कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Abhidhānacintāmaśiloñcha

अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha

240 verses · 714 words tagged · 104 marked doubtful (dashed)

तिर्यक्काण्डः

रत्नवती भुवि दिवःपृथिव्यावपि रोदसी ।
4.1 · p. 4
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
माणिबन्धं माणिमन्तं सैन्धवे वसुके वसु ॥ ८३ ॥
4.83 · p. 4
metre not recognised
टङ्कनष्टङ्कण उपावर्तनं चापि नीवृति ।
4.3 · p. 4
अनुष्टुप्
जङ्गलः स्याज्जाङ्गलोऽपि मालवन्मालको मतः ॥ ८४ ॥
4.84 · p. 4
अनुष्टुप्
पत्तने पट्टनमपि कुण्डिने कुण्डिनापुरम् ।स्यात्कुण्डिनपुरमपि विपणौ पण्यवीथिका ॥ ८५ ॥
4.85 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)
सुरुङ्गायां सन्धिरपि गृहे धाममपि स्मृतम् ।
4.6 · p. 4
अनुष्टुप्
उपकार्योपकर्याऽपि प्रासादे च प्रसादनः ॥ ८६ ॥
4.86 · p. 4
अनुष्टुप्
शान्तीगृहं शान्तिगृहे प्राङ्गणं त्वङ्गणं मतम् ।
4.8 · p. 4
अनुष्टुप्
कपाटवत्कवाटोऽपि पक्षद्वारे खटक्किका ॥ ८७ ॥
4.87 · p. 4
अनुष्टुप्
कुशूलवत्कुसूलोऽपि समुद्गे तु पुटो मतः ।
4.10 · p. 4
अनुष्टुप्
पेटायां स्यात्पेटकोऽपि पेडाऽपि कृतिनां मते ॥ ८८ ॥
4.88 · p. 4
अनुष्टुप्
पवन्यपि समूहन्यामयोनिं मुसलं विदुः ।
4.12 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ट (wrong syllable)
कण्डोलके पिटकोऽपि चुल्ल्यामन्तीति कथ्यते ॥ ८९ ॥
4.89 · p. 4
अनुष्टुप्metre not read in every line
खजः खजाकोऽपि मथि विष्कम्भः कटकोऽस्य तु ।
4.14 · p. 4
अनुष्टुप्
अगोऽपि पर्वते कौञ्जः क्रोञ्चवन्मन्यते बुधैः ॥ ९० ॥
4.90 · p. 4
अनुष्टुप्
कक्खट्यपि खटिन्यां स्यात्ताम्रमौदुम्बरं विदुः ।
4.16 · p. 4
अनुष्टुप्
शातकौम्भमपि स्वर्णे पारदश्चपलोऽपि च ॥ ९१ ॥
4.91 · p. 4
अनुष्टुप्
रसजातं रसाग्र्यं च तुल्ये दार्वीरसोद्भवे ।
4.18 · p. 4
अनुष्टुप्
माक्षिके वैष्णवोऽपि स्याद्गोपित्तं हरितालवत् ॥ ९२ ॥
4.92 · p. 4
अनुष्टुप्
मनःशिलायां नैपाली शिला च सुधिया मता ।
4.20 · p. 4
अनुष्टुप्
शृङ्गारमपि सिन्दूरे कुरुविन्दे तु हिङ्गुलुः ॥ ९३ ॥
4.93 · p. 4
अनुष्टुप्
बोलो गोपरसोऽप्युक्तो रत्नं माणिक्यमित्यपि ।
4.22 · p. 4
अनुष्टुप्
पद्मरागे शोणरत्नं वैराट्टो राजपट्टवत् ॥ ९४ ॥
4.94 · p. 4
अनुष्टुप्
नीलमणौ महानीलं कबन्धमपि वारिणि ।
4.24 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
धूमिका धूममहिषी धूमरी मिहिका समाः ॥ ९५ ॥
4.95 · p. 4
अनुष्टुप्metre not read in every line
