कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

नानार्थवर्गप्रकाशः · नान्ताः (1/2)

इति धान्तवर्गः ॥

नकारः सुगति बन्धे नेता नीस्तरणो च नौः ।नुः स्तुतौ ना निषधे च नो भवेत्प्रतिषेधके ॥
7.20.1 · p. 234
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable); pāda 3, syllable 6 ष (wrong syllable)
अग्निश्चिताख्यकोषध्यां वीतिहोत्रे भवेत्पुमान् ।अन्नं भक्ते च भुक्ते स्यादिनः सूर्ये नृपे प्रिये ।उन्नञ्च सुरते क्लिन्ने कृत्स्नं सर्वाम्बुकुक्षिषु ॥
7.20.2 · p. 234
अनुष्टुप्
धनं मध्यमनृत्ये स्यात्कांस्यतालादिवाद्यके ॥
7.20.3 · p. 234
घनं मध्यमनृत्ये स्यात्कांस्यतालादिवाद्यके ।पुंसि मुस्तामेघदार्ढ्यविस्तारमुद्गरेषु च ॥
7.20.4 · p. 234
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
त्रिषु सान्द्रे दृढे पूर्णे निबिडे सम्पुटेऽपि च ।चीनो व्रीहिमृगभिदोस्तन्तौ देशेंऽशुके पुमान् ॥
7.20.5 · p. 234
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 हि (wrong syllable)
छन्नन्तु निर्जने क्लीबं छादितेऽप्यभिधेयवत् ।छिन्ना स्त्रियां गुडूच्याञ्च तथा कृत्ते त्रिलिङ्गकम् ॥
7.20.6 · p. 234
अनुष्टुप्
जनो लोकान्तरे लोके महर्लोके च पामरे ।जनी वधे(?) तथोत्पत्तौ कान्तायामोषधिभिदि ॥
7.20.7 · p. 234
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 धि (wrong syllable)
जह्नुः पुंसि तु राजर्षिभेदे नारायणेऽपि च ।ज्यानिर्हानौ जीर्णतायां तटिन्यामपि च स्त्रियाम् ॥
7.20.8 · p. 234
अनुष्टुप्
जिनो बुद्धे जित्वरे च तथार्हति पुमानयम् ।ज्योत्स्ना ज्योत्स्नायुतनिशि ज्ञेया चन्द्रातपेऽपि च ॥
7.20.9 · p. 234
अनुष्टुप्
ज्योत्स्नी पटोलिकायान्तु ज्योत्स्नायुतनिशि स्त्रियाम् ।तनुर्देहे त्वचि स्त्री स्यात्त्रिष्वल्पे विरले कृशे ।दानं त्यागे हस्तिमदे च्छेदपालनशुद्धिषु ॥
7.20.10 · p. 234
अनुष्टुप्
दानु विक्रान्तदात्रोश्च दीना मूषिकयोषिति ।वाच्यवद्दुर्गते भीते द्युम्नञ्च बलवित्तयोः ॥
7.20.11 · p. 234
अनुष्टुप्
धनुर्ना राशिभेदे स्यात्पियालद्रुमचापयोः ।धनं वित्ते गोधने च स्नेहपात्रेऽपि न द्वयोः ॥
7.20.12 · p. 234
अनुष्टुप्
धानाः स्त्रियां भृष्टयवे धन्याकेऽभिनवाङ्कुरे ।धेना नद्यां नदे पुंसि न्यूनं गर्ह्योनयोरपि ।नग्नस्त्रिषु विवसने बन्दिक्षपणयोः पुमान् ॥
7.20.13 · p. 234
अनुष्टुप्metre not read in every line
पानं पीतौ भोजने च रक्षणे च नपुंसकम् ।भानुर्ना भास्करे रश्मौ भानुमत्यामपि स्त्रियाम् ॥भिन्नस्तु सङ्गतेऽन्यस्मिन् फुल्ले च दारिते त्रिषु ।मानं क्लीबे प्रमाणादौ मानश्चित्तोन्नतौ ग्रहे ॥
7.20.14 · p. 234
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
मुनिर्ना नारदादौ तु वङ्गसेनद्रुमे जिने ।मृत्स्ना मृत्सा तु काक्ष्यां स्त्री यानं स्याद्वाहने गतौ ।योनिर्द्वयोराकरे स्याद्भगे भूमौ च कारणे ॥
7.20.15 · p. 235
अनुष्टुप्metre not read in every line
रत्नं श्रेष्ठे मनोज्ञे च मणावपि नपुंसकम् ।रास्ना स्त्रियां भुजङ्गाक्ष्यामेलापर्ण्यौषधावपि ॥
7.20.16 · p. 235
अनुष्टुप्
लग्नं राश्युदये क्लीबं त्रिषु सक्ते च लज्जिते ।वस्नन्तु वेतने क्लीबं पुंसि चारद्रुमे भवेत् ॥
7.20.17 · p. 235
अनुष्टुप्
वनं नीरे निवासे स्यादालये विपिनेऽपि च ।वह्निः स्याच्चित्रकौषद्यां भवेद्वैश्वानरे पुमान् ॥
7.20.18 · p. 235
अनुष्टुप्
