कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

नानार्थवर्गप्रकाशः · रेफान्ताः (1/2)

इति यान्तवर्गः ॥

रः कामवह्नौ च रुः शब्दे रा धने पुमान् ।री गतौ स्त्री च रा दाने काञ्चनेऽपि च कुत्रचित् ।श्रीः शोभा भारती वेशरचना भूतिवृद्धिषु ।विधात्रिवर्गसम्पत्तिलक्ष्मीषु सरलद्रुमे ॥
7.27.1 · p. 263
अनुष्टुप्metre not read in every line
तथोपकरणे वृद्धौ सिद्धावपि भवेत् स्त्रियाम् ।द्रुर्द्रुमे ना गतौ स्त्री तु स्रुः स्त्रियां निर्झरे स्रवे ॥
7.27.2 · p. 264
अनुष्टुप्
अराऽन्यवत् शीघ्रगे स्यात्क्लीबं चक्राङ्गशीघ्रयोः ।अग्रमालम्बने वृन्दे परिमाणे पलस्य च ॥पुरस्तादुपरिप्रान्ते एकाग्रे च नपुंसकम् ।अतिरिक्ते प्रधाने च प्रमाणे चाभिधेयवत् ॥अस्त्रं चापे प्रहरणे कृपाणे च नपुंसकम् ।अभ्रं धातुभिदि स्वर्णे गगने स्याद्घनेऽपि च ॥
7.27.3 · p. 264
अनुष्टुप्
अद्रिः पुंसि द्रुमे शैले मावभेदे च भास्करे ।आरः शनैश्चरे भौमे त्वग्भेदिन्यामपि स्त्रियाम् ॥
7.27.4 · p. 264
अनुष्टुप्
आरुर्वराहे पुंसि स्यात्तरुभेदे च कर्कटे ।इन्द्रः शक्रे योगभेदे सूर्यभेदेऽन्तरात्माने ॥इन्द्रा फणिज्झके स्त्री स्यादिन्द्रान्यामपि कुत्रचित् ।उग्रस्त्रिषूत्कटे पुंसि क्षत्राच्छूद्रासुते शिवे ॥
7.27.5 · p. 264
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्मा (wrong syllable)
करभेऽस्त्री तु कर्कट्यां स्त्री वचाक्षुद्रयोरपि ।उस्रो रश्मौ वलीवर्देऽप्युस्राऽर्जुन्युपचित्रयोः ॥
7.27.6 · p. 264
अनुष्टुप्
ऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि ।ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥करो रश्मौ च करके शुण्डप्रत्यायपाणिषु ।कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् ।कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी ।क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि ।कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति ।क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च ।चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे ।खुरः शफे कोलदले तथा छेदनवस्तुनि ॥क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च ।खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥
7.27.7 · p. 264
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
गरो विषोपविषयोर्वेण्यां स्त्री करणे गरम् ॥
7.27.8 · p. 265
गात्रं गजाग्रजङ्घादिभागे देहाङ्गयोरपि ।गीः स्त्रियामेव भाषायां सरस्वत्यां यशस्यपि ।गुरुर्निषेकादिकरे पित्रादौ गीष्पतौ पुमान् ॥
7.27.9 · p. 265
अनुष्टुप्
त्रिलिङ्गं दुर्जरेत्यर्थे महत्यलघुनीत्यपि ।गोत्रं कुलास्ययोर्गोत्रः शैले कुगव्ययोः स्त्रियाम् ॥सम्भावनीयबोधे च विपिनच्छत्रवर्त्मसु ।गौरं श्वेतेऽरुणे पीते विशुद्धेऽप्यभिधेयवत् ॥क्लीबं पद्मकेशरे स्याच्चन्द्रसर्षपयोः पुमान् ।गौरीभवानीवसुधाप्रियङ्गुरोचनासु च ॥असञ्जातरजः कन्या वरुणाणी नदीषु च ।घोरो भीमे महेशे च घस्त्रो दिवसहिंस्रयोः ॥चरश्चारे द्यूतभेदे भौमे च जङ्गमे गमे ।चन्द्रः सुधांशुकाम्पिल्लकर्पूरे काञ्चने जले ॥चक्रमस्त्रे व्रजे सैन्ये रथाङ्गे राष्ट्रदम्भयोः ॥
7.27.10 · p. 265
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 4 द्म (wrong syllable); pāda 4, syllable 3 ङ्गु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
