कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

नानार्थवर्गप्रकाशः · तान्ताः (2/2)

बृहती क्षुद्रवार्ताकीच्छन्दोभिद्वसनान्तरे ।कन्टकारी-वारिधानी-महतीषु च वाचि च ॥
7.16.121 · p. 221
अनुष्टुप्
भवती बाणभेदे स्याद् युष्मदर्थसतोस्त्रिषु ।भरतो मुनिदौष्मन्तिरामानुजनटेषु च ॥
7.16.122 · p. 221
अनुष्टुप्
स्याद्भास्वान् भास्करे सूर्ये भारतं ग्रन्थवर्षयोः ।भारती वचने वाण्यां पक्षिवृत्तिप्रभेदयोः ॥
7.16.123 · p. 221
अनुष्टुप्
भासन्तः पुंसि भासाख्यविहङ्गे सुन्दराकृतौ ।भावितं वासिते प्राप्ते भूभृन्नाभूपशैलयोः ॥
7.16.124 · p. 221
अनुष्टुप्
महती वल्लकीभेदे तत्त्वे ना वड्रकेन्यवत् ।मथितं लोडिते घृष्टे त्रिषु क्लीबन्तु घोलके ॥
7.16.125 · p. 221
अनुष्टुप्
मरुत्समीरे देवे ता ग्रन्थिपर्णे नपुंसकम् ।मूर्च्छितं चोच्छ्रये मूढे मूषितं खण्डते भिदि ॥
7.16.126 · p. 221
अनुष्टुप्
रजतं स्यात्त्रिषु श्वेते क्लीबन्तु रूप्यहारयोः ।रमतिः पुंसि काके स्यान्नायकेऽपि निगद्यते ॥
7.16.127 · p. 221
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्तु (wrong syllable)
रसितं क्लीबलिङ्गं स्याद् रुते जलदगर्जिते ।त्रिषु स्वर्णादिखचिते रसयुक्ते च कुत्रचित् ॥रेवती तारकामातृभिदोश्च रामयोषिति ।रैवतः स्यात्सुवर्णालुवृक्षे शैलान्तरे शिवे ॥रोहितो मीनमृगभिद् रोहितकद्रुमेषु च ॥
7.16.128 · p. 221
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
रोहितं कुङ्कुमे रक्ते सरलेन्द्रशरासने ।रोहित् स्त्रियां मृगीवल्लीभिदोर्दिनकरे पुमान् ॥
7.16.129 · p. 222
अनुष्टुप्
ललितं हारभेदे स्याच्चलितेप्सियोस्त्रिषु ।लोहितो तद्भिद्भौमरक्तेषु त्रिषु तद्वति ॥
7.16.130 · p. 222
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 त (syllables merged)
क्लीबन्तु रक्तगोशीर्षे कुङ्कुमे चैव चन्दने ।वर्द्धितं न द्वयोश्छिन्ने प्रसृते पूरितेऽपि च ॥
7.16.131 · p. 222
अनुष्टुप्
वहतुः सचिवे पान्थे वलीवर्दे पुमानयम् ।वनिता स्त्री तु कान्तायां जातरागस्त्रियामपि ॥याचिते सेविते ख्याते त्रिषु स्याद्ददिभिद्यपि (?) ।वसतिर्वेश्मरजनीवासभूमिषु च स्त्रियाम् ॥व्यायतञ्च दृढे दीर्घे व्यापितेऽतिशयेऽन्यवत् ॥
7.16.132 · p. 222
अनुष्टुप्
व्याघातः स्यादन्तराये प्रहारे योगभिद्यपि ।वासिता हस्तिनीनार्य्योः क्लीबं स्याद्भाविते रुते ॥
7.16.133 · p. 222
अनुष्टुप्
विविक्तं निर्जने पूते विवेकापृक्तयोस्त्रिषु ।विहस्तः पुंसि पण्डे स्याद् व्याकुले निष्करे त्रिषु ॥
7.16.134 · p. 222
अनुष्टुप्