वानं शुष्के शुष्कफले स्यूतिकर्मकरे गतौ ।शानस्त्वजगरे मूर्खे श्येनः पाण्डौपतत्रिणि ॥
7.20.19 · p. 235
अनुष्टुप्
स्वप्नस्तु शयने सुप्तविज्ञाने दर्शने पुमान् ॥
7.20.20 · p. 235
सानुरस्त्री वने प्रस्थे वात्यामार्गाग्रकोविदे ॥
7.20.21 · p. 235
स्थानं तुल्येऽवकाशे च स्थितौ वृद्धिक्षयेतरे ।स्त्यानं घनत्वे जघने स्निग्धे चालस्यकेऽपि च ॥
7.20.22 · p. 235
अनुष्टुप्
स्नानं स्नानीयद्रव्ये स्याद् यजने च नपुंसकम् ।सूनञ्च प्रसवे पुष्पे सूनुः पुत्रेऽनुजार्कयोः ॥
7.20.23 · p. 235
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)
सूनापुत्र्यां वधस्थानगलशुण्डिकयोः स्त्रियाम् ।स्योनन्तु किरणे सूर्ये स्याना स्यादोषधिभिदि ॥
7.20.24 · p. 235
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 धि (wrong syllable)
हनुः कपोलावयवे द्वयोर्नृत्यपदेऽस्त्रियाम् ।स्त्रियां हट्टविलासिन्यां हीनं गर्ह्योनयोस्त्रिषु ॥
7.20.25 · p. 235
अनुष्टुप्
अयनं पथि चण्डांशोर्दक्षिणोदग्रगतो गतौ ।अञ्जना वानरीभेदे ज्येष्ठीदिग्गजयोः पुमान् ॥
7.20.26 · p. 235
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
क्लीबं रसाञ्जने चाक्तौ सौविरे कज्जलेऽपि च ।अवनं रक्षणे प्रीतौ अवनिः क्षितिरक्षयोः ॥
7.20.27 · p. 235
अनुष्टुप्
असनो वृक्षभेदे स्यादसनं क्षेपणेऽपि च ।अङ्गनाऽपि च कामिन्यां क्लीबं प्राङ्गनयानयोः ॥
7.20.28 · p. 235
अनुष्टुप्
अर्जुनः ककुभे पार्थे मातुरेकसुतेऽपि च ।कार्तवीर्ये मयूरे च कुक्कुभे ना सितेऽन्यवत् ॥
7.20.29 · p. 235
अनुष्टुप्
तृणे नेत्रगदे क्लीबं स्त्रियां स्यादर्जुनी गवि ।ऊषायामपि कुहन्यां बाहुदा सरिति क्वचित् ॥
7.20.30 · p. 235
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कु (wrong syllable)
अम्लानो वृक्षभेदे स्याद्वाच्चलिङ्गन्तनिर्मले ।अर्शोघ्नी तालमूल्यान्तु शूरणे तु पुमानयम् ॥
7.20.31 · p. 235
अनुष्टुप्
असिक्नी स्यादवृद्धात्तपुर-प्रेष्यासरिद्भिदोः ।अशनिश्चञ्चलायां स्यात्कुलिशेऽपि भवेद्द्वयोः ॥
7.20.32 · p. 236
अनुष्टुप्
अरत्निः पुंसि कफनौ स्यात्प्रकोष्ठकरेऽपि च ।अली मधुकरे पुंसि वृश्चिके च भवेत्पुमान् ॥
7.20.33 · p. 236
अनुष्टुप्
अर्थी च सेवके पुंसि याचके च विवादिनि ।अर्वा तु घोटके पुंसि कुत्सिते वाच्यलिङ्गकः ॥
7.20.34 · p. 236
अनुष्टुप्
आसनं स्याद्गजस्कन्धे पीठे यात्रानिवर्तने ।आजीनं वाजिभूषायां ग्रहणे च नपुंसकम् ।आत्मा स्वभावे मनसि प्रयत्ने च धृतावपि ॥
7.20.35 · p. 236
अनुष्टुप्
वुद्धौ ब्रह्मणि देहे च तनये च भवेत्पुमान् ।उत्तानं स्यादगम्भीरे ऊर्द्धास्यशयिते त्रिषु ॥
7.20.36 · p. 236
अनुष्टुप्
उत्थानं पौरुषे तन्त्रे पुस्तकोद्यमसंयुगे ।प्राङ्गनोद्यमहर्षेषु मलोत्सर्गेषु न द्वयोः ॥
7.20.37 · p. 236
अनुष्टुप्
उद्यानं स्यान्निःसरणप्रयोजनवनान्तरे ।उदानो वायुभिज्जठरावर्तनाभिपक्ष्मसु ॥
7.20.38 · p. 236
अनुष्टुप्metre not read in every line
उद्घानं क्लीबलिङ्गन्तु चूल्ल्यां वाच्यवदुद्गते ।ओदनोऽस्त्री तु भक्ते स्याद्वलायामोदनी स्त्रियाम् ।कमनः कामुकेऽशोके कामदेवाभिरूपयोः ॥
7.20.39 · p. 236
अनुष्टुप्
कठिनं निष्ठुरे स्तब्धे त्रिषु स्थाल्यां नपुंसकम् ।कठिनी खटिकायाञ्च कठिनासितगोलयोः ॥
7.20.40 · p. 236
अनुष्टुप्
क्रन्दनं रोदने ध्वानयुद्धसंरावयोरपि ।कल्पनं कर्तने क्लिप्तौ कल्पना हस्तिसज्जने ॥
7.20.41 · p. 236
अनुष्टुप्
कर्तनं न द्वयोश्छेदे स्त्रीणां सूत्रादिनिर्मितौ ।काञ्चनश्चम्पके नागकेशरे काञ्चनालके ॥