कुम्भकारोपकरणे क्लीबं ना चक्रवाकके ।चारो गतौ पियालद्रुबन्धापसर्पणेषु च ॥चित्रा नक्षत्र गोडुम्बा नदी भिद्दन्तिकासु च ।मायासर्पाखुपर्णीषु नाडीसुभद्रयोः स्त्रियाम् ॥आलेख्यतिलकाश्चर्यकर्बुरेषु च न द्वयोः ।चीरं वस्त्रान्तरे रेखागोस्तनलेखनेषु च ॥
7.27.11 · p. 265
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 सु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
चीरी स्त्रियां झिल्लिकायां चीरिर्नेत्रांशुकेऽपि च ।चुक्रं वृक्षाम्लके स्त्री तु चाङ्गेर्य्यां ना तु वेतसे ॥चैत्रे मासे गिरौ पुंसि चैत्रं देवकुले मृते ।छत्रं क्लीबमातपत्रे छत्रामिशिशिलीन्द्रयोः ॥
7.27.12 · p. 265
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ब (wrong syllable)
कुस्तुम्बुरुण्यतिच्छत्रे छत्रः पर्वतभिद्यपि ।तन्त्रं प्रधाने सिद्धान्ते तन्त्रवाये परिच्छदे ॥कुटुम्बकृत्ये हेतौ स्यादुभयार्थप्रयोजके ।इतिकर्तव्यतोषध्योः श्रुतिशाखान्तरेऽपि च ॥शास्त्रभेदे प्रबन्धे च तन्त्री वीणागुणे स्त्रियाम् ।गुडूची देहशिरयोर्नदीभिद्युवतीभिदोः ॥तन्त्रा स्यात्तु प्रमीलायां निद्रायामपि च स्त्रियाम् ॥
7.27.13 · p. 265
अनुष्टुप्
तारस्त्रिषूच्चनिनादमुक्तार्कशुद्धमुक्तयोः (?) ।ऋक्षाक्षिमध्ययोर्न ना रजते च नपुंसकम् ।स्त्रियां बुद्धदेवतायां वालिदेवगुरुस्त्रियोः ।ताम्रन्तु शुल्वारुणयोर्दरोऽस्त्रीभयगर्त्तयोः ॥
7.27.14 · p. 266
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्न (wrong syllable); pāda 3, syllable 4 द्ध (wrong syllable)
दरी तु कन्दरे स्त्री तु मनागर्थे दराव्ययम् ।दस्रः खरेऽश्विनीपुत्रे दारु पिचलकाष्ठयोः ॥देवदारुणि च द्वारं निर्गमोपाययोरपि ।धरी गिरौ कूर्मराजे वसुकार्यासतूलयोः ॥
7.27.15 · p. 266
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 रु (wrong syllable)
धरा मेदसि मेदिन्यां स्त्री गर्भाशययोषितीः ।धात्री पृथिव्यामामलक्यामुपमातरि मातरि ॥
7.27.16 · p. 266
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
धारा सेनाग्रिमस्कन्धे खड्गादि निशितानने ।द्रवप्रपाते कुम्भादिच्छिद्रे यशसि सन्ततौ ॥
7.27.17 · p. 266
अनुष्टुप्
अतिवृष्टौ समूहे च तुरङ्गगतिपञ्चके ।धारः प्रान्ते ग्रावभेदे ऋणगम्भीरयोः पुमान् ॥
7.27.18 · p. 266
अनुष्टुप्
धीरः स्वैरे वलयुते बुधे क्लीबन्तु कुङ्कुमे ।नरं स्याद्रामकर्पूरे नार्जुने मनुजे विधौ ॥
7.27.19 · p. 266
अनुष्टुप्
नक्रः कुम्भीरके क्लीबं नासायामनदारुणि ।नारं स्यात्तर्वके नीरे स्त्री वहुत्वे कुत्रचित् ॥
7.27.20 · p. 266
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नीव्रं वने वलीकेन्दुरेवतीऋक्षनेमिषु ।नेत्रं स्यान्नेत्रभिन्मन्थागुणयोर्द्रुममूलके ॥
7.27.21 · p. 266
अनुष्टुप्
विमाने चक्षुषि क्लीबं लक्ष्मीनाड्योरपि स्त्रियाम् ।परो विदूरश्रेष्ठान्योत्तरे क्लीबन्तु केवले ॥
7.27.22 · p. 266
अनुष्टुप्
पत्रं पर्णे वाहने स्याद्बाणे पक्षे च पक्षिणः ।पारी गजाङ्घ्रिरज्वाञ्च कर्करीपूरयोः स्त्रियाम् ॥पात्रं योग्यस्रुवादौ च पृथिवीपालमन्त्रिणि ।तीरयुग्मान्तरे क्लीबलिङ्गं स्याद्भाजने त्रिषु ॥
7.27.23 · p. 266
अनुष्टुप्
पुरुः पुमान् देवलोकपरागनृपभित्सु च ।प्रचुरे वाच्यलिङ्गं स्यान्नदीभेदेऽपि च स्त्रियाम् ।रसभेदे पुमानेव स्याद्भटातुरयोस्त्रिषु ॥