विनीतः स्यादपि साधुवाहाश्वयोरपि ।जितेन्द्रियेप्यपनीते रह इत्येतेषु त्रिषु ॥
7.16.135 · p. 222
metre not recognised
विश्वस्ता विधवायां स्याज्जातविश्वासके त्रिषु ।विद्यत् त्रिषु निष्प्रभे स्यात्सन्ध्याचपलयोः स्त्रियाम् ॥
7.16.136 · p. 222
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 षु (wrong syllable)
विवृता क्षुद्ररोगे स्याद् वाच्यलिङ्गन्तु विस्तृते ।विनेता देष्टृनृपयोर्विधाता कामवेधसोः ॥
7.16.137 · p. 222
अनुष्टुप्
विनता पिटकाभेदे तार्क्ष्यमातरि च स्त्रियाम् ।विच्छित्तिः स्यादङ्गरागे विच्छेदहारभेदयोः ॥
7.16.138 · p. 222
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
विदितञ्चाप्युपगमे ज्ञाते स्यादभिधेयवत् ।विपत्तिर्यातनायाञ्च घातने चापदि स्त्रियाम् ॥
7.16.139 · p. 222
अनुष्टुप्
वृत्तान्तः प्रक्रिया कार्त्स्न्यवार्ताप्रस्तावकेषु च ।वेष्टितं लासके रुद्धे नाट्यादिकरणान्तरे ॥
7.16.140 · p. 222
अनुष्टुप्
वेल्लितञ्च गतौ क्लीबं विधूत कुटिले त्रिषु ।शकुन्तो विहगे भासपक्षिकीटभिदोः पुमान् ॥
7.16.141 · p. 222
अनुष्टुप्
श्रीमान् मनोज्ञे धनिके त्रिषु ना तिलकद्रुमे ।श्रीपतिः पृथिवीनाथे भवेन्मुरहरे पुमान् ॥
7.16.142 · p. 222
अनुष्टुप्
सम्वर्त्तो मुनिभित्कर्षफलयोः प्रलये घने ।संस्कृतं लक्षणोपेते कृत्रिमे भूषितेऽन्यवत् ॥
7.16.143 · p. 222
अनुष्टुप्
स्थपतिः कभ्युकित्वष्ट्रारिज्येष्टियाजकेषु ना ।संघातो नरके घाते संहतौ च भवेत्पुमान् ॥
7.16.144 · p. 223
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्टि (wrong syllable)
सन्ततिः प्रणतिध्वन्योः सङ्गतिर्ज्ञानसंज्ञयोः ।सम्बित्तिश्चेतनायां स्याज्जनानामविवादके ॥
7.16.145 · p. 223
अनुष्टुप्
सन्ततिर्गोत्रपंक्तयोस्तु पारम्पर्यसुतादिषु ।समितिः सङ्गमे युद्धे सभायामपि च स्त्रियाम् ॥
7.16.146 · p. 223
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
समाप्तिः स्त्रीपरिप्राप्तावनसाने समर्थने ।सम्मतिः स्यादनुज्ञायामभिलाषेऽपि च स्त्रियाम् ॥
7.16.147 · p. 223
अनुष्टुप्
स्यापितं निश्चिते क्लीबं भवेदारोपिते त्रिषु ।सिकता स्त्री सिकतिले बालुकायान्तु भूम्नि च ॥
7.16.148 · p. 223
अनुष्टुप्
सुकृतं पुण्यशुभयोः क्लीबं सुविहिते त्रिषु ।सुव्रता सुखदोद्यायां गवि सुष्ठुव्रतस्त्रियाम् ।सुनीतिः सुष्ठुनीतौ स्याद् ध्रुवमातरि च स्त्रियाम् ॥
7.16.149 · p. 223
अनुष्टुप्
सुनृतं मङ्गले क्लीबं सत्यप्रियवचस्यपि ।हरिद्दिशि स्त्रियामस्त्री तृणे ना हयवर्णयोः ॥
7.16.150 · p. 223
अनुष्टुप्
हरिता स्त्री तु दूर्वायां हरितो वर्णभेदके ।हसन्ती मल्लिकाङ्गारधान्योश्च शाकिनीभिदि ॥