7.20.42 · p. 236
अनुष्टुप्
धुस्तूरे डुम्बुरे पुंसि हरिद्रायान्तु काञ्चनी ।काञ्चनं शातकुम्भे च स्यात्पद्मकेशरेऽपि च ॥
7.20.43 · p. 236
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्म (wrong syllable)
कामी पारावते चक्रवाके चटककामुके ।कानीनः कन्यकाजातसुते च व्यासकर्णयोः ॥
7.20.44 · p. 236
अनुष्टुप्
काकिनी मानदण्डे स्यात्पनपादे वराटके ॥
7.20.45 · p. 236
काननं धातृवक्त्रे स्याद्गेहे च विपिनेऽपि च ॥
7.20.46 · p. 236
नद्धानं(?) काचपात्रे स्यान्मृत्तिकाभाण्डभेदयोः ।कुहना दम्भचर्यायां स्यादीर्ष्यापथकल्पने ॥
7.20.47 · p. 236
अनुष्टुप्
कृती योगे पण्डिते स्यात्साधौ पुण्यरतेऽपि च ॥
7.20.48 · p. 236
केतनं गृहकेतौ स्यात्कृत्ये स्थाने निमन्त्रणे ।केशी दैत्ये पुमांश्चोरपुष्प्यां स्त्रीतद्वति त्रिषु ॥
7.20.49 · p. 237
अनुष्टुप्
कौलिनन्तु कुलीनत्वे गुह्यजन्यकुकर्मसु ।पशुपक्षिभुजङ्गानां युद्धेऽपि च निगद्यते ॥
7.20.50 · p. 237
अनुष्टुप्
कौपीनं गुह्यदेशे स्याच्चीरे च मूर्खकर्मणि ।खलिनी तालपर्ण्याञ्च खलैवृन्देऽपि च स्त्रियाम् ॥
7.20.51 · p. 237
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
खञ्जनः खञ्जरीटे स्त्रीसर्षपे न द्वयोर्गतौ ।खड्गी खड्गमञ्जुघोषे पुमान् खड्गधरे त्रिषु ॥
7.20.52 · p. 237
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ड्ग (wrong syllable)
गर्ज्जनं कोपनिनदभर्त्सनोभुजनेषु(?) च ।गहनं गह्वरे दुःखे वने क्लीबं युते त्रिषु ॥
7.20.53 · p. 237
अनुष्टुप्
गञ्जनन्तु भवेद्धिंसासूचनोत्साहदीप्तिषु ।ग्रामीनः शुनि काके ना स्याद्ग्रामसंस्कृते त्रिषु ॥
7.20.54 · p. 237
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
ग्रावा स्यात्पुंसि पाषाणे दृढे पृथ्वीधरेऽपि च ।गृञ्जनो ना रसोने स्त्री निषाक्तपशुमांसके ॥गोस्तनो ना हारभेदे द्राक्षायां स्त्री च गोस्तनी ।गोमी पुंसि जम्बुके स्याद्गोमत्युपासके त्रिषु ॥चलनं भ्रमणे कम्पे क्लीबं कम्पयुते त्रिषु ।चलनी वस्त्रविधिन्यां वारीभेदे च कुत्रचित् ॥चक्री काककुलालाजग्रामजालिकसूचके ।सर्पे तैलिकभेदे स्याद्वासुदेवे च पुंस्ययम् ॥चर्मी भृङ्गरिटौ भूर्जे मोचाफलकहस्तयोः ।चर्म क्लीबन्तु फलके कृत्तौ त्वचि तु कुत्रचित् ॥चेतनो वाच्यवत् प्राणयुक्ते च संविदि स्त्रियाम् ।छर्दनं वमने क्लीबं पुंसि निम्बेऽप्यलम्बुषे ॥छदनं चलने पक्षे पिधानेऽपि नपुंसकम् ।छेदनन्तु द्विधा कार्ये कर्त्रनेऽपि च न द्वयोः ॥जवनस्तु रये वेगिहये वेगवति त्रिषु ॥
7.20.55 · p. 237
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 सि (wrong syllable); pāda 4, syllable 3 त्यु (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
जननी स्त्री दयामात्रोर्जननं जन्मवंशयोः ।जगन्नुस्तु पुमान् जन्तौ वीतिहोत्रे च कीर्त्त्यते ॥जयनं स्याद्घोटकादिसन्नाहे च जयेऽपि च ।जघनं योषितां श्रोणिपुरोभागे कटावपि ॥ज्ञानी स्याद्गणके पुंसि ज्ञानयुक्तेऽभिधेयवत् ।जीवनं वर्त्तने प्राणधारणे सलिलेऽपि च ॥जीवनी स्यात्तु जीवन्त्यां जीवनापि च मोदके ।तपनो भास्करेऽपि स्यान्नरकेऽरुस्करेऽपि च ॥तलुनो मारुते यूनि युवत्यां तलुनी स्त्रियाम् ।तलिनं तरलस्तोकस्वच्छेषु वाच्यलिङ्गकः ॥तमोघ्नो विष्णुसूर्येन्दुबुद्धमहेशवह्निषु ।त्यागी दातरि शूरे च विवेकिनि भवुत्पुमान् ॥तेवनं केलिविपिने क्रीडायाञ्च नपुंसकम् ।तेमनं व्यञ्जने क्लीबं तथार्द्रीकरणेऽपि च ॥तेजनी तृणपूले स्यात्तेजनो वंशमात्रके ॥