7.27.24 · p. 266
अनुष्टुप्metre not read in every line
भरुर्ना स्वर्णशिवयोर्भरौर्भावितिवेणयोः (?) ।भद्रो हस्तिजातिभेदे खञ्जने गिरिशे वृषे ॥
7.27.25 · p. 266
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्ति (wrong syllable)
पुंसि क्लीबं शातकुम्भे तथा मङ्गलमुस्तयोः ।स्त्रियां कृष्णा व्योमगङ्गारास्नाप्रसारिणीषु ॥
7.27.26 · p. 266
metre not recognised
कट्फलायामनन्तायां तथा तिथिभिदि स्त्रियाम् ।त्रिषु साधुश्रेष्ठयोः स्यान्नपुंसि करणान्तरे ॥भारी हरौ वीवधे स्यात्पलानां द्विसहस्रके ।भीरुस्त्रिलिङ्ग आगर्ते स्यात् स्त्रियां मेववस्त्रिषु (?) ॥भूरि क्लीबं काञ्चने स्यात्प्रचुरेऽपि च वाच्यवत् ।पुमान् विष्णौ महादेवे परमेष्ठिनि वासवे ॥
7.27.27 · p. 266
अनुष्टुप्
मन्त्रो वेदगुह्यवाददेवादिसाधनेषु च ।मात्रा विचे परिच्छेदे माने कर्णविभूषणे ॥
7.27.28 · p. 267
अनुष्टुप्metre not read in every line
स्वल्पवर्णान्तयोः स्त्री तु मात्रं कार्त्स्न्येऽवधारणे ।मारः स्मरे विघ्नमृत्योर्मारिः स्त्री मृतिवर्षयोः ॥
7.27.29 · p. 267
अनुष्टुप्
मारी चण्डायां धनजनक्षये राष्ट्रजये स्त्रियाम् ।मित्रं सख्यौ क्लीबलिङ्गं भवेद्दिनकरे पुमान् ॥
7.27.30 · p. 267
metre not recognisednearly अनुष्टुप्
पुरमस्त्री पुरी क्लीबं गेहे देशे च वर्ष्मणि ।प्रसूनादिदलावृत्तौ भवेत्पुंसि तु गुग्मुलौ ॥
7.27.31 · p. 267
अनुष्टुप्
पुण्ड्रः स्यान्माधवीवल्ल्यां दैत्यभेदेक्षुभेदयोः ।कीटे चित्रे पुण्डरीके ना पुं भूम्नि च निवृति ॥
7.27.32 · p. 267
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
पूरो ना व्रणसंशुद्धौ खाद्यभिज्जलवृन्दयोः ।पोत्रं वराहहलयोर्मुखाग्रे रसनेऽपि च ॥
7.27.33 · p. 267
अनुष्टुप्
पौत्रं क्लीबं कर्पूणे (?) स्यात्पुत्रोद्भवे भवेत्त्रिषु ।वरो देवाद्यभीप्सायां वृतौ यामातृषिङ्गयोः ॥
7.27.34 · p. 267
अनुष्टुप्metre not read in every line
पुमान् क्लीबं कुङ्कुमे स्यात्तथा श्रेष्ठे भवेत्त्रिषु ।वरी स्त्रियां शतावर्यां त्रिफलायां वरापि च ॥वरं क्लीबं मनागिष्टे कुत्रचिन्मान्तमव्ययम् ।वम्रूर्विशाले नकुले महेशवह्निविष्णुषु ॥
7.27.35 · p. 267
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
देशभेदे पुमानेव पिङ्गलेऽपि च वाच्यवत् ।वक्रः शनौ पुटे क्लीबं कुटिलक्रूरयोस्त्रिषु ॥वारी मतङ्गवन्धन्यां कलस्यामपि च स्त्रियाम् ।वारिर्वाणीभ-वन्धन्योः स्त्रियां क्लीबेऽम्बुवालयौः ॥
7.27.36 · p. 267
अनुष्टुप्
वीरास्त्री दुग्धिकारम्भागम्भारीमदिरासु च ॥
7.27.37 · p. 267
पतिपुत्रवती क्षीरकाकोल्योरेलवालुके ॥
7.27.38 · p. 267
आमलक्यां विदार्याञ्च मलप्वामपि च स्त्रियाम् ।यात्रा स्त्रियामुत्सवे स्याद्गमने यापनेऽपि च ॥
7.27.39 · p. 267
अनुष्टुप्
रन्घ्रं छिद्रे भूषणे च रुरुर्ना मृगदैत्ययोः ।रेत्रसूतकपीयूषपटवासेषु तेजसि ॥
7.27.40 · p. 267
अनुष्टुप्
रौद्रं धर्मे रसे क्लीबं चण्डायां स्त्री भीषणे त्रिषु ।वज्रो योगान्तरे पुंसि क्लीबं धात्र्याञ्च बालके ।वज्रा स्नुहीगुडुच्योस्तु वज्री स्रुह्यन्तरे स्त्रियाम् ॥
7.27.41 · p. 267
अनुष्टुप्metre not read in every line
वज्रोऽस्त्री कुलिशे हीरे कठिनेऽपि च कुत्रचित् ॥
7.27.42 · p. 268
वप्रो ना जतुके न स्त्री क्षेत्रे रेणौ तटे व्रते ।व्याघ्रः करञ्जशार्दूलरक्तैरण्डेषु पुंस्ययम् ॥