अकूवारोऽपि जलधौ मकरालय इत्यपि ।
4.26 · p. 4
अनुष्टुप्
निम्नगायां ह्रादिनी स्याज्जह्नुकन्याऽपि जाह्नवी ॥ ९६ ॥
4.96 · p. 4
अनुष्टुप्
कलिन्दपुत्री कालिन्दी रेवा मेकलकन्यका ।
4.28 · p. 4
अनुष्टुप्
चन्द्रभागा चन्द्रभागी गोमती गौतमीत्यपि ॥ ९७ ॥
4.97 · p. 4
अनुष्टुप्
चक्राण्यपि पुटभेदाः पङ्के चिक्खल्ल इत्यपि ।
4.30 · p. 4
metre not recognised
उद्घातनमुद्घाटनं घटीयन्त्रं प्रकीर्तितम् ॥ ९८ ॥
4.98 · p. 4
metre not recognised
सरस्तडाकस्तटाकोऽप्यथ तल्लश्च पल्वले ।
4.32 · p. 4
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 श (wrong syllable)
आशयाशशुष्मबर्हिर्बहिरुत्थदमूनसः ॥ ९९ ॥अग्नौ क्षणप्रभा विद्युद्गन्धवाहसदागती ।वायौ चरणपोऽपि द्रुस्त्वक्त्वचा स्तबके पुनः ॥ १०० ॥गुलुञ्छुलुम्बी माकन्दरसालावपि चूतवत् ।
4.33 · p. 4
metre not recognised
किङ्किराते कुरुण्टकुरुण्डकावपि स्मृतौ ॥ १०१ ॥
4.101 · p. 4
अनुष्टुप्metre not read in every line
कर्कन्धूरपि कर्कन्धौ ह्रस्वादिश्चाटरूषकः ।
4.35 · p. 4
अनुष्टुप्
वज्रे स्नुहिः स्नुहाऽपि स्यात्पियालोऽपि प्रियालवत् ॥ १०२ ॥
4.102 · p. 4
अनुष्टुप्
नार्यङ्गोऽपि च नारङ्गेऽक्षे विभेदक इत्यपि ।
4.37 · p. 4
अनुष्टुप्
भवेत्तमालस्तापिच्छो निर्गुण्ठी सिन्दुवारवत् ॥ १०३ ॥
4.103 · p. 4
अनुष्टुप्
जपा जवा मातुलिङ्गो मातुलुङ्गोऽपि कीर्तितः ।
4.39 · p. 4
अनुष्टुप्
धत्तूर इव धुत्तूरो वंशस्त्वक्सार इत्यपि ॥ १०४ ॥
4.104 · p. 4
अनुष्टुप्
ह्रीबेरं केशसलिलपर्यायैः स्मर्यते बुधैः ।
4.41 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 जि (wrong syllable)
पङ्कजिन्यां कमलिनी सरोजिनी कुमुद्वती ॥ १०५ ॥
4.105 · p. 4
अनुष्टुप्metre not read in every line
बिसप्रसूनं कमले कुमुत्कुमुदवन्मतम् ।
4.43 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
शेपालं च जलनीली सातीनोऽपि सतीनवत् ॥ १०६ ॥
4.106 · p. 4
अनुष्टुप्metre not read in every line
कुल्मासवत्कुल्माषोऽपि गवेधुका गवीधुका ।
4.45 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 धु (wrong syllable)
कणिशं कनिशं रिद्धे धान्ये त्वावासितं मतम् ॥ १०७ ॥
4.107 · p. 4
अनुष्टुप्metre not read in every line
हालाहलं तथा हालं मुस्तायां मुस्तकोऽपि च ।
4.47 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 पि (wrong syllable)
कृमिः क्रिमिरपि गण्डूपदः किञ्चुलुकोऽपि च ॥ १०८ ॥
4.108 · p. 4
अनुष्टुप्metre not read in every line