7.20.56 · p. 237
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः ।दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् ।दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च ।दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः ।अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ध्वजी रथे च भूदेवे भये सर्पे धराधरे ।धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके ।धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् ।धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः ।नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥नन्दी हरद्वारपाले कन्दवाले वटद्रुमे ।नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे ।अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥निदानं वत्सदामादिकारणे क्षयकारणे ।निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् ।स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु ।एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे ।प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् ।पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः ।स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु ।पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥
7.20.57 · p. 238
metre not recognisednearly अनुष्टुप्nearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)nearly अनुष्टुप्: pāda 4, syllable 3 न (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 ल्क (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
तोदन=व्यथनतोत्रदंशन=वर्मन्दंशदर्शन=दर्पणशास्त्रनयनस्वप्नबुद्धिदमन=कुसुमवीरउपशान्तदशन=शिखरदन्तकवचदहन=दुष्टचेष्टअग्निभल्लातचित्रकदृशान=तेजस्विरोचनदेवन=जिगीषाक्रीडाव्यवहारअक्षदेवना=सेवाध्वजिन्=रथभूदेवभयसर्पधराधरधन्विन्=ककुभवृक्षअर्जुनधनुर्धरधन्वन्=स्थलचापमरुदेशकधमन=नालभेदभस्त्राध्मापकक्रूरधमनी=शिराहट्टविलासिनीधावन=गतिशुद्धिधावनी=पृश्नीपर्णीधामन्=गेहतनुरश्मिस्थानप्रभावजन्मन्नन्दन=वासवोद्यानआत्मजहर्षनन्दिन्=हरद्वारपालकन्दवालवटद्रुमनन्दिनी=उमाधेनुभेदगङ्गाननान्दृनलिनी=आकाशगङ्गाकमलाकरनलिन=अम्भोरुहनीलिकानिदान=वत्सदामन्आदिकारणक्षयकारणनिधन=नाशकुलप्रधन=युध्दारुणपवन=कुम्भकारपाकस्थानजगत्प्राणनिष्पावप्रयतप्रधान=प्रकृतिप्रज्ञामहामात्यपरात्मन्एकत्वउत्तमपद्मिनी=स्त्रीविशेषपद्मसङ्घसरस्अम्बुजप्रसन्ना=सुराप्रसन्न=सन्तुष्टअमलप्रसून=पुष्पफलजातपत्रिन्=पत्ररथश्येनत्रिकाण्डरथिकपर्वन्=उत्सवग्रन्थिप्रस्तावचिह्नभेददर्शप्रतिपत्सन्धिविषुवत्प्रभृतिपक्षसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमन्
पावनं सलिले कृच्छे व्यासपावकयोः पुमान् ।पाचनं दशमूल्यादौ प्रायश्चित्ते पुमानशुचौ ॥
7.20.58 · p. 239
अनुष्टुप्
पाचनी तु हरीतक्यां पाककारिणि वाच्यवत् ।पिशुनो नारदे काके पुंसि क्लीबन्तु कुङ्कुमे ॥
7.20.59 · p. 239
अनुष्टुप्
पृक्कायां पिशुना स्त्री स्यात्क्रूरसूचकयोस्त्रिषु ।पीतनं हरिताले च पीतदारुणि कुङ्कुमे ॥
7.20.60 · p. 239
अनुष्टुप्
क्लीबलिङ्गं पुमानयं भवेदाम्रातके मतः ।पूतना दानवीपथ्यारोगभेदेषु च स्त्रियाम् ॥पृतना तु स्त्रियां सेनामात्रे सेनाविशेषके ।प्रेमाऽस्त्री नर्मणि स्नेहे प्रेमा ना रतिशक्रयोः ॥
