कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मार्जनीय

mārjanīya

In 1 kośa: 0 synonym verses, 1 as a nānārtha head word.

शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.57 · p. 263
आश्रये सदसि स्थाने प्रसिद्धे च प्रतिश्रयः ।हुताशने विष्णुशङ्खे पाञ्चजन्यः समीरितः ॥पुंसा कृते तद्विकारे पौरुषेयो भवेत्त्रिषु ।पुंसि बृन्दे वधे चापि पुरुषस्य पदान्तरे ॥प्रावृज्जे त्रिषु नीपे ना प्रावृषेण्यो निगद्यते ।लाभे सुरालये हर्षे भवेत्पुंसि फलोदयः ॥परमात्मनि तीर्थे च विहारे च महालयः ।अपवर्गे चाधिपत्ये कान्यकुब्जे महोदयः ॥शुद्धौ तु कायशोधे स्यान्मार्जनीयो भवेत्पुमान् ।बलरामे बुधे पुंसि रौहिणेयो भवेदिवृ ॥कर्कटे मूषिके सर्गे पुंलिङ्गे स्याद्विलेशयः ।युद्धेऽप्यायदुत्तरे स्यात्सम्परायः पुमानयम् ॥पशुपक्षियुधि द्यूते चाह्वाने च समाह्वयः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)