7.27.43 · p. 268
अनुष्टुप्
श्रेष्ठे जनोत्तरस्थेपि व्याघ्री बृहतिकौषधे ।वृत्रो दैत्यशैलभेदे शत्रौ ध्वान्ते वने पुमान् ॥
7.27.44 · p. 268
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्य (wrong syllable)
वेरं कामे पुमान् क्लीबं वार्त्ताकौ कुङ्कुमेऽपि च ।शारिर्नाक्षोपकरणे व्यवहारान्तरेऽपि च ।युद्धार्थगजपर्याणभागे शकुनिके स्त्रियाम् ॥
7.27.45 · p. 268
अनुष्टुप्
शारीऽनिलाक्षोपकृत्योः शवलेऽपि च वाच्यवत् ।शिग्रुः पुंसि शाकमात्रे तथा शोभाञ्जनद्रुमे ॥शिरा नाड्यां स्त्रियामेव पिप्पलीमूलके पुमान् ।शीघ्रं नलद चक्राङ्ग(?) क्लीबं द्रुते गतौ(?) त्रिषु ॥शुभमम्रे क्लीबलिङ्गमुद्दीप्तशुक्लयोस्त्रिषु ।शुक्रो मासि भृगौ वह्नौ ना क्लीबे रोगरेतयोः ॥
7.27.46 · p. 268
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 सि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 द्रु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 प्त (wrong syllable)
स्वरुर्व्रजे यूपखण्डे सायकेऽप्यध्वरे पुमान् ।सद्रं (?) वनसदादानयज्ञाच्छादनकैतवे ।सरः पुंसि गतौ तुङ्गे दद्यग्रे च निगद्यते ॥
7.27.47 · p. 268
अनुष्टुप्metre not read in every line
स्वरो नासानिलोदात्तध्वनिषड्जादिके पुमान् ।सारो मज्जास्थिरांशे च बलेऽप्यतिदृढे पुमान् ॥विपिनन्याय्यनीरेषु क्लीबलिङ्गं वरे त्रिषु ।सान्द्रं स्निग्धे मनोज्ञे च नालवाले नपुंसकम् ॥सिप्रो निदाघनीरे ना सिप्रा स्त्री सरिदन्तरे ।सूत्रन्तु सूजनाग्रन्थे व्यवस्थायाञ्च तन्तुषु ॥
7.27.48 · p. 268
अनुष्टुप्
स्वैरं पुमांस्तु स्वच्छन्दमन्दयोः क्वापि वाच्यवत् ।हरिरिन्द्रांशुब्रह्मेन्दुमण्डूकयमबर्हिषु ॥
7.27.49 · p. 268
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शु (wrong syllable)
हंसकोकिलसिंहाश्वकपिभेदेशुकाहिषु ।लोकान्तराग्निकृष्णेषु शिवे ना पिङ्गले त्रिषु ॥हारः पुमानुरोभूषायुद्धमुक्तावलीषु च ।हारि युद्धादि भङ्गेषु स्त्री पान्यसन्ततिवन्धयोः ॥
7.27.50 · p. 268
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
हिंस्रा त्वेलावलीमांस्योः स्त्रियां स्यात्त्रिषु घातुके ।हीरो ना शङ्करे वज्रे हीरा लक्ष्मयम्बुतैलयोः ॥होरा स्त्री शास्त्रभेदे स्याल्लग्ने राश्यर्द्धरेखयोः ।
7.27.51 · p. 268
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अमरस्त्रिदशे वज्रद्रुमेनेन्द्रपुरि स्त्रियाम् ॥गुडुच्यामपि दूर्वायां जरायुस्थूनयोरपि ।अपरा च जरायौ स्याद्गज(?)पश्चार्द्धके स्त्रियाम् ॥अर्वाचीने वाच्यलिङ्गमितरस्मिन्नपि त्रिषु ।अछरो वसुभेदे स्यात्सावधाने क्रतौ पुमान् ॥अन्तरे परिधाने स्यादवकाशे परात्मनि ।छिद्रतादर्थ्यभेदेषु तुल्येऽवसरमध्ययोः ॥
7.27.52 · p. 269
अनुष्टुप्
बहिर्विनार्थे चात्मीये क्लीबं स्यादन्तराव्ययम् ।अम्बरं चांशुके क्लीबं व्योम्नि सौगन्धिकवस्तुनि ॥
7.27.53 · p. 269
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अङ्गारस्तु पुमान् भौमे न स्त्रियायुल्मुकेऽपि च ।अङ्कुरो रक्तपानीयलोमस्वभिनवोद्भिदि ॥
7.27.54 · p. 269
अनुष्टुप्
अजिरं प्राङ्गने देहे दर्द्दूरे विषयेऽनिले ।अक्षरं न द्वयोर्ब्रह्मवर्णयोर्ना हरे हरौ ॥
7.27.55 · p. 269
अनुष्टुप्