7.20.61 · p. 239
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 न (wrong syllable)
फलिन्यग्निशिखायान्तु फल्यां स्त्री तद्वति त्रिषु ।फाल्गुणोऽर्जुनवृक्षे च गुडाकेशनदीजयोः ॥मासभेदे पुमानेव पौर्णमास्यान्तु फाल्गुनी ।ब्रह्मा प्रजापतौ ऋत्विग्योगभेदद्विजेषु ना ॥ब्रह्म तत्त्वे च वेदे च तपस्यपि च न द्वयोः ।वन्धनी वटिजीवातु नङिमाठनकर्मसु (?) ॥बन्धनञ्च वधे बन्धे हिंसायाञ्च नपुंसकम् ॥
7.20.62 · p. 239
अनुष्टुप्
वाहिनी तु भवेन्नद्यां शैलसेनाविशेषयोः ॥
7.20.63 · p. 239
बालिनी नासिकामत्ताविदग्धावनितासु च ॥
7.20.64 · p. 239
बुधानो गीष्पतौ विज्ञवृद्धभेदे भवेत्पुमान् ।बोधनी बोधपिप्पल्योर्बोधनं गन्धदीपने ॥भण्डनञ्च खलीकारे न द्वयोर्युद्धवर्मणोः ।भट्टिनी द्विजकान्तायां नाट्टोक्तौ नृपयोषिति ॥भवनं भावगृहयोर्भाजनं पात्रयोग्ययोः ॥
7.20.65 · p. 239
अनुष्टुप्
भावना स्यान्न ना ध्यानपर्यालोचाधिवासने ।भुवनं गगणे नीरे पिष्टपे च जनेऽपि च ॥
7.20.66 · p. 239
अनुष्टुप्
भोगी पुंसि भुजङ्गे स्याद् ग्रामपात्रे महीपतौ ।महिषी व्यतिरिक्तायां राजयोषिति भोगिनी ॥मदनः कामधुस्तूरवसन्तद्रुमसिकथके ।मलनं मर्दने क्लीबं पटवासे भवेत्पुमान् ॥मलिनं दूषिते कृष्णे ऋतुमत्यां मलिन्यपि ॥
7.20.67 · p. 240
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 सिक (syllable split)
मार्जनो लोध्रवृक्षे स्यात्क्लीबं मार्ष्टौ तु मार्जनम् ।मानिनी तु स्त्रियां फल्यां मानी मानवति त्रिषु ॥मैथुनं सङ्गते क्लीबं सुरते च नपुंसकम् ।यमनो ना यमे क्लीबं बन्धे चोपरतावपि ॥यवनो जातिभिद्देशभिदोर्वेगाश्वयोरपि ।यवन्योषधिभेदे स्त्री वेगिनि त्वभिधेयवत् ॥यापनं स्यान्निरसने कालक्षेपे च वर्त्तने ।युवा श्रेष्ठे च तरुणे निसर्गबलसंयुते ॥योजनं स्याच्चतुष्क्रोश्यां योगमाने परात्मनि ।रसनं स्वादने शब्दे स्याद्रास्नाजिह्वयोः स्त्रियाम् ॥
7.20.68 · p. 240
अनुष्टुप्
रञ्जनो रागजनने रञ्जनं रक्तचन्दने ।नीलीरोचनिकाशुण्डामञ्जिष्ठासु च रञ्जिनी ॥रजनी रात्रिजतुकाहरिद्रानीलिनीषु च ।राधना तोषणे स्त्री स्यात्क्लीबं प्राप्तौ च साधने ॥राजा नृपे प्रभौ चन्द्रे क्षत्रिये च पुमानयम् ।रेचनी कर्कश-दन्ती-रोचनी-त्रिवृतासु च ॥
7.20.69 · p. 240
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 श (wrong syllable)
रोचना स्त्री तु गोपित्ते रक्तकह्लारयोषितोः ।रोचनः कूटशाल्मल्यां पुंसि स्याद्रोचके त्रिषु ॥रोही वटद्रुमेऽश्वत्थे तया रोहितके पुमान् ।लङ्घनं क्रमणे चोपवासे प्लवनेऽपि च ॥ललना स्त्री शिवाभेदरसनाकामिनीषु च ।लेखनन्तु लिपिन्यासे भूर्जे च छर्दनेऽपि च ॥वर्जनं हिंसने दाने तथा त्यागविशेषके ।वपनं मुण्डने क्लीबं वीजाधानेऽपि तत्स्मृतम् ॥
7.20.70 · p. 240
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वसनं छादने वस्त्रे निवासे चापि कुत्रचित् ।वर्द्धनं वृद्धिषुच्छेदे खय्यान्तु वर्द्धनी स्त्रियाम् ॥व्यञ्जनं स्याद्धिने चिह्ने श्मश्रुण्यवयवेऽपि च ।व्यसनन्तु विपत्तौ स्यात्पापे च निष्फलोद्यमे ॥पानस्त्रीमृगयासङ्गाशुभदैवादिभूषने (?) ।वर्त्तनं वर्त्तने पुंसि ह्रस्वे स्त्री पथि पेषणे ॥
7.20.71 · p. 240
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्तु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
स्त्रीपुंसयोस्तूलनाले जीवने तर्कुपीठके ।वर्त्तिष्णौ च त्रिषु क्लीबं स्यात्साधारणवर्तुले ॥