7.16.151 · p. 223
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
हारितो मुनिभित्पक्षिभिदोः पारावतोऽपि च ।हृषितः प्रहृतप्रीतरोमाञ्चयुतविस्मृते ॥
7.16.152 · p. 223
अनुष्टुप्
अथावसितमृद्ध स्याज्ज्ञातेऽवसानगे त्रिषु ।अर्थपतिर्धनाधीशे भवेन्नरपतौ पुमान् ॥अवदातो विशुद्धे स्यात्सिते गौरेऽन्यलिङ्गकम् ।अवगीतन्तु दृष्टे स्यान्निर्वादे गर्हितेऽपि च ॥अन्तर्गतं विस्मृते स्यान्मध्यप्राप्तेऽभिधेयवत् ।अङ्गारितं स्यात्पलाशकलिकोद्गमदग्धयोः ॥अपावृतं स्वतन्त्रे स्यात् पिहितेऽप्यभिधेयवत् ।अत्याहितं गुरुभये जीवानपेक्षिकर्मसु ॥अभिनीतः संस्कृते स्यादमर्षिन्याय्ययोस्त्रिषु ।अभिजातः पण्डिते स्यात् त्रिषु न्याय्यकुलीनयोः ॥
7.16.153 · p. 223
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable); pāda 3, syllable 3 प (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
अभियुक्तस्तत्परे स्यात्परवद्धेऽभिधेयवत् ।अतिमुक्तस्तु वासन्त्यां निःसङ्गे तिनिशेऽपि च ॥
7.16.154 · p. 223
अनुष्टुप्
अपध्वस्तं निन्दिते स्यात्परित्यक्तेऽवचूर्णिते ।अधिक्षिप्तः प्रणिहिते भर्त्सिते निन्दितेऽन्यवत् ॥
7.16.155 · p. 223
अनुष्टुप्
अंशुमान् पुंसि मिहिरे शालपर्ण्यामपि स्त्रियाम् ।स्त्रियामपचितिः पूजा निष्कृतिव्ययहानिषु ॥
7.16.156 · p. 224
अनुष्टुप्
अनुमतिः कलाहीनशशाङ्कानुज्ञयोरपि ।अभिशस्तिः प्रार्थनायामपवादेऽपि च स्त्रियाम् ॥
7.16.157 · p. 224
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
आयुष्मान् पुंसि योगे स्याच्चिरजीविनि वाच्यवत् ।अथोपचितमृद्धेऽन्यलिङ्गं दिग्धे नपुंसकम् ॥उज्जृम्भितन्तु चेष्टायां क्लीबमुत्फुल्लके त्रिषु ।उपरक्तो हि दुःखार्ते राहुग्रस्तेन्दुसूर्ययोः ॥उपाकृतो यज्ञहतपशौ च स्यादुपद्रुते ॥
7.16.158 · p. 224
अनुष्टुप्
उदास्थितः प्रतीहारे प्रव्रज्यावसिते चरे ।स्यादुल्लिखितमुत्कीर्णे चित्रिते च तनूकृते ॥उद्ग्राहितमुदीर्णे स्याद् बद्धग्राहितयोस्त्रिषु ।उपसत्तिः सङ्गमात्रे सेवायामपि च स्त्रियाम् ॥
7.16.159 · p. 224
अनुष्टुप्
तटष्यप्रोक्ता शतावर्यामबला शूकशिखयोः ।ऐरावतो दिग्गजे स्यान्नारङ्गे लकुचद्रुमे ॥नागान्तरे च पुंसि स्यात् स्त्रियां तडिति तद्भिदि ।क्लीबं महेन्द्रकोदण्डे नटजुदीर्घे निगद्यते ॥कलधौतं शातकुम्भे रजते च नपुंसकम् ।कुमुद्वान् वाच्यलिङ्गः स्यात्कुमुदप्रायदेशके ॥कुमुद्वनी कुमुदिनीकुशपर्ण्योरपि स्त्रियाम् ।भवेत्कुहरितं क्लीबं रतशब्दे पिकध्वनौ ॥कृष्णवृन्ता माषपर्ण्यां पाटलायामपि स्त्रियाम् ॥
7.16.160 · p. 224