अशिरो राक्षसे सूर्ये वीतिहोत्रे भवेत्पुमान् ।अत्तीरं शक्तपुंसोर्ना वरं छदकपाटयोः(?) ॥आकरः श्रेष्ठसन्दोहस्थानोत्पत्तिषु पुंस्ययम् ।ओधारोऽम्बुधारणेऽधिकरणे त्वालबालके ॥
7.27.56 · p. 269
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म्बु (wrong syllable)
आसारो वेगवर्षे स्यात्प्रसारे च सुहृद्बले ।आहारो भोजने पुंसि भवेदाहरणेऽपि च ॥
7.27.57 · p. 269
अनुष्टुप्
आशरो राक्षसे पुंसि तथा वैश्वानरेऽपि च ।इत्वरी कुलटायां स्त्री पथिकक्रूरयोस्त्रिषु ॥ईश्वरः शङ्करे कामे नाट्ये स्वामिनि वाच्यवत् ।ईश्वरा चेश्वरी गौर्य्यां लक्ष्मीवाण्यादिशक्तिषु ॥
7.27.58 · p. 269
अनुष्टुप्
उदारो दातृमहतोरनुकूलेऽभिधेयवत् ।उत्तरा स्त्री तु दिग्भेदे स्नुषायां फाल्गुणस्य च ॥विराटतनये पुंसि क्रूरे दिव्युत्रये त्रिषु ।प्रतिवाक्ये क्लीबलिङ्गमुत्तरन्तु निगद्यते ॥एकाग्रं वाच्यलिङ्गं स्यादनाकुलैकतानयोः ।औशीरमासने क्लीबं स्वापचामरदण्डयोः ॥कृकरः पक्षिभेदे स्यात् क्रकचे पक्षिदीनयोः(?) ।कदरः क्रकचव्याधिभिदोश्च खदिरे सिते ॥कर्वुरो राक्षसे पापे जलहेम्नोर्नपुंसकम् ॥
7.27.59 · p. 269
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable)
शबले वाच्यलिङ्गं स्यात्कृष्णवृन्तासु स्त्रियाम् ।कर्परः स्यात्कटाहे च कपालशस्त्रभेदयोः ॥कन्धरः स्याज्जलधरे ग्रीवायां कन्धरा स्त्रियाम् ।कञ्जारो भास्करे कुक्षौ मुनौ वेधसि वारणे ॥करीरो ना घटे वृक्षे तथा वंशाङ्कुरेऽस्त्रियाम् ।करीरा चीरिकायां स्त्री दन्तमूले च हस्तिनाम् ॥
7.27.60 · p. 269
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ल (wrong syllable)
कच्छुरा स्त्री शूकशिम्ब्यां शटीदुष्पर्शयोरपि ।कवरी स्त्री भवान्यां ना धक्षः पापौषधीषु च (?) ॥कर्मारः पुंसि वंशे स्याज्जातिभेदेऽपि कीर्त्तितः ।कर्करो दर्पणे स्त्री तु मृद्भाण्डे कठिने त्रिषु ॥कडारः पिङ्गले भृत्ये दानमानविधावपि ।कलत्रं नृपातदुर्गस्थानेऽपि श्रौणिभार्ययोः ॥
7.27.61 · p. 270
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 नृ (wrong syllable)
कटप्रूः कौणये पुंसि हाहि(?) रुद्रेऽक्षदेवने ।कन्दरं कन्दरादर्यां कन्दूरस्त्वङ्कुशे पुमान् ॥काश्मीरं कुङ्कुमे टङ्के क्लीबं पुष्करमूलके ।कावेरी पण्यनार्याञ्च सरिद्भेदहरिद्रयोः ॥
7.27.62 · p. 270
अनुष्टुप्
कान्तारी नेक्षुभेदेऽस्त्री बिलदुर्गाधकानने ।किशोरोऽश्वशावके स्यात्तरुणावस्थसूर्ययोः ॥किर्मीरः कर्वुरे नागरङ्गे च कौणपान्तरे ।किंशारुः शस्यशूके ना कङ्कपक्षिणि सायके ॥कुहरः सर्पभेदेनो क्लीबं गह्वररन्ध्रयोः ।कुक्कुरं ग्रन्थिपर्णे स्यात्सारमेये भवेत्पुमान् ॥कर्पूरः कफोणौ पुंसि जानुन्यपि निगद्यते ।कुञ्जरो ना कटे नागे धातक्यां पाटले स्त्रियाम् ॥
7.27.63 · p. 270
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 फो (wrong syllable)
कुमारः स्कन्दशुकयोर्युवराजाश्ववारयोः ।बालके वरुणे पुंसि क्लीबं स्याज्जात्यकाञ्चने ॥
7.27.64 · p. 270
अनुष्टुप्
कुमारी वनमाल्यां स्त्री भवान्याञ्च नदीभिदि ।जम्बुद्वीपसहाकन्याऽपराजितास्वपि स्त्रियाम् ॥
7.27.65 · p. 270
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 जि (wrong syllable)
कुचारुर्वानरे वृक्षे शस्त्रकारे भवेत्पुमान् ।केशरोऽस्त्री तु किञ्जल्के क्लीबलिङ्गन्तु हिङ्गुनि ॥
7.27.66 · p. 270
अनुष्टुप्
पुमान् सिंहशटानागपुन्नागवकुलेषु ।केदारः क्षेत्रभूभेदं शिवाद्रिष्वालबालके ॥
7.27.67 · p. 270
