कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

धनाधीश

dhanādhīśa

In 1 kośa: 0 synonym verses, 2 as a meaning of another word.

धनाधीश as a meaning in nānārtha verses

  • शब्दरत्नावली अर्थपतिअथावसितमृद्ध स्याज्ज्ञातेऽवसानगे त्रिषु । अर्थपतिर्धनाधीशे भवेन्नरपतौ पुमान् ॥ अवदातो विशुद्धे स्यात्सिते गौरेऽन्यलिङ्गकम् । अवगीतन्तु दृष्टे स्यान्निर्वादे गर्हितेऽपि च ॥ अन्तर्गतं विस्मृते स्यान्मध्यप्राप्तेऽभिधेयवत् । अङ्गारितं स्यात्पलाशकलिकोद्गमदग्धयोः ॥ अपावृतं स्वतन्त्रे स्यात् पिहितेऽप्यभिधेयवत् । अत्याहितं गुरुभये जीवानपेक्षिकर्मसु ॥ अभिनीतः संस्कृते स्यादमर्षिन्याय्ययोस्त्रिषु । अभिजातः पण्डिते स्यात् त्रिषु न्याय्यकुलीनयोः ॥ Śabdaratnāvalī 7.16.153
  • शब्दरत्नावली पौलस्त्यपानीयं सलिले क्लीबं पातव्ये पुनरन्यवत् । पौलस्त्यो ना धनाधीशे दशकण्ठे विभीषणे ॥ वलयं कङ्कणे क्लीबं कण्ठरोगे पुमानयम् । वालेयं स्याद्वलिहिते मृदौ त्रिषु खरे पुमान् ॥ ब्राह्मण्यं ब्रह्मवृन्दे स्यात्ब्राह्मणत्वेऽपि न द्वयोः । भरण्युर्ना चण्डभानौ मृगाङ्के च विभावसौ ॥ भुजिष्यः पुंसि दासे स्यात्स्वन्त्रहस्तसूतत्रके । स्त्रियां दासीगणिकयोः स्वतन्त्रायामपि क्वचित् ॥ मलयो ना चलारामदेशेषु स्त्री तथौषधे । मङ्गल्यो ना त्रायमानामसूराश्वत्थबिल्वके ॥ स्त्रियात्तु रोचनाशुक्लवचाशमीमिमीषु च । अधःपुष्प्यां स्त्रियां दध्नि क्लीबं शिवकरे त्रिषु ॥ मृगयुर्ना शृगाले स्याद् व्याधे पितामहेऽपि च । रहस्या स्त्री सरिद्भदे गोपनीयेऽभिधेयवत् ॥ विजया पार्वतीसख्यां तिथिभेदेऽपि च स्त्रियाम् । विजयस्तु जये पुंसि तथा गाण्डीवधन्वनि ॥ विस्मयः पुंसि दर्ये स्यात्स्यन्देहाश्चर्ययोरपि । विषयो यस्य यो ज्ञातस्तत्रदेशे च गोचरे ॥ रूपादौ स्याज्जनपदे कान्तादौ च भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.46