7.20.72 · p. 241
अनुष्टुप्
वज्री बुद्धे देवराजे वचक्नुर्वत्कृविप्रयोः ।वर्णी चित्रकरे ब्रह्मचारिणि स्यात्तुलेखके ॥
7.20.73 · p. 241
अनुष्टुप्
वर्ष्म देहे प्रमाणेऽतिसुन्दरेऽपि च न द्वयोः ।वाजी पक्षिशराश्वेषु वर्त्म नेत्रच्छदाध्वनोः ॥वामनो दिग्गजे विष्णौ तथाङ्कोठद्रुमे पुमान् ।अस्त्री रोगप्रभेदेऽपि त्रिषु स्यान्नीचखर्वयोः ॥
7.20.74 · p. 241
अनुष्टुप्
वासनं वसने वारिधान्यां धूपनवासयोः ।क्लीबं स्त्रियान्तु प्रत्याशाज्ञानयोरपि वासना ॥
7.20.75 · p. 241
अनुष्टुप्
वितुन्नं शैवले क्लीबं सुनिषण्णेऽपि च नद्वयोः ।विमानोऽस्त्री व्योमयाने यानमात्रतुरङ्गयोः ॥
7.20.76 · p. 241
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 1 सुनि (syllable split)
सार्वभौमगृहेऽपि स्यादहङ्कारपरे त्रिषु ।वितानोऽस्त्री तु विस्तारचन्द्रातपमखेषु च ॥
7.20.77 · p. 241
अनुष्टुप्
क्लीबन्तु वृत्तिभेदे स्यात्त्रिलिङ्गस्तुच्छमन्दयोः ।विक्लिन्नन्तु जराजीर्णे आर्द्रे शीर्णे च वाच्यवत् ॥
7.20.78 · p. 241
अनुष्टुप्
विपन्नो भुजगे पुंसि विपदाक्रान्तके त्रिषु ।विच्छिन्नन्तु समालब्धे विभक्तेऽपि च वाच्यवत् ॥विलग्नं लग्नमात्रे स्यात्त्रिषु मध्ये तु न स्त्रियाम् ।विषघ्नी त्रिवृतायां स्त्री गुडुच्यां ना शिरीषके ॥व्युत्थानं नृत्यभेदे स्याद्विरोधाचरणेऽपि च ।वृजिनं किल्विषे क्लीबं कचे ना कुटिले त्रिषु ॥
7.20.79 · p. 241
अनुष्टुप्
वृषा कर्णेन्द्रयोः पुंसि वेदना ज्ञानदुःखयोः ।वेष्टनं कर्णशष्कुल्यामुष्णीषे मुकुटे वृतौ ॥
7.20.80 · p. 241
अनुष्टुप्
शकुनिः स्यात्करणभिद् विहङ्गदैत्यभित्सु च ।शिल्पी कारौ वाच्यलिङ्गः शिल्पिन्योषधिभिद्यपि ॥
7.20.81 · p. 241
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)
शृङ्गी शृङ्गयुते वृक्षे पर्वते द्विरदे पुमान् ।शयनं सुरते शय्यानिद्रयोश्च नपुंसकम् ॥
7.20.82 · p. 241
अनुष्टुप्
श्वसनं स्याद्गन्धवाहे श्वसिते मदनद्रुमे ।शकुनः पक्षिमात्रे स्यात्पक्षिभिच्छुमसंशिवोः ॥
7.20.83 · p. 241
अनुष्टुप्
शङ्खिनी श्वेतचक्रायां चोरपुष्प्यां वधूभिदि ।शङ्खी शङ्खयुते विष्णौ शाङ्खिके सरिताम्पतौ ॥
7.20.84 · p. 241
अनुष्टुप्
शतघ्नी शस्त्रभेदे स्याद्वृश्चिकाल्यां करञ्जके ।शासनं लेखशास्त्राज्ञाराजदण्डाङ्कशास्त्रेषु ॥
7.20.85 · p. 241
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 स्त्रे (wrong syllable)
शिखी वह्णिवलीवर्द-शर-केतुग्रहेषु च ।मयूरे कुक्कुटे वृक्षे पुमान् शिखावति त्रिषु ॥
7.20.86 · p. 242
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 शि (wrong syllable)
श्लैषघ्नी मल्लिकाज्योतिष्मत्योस्त्रिकटुके स्त्रियाम् ।शोभनः स्याद्योगभेदे स्यात्पुमान् सुन्दरे त्रिषु ॥
7.20.87 · p. 242
अनुष्टुप्
सवनन्तु मखे स्नाने सोमनिर्दलनेऽपि च ।स्तननं शब्दमात्रे स्याद्घनशब्दे च कुन्दुने(?) ॥
7.20.88 · p. 242
अनुष्टुप्
समानो नाभिवायौ ना सत्समैकेषु च त्रिषु ॥
7.20.89 · p. 242
सन्तानो गोत्रसन्तत्योरपत्ये च सुरद्रुमे ।स्पर्शनं पवने पुंसि क्लीबं स्यात्स्पर्शदानयोः ॥
7.20.90 · p. 242
अनुष्टुप्
संस्थानं मरणाकृत्योः सन्निवेशे चतुष्पथे ।स्पन्दनं क्षरणे नीरे रथेऽस्त्री तिनिशे पुमान् ॥
7.20.91 · p. 242
अनुष्टुप्
सज्जनं क्लीबलिङ्गं स्यादुपरक्षणघट्टयोः ।कुलीने वाच्यलिङ्गं स्यात्कल्पनायामपि स्त्रियाम् ॥
7.20.92 · p. 242
अनुष्टुप्