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 6 शि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 1 नट (syllable split)
भवेद्गन्धवती व्यासमातृपृथ्वीसुरासु च ।गरुत्मान् पक्षिमात्रे स्याद् गिरिभेदे सुधाहरे ।भवेद्गृहपतिर्नातुधर्मे मन्त्रिगृहस्थयोः ॥
7.16.161 · p. 224
अनुष्टुप्
चन्द्रकान्तः कैरवे स्यान्मणिभेदे च पुंस्ययम् ।चर्मण्यती सरिद्भेदकदलीद्रुमयोः स्त्रियाम् ।चित्रगुप्तो धर्मराजे पुंसि तस्मैव लेखके ॥
7.16.162 · p. 224
अनुष्टुप्metre not read in every line
दिवाभीत उलूके स्यात्कुम्भिले कुमुदाकरे ।दिवाकीर्तिः पुमानेव नापितान्तावसायिनोः ॥द्वीपवती भूमिनदयोः पुंसि सिन्धौ नदेऽपि च ।स्याद्धूमकेतुर्ज्वलेने तथा चोत्पातशेषके ॥नन्द्यावर्त्तश्च नगरे गृहभेदे च पुंस्ययम् ।नदीकान्तः सिन्धुवारे हिज्जले च सरित्पतौ ॥
7.16.163 · p. 224
metre not recognisednearly अनुष्टुप्
नदीकान्ता भवेज्जम्ब्व्यां काकजङ्घौषधौ स्त्रियाम् ।नागदन्तो हस्तिदन्ते गृहनिर्गतदारुणि ॥
7.16.164 · p. 225
अनुष्टुप्
श्रीहस्तिन्यां नागदन्ती कुम्भायामपि च स्त्रियाम् ।निष्काशितो निर्गमितेऽधिकृते चाहिते त्रिषु ।निस्तुषितं त्वग्विहीने त्यक्ते लघूकृतेऽपि च ॥
7.16.165 · p. 225
अनुष्टुप्metre not read in every line
निराकृतिरनध्याये इनाकारे वारणे स्त्रियाम् ।भवेत्परिगतः प्राप्तज्ञातविस्मृतवेष्टिते ॥अथ प्रणिहितं प्राप्ते न्यस्तेऽपि च समाहिते ।पल्लवितं विस्तृते स्याल्लाक्षारक्ते सपल्लवे ॥अथ प्रतिहतं रुद्धे द्विष्टस्खलितयोस्त्रिषु ॥
7.16.166 · p. 225
अनुष्टुप्metre not read in every linenearly अनुष्टुप्nearly अनुष्टुप्: pāda 1, syllable 3 वि (wrong syllable)
प्रतिक्षिप्तं प्रेषिते स्याद्वारितक्षिप्तयोस्त्रिषु ।परिवर्त्तः कूर्मराजे भवेद्विनिमयेऽपि च ॥
7.16.167 · p. 225
अनुष्टुप्
परिस्तुता स्याद्वारुण्यां स्त्रियां स्यन्देऽभिधेयवत् ।पञ्चगुप्तः कच्छपे स्याच्चार्वाकदर्शने पुमान् ॥प्रजापतिर्ना भूपाले दक्षादौ च विधातरि ।प्रतिपत्तिश्च संप्राप्तौ प्रबोधे गोरवेऽपि च ॥
7.16.168 · p. 225
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
पदप्राप्तौ प्रवृत्तौ च प्रागल्भ्ये स्यादपि स्त्रियाम् ।अथ प्रव्रजिता मांसीमुण्डीरीतापसीषु च ॥
7.16.169 · p. 225
अनुष्टुप्
प्रतिकृतिः प्रतिनिधौ प्रतिकारार्चयोः स्त्रियाम् ।बकपुष्पे पाशुपतः पशुपत्यधिदैवते ।पारिजातः पारिभद्रद्रुये सुरतरावपि ॥
7.16.170 · p. 225
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
