्रस्थतुर्यांशमणिमालादिकेषु च ।दलपः शाश्वते पूर्णे माधवे मदनादिके । 760
233 · p. 117
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
७५५. तल्पम् (न,पुं) (खष्पशिल्प - ३.२८ इति प:) (तल प्रतिष्ठायाम् चु/उ/से+प:) तल्यते प्रतिष्ठाप्यते इति तल्पम् = शय्या (अ) । अट्टालिका (अ), दाराः (अ),७५६. सर्षपः (पुं)(सर्तेरपः षुक्य - ३.१४१ इति अप: षुक्) (सृगतौ भ्वा/प/अ+अपः, षुक्) सरतीति सर्षपः =कदम्बकः ।, ७५८. उषप: (पुं) (उषिकुटिदलिकचिखजिभ्य: कपन् - ३.१४२ इति कपन्) (उष दाहे भ्वा/प/से-कपन्) ओषतीति उषपः = सूर्यः । अग्निः, चित्रकवृक्षः ।, ७५९. कुटपम् (न) (अषिकुटिदलिकचिखाजिभ्यः कपन् - ३.१४२ इति कपन्) (कुट कौटिल्ये तु/प/से+कपन्)कुटति वक्रीभवतीति कुटपम् = कमलम् । मुनिः, गृहसमीपोपवनम्, मानभेदः ।, ७६०. दलप:(पुं) (उषिकुटिदलिकचिखजिभ्यः कपन् - ३.१४२ इति कपन्) दल विदारणे भ्वा/प/+कपन्)दलति अनेन वेति दलप: = शत्रम् । स्वर्णम् ।,
234 · p. 118
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
७५५. तल्पम् तल्पमट्टे च शय्यायां दारेष्वपि निगद्यते । ३.७४७५६. सर्षपः सर्षपो विबुधैर्धान्यविशेषे परिकीर्तितः । ३.३९६ ७५८,७५९.उषपः,कुटप: - उषपो दहने सूर्य माने तु कुटपः पुमान् । ३.३९६ ७६०. दलप:मुखत्राणे प्रहरणेऽप्युच्यते दलपो बुधैः । ३.३९७कचपश्चटुले मान्ये प्रमाणे देवतादिषु ।कुणपस्तु शवे नीचे बहुभक्षकजन्तुषु ॥उलप: पट्टणे शैले तृणमूलप्रभादिषु ।रेफः शरीरे मरुदे भूभृतौ परमेश्वरे ॥माधवादौ मदारातिजलशर्मसुरादिषु । 765रिबः प्रलयकाश्मीरपुलकामलवारिषु ।अब्ब(अम्भर?)श्शरावे महिते जलजे चैत्यपूलयोः ।दल्भश्चर्व(?) महीपालवामनाचार्यवीचिषु ।दर्भः प्रबलनीवारकुशचीनादिकादिषु ।
235 · p. 118
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
तरलाव्याख्या
उणादिनिष्पत्तिः
७६१. कचपम् (न) उषिकुटिदलिकचिखजिभ्य: कपन् - ३.१४२ इति कपन्) (कच बन्धने भ्वा/आ/से+कपन्) कचते इति कचपम् = तृणम् । शाकपात्रम् ।, ७६२. कुणपः (पुं, न)(क्वणेः सम्प्रसारणञ्च - ३.१४३ इति कपन्) (क्वण शब्दे भ्वा/प/से+कपन्) क्वणति शब्दंकरोतीति कुणप: = अनविशेषः । (पुं) शवः (मे), पूतिगन्धः (मे) रोगविशेषः।, ७६३. उलप: (पुं) (वलतेः सम्प्रसारणम् - ३.१४५ इति कपन्, सम्प्रसारणञ्च) (वल वल्ल संवरणे सञ्चरणे च भ्वा/आ/से+कपन, सम्प्रसारणञ्च) वलतीति उलपः = विस्तीर्णा लता (वीरूत्)। तृणविशेषः ।,७६४. रेफ: (त्रि) (अवद्यावमाधमार्वरेफा: - ५.५४ इति अ:) (रिफ कत्थनयुद्धनिन्दाहिंसादानेषु: तु/प/से+अः) रिफति निन्दतीति रेफः = कुत्सितः । (पुं) स्वर्णः (मे) (स्त्री, पुं) कुत्सितं (मे) ।,
236 · p. 119
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
७६१. कचपः कचपः शाकपत्रे स्यात्तथा शाकुनिकेऽप्यसौ । ३.३९८७६२. कुणपः कुणपः पूतिगन्धे च शवे च परिकीर्तितः । ३.३९९७६३. उलप: उलपो ना तृणान्तरे । ३.४०२७६८,७६९. दल्भः,दर्भ: दर्भ: काशकुशाद्येषु दल्भः स्यादृषिचक्रयोः।३.४१२17a अर्भः शिशौ महाकालकोकिलालकबन्धुषु । 770गर्भ: कुक्षिपुराणार्यराजभूजादिकेऽपि च ।करभm/b>श्चोष्ट्रपातालहस्तप्रान्तार्तवादिषु ।शरभश्चर्षिकल्याणमारुतार्यमृगादिषु ।शलभः कपिचण्डालपतङ्गप्राणवादिषु ।कलभः पृथुदेवेन्द्रकरिपोतादिकेऽपि च । 775
