शुद्धि
śuddhiस्त्री · fem.In 8 kośas: 1 synonym verse, 4 as a nānārtha head word, 18 as a meaning of another word.
प्रोक्षण्यासादनं दैष्टं पत्नीसन्नहनं स्पशा ।स्रुचां सम्मार्जनं शुद्धिः स्रुगासादनमाहतिः ॥ ८९ ॥
अनुष्टुप्
genderस्त्रीfem.
शुषते चाथ नेः स्नातिः पुणतिश्चापि कौशले ।अपतस्तु मृतस्नानेऽप्यथ धावति धावते ॥ ९८ ॥
अनुष्टुप्
doubtful
मार्ष्टि नेनेक्ति नेनिक्ते स्यान्मार्जयति मार्जति ।स्यान्मुण्डते शुध्यति च शुन्धयत्यपि शुन्धति[203a] ॥ ९९ ॥
अनुष्टुप्
doubtful
अपाद्ध्रासे व्यये शुद्धौ परिच्छेदे निरो मतौ ।उपात्समृद्धौ लेपे च समाधाने प्रतस्तु तौ ॥ ७७ ॥
अनुष्टुप्
meanings
शुद्धि as a meaning in nānārtha verses
- धरणिकोश दानदानं हस्तिमदे दत्ते छेदरक्षणशुद्धिषु । हनुः स्त्रियां कपोलाधो हनुर्हट्टविलासिनी ॥ Dharaṇikośa 19.2.5
- धरणिकोश इज्यात्रयी त्रये त्रिवेद्यां च इज्या यजनशुद्धयोः । माया स्याच्छाम्बरी बुद्धिर्विशल्येऽशल्यदन्तिके ॥ Dharaṇikośa 25.1.10
- धरणिकोश व्यवायआदित्यौ सुरमार्तण्डौ भ्रातृव्यौ भ्रातृजद्विषौ । व्यवायः सुरते शुद्धौ हृदयं चित्तवक्षसोः ॥ Dharaṇikośa 25.1.13
- कोषकल्पतरु मर्जूमन्थे प्रहस्ते च खजाऽथ पिञ्जो वधे **ण्यां च गुणैः प्रदिष्टः । खर्जूः स्त्री खर्जूरे कण्ड्वां कीटेऽथ मर्जूः स्त्री । रजके शुद्धौ सर्जू रुद्रे स्वर्गे च वाणिजे तडिति ॥ ३० ॥ Koṣakalpataru 6.7.30
- कोषकल्पतरु धावनमृत्यावथो धावनमस्ति शुद्धौ त्वरागतौ योषिति कण्टकायाम् । स्यात्पावनं पाथसि किं च कृच्छ्रे * पावके व्यासगतं तथैव ॥ ४० ॥ Koṣakalpataru 6.21.40
- कोषकल्पतरु मार्जन[16b] स्याद्वर्जनं हिंसनदानवाचि स्यान्मार्जनं शुद्धिषु लोचने न (?) स्यात्सज्जनं सैन्यकगुल्मवाचि साधौ त्रये योषिति कल्पनायाम् ॥ ६० ॥ Koṣakalpataru 6.21.60
- नानार्थार्णवसंक्षेप मर्जूवैजयन्त्यामिदं प्रोक्तं दधिमण्डे तु तन्नपि । मर्जूः सम्मार्जनीशुद्ध्योर्नदीतीरे परः पुनः ॥ ९६६ ॥ Nānārthārṇavasaṃkṣepa 2.5.966
- नानार्थार्णवसंक्षेप शुद्धआकर्णितादवधृते क्लीबं शुद्धस्तु ना रवौ । त्रि तु पूते केवले च क्ली तु शुद्धौ जले त्रि तु ॥ १३९१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1391
- परमानन्दीयनाममाला दानदानं हस्तिमदे शुद्धौ रक्षणे च विसर्जने । दरो गर्ते भये देवः सुरराजजिगीषुषु ॥ २३९ ॥ Paramānandīyanāmamālā 5.16.239
