कृष्णविदारी
kṛṣṇavidārīIn 1 kośa: 0 synonym verses, 1 as a meaning of another word.
कृष्णविदारी as a meaning in nānārtha verses
- शब्दरत्नावली क्रोष्ट्रीऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि । ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥ करो रश्मौ च करके शुण्डप्रत्यायपाणिषु । कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥ कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् । कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥ कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी । क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥ कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि । कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥ कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति । क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥ क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च । चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥ क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे । खुरः शफे कोलदले तथा छेदनवस्तुनि ॥ क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च । खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥ खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥ Śabdaratnāvalī 7.27.7