सन्धानं स्यात्संघट्टनेऽभिषवेऽपि च न द्वयोः ।सम्पन्नं साधिते क्लीबं सम्पत्तिसहितेऽन्यवत् ।सन्धिन्यकालदुग्धासु वृषाक्रान्तासु गोषु च ॥
7.20.93 · p. 242
अनुष्टुप्metre not read in every line
सद्म स्यात्सलिले गेहे संव्यानंदादनेंऽशुके ।सादी गजरथश्वादिसमारोहेषु पुंस्ययम् ॥
7.20.94 · p. 242
अनुष्टुप्
स्वामी पुमान् कार्त्तिकेये प्रभौ विष्णौ हरे हरौ ।स्थापन्योषधिभेदे स्त्री क्लीबं सवनरोपणे ॥
7.20.95 · p. 242
अनुष्टुप्
सावनः क्रतुकर्मान्ते यजमाने प्रचेतसि ।साधनं दापने सैन्ये शिश्ने च गमने धने ॥तथा निर्वर्त्तनोपायमृतसंस्कारयोरपि ।समे वेदान्तरोपायभेदयोरपि न द्वयोः(?) ॥
7.20.96 · p. 242
अनुष्टुप्
सीमा तु कोषमर्यादास्थितिक्षेत्रेषु च स्त्रियाम् ।सूचनाभिनये दृष्टौ गन्धने व्यधनेऽपि च ॥
7.20.97 · p. 242
अनुष्टुप्
सेचनं तरणीसेकभाजने सेकरक्षयोः ।सेनानी कार्त्तिकेये स्यात्पुमान् सेनापतावपि ।हली कर्षके रामे च सेवनं सीवनार्चयोः ॥
7.20.98 · p. 242
अनुष्टुप्metre not read in every line
हस्तिनी हस्तिकामिन्यां योषिज्जातिभिदि स्त्रियाम् ।हसन्यङ्गारधान्यां स्त्री हासे हसनमित्यपि ।हायनोऽस्त्री वत्सरे ना वहयर्चिर्व्रीहिभेदयोः ॥
7.20.99 · p. 242
अनुष्टुप्metre not read in every line
हिण्डनं सुरते भान्तौ ह्रादिनी वज्रविद्युतोः ।
7.20.100 · p. 242
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable)
अवलम्बो(?) नयमात्रे त्रिषु मध्येऽपि च त्रियाम् ॥
7.20.101 · p. 243
अनुष्टुप्metre not read in every line
अनूचानः साङ्गवेदविदुषि स्याद्विनीतके ।अभिपन्नोऽपराद्धेऽभिद्रुते ग्रस्ते निपद्गते ॥अवदानं खण्डनाभिवृत्तकर्मावदातृषु ।अभिमानी ज्ञानहिंसाप्रणयार्थादिदर्पके ॥अनीकिनी च सेनानां सेनाभेदेऽपि च स्त्रियाम् ॥
7.20.102 · p. 243
अनुष्टुप्
अधिष्ठानं प्रभावेऽध्यासने चक्रे पुरेऽपि च ।अन्वासनञ्चकारार्थशोचनस्नेहवस्तिषु ।अर्यमा भास्करे पुंसि पितृदेवात्तरेऽपि च ॥
7.20.103 · p. 243
अनुष्टुप्
अथर्वनो द्वयोर्वेदे भूमिदेवे च पुंस्यपि ।अभिजनं कुले ख्यातौ जन्मभूमौ कुलध्वजे ॥आयोधनं क्लीबलिङ्गं भवेद्युद्धे वधेऽपि च ।भवेदाकलनं काङ्क्षा परिसंख्यानबन्धने ॥आतञ्चनं प्रतीवायाप्यायनजीवनेष्वपि ।आराधनं तोषणे स्यात्संप्राप्तो पचनेऽपि च ॥आच्छादनं पिधाने स्याद्वस्त्रेऽपि वृतिमात्रके ।आक्रन्दनं शोचने च तिरस्कारणे(?)पि च ॥आवेशनं शिल्पिगृहे भूतावेशप्रवेशयोः ॥
7.20.104 · p. 243
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ज (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 शो (syllables merged)
आत्मयोनिः शिवे कामे हरौ च परमेष्ठिनि ।उद्वर्त्तनमुत्पतने विलेपे घर्षणेऽपि च ॥उद्वाहनी भवेद्रज्वां द्विसीत्ये तु नपुंसकम् ।उपासनं शराभ्यासे सेवनासनयोरपि ॥कपीतनश्चलदले गर्दभाण्डे शिरीषके ।आम्रातके च पूगे च मालूरेऽपि च कुत्रचित् ॥कलापी स्यान्मयूरे च प्लक्षभूमिरुहे पुमान् ।क्षौमं(?) शुद्धार्द्धजरती विधवादुर्गयोः स्त्रियाम् ॥कुम्भयोनिर्वशिष्ठे स्याद् द्रोणेऽगस्त्ये पुमानयम् ।कुचन्दनं वृक्षभेदे कुङ्कुमे रक्तचन्दने ॥कुण्डली कुण्डलवति व्याले बर्हिप्रचेतसोः ।केशरी सिंहपुन्नागनागकेशरवाजिषु ॥
7.20.105 · p. 243
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)
क्रौञ्चादनं किञ्चुल्वकमृगालपिप्पलीषु च ।खड्गधेनुः खड्गपुत्री खड्गपत्न्योरपि स्त्रियाम् ॥
7.20.106 · p. 243
