कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Abhidhānacintāmaśiloñcha

अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha

240 verses · 714 words tagged · 104 marked doubtful (dashed)

देवाधिदेवकाण्डः

॥ श्रीः ॥

श्रीमज्जिनदेवमुनीश्वरविरचितः अभिधानचिन्तामणिशिलोञ्छः ।

अर्हं बीजं नमस्कृत्य गुरूणामुपदेशतः ।श्रीहैमनाममालायाः शिलोञ्छः क्रियते मया ॥ १ ॥सर्वीय इत्यपि जिने शम्भवे सम्भवोऽपि च ।
1.1 · p. 1
अनुष्टुप्
श्रीसुव्रते मुनिरपि नेमौ नेमीत्यपीक्ष्यते ॥ २ ॥
1.2 · p. 1
अनुष्टुप्
षष्ठे गणेशे मण्डितपुत्रोऽपि कथितो बुधैः ।
1.3 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
मरुदेव्यपि विज्ञेया युगादिजिनमातरि ॥ ३ ॥
1.3 · p. 1
अनुष्टुप्metre not read in every line
चक्रेश्वर्यामप्रतिचक्राऽप्यजिता च कविभिरजितबला ।
1.5 · p. 1
आर्या
श्यामा त्वच्युतदेव्यपि सुतारकोक्ता सुताराऽपि ॥ ४ ॥
1.4 · p. 1
आर्या
भद्रकृत् तीर्थकृद्भद्रः श्रमणः श्रवणोऽपि च ।
1.7 · p. 1
अनुष्टुप्
भद्रे भन्द्रमपि प्राहुः प्रशस्तमपि कोविदाः ॥ ५ ॥
1.5 · p. 1
अनुष्टुप्
प्रव्रजनं परिव्रज्या शिष्योऽन्तिषदपि स्मृतः ।इति प्रथमकाण्डस्य शिलोञ्छोऽयं समर्थितः ॥ ६ ॥
1.6 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ज (wrong syllable)