पारावती नदीगोपगीत्योश्च लवलीफले ।पारावतः कलरवे पुमान् मर्कटतिन्दुके ॥पुष्पदन्तो भवेद्विद्याधरे दिग्वारणान्तरे ।भगवान् त्रिषु पूज्ये स्याद् गौर्यां स्त्री तु जिने पुमान् ॥स्त्रियां भोगवती गङ्गा सर्पपुर्योरहौ पुमान् ।रङ्गमाता च कुट्टन्यां रोगवृक्षभिदोः(?) स्त्रियाम् ॥लक्ष्मीपतिर्नरपतौ वासुदेवे भवेत्पुमान् ।व्यतिपातो योगभेदे महोत्पातापमानयोः ॥
7.16.171 · p. 225
अनुष्टुप्
वनस्पतिर्वृक्षमात्रे विना पुष्पं फलिद्रुमे ।विनिपातश्च दैवादिव्यसने चावमानने ॥
7.16.172 · p. 225
अनुष्टुप्
विवस्वान् वरुणे सूर्ये तत्रगर्यां विवस्वती ।वैजयन्तोऽपि शक्रस्य प्रासादध्वजयोः पुमान् ॥
7.16.173 · p. 226
अनुष्टुप्
वैजयन्ती जयन्त्यान्तु पताकायामपि स्त्रियाम् ।शुभदन्ती स्त्रियामेव सुदती दिग्गजस्त्रियोः ॥
7.16.174 · p. 226
अनुष्टुप्
सदागतिर्ना वातार्कमोक्षेषु च सदीश्वरे ।सरस्वान्नदभेदेऽब्धौ पुंसि स्याद्रसिकेऽन्यवत् ॥सरस्वती च वाग्देवीवाणीस्त्रीरत्नगोषु च ।सत्यवती व्यासमातृनारदर्च्चीकयोषिति ॥समुद्रान्ता तु कार्यासीपृक्कादुरालभासु च ।समाहितो निर्विवादे प्रतिज्ञातेऽभिधेयवत् ॥
7.16.175 · p. 226
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 दु (wrong syllable)
आहितेऽप्युक्तसिद्धान्ते समाधिस्थे शुचौ पुमान् ।समाघातः शब्दभेदे वधे युद्धे भये पुमान् ॥संख्यावान् पण्डिते पुंसि संख्यायुक्तेऽन्यलिङ्गकः ।सुधासूतिः पुमान् यज्ञे पद्मे हिमकरेऽपि च ॥सूर्यभक्तश्चार्कपणे बन्धुके च भवेत्पुमान् ।सेनापतिः कुमारे स्यात्सैन्याधिकारिणि पुमान् ॥हिमारातिर्वीतिहोत्रे पुमान् किरणमलिनि ।हैमवती श्वेतवचास्वर्णक्षीर्यभयासु च ॥
7.16.176 · p. 226
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 6 म (wrong syllable); pāda 3, syllable 2 म (wrong syllable)
निरीक्षिते लोकनाथे पुंसि स्यादवलोकितः ॥
7.16.177 · p. 226
गिरिकर्णी जया दुर्गाशनपर्ण्यपराजिता ।विधूपितासन्नमृत्योस्तप्ते स्यादुपधूपितः ॥शङ्करेऽपिच हेरम्बे गणाधिपतिरित्यपि ।पतनेच्छौ विहङ्गे च भवेत्पिपतिषन्निति ॥ऋषभौषधिभेदे स्यान्नृपतौ पृथिवीपतिः ।भूपाले मन्त्रिणि क्षत्रे मूर्धाभिषिक्त इत्यपि ॥अम्भोनिधौ च वरुणे स्यात्पुमान् यादसांपतिः ।रागभेदपिकाम्रेषु वसन्तदूत इत्यपि ॥पाटलीमाधवीवल्ल्योर्वसन्तदूत्यपि स्त्रियाम् ।
7.16.178 · p. 226
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 भि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)
चित्रकण्ठे तित्तिरौ स्यादर्द्धपारावतः पुमान् ॥
7.16.179 · p. 226
metre not recognised
समुद्रनवनीतन्तु सुधायां स्यात्सुधाकरे ॥
7.16.180 · p. 226