शम्बूका अपि शाम्बूका वृश्चिको द्रुत इत्यपि ।
4.49 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
भसलो मधुकरोऽली च पिक्को विक्कः करिः करी ॥ १०९ ॥
4.109 · p. 4
अनुष्टुप्metre not read in every line
व्यालो व्याडोऽपवाह्योऽप्यौपवाह्येऽपराऽवरा ।
4.51 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शृङ्खलो निगलोऽन्दूश्च कक्षा कक्ष्याऽपि वाल्हिके ॥ ११० ॥वाल्हीको वल्गवागे च खलिनं च खलीनवत् ।
4.52 · p. 4
अनुष्टुप्metre not read in every line
मयुरुष्ट्रे गोपतौ तु शण्ड इत्वर इत्यपि ॥ १११ ॥
4.111 · p. 4
अनुष्टुप्
स्थौरी स्थूर्यपि ककुदे ककुत्कुकुदमित्यपि ।
4.54 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्य (wrong syllable)
नैचिकं नैचिकी च स्यान्मलिनी बालगर्भिणी ॥ ११२ ॥
4.112 · p. 4
अनुष्टुप्metre not read in every line
पवित्रं गोमये छागे शुभोऽथ भषकः शुनिः ।
4.56 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
सरमा देवशुन्यां च यमरथोऽपि सैरिभे ॥ ११३ ॥
4.113 · p. 4
अनुष्टुप्metre not read in every line
पारिन्द्र इव पारिन्द्रः शरभेऽष्टापदोऽपि च ।
4.58 · p. 4
अनुष्टुप्
सृगालवच्छृगालोऽपि प्लवगः प्रवगोऽपि च ॥ ११४ ॥
4.114 · p. 4
अनुष्टुप्
वानायुरपि वातायुरुन्दरोऽपि च मूषके ।
4.60 · p. 4
अनुष्टुप्
ह्रीकुर्वनबिडालोऽपि गोकर्णोऽपि भुजङ्गमे ॥ ११५ ॥
4.115 · p. 4
अनुष्टुप्
जलव्यालेऽलीगर्दोऽपि शेषः स्यादेककुण्डलः ।
4.62 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ली (wrong syllable)
आशीराशी च दंष्ट्रायां निर्मोके निर्लयन्यपि ॥ ११६ ॥
4.116 · p. 5
अनुष्टुप्metre not read in every line
विहगे पतत्रिरपि पिच्छं पिञ्छमपि स्मृतम् ।
4.64 · p. 5
metre not recognised
परपुष्टान्यभृतौ च पिके बर्हिणि बर्हिणः ॥ ११७ ॥
4.117 · p. 5
metre not recognised
वायसे बलिपुष्टोऽपि द्रोणोऽपि द्रोणकाकवत् ।
4.66 · p. 5
अनुष्टुप्
सारस्यां लक्ष्मणी क्रौञ्च्यां क्रुञ्चा चाषे दिविः किकिः ॥ ११८ ॥किकिदीविरपि प्रोक्तष्टिट्टिभे टीटिभोऽपि च ।
4.67 · p. 5
अनुष्टुप्
कलविङ्के कुलिङ्गोऽपि दात्यूहे कालकण्ठकः ॥ ११९ ॥दात्योहोऽपि बलाका बकेरुका बिसकण्ठिका ।
4.68 · p. 5
अनुष्टुप्
मेधाव्यपि शुके तैलपायिकायां निशाटनी ॥ १२० ॥
4.120 · p. 5
अनुष्टुप्
कपोते पारावतोऽपि मत्स्ये मच्छोऽथ तन्तुणे ।स्मृतो वरुणपाशोऽपि नक्रे शङ्कुमुखोऽपि च ॥ १२१ ॥
4.121 · p. 5
अनुष्टुप्
उहारः कूर्म इत्येष तिर्यक्काण्डः शिलोञ्छितः ।
4.71 · p. 5