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शिरः कपोलसन्धौ तु स्यात्कुम्भिनरकेऽपि च ।कोहारो नागरे कूपे पुष्करिण्याश्च पाटके ॥
7.27.68 · p. 270
अनुष्टुप्
खपुरोऽलसके भद्रमुस्तके क्रमुकेऽपि च ।खर्परस्तु शठे चौरे भिक्षादिभाण्डगण्डयोः ॥
7.27.69 · p. 270
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
खर्जूरस्तु खले रूप्ये शल्ये ना भूरुहे द्वयोः ।खदिरी शाकभेदे स्त्री खदिरो वृक्षचन्द्रयोः ॥
7.27.70 · p. 271
अनुष्टुप्
खण्डाभ्रं न द्वयोर्दन्तक्षतभेदाभ्रलेशयोः ।गणेरुः करिणीवेश्याकर्णिकारेषु च स्त्रियाम् ॥गर्गरो मीनभेदेऽस्त्री मन्थन्यां न पुमानयम् ।गह्वरन्तु गुहादम्भवने कुञ्जे तु पुंस्यपि ॥गान्धारो रागसिन्दूरदेशभेदेषु पुंस्ययम् ।घर्घरो नदभेदे ना स्यादुलूके च निर्झरे ॥
7.27.71 · p. 271
अनुष्टुप्
स्त्रियां वीणाक्षुद्रघण्ट्योर्भेदे स्वरान्तरे त्रिषु ।चमरी मृगमञ्जर्योश्चमरेञ्चामरेऽपि च ॥
7.27.72 · p. 271
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्व (wrong syllable)
चिकुरः केशचिष्काहि-वि-द्रुमिच्यपलाद्रिषु (?) ।छित्वरस्त्रिषु धूर्ते स्याच्छेदनद्रव्यवैरयोः ॥
7.27.73 · p. 271
अनुष्टुप्
जठरोऽस्त्री भवेत्कुक्षौ त्रिषु बद्धे च कक्खटे ।जर्जरं शैवले शक्रध्वजे त्रिषु जरातुरे ॥
7.27.74 · p. 271
अनुष्टुप्
झर्झरो नदभिद्वाद्यभेदयोस्तु भवेत्कलौ ।टहरी स्यान्मृषावाचिझम्पापटहवाद्ययोः ॥टङ्कारः शिञ्जिनीध्वाने प्रसिद्धौ विस्मये पुमान् ।डिङ्गरो डङ्गरे क्षेपे खले धूर्ते च चोरके ॥
7.27.75 · p. 271
अनुष्टुप्
तीवरोऽब्धिव्याधयोर्ना शुनीधन्याकयोः स्त्रियाम् ।तुवरी स्त्री तु कक्षायामाढक्यां ना कषायके ॥
7.27.76 · p. 271
अनुष्टुप्
तूवरोऽपि कषाये स्यादश्मश्रुपुरुषेऽपि च ।पुरुषव्यञ्जनत्यक्ते त्वशृङ्गगवयेऽपि च ॥
7.27.77 · p. 271
अनुष्टुप्
दहरो मूषिकाशारे भ्रातरि स्वलाकेऽपि च ।दन्तुरः स्यादुन्नतातिनतोन्नतरदेषु च ॥
7.27.78 · p. 271
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 ला (wrong syllable)
दर्दरः पुंसि शैले स्याद्भग्नभाजनके त्रिषु ।दर्दूरो वाद्यभाण्डादिभेदभेकघनेष्वपि ॥
7.27.79 · p. 271
अनुष्टुप्
दासेरो दास्यपत्ये स्याद्ग्रामजाले नपुंसकम् ।धूसरो ना खरे स्त्री तु किन्नर्यां पाण्डरे त्रिषु ।निकरो निवहे न्याये धने सारे निधावपि ॥
7.27.80 · p. 271
अनुष्टुप्
निकारः स्यात्तिरस्कारे धान्योत्क्षेपणकेऽपि च ।निष्ठुरं निर्भरे सारे निर्लज्जे कठिनेऽन्यवत् ॥प्रवरं गोत्रसन्तत्योः क्लीबं श्रेष्ठेऽभिधेयवत् ।प्रखरो वाजिसन्नाहकुक्कुराश्वतरेषु ना ॥
7.27.81 · p. 271
अनुष्टुप्
त्रिषु स्यान्मुखरे वेगयुक्तेऽपि चञ्चलेऽपि च ॥
7.27.82 · p. 271
पवित्रं कुशताम्राप्सु क्लीबं मेद्ये तु वाच्यवत् ।प्रदरो भङ्गशरयो रोगभेदविदारयोः ॥
7.27.83 · p. 272
अनुष्टुप्
प्रकरः पुंसि वृन्दे च विकीर्णकुसुमेऽपि च ।न द्वयोर्जोङ्गके स्त्री च नाहाङ्गे चत्वरक्षितौ ॥
7.27.84 · p. 272
अनुष्टुप्
पङ्कारः सेतुसोपानशैवलेष्वम्बुकुब्जके ।प्रसरः प्रणये वेगे समूहेऽपि च कुत्रचित् ॥
7.27.85 · p. 272
अनुष्टुप्
पदारः स्यात्पादधूल्यां पादालिन्दे च पुंस्ययम् ।पटीरं तितउतुङ्गमूलके दारवारिदे ॥वेणुसारे वातिके च चन्दनेऽपि निगद्यते ।पार्परः पुंसि कीनाशे राजलक्षणि सिक्थके ॥
7.27.86 · p. 272