- शब्दरत्नावली मर्ज्जभुजं द्वयोः करे वाहौ प्रजा सन्ततिलोकयोः । मर्ज्जः स्त्रियान्तु श्रुद्धौ ना रजके पीठमर्दके ॥ Śabdaratnāvalī 7.8.13
- शब्दरत्नावली श्रद्धास्यात्समृद्धावभ्युदये हर्षे कलेऽपि च स्त्रियाम् । श्रद्धा स्यादरे शुद्धौ आकाङ्क्षायामपि स्त्रियाम् । श्राद्धं हव्यकव्यविधौ क्लीबं श्रद्धान्विते त्रिषु । शुद्धं पवित्रे निर्दोषे केवले निर्मले त्रिषु ॥ Śabdaratnāvalī 7.19.15
- शब्दरत्नावली दानज्योत्स्नी पटोलिकायान्तु ज्योत्स्नायुतनिशि स्त्रियाम् । तनुर्देहे त्वचि स्त्री स्यात्त्रिष्वल्पे विरले कृशे । दानं त्यागे हस्तिमदे च्छेदपालनशुद्धिषु ॥ Śabdaratnāvalī 7.20.10
- शब्दरत्नावली धावनतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
- शब्दरत्नावली मार्जनीयआश्रये सदसि स्थाने प्रसिद्धे च प्रतिश्रयः । हुताशने विष्णुशङ्खे पाञ्चजन्यः समीरितः ॥ पुंसा कृते तद्विकारे पौरुषेयो भवेत्त्रिषु । पुंसि बृन्दे वधे चापि पुरुषस्य पदान्तरे ॥ प्रावृज्जे त्रिषु नीपे ना प्रावृषेण्यो निगद्यते । लाभे सुरालये हर्षे भवेत्पुंसि फलोदयः ॥ परमात्मनि तीर्थे च विहारे च महालयः । अपवर्गे चाधिपत्ये कान्यकुब्जे महोदयः ॥ शुद्धौ तु कायशोधे स्यान्मार्जनीयो भवेत्पुमान् । बलरामे बुधे पुंसि रौहिणेयो भवेदिवृ ॥ कर्कटे मूषिके सर्गे पुंलिङ्गे स्याद्विलेशयः । युद्धेऽप्यायदुत्तरे स्यात्सम्परायः पुमानयम् ॥ पशुपक्षियुधि द्यूते चाह्वाने च समाह्वयः ॥ Śabdaratnāvalī 7.26.57
- शब्दरत्नावली पक्षप्लक्षोऽश्वत्थे गर्दभाण्डे जटीद्वीपविशेषयोः । पक्षः सहाये सुहृदि पार्श्वे मासार्द्धराजयोः ॥ विहगे वलये साध्ये विरोधे गृहशुद्धयोः । चुल्लीरन्ध्रे हस्तिपार्श्वे केशादिपरती व्रजे ॥ प्रेक्षा नृत्ये क्षणे वुद्धौ शिक्षायामपि च स्त्रियाम् । प्रैषः क्लेशे मर्दने च प्रेषणोन्मादयोरपि ॥ Śabdaratnāvalī 7.31.10
- शब्दरत्नावली अवअव व्याप्तावीषदर्थवियोगालम्भशुद्धिषु ॥ Śabdaratnāvalī 8.1.56
- शब्दरत्नाकर धावनधारणे मानभेदे च धरणं धरणी मही । धावनं गमने शुद्धौ स्थितौ विश्वे च धारणा ॥ २१०७ ॥ Śabdaratnākara 4.1.2107
- तन्त्राभिधान ततः पूतना हरिः(विः) शुद्धिः शक्ती शक्तिर्जटी ध्वजा । वामस्फिग्वामकट्यौ च कामिनी मध्यकर्णकः ॥ १०२ ॥ Tantrābhidhāna 2.33.102