वंशमात्रक
vaṃśamātrakaIn 1 kośa: 0 synonym verses, 1 as a meaning of another word.
वंशमात्रक as a meaning in nānārtha verses
- शब्दरत्नावली तेजनजननी स्त्री दयामात्रोर्जननं जन्मवंशयोः । जगन्नुस्तु पुमान् जन्तौ वीतिहोत्रे च कीर्त्त्यते ॥ जयनं स्याद्घोटकादिसन्नाहे च जयेऽपि च । जघनं योषितां श्रोणिपुरोभागे कटावपि ॥ ज्ञानी स्याद्गणके पुंसि ज्ञानयुक्तेऽभिधेयवत् । जीवनं वर्त्तने प्राणधारणे सलिलेऽपि च ॥ जीवनी स्यात्तु जीवन्त्यां जीवनापि च मोदके । तपनो भास्करेऽपि स्यान्नरकेऽरुस्करेऽपि च ॥ तलुनो मारुते यूनि युवत्यां तलुनी स्त्रियाम् । तलिनं तरलस्तोकस्वच्छेषु वाच्यलिङ्गकः ॥ तमोघ्नो विष्णुसूर्येन्दुबुद्धमहेशवह्निषु । त्यागी दातरि शूरे च विवेकिनि भवुत्पुमान् ॥ तेवनं केलिविपिने क्रीडायाञ्च नपुंसकम् । तेमनं व्यञ्जने क्लीबं तथार्द्रीकरणेऽपि च ॥ तेजनी तृणपूले स्यात्तेजनो वंशमात्रके ॥ Śabdaratnāvalī 7.20.56