237 · p. 119
अनुष्टुप्metre not read in every lineLatin letters: aLatin letters: mLatin letters: b
तरलाव्याख्या
उणादिनिष्यत्तिः
७६९. दर्भः (पुं) (द्दृलिभ्यां भः - ३.१५१ इति भः) (द्दृ विदारणे क्रया/प/से+भः)दृणाति विदारयतीति दर्भः = कुशः ।, ७७०. अर्भः (पुं) (अर्तिगॄभ्यां भन् - ३.१५२ इति भन्) (ऋ गतौ भ्वा/प/अ+भन्) ऋच्छति गच्छतीत्यर्थः = बालकः ।, ७७१. गर्भ: (पुं) (अर्तिगॄभ्यां भन् - ३.१५२ इति भन्) (गृ निगरणे तु/प/से+भन्) गीर्यते ईश्वरेण प्रकृतिबलात् जठरगह्वरेस्थाप्यते पुरुषशुक्रयोगेषा असौ इति गर्भ: = भ्रूणः । कुक्षिः (मे), सन्धिः (मे), पनसकण्टकम्(मे), मध्यम्, अपवरक: अन्नम्, अग्निः, पुत्रः(मे), ७७२. करभः (पुं) (कॄशॄशलिकलि- ३.१२२इति अभच्) (कॄ विक्षेपे तु/प/से+अभच्) किरतीति करभः = उष्ट्रशिशुः । २. मणिबन्धावधिकनिष्ठा- पर्यन्तं करस्य बहिर्भागः । करिशावकः, उष्ट्रः, नखिनामगन्धद्रव्यम् ।, ७७३. शरभ: (पुं) (कॄशॄशलिकलि- ३.१२२ इति अभच्) (शॄ हिंसायाम् क्रया/प/से+अभच्) शृणाति हिनस्तीति शरभः =मृगेन्द्रविशेषः । करभः. उष्ट्रः, विष्णुः नागविशेषः ।
238 · p. 120
अनुष्टुप्metre not read in every line
औणादिकपदार्णवः
७७०. अर्भ: अर्भशब्दस्तु कथितः पुंलिङ्गो बालके बुधैः । ३.४१२७७१. गर्भ: गर्भो भूणेऽर्भके कुक्षौ सन्धौ पनसकण्टके । ३.४१३७७२. करभः करभो मणिबन्धादि कनिष्ठान्तोष्ट्रतत्सुते । ३.३५५७७३. शरभः शरभोऽष्टापदे कीशभेदेऽपि च मृगान्तरे । ३.३५५७७४. शलभः शलभस्तु पतङ्गाख्ये करभे करिशावके । ३.३५६गर्दभो गार्दभोऽपि स्यादचातुर्यक्रियाकरे ।खरे वराहे मेघेऽब्धौ दुष्पूरुषहरादिषु ॥ऋषभो गोपवनितागोपतीश्वरदेहिषु ।वृषभश्चतुरे गोर्दे गोपतौ पवनादिके ॥लुशभो मातुलुङ्गे स्याद् गजेऽश्वे प्रमतादिषु । 780
239 · p. 120
अनुष्टुप्metre not read in every line
तरलाव्याख्या
उणादिनिष्पत्तिः
७७४. शलभः (पुं) (कॄशॄशलिकलि - ३.१२२ इति अभच्) (शल चलनसंवरणयोः भ्वा/आ/से+अभच्) शलते गच्छतीति शलभः = पतङ्गः । असुरविशेषः ।, ७७५. कलभः (पुं) (कृशॄशलिकलि - ३.१२२ इति अभच्) (कल विलेखने भ्वा/प/अ+अभच्) कलति विलिखतिइति कलभः = गजशावक: (अ) । धत्तूरवृक्षः ।, ७७६. गर्दभः (पुं) (कॄशॄशलिकलि - ३.१२२ इति अभच्) (गर्द शब्दे भ्वा/प/से, चु/आ/स+अभच्) गर्दति गर्दयते वेति गर्दभः = खरः । (न) श्वेतकुमुदम् ।, ७७८. ऋषभः (पुं) (ऋषिवृषिभ्यां कित् - ३.१२३ इति अभच्) (ऋषी गतौ तु/ प/से+अभच्) ऋषति गच्छतीति ऋषभः = वृषः । कर्णरन्ध्रम्, गणविशेषः, पर्वतविशेषः, वराहपुच्छ:,आदिजिनः, भगवदवतारविशेषः, औषधिभेदः, ऋषिभेदः नृपभेदः, यागभेदः, स्वरविशेषः ।,७७९. वृषभः (पुं) (ऋषिवृषिभ्यां कित् - ३.१२३ इति अभच् (वृषु सेचने भ्वा/प/से+अभच्)वर्षति रेत: इति वृषभः = बलीवर्दः । श्रेष्ठः (मे), वैदर्भीरीतिभेदः, आदिजिनः, कर्णरन्ध्रम्, ऋषभनामौषधम् ।
240 · p. 121
अनुष्टुप्metre not read in every line