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 उ (wrong syllable)
प्रान्तरं कोटरारण्यदूरशून्यपथेषु च ।पिठरन्तु पुमान् स्थाल्यां क्लीबं मुस्तकदण्डयोः ॥
7.27.87 · p. 272
अनुष्टुप्
पिञ्जरः पीतहेमाश्वभेदपीतनकेषु च ।पिण्डारः कृपणे गोवे महिषीरक्षके द्रुमे ॥
7.27.88 · p. 272
अनुष्टुप्
पुष्करं हस्तिहस्ताग्रे वाद्यभाण्डे मुखे जले ।व्योम्नि खङ्गफले काण्डे पद्मे तीर्थोषधीभिदोः ॥
7.27.89 · p. 272
अनुष्टुप्
क्लीबं ना पक्षिभूपालरोगद्वीपाद्रिभित्सु च ।तथा वरुणपुत्रे च क्वचित्केचिप्रचक्षते ॥
7.27.90 · p. 272
अनुष्टुप्
बन्धुरो मुकुटे रम्ये नम्रे बकविहङ्गयोः ।बन्धुके बधिरे हंसे बन्धुरोऽप्यन्नतानते ॥
7.27.91 · p. 272
अनुष्टुप्
भ्रामरः कामुके भृङ्गे भ्रामरं मधुशिलयोः ।मत्सरः कृपणे क्रोधे मात्सर्येऽसह्यसम्पदि ॥
7.27.92 · p. 272
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 शि (wrong syllable)
मधुरा शतपुष्पायां तथा मधुरिकापुरोः ।मन्दरो मन्दबहुलमन्थाद्रिवृक्षभित्सु च ॥
7.27.93 · p. 272
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्रि (wrong syllable)
मन्दारः पारिभद्रे स्याद्दद्रुपर्णे शरद्रुमे ।मदारो धूर्तकरिणोर्मन्दिरं नगरे गृहे ॥
7.27.94 · p. 272
अनुष्टुप्
मन्थरः पुंसि मत्थानवाधकोषफलेषु च ।पृथुवक्रमन्दगामिजडेष्वपि भवेत्त्रिषु ॥मकरो जलजन्तौ स्यान्निधिराशिविशेषयोः ।मयूरो बर्हिचूडायामपामार्गशिखण्डिनोः ॥महेन्द्र इन्द्राचलयोर्मधुत्रः कामुकालियोः ।मन्दुरा वाजिशालायां तथा शयनवस्तुनि ॥
7.27.95 · p. 272
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क्र (wrong syllable)
मसूरा मसुरा वेश्यास्वथ व्रीहौ पुमानयम् ।पापरोगे मसूरी स्यात्तथा मसुरिकेत्यपि ॥मर्मरः पीतकाष्ठे स्याद्वस्त्रपर्णादिनिस्वने ।मञ्जरं मञ्जरी च स्यान्मुक्तातिलकवल्लीषु ॥मदिरा तु सुरायां स्त्री मदिरो मत्तखञ्जने ।मुकुरः कुलवृक्षे स्याद्दर्पणे दण्डभिद्यपि ॥मार्जार ओतौ खट्टासे मिहिरो वृद्धसूर्ययोः ।मुदिरः कामुके मेघे मुहिरो मूर्खकामयोः ॥
7.27.96 · p. 272
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 ल्ली (wrong syllable)
मुर्मुरः सूर्यतुरगे तुषाग्नौ च मनोभवे ।रुधिरं कुङ्कुमे रक्ते स्यात्पुमान् मङ्गलग्रहे ॥वटरः कुक्कुटे वेष्टे शठे चोरे च चञ्चले ।वर्वरः पामरे केशे चक्रले शाकभिद्यपि ॥पुष्पभेदे देशभेदे वर्वरा मक्षिकाभिदि ।वर्करः स्याद्युवपशौ स्याच्छागपरिहासयोः ॥
7.27.97 · p. 273
अनुष्टुप्
वल्लरः पुंसि गहननवक्षेत्रोत्सवेषु च ।मार्गरो दक्षिणावर्त्तशङ्खकृष्णलवीजयोः ॥
7.27.98 · p. 273
अनुष्टुप्
विष्टरः कुशमुष्टौ स्यादासनेऽपि भवेत्पुमान् ।विस्तरो बाक्प्रपञ्चे स्याद्विस्तोरेऽपि च संहतौ ॥
7.27.99 · p. 273
अनुष्टुप्
विदुरो नागरे धीरे तथा पाण्डवमन्त्रिणि ।विधुरा तु रसालायां विश्लेषे विकले त्रिषु ॥
7.27.100 · p. 273
अनुष्टुप्
विदारी रोगभेदे स्याच्छालपर्णीक्षुगन्धयोः ।विवरं दूषणे गर्ते विसरः प्रसरे व्रजे ॥विहारी भमणे स्कन्धे सुगतालमलीलयोः ।शल्वरः(?) शङ्करम्लेच्छविशेषखलभित्सु च ॥
7.27.101 · p. 273
अनुष्टुप्
शम्बरं सलिले क्लीबं ना देत्यमृगभेदयोः ।शम्बरी स्यादासुपर्ण्यां मायायामपि च स्त्रियाम् ॥शर्वरी स्त्री तु यामिन्यां प्रमदायामपि स्त्रियाम् ।शर्करा कर्परांशेऽपि सिता शार्करदेशयोः ॥
7.27.102 · p. 273
अनुष्टुप्