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 नं (syllables merged)
गवादनीन्द्रवारुण्यां गोघासग्रसनालये ।गदयित्नुः कामदेवे जल्पाके कामुके पुमान् ॥
7.20.107 · p. 243
अनुष्टुप्
घनाघनो मत्तगजे महेन्द्रवर्षुकाब्दयोः ।घोषयित्नुः पिके पुंसि भूमिदेवे च वन्दिनी ॥
7.20.108 · p. 244
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्द्र (wrong syllable)
चित्रभानुर्वीतिहोत्रभैरवे भास्करे पुमान् ।चोलकी नागरङ्गे ना करीरे किष्कुपर्वणि ॥जलाटनन्तु कङ्के स्याज्जलौकायां जलाटनी ।तपस्विनी जटामांसीरोहिन्योस्तापसु त्रिषु ॥
7.20.109 · p. 244
अनुष्टुप्
तपोधना तु मुण्डीर्यां तपसे तु तपोधनः ।द्विजन्मा भूमिदेवे ना दशने च विहङ्गमे ॥दुर्नामा दीर्घकौष्यां स्त्री दुर्णामक्लीबमर्शसि ।देवसेना शक्रपुत्री देवनासेनयोः स्त्रियाम् ॥नागाञ्जना तु हस्तिन्यां नागयष्ट्यामपि स्त्रियाम् ।क्लीबं निधुवनं कल्पे सुरते नर्मकेलिषु ॥निर्वासनं नगरादेर्बहिष्कारे च हिंसने ।निर्भत्सनमलक्ते च खलीकारे च न द्वयोः ॥
7.20.110 · p. 244
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
निर्यातनं वैरशुद्धिदानन्यासार्पणेषु च ॥
7.20.111 · p. 244
निशामनं क्लीबलिङ्गं दर्शनालोचनयोरपि ।भवेन्निगमनं दृष्टौ श्रुतौ विनशनेऽपि च ॥
7.20.112 · p. 244
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
भवेन्निरसनं क्षेपनिष्ठीवनवधेषु च ।भवेत्प्रजननं योनिगर्भग्रहणयोरपि ॥
7.20.113 · p. 244
अनुष्टुप्
पञ्चावनः शिवे सिंहे भवेदत्युग्रकेऽपि च ।प्रहसनं परिहासे प्रहासे रूपकान्तरे ॥
7.20.114 · p. 244
अनुष्टुप्metre not read in every line
प्रणिधानं समाधौ स्यात्प्रयत्ने च प्रवेशने ।प्रयोजनं कार्यहेत्वोः पलाशी राक्षसे द्रुमे ॥
7.20.115 · p. 244
अनुष्टुप्
भवेत्प्रवचनं वेदे प्रशस्तवचनेऽपि च ।प्रतिपन्नो वाच्यलिङ्गे ज्ञाताङ्गीकृतयोरपि ॥
7.20.116 · p. 244
अनुष्टुप्
प्रस्फाटनं ताडने स्यात्सूर्वेऽपि च विकाशने ।प्रतिमानं प्रतिच्छायादन्तिदन्तान्तरालयोः ॥प्रतियत्नस्तु लिप्सोपग्रहसंस्कारकर्मसु ।प्रत्यर्थी तु भवच्छत्रौ प्रतिवादिनि वाच्यवत् ॥
7.20.117 · p. 244
अनुष्टुप्
प्रसाधनी स्त्री कङ्कत्यां क्लीबन्तु सिद्धिवेशयोः ।पयस्विनी विभावर्य्यां धेनौ नद्यामपि स्त्रियाम् ॥पुण्यजनः सज्जने स्याद्यक्षराक्षसयोरपि ।पृण्यजनस्तु पुंसि स्यान्नीचे मूर्खे च पापिनि ॥फलकी मीनभेदे ना त्रिषु स्यात्फलकान्विते ।वार्वकी वे विचित्राश्वपर्ण्यजीवशरान्विषु (?) ॥भूतात्मा पुंसि भूतेशे देहे बुद्धे विधातरि ।महाधनं महामूल्यसुवर्णसिह्लकादिषु ॥महासेनः कुमारे स्यान्महासैन्यपतौ पुमान् ।मदयित्नुः स्मरे शौण्डे पुमान्मद्ये तु न द्वयोः ॥महामुनिः कुम्भयोनिबुद्धयोः क्लीबमोषधे ।मातुलानी तु भङ्गायां कलायं मातुलस्त्रियाम् ॥
7.20.118 · p. 244
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न्तु (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 3 ज (wrong syllable); pāda 3, syllable 3 ज (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 र्ण (wrong syllable)
मालुधानी लताभेदे सर्पभेदे भवेत्पुमान् ।मेधाविनी स्त्रियां लाक्ष्याशुके ना तद्वति त्रिषु ॥
7.20.119 · p. 245
अनुष्टुप्
रसायणः पुंसि तार्क्ष्यविडङ्गाख्यौषधिभिदोः ।क्लीबं विषजराव्याधिजिदोषध्यां रसप्रिये ।राजादनं पियालद्रुक्षीरिकाकिंशुकेषु च ॥
7.20.120 · p. 245
अनुष्टुप्metre not read in every line