शार्करो दुग्धफेणे स्याच्छर्करान्वितदेशके ।शाक्करस्तु बलीवर्दे च्छन्दोभेदे भवेत्पुमान् ॥
7.27.103 · p. 273
अनुष्टुप्
शार्वरञ्चान्धतमसे धातुके राक्षसेऽपि च ।शालारं स्यात्करिनखे सोपाने पक्षिपञ्जरे ॥
7.27.104 · p. 273
अनुष्टुप्
शिखरोऽस्त्री तु वृक्षाग्रे पुलाकेऽप्यग्रकक्षयोः ।पक्वदाडिम्बबीजादितुल्यमाणिक्यमुकयोः ॥
7.27.105 · p. 273
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 मु (wrong syllable)
शिलीन्ध्रो वृक्षभेदे स्याच्छत्राककरकासु च ।शिलीन्ध्री मृत्तिकागण्डूपदी विहङ्गिकासु च ।शीकरः शरले वात क्षिप्तनीरकणेऽपि च ॥
7.27.106 · p. 273
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
शुषिरं मूषिके च्छिद्रवंश्यादिवाद्यभेदयोः ।शुविराप्योषधीभेदे भवेद्रन्ध्रान्विते त्रिषु ॥शृङ्गारः सुरते नाट्ये रसे ना गजभूषणे ।क्लीबं चूर्णे च सिन्दुरे लवङ्गेऽपि च कुत्रचित् ॥सम्बरो दैत्यभिच्छैलमृगभिन्मीनभित्सु च ।बुद्धभेदे पुमान् क्लीबं जले बौद्धव्रतेऽपि च ॥सङ्करोऽग्निचटत्कारे समार्जन्यवपुञ्जिते ॥
7.27.107 · p. 274
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 7 न्दु (wrong syllable)
नवदूषितकन्यायां सङ्करीति निगद्यते ॥
7.27.108 · p. 274
क्लीबन्तु प्रतियत्नान्तर्भावमानसकर्मसु ।सङ्गरस्तु क्रियाकारे विषाङ्गीकारयोर्युधि ॥
7.27.109 · p. 274
अनुष्टुप्
शमीफले विपत्तौ च मारणेऽपि हठेऽस्त्रियाम् ।सम्भारः सम्भृते स्तोमे सावित्रो वसुभर्गयोः ॥सावित्री सत्यवत्पत्नीब्रह्माणीपार्वतीषु च ।सामुद्रं देहचिह्ने तु समुद्रप्रभवे त्रिषु ॥
7.27.110 · p. 274
अनुष्टुप्
सुनारः पुंसि सर्पाण्डे कलविङ्के शुनीस्तने ।सैरिन्ध्री परवेश्मस्थशिल्पिनी निजवेश्ययोः ॥
7.27.111 · p. 274
अनुष्टुप्
वर्णसङ्करसम्भूतस्त्रीमहल्लिकयोरपि ।हिण्डीरः फनवार्ताकुपुरुषेष्वपि पुंस्ययम् ॥
7.27.112 · p. 274
अनुष्टुप्
अरुष्करो व्रणकरे भवेद्भल्लातकेऽपि च ।भवेदभिसारो युद्धे वधे च बलसाधने ॥अत्युत्तरं त्रिषु ज्येष्ठे प्रतिवाक्यविवर्जिते ।अलङ्कारोऽलङ्कारणे हारादावुपमादिके ॥
7.27.113 · p. 274
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 ङ्का (wrong syllable)
अवहारो द्यूतयुद्धविश्रामे ग्राहचौरयोः ।निमन्त्रणे चोयनेयद्रव्ये धर्मान्तरेऽपि च ॥
7.27.114 · p. 274
अनुष्टुप्
अकूपारः कुर्मराजे समुद्रे च भवेत्पुमान् ।अभिहारोऽभियोगे स्याच्चौर्ये सन्नहनेऽपि च ॥
7.27.115 · p. 274
अनुष्टुप्
अर्द्धचन्द्रो बाणभेदे गलहस्ते नखक्षते ।हस्तभेदे पुमानेव त्रिवृतायामपि स्त्रियाम् ॥
7.27.116 · p. 274
अनुष्टुप्
आडम्बरस्तूर्यरवे संरम्भे गजगर्जिते ।आत्मवीरः प्राणवति श्यालके च विदूषके ॥
7.27.117 · p. 274
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्रा (wrong syllable)
उडुम्बरः पण्डताम्रकुष्ठभिद्वृक्षभित्सु च ।उद्दन्तुरः स्यादुत्तुङ्गे करालोत्कटयोरपि ॥
7.27.118 · p. 274
अनुष्टुप्
उपकारस्तूपकृतौ विकीर्णकुसुमादिके ।औदुम्बरो रोगभेदे भवेद्वैवस्वते पुमान् ।कर्मकरो यमे भृत्ये वेतनाजीवितेऽपि च ॥
7.27.119 · p. 274
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 स्तू (wrong syllable)
कर्मकरी भवेद्दास्यां बिम्बिकाभूर्वयोरपि ।कलिकारस्तु धूम्याटे करञ्जे पीतमस्तके ॥
7.27.120 · p. 275
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable)