कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मुनि

muniपुं · masc.

In 29 kośas: 58 synonym verses, 9 as a nānārtha head word, 97 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.49 · p. 5
रक्तौ च पद्मप्रभवासुपूज्यौ शुक्लौ तु चन्द्रप्रभपुष्पदन्तौ ।कृष्णौ पुनर्नेमिमुनी विनीलौ श्रीमल्लिपार्श्वौ कनकत्विषोऽन्ये ॥ ४९ ॥
इन्द्रवज्रा
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.76 · p. 6
महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ।शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिः ॥ ७४ ॥महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् ।मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः ॥ ७५ ॥वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः ।निर्ग्रन्थो भिक्षुरस्य स्वं तपोयोगशमादयः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र देवकाण्डः Abhidhānacintāmaṇipariśiṣṭa 2.10 · p. 1
अगस्त्ये विन्ध्यकूटः स्याद्दक्षिणाशारतिर्मुनिः ॥ १६ ॥सत्याग्निर्वारुणिः क्वाथिस्तपनः कलसीसुतः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र मर्त्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 3.149 · p. 6
मुनयोऽस्त्रशेखरं च शराभ्यास उपासनम् ॥ १४९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर देवाधिदेवकाण्डः Abhidhānacintāmaśiloñcha 1.2 · p. 1
श्रीसुव्रते मुनिरपि नेमौ नेमीत्यपीक्ष्यते ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.15
सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः ।समन्तभद्रो भगवान् मारजिल्लोकजिज्जिनः ॥ १३ ॥षडभिज्ञो दशबलोऽद्वयवादी विनायकः ।मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः ॥ १४ ॥स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः ।गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.76
तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.344 · p. 41
तपस्वी संयतः शान्तो मुनिर्लिङ्गी यतिर्व्रती ।रजोहरणधारी च श्वेतवासाः सिताम्बरः ॥ ३४४ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.412 · p. 48
ऋषिस्त्रिकालदर्शी स्यान्मुनिर्वाचंयमो मतः ।प्राचेतसस्तु वाल्मीकिर्मैत्रावरुण उच्यते ॥ ४१२ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.232 · p. 87
अथ ब्रह्मजटायां तु सल्लज्जं दानवं जनम् ।पुण्डरीकं दवनकं कान्तं दान्तं मुनिर्मरुः ॥ २३२ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.236 · p. 87
मत्स्याक्ष्यां लोहमारः स्यात् अगस्ते मुनिरित्यपि ।क्रपुनाटे त्वेडगर्जकूर्पो मार्जारमोहिनी ॥ २३६ ॥
अनुष्टुप्
genderपुंmasc.
एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa · अज्ञात त्रिसंख्यावाचकाः शब्दाः Ekādisaṃkhyāsaṃjñākoṣa 3.5 · p. 200
भुवन-वलि-वह्नि-विद्या-सन्ध्या-गजजाति-शम्भुनेत्राणि ।त्रिशिरोमौलि-दशा-क्षेत्रपाल-फण-काल-मुनि-दण्डाः ॥ ५ ॥
आर्या
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.24 · p. 2
षष्ठसंज्ञा षड्रत्वं गरसा प्रोक्ता मनीषिभिः ।मुनिपर्वतशैलादि सप्ताचालनगा स्मृताः ॥ २४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष (wrong syllable)
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.25 · p. 2
संज्ञा हयाश्च तुरगा सप्तागमुनयोऽपि च ।अष्टानीं वसुनागेभहस्तीदन्त्यष्टकुञ्जराः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.27 · p. 10
पराशरात्मजः कृष्णद्वैपायन इतीर्यते ।अष्टकर्मपरिभ्रष्टः श्रीधनः सुगतो मुनिः ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.175 · p. 88
वाचंयमो मुनिरपि द्वयोरेव मुनी स्त्रियाम् ।स्यात्परिव्राजकश्चाथ शेते यः स्थण्डिले व्रतात् ॥ १७५ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.50 · p. 254
क्षुद्राम्रोऽपि च रक्ताम्रो लाक्षा वृक्षश्च रक्तकः ।बहुपूर्वस्तु मध्वाम्रः शीतलाम्रो मुनिश्च सः ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.144 · p. 264
कृष्णोऽविघ्नः कराम्लः स्यात्सुषेणो मुनिरित्यपि ।फलस्तीक्ष्णादि संयुक्तः फलान्तस्तबकादिकः ॥ १४४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.257 · p. 277
नारीष्टा गिरिजामल्ली चन्द्रिका मोदिनी मुनिः ।दमयन्ती सिताथान्या मदनी तु कुमारिका ॥ २५७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.283 · p. 280
कालानुसारकं राजहर्षणं पार्थिवं पुनः ।पिण्डीतगरकं क्षेत्रं दीनं जिह्वं मुनिस्तु ना ॥ २८३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव जिनप्रकाण्डः Kalpadrukośa 1.18.5 · p. 368
समन्तभद्रो भगवान् धर्मकालः सुभाषितः ।षडभिज्ञो दशबलो व्योमाभस्तीर्थकृन्मुनिः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव साधारणप्रकाण्डः Kalpadrukośa 2.1.15 · p. 371
ध्रुवो मिताशनः शक्तिः क्रीडनोऽन्यादृशो मुनिः ।एतादृगीदृक् शरभो धातुरूपो विराड्गयः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.11 · p. 440
अदितिश्च दितिश्चापि दनुः कालादनायुषा ।सिंहिका च मुनिः क्रोधा वरिष्ठा सुरभिर्वशा ॥ ११ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.125 · p. 475
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.49 · p. 12
द्वादशाक्षो दयाकूरर्च्चस्त्रिकायः श्रीघनाकयौ ।मुनिर्मुनीन्द्रः संगुप्तो धर्मधातुर्विनायकः ॥ ४९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.8 · p. 152
नागः श्रीवल्लभः स्वक्षो मेचकः खद्युरो मुनिः ।चन्दनोऽस्त्री मलयजं भद्रश्रीर्गन्धसारकः ।जाकुटश्च पटीरश्च श्रीखण्डो रोहिणद्रुमः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.6 · p. 160
दलामलो दमनको दान्तः स्यात्पाण्डुरागकः ।गन्धोत्कटं पुण्डरीकं मुनिर्ब्रह्मजटा तथा ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.1 · p. 242
नीवरो रक्तवसन - परिव्राजक - तापसाः ।साधन्तश्च भदन्तः स्यादथ वाचंयमो मुनिः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीपुंसलिङ्गाधिकारः Koṣakalpataru 4.4.26 · p. 110
genderपुंस्त्रीm. f.
एते नपुंसके भवन्ति । इदं शिल्पं कलादिकं कर्म । छर्दिर्वान्तिः । अन्नं भक्ष्यम् । शमलममेध्यम् । मरकतं रत्नम् । पलालं धान्यादीनाम् । कृच्छ्रं कष्टम् । मन्दिरं गृहम् । रिक्थं द्रव्यम् । मन्दुराशब्दं स्त्रियां जानीयात् । इयं मन्दुरा वाजिशाला ।कल्ककृमिमुन्यङ्गारवप्रग्रहहोमर्षियक्ष्मरेफाः ।मण्डकरण्डवरण्डाश्च पुंसि पथाम्बरीषौ च ॥ ८१ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 र (wrong syllable); pāda 3, syllable 5 न्या (wrong syllable)
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.251 · p. 137
द्रोणी क्लीतकिका ग्राम्या नीलकेशी महारसा ।दमने स्याद्ब्रह्मजटा मुनिर्दान्तर्षिपुत्रकौ ॥ २५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्ब्र (wrong syllable)
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.139 · p. 25
ऋषिस्त्रिकालदर्शः स्यान्मौनी वाचंयमी मुनिः ।तपनः कुम्भपुत्रः स्यादगस्त्यः पीतसागरः ॥ १३९ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 3 · p. 2
ऋषिर्मुनिर्यतिर्भिक्षुस्तापसः संशितो व्रती ।तपस्वी संयमी योगी वर्णी साधुश्च पातु वः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंस्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.4.116 · p. 225
आणिर्योनिर्मुनिः सिन्धुर्हनुर्मृत्युर्मनुः पुनः ।ऋष्टिः कर्कन्धुराखुस्त्ववटुः कन्दुरूरुस्तथा ॥ ११६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 रू (wrong syllable)
genderपुंस्त्रीm. f.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.170 · p. 12
पाटला कुम्भिका मोघा ताम्रपुष्पी जलस्थितिः ।मुनिद्रुमः शीघ्रपुष्पोऽगस्त्यो लम्बफलो मुनिः ॥ १७० ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त दिक्पालमरीचिः Pañcatattvaprakāśa 6.1.353 · p. 25
तथागतो दशबलो मायादेवीसुतो मुनिः ।नारदः पर्वतसखः सुरर्षिर्युद्धदर्यकः ॥ ३५३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण ब्राह्मणप्रकरणम् Śabdacandrikā 5.1.5 · p. 42
गृहमेधी गृहपतिः यजमानो गृहीति च ।ऋषिस्त्रिकालदर्शी स्यान्मौनी वाचंयमो मुनिः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.7 · p. 1
सुगतः श्रीघनो बुद्धो बोधिसत्त्वस्तथागतः ।द्वयवादी दशबलो जिनः सौ[शौ]द्धोदनिर्मुनिः ॥ ७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.120 · p. 31
यतिर्यती मुनेः साधुस्तपस्वी संयतो व्रती ।भिक्षुर्मुमुक्षुर्निर्ग्रन्थः ऋषिर्योगी च संयमी ॥ १२० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.51 · p. 8
वाचंयमोऽनगारश्च निर्ग्रन्थः श्रमणो मुनिः ।ऋषिर्यतिर्यती साधुः मुमुक्षुर्भिक्षुकश्च सन् ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.16 · p. 2
बृद्धो मुनीन्द्रो भगवान् श्रीघनः सुगतो मुनिः ।समन्तभद्रः सर्वज्ञो धर्मचक्रस्तथागतः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.80 · p. 116
वाचंयमो मुनिर्दान्तः तपःक्लेशसहे स्मृतः ।वटुर्वर्णी ब्रह्मचारी शापास्त्रः सत्यवागृषिः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि प्रथमः काण्डः Śabdaratnākara 1.5 · p. 175
वसुपूज्य-वासुपूज्यावनन्तोऽनन्तजिन्मतः ।विंशे जिने मुनिस्तद्वद् मुनिसुव्रतसुव्रतौ ॥ ५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ज्य (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.99 · p. 185
सुगते तु महाबोधि-बोधी बुद्ध-बुधौ मुनिः ।मुनीन्द्रः, सप्तमे बुद्धे शाक्यसिंहः सशाक्यकः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.39 · p. 5
सर्वज्ञसुगतदशवलषडभिज्ञमुनीन्द्रशाक्यशास्तारः ।मारजिदद्वयवादिश्रीघनमुनिबुद्धबोधिसत्त्वजिनाः ॥ ३९ ॥
गीतिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ऋष्यध्यायः Śabdaratnākara 1.5.203 · p. 27
दित्यदिती दनुकद्रू विनताताम्राक्षराजरारिष्टाः ।सुरभिः क्रोधवशामुनिसुरसाः स्युः कश्यपगृहिण्यः ॥ २०३ ॥
आर्या
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.504 · p. 66
कैडर्यो ना कुमुदिका श्रीपर्णी कुम्भिका च सा ।अगस्त्यो मुनिमार्जारावगस्तिः शुकसारकौ ॥ ५०४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.623 · p. 80
पुण्डरीकं दमनकं सलज्जं दारुवन्मुनिः ।तत्र ब्रह्मजटा च स्यादलर्कः सिंहवल्लरी ॥ ६२३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.668 · p. 85
कुशो मुनिः कुथो दर्भः क्लीबे बर्हिः पवित्रके ।मुञ्जस्तु यज्ञियो मेध्यो मृदुत्वग्ब्रह्ममेखला ॥ ६६८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1193 · p. 146
वृत्ताध्ययनवान् ब्रह्मवर्चसी सत्यवाक् शुचिः ।ऋषिस्त्रिकालसंदर्शी मुनिर्वाचंयमो व्रते ॥ ११९३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 119 · p. 537
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.15 · p. 279
genderपुंस्त्रीm. f.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.34 · p. 5
मुनीन्द्रः सुगतः शाक्यो मुनिरद्वयवाद्यपि ।शाक्यसिंहस्तु सर्वार्थसिद्धः शौद्धोदनिर्गुरुः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.123 · p. 55
पुण्डरीकं दमनकं कान्तं दान्तं मुनिः पुमान् ।विष्णुक्रान्ता तु सुमुखी गवसी स्यान्महारसा ॥ १२३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.156 · p. 58
मत्स्याक्ष्यां शालशालीनौ पत्तूरो लोहमारकः ।अगस्त्ये मुनिमार्जारावगस्तिर्वंगसेनकः ॥ १५६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.227 · p. 63
दर्भोऽश्ववालः काशिर्ना काशोऽस्त्री स्त्रीक्षुगन्धिका ।कुशे मुनिः कुथो दर्भो वीनाहो यज्ञजागरः ॥ २२७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.150 · p. 95
योगपट्टस्तु चीना स्यात् पर्यस्तिरवसक्थिका ।ऋषिस्त्रिकालदर्शी स्यान्मौनी वाचंयमो मुनिः ॥ १५० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.168 · p. 118
हुलं द्विफलपत्राग्रं मुनयोऽस्त्र्यस्य शेखरम् ।प्रत्याकारपरीवारौ कोशो मुष्टौ त्सरुः पुमान् ॥ १६८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.2 · p. 109
मुनिर्यन्ताङ्गुदी बुद्धः पियालागस्तिकिंशुके ।जिनो [बुद्धेऽति ?] वृद्धे च जिनः [55] स्यादर्हतीत्यपि ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.5 · p. 247
मुनिर्द्वयोर्बुद्धयतीङ्गुदीषुपियालकेऽगस्तिमुनौ पलाशे ।योनिर्द्वयोराकरकामधाम्नो-र्ज्यानिः स्रवन्त्यां गदिता च हानौ ॥ ५ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1009 · p. 129
मुद्रस्तु दातरि त्रि स्यान्मुनिस्तु स्यादृषौ पुमान् ।अगस्त्यर्षौ च सुगते कुशे दमनके तथा ॥ १००९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1010 · p. 129
अगस्त्यसंज्ञवृक्षे च मण्डूके तु द्वयोस्त्रि तु ।वाचंयमेऽथ मुष्टिः स्त्रीपुंसयोः फलकादिनः ॥ १०१० ॥
अनुष्टुप्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र नान्ताः Śivakoṣa 16.244 · p. 23
धाना वितुन्नके भृष्टयवाद्यन्ने च सक्तुषु ।मुनिः पियालदमनागस्त्यकोरककिंशुके ॥ २४४ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र नान्ताः Śivakoṣa 16.245 · p. 23
कङ्केल्लिमल्ल्योर्मृत्स्ना तु तुवरीमृत्सयोरपि ।रास्ना च स्याद्भुजङ्गाक्ष्यामेलापर्ण्यामपि स्त्रियाम् ॥ २४५ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.15 · p. 235
मुनिर्ना नारदादौ तु वङ्गसेनद्रुमे जिने ।मृत्स्ना मृत्सा तु काक्ष्यां स्त्री यानं स्याद्वाहने गतौ ।योनिर्द्वयोराकरे स्याद्भगे भूमौ च कारणे ॥
अनुष्टुप्metre not read in every line
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1976 · p. 240
मौलिस्तु संयते केशे चूडायां मकुटे द्वयोः ।वाचंयमे वसिष्ठादौ बुद्धे वृक्षे जिने मुनिः ॥ १९७६ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.252 · p. 178
मदनाः सिक्थधुस्तूरतरुभेदमनोभवाः ।मुनिर्वाचंयमे बुद्धे छन्दश्चम्पा च मालिनी ॥ २५२ ॥
अनुष्टुप्

मुनि as a meaning in nānārtha verses

  • हलायुधकोशः (अभिधानरत्नमाला) दक्षअर्चनामूल्ययोरर्घो विसर्गो मुक्तिवर्चसोः । मुनिकुक्कुटयोर्दक्षः सन्धिः संश्लेषरन्ध्रयोः ॥ ८३५ ॥ Abhidhānaratnamālā (Halāyudha) 5.835
  • धरणिकोश वल्मीकवल्मीको वामलूरे स्यान्मुनिरोगविशेषयोः । आलोकौ दर्शनद्योता[5]वालोको बन्दिभाषणम् ॥ Dharaṇikośa 1.2.12
  • धरणिकोश भृगुगाङ्गो भीष्मे च गङ्गोत्थे शार्ङ्गं हरिधनुर्धनुः । व्यङ्गो भेके विनष्टाङ्गे भृगुः [14] स्याच्च तटे मुनौ ॥ Dharaṇikośa 3.1.1
  • धरणिकोश वाजध्वजः शेफसि चिह्ने च पताकायां च शौण्डिके । वाजं पाथे मुनौ वाजो वाजो निस्वनपक्षयोः ॥ Dharaṇikośa 7.2.2
  • धरणिकोश भारद्वाजभृङ्गराजस्तु विज्ञेय औषधीयज्ञभेदयोः । भारद्वाजो मुनौ द्रोणे कार्पासे च प्रयुज्यते ॥ Dharaṇikośa 7.2.11
  • धरणिकोश कठहठः प्रसभ आख्यातो वारिपर्णी हठी मता । कठो मुनौ ऋचाभेदे तदध्येता च वेदिता ॥ Dharaṇikośa 11.2.5
  • धरणिकोश क्रतुसुतौ पुत्रमहीपालावेतावागतकर्बुरौ । क्रतुर्मुनौ च यज्ञे च ज्ञातिः पितृसगोत्रयोः । धूर्तौ कितवधूस्तूरौ प्राप्तिः स्याल्लब्धिसिद्धयोः ॥ Dharaṇikośa 15.1.11
  • धरणिकोश अगस्तिस्तिमितो निश्चले क्लिन्ने आदृतः सादरेऽर्चिते । गभस्तिः किरणे सूर्ये अगस्तिः पादपे मुनौ ॥ Dharaṇikośa 15.1.17
  • धरणिकोश मुचुकुन्दमुचुकुन्दस्तरोर्भेदे मुनिदैत्यप्रभेदयोः । अभिष्यन्दं तु स्रवणमभिष्यन्दोऽक्षिको मलः ॥ Dharaṇikośa 17.2.19
  • धरणिकोश कात्यायनकात्यायन्यर्धवृद्धा या काषायवसनाधवा । उमा कात्यायनी प्रोक्ता कश्चित्कात्यायनो मुनिः ॥ Dharaṇikośa 19.3.26
  • धरणिकोश आत्रेयआत्रेयो मुनिरात्रेयी सरिद्भेदो रजस्वला । शैलेयं तु सुगन्धि स्याच्छैलेयं तु शिलान्तरम् ॥ Dharaṇikośa 25.2.32
  • धरणिकोश तित्तिरकूर्परौ जानुकफणी तित्तिरौ मुनिपक्षिणौ । जम्बीरौ जन्तुपर्णासौ महेन्द्राविन्द्रपर्वतौ ॥ Dharaṇikośa 26.1.17
  • धरणिकोश बभ्रुउष्ट्रः पशुविशेषः स्यादुष्ट्रो बाह्यरथेऽपि यः । बभ्रुर्मुन्यन्तरे विष्णौ बभ्रू नकुलपिङ्गलौ ॥ Dharaṇikośa 26.2.23
  • धरणिकोश डुलिदलं खण्डे दलं पर्णे डुलिः स्यात्कमठी मुनौ । छलं स्यात्स्खलितं छद्म पलं सम्मानमांसयोः ॥ Dharaṇikośa 27.1.3
  • धरणिकोश कण्वकण्वं पापे मुनौ कण्व उर्ध्वमुपरि चोत्थिते । क्षवः क्षुते राजिकायामश्वः पुंभेदवाजिनोः ॥ Dharaṇikośa 28.1.2
  • धरणिकोश दीदिविकैतवं च छले द्यूते दीदिवी मुनिगिष्पती । सचिवौ मन्त्रिसहायौ पुंगवौ वृषसत्तमौ ॥ Dharaṇikośa 28.1.4
  • धरणिकोश गालवप्रसेवौ स्यूतवीणाङ्गे विद्रवौ धीपलायने । कितवौ मत्तधूस्तूरौ गालवो मुनिलोध्रयोः ॥ Dharaṇikośa 28.1.5
  • धरणिकोश ऋषिविट् च व्याप्तिस्तथा विष्ठा त्विट् च शोभा [102] तथा प्रभा । ऋषिर्वेदे मुनौ रश्मौ शुषिः शोषः शुषिर्बिलम् ॥ Dharaṇikośa 30.1.1
  • धरणिकोश व्यासमासं स्यान्मासके चन्द्रे भाः स्यात्तु किरणेच्छयोः । व्यासो मुनौ विस्तरे स्यादंसः स्कन्धविभागयोः ॥ Dharaṇikośa 31.1.1
  • कोषकल्पतरु नाकुभेकस्त्ववानपि(?)वधूकरणे तु शौकं नाकुर्मुनौ कृमिगिरौ [च गिरौ] तथोक्तः । शङ्कुः पुमान्सलिलजन्तुविभेदकील- शंभ्वस्त्रकेषु मिथुने तु चतुर्दशेऽङ्के ॥ २२ ॥ Koṣakalpataru 6.1.22
  • कोषकल्पतरु न्यङ्कुन्यङ्कुर्मुनौ च हरिणे Koṣakalpataru 6.1.23
  • कोषकल्पतरु जनककनकं तु हेम्नि चाम्पेयचम्पकपलाशककाञ्चनारे । धत्तूरके क्वचन पीतकचन्दनेऽपि स्याद्दानवेऽपि नरको जनको मुनौ च ॥ २३ ॥ Koṣakalpataru 6.1.23
  • कोषकल्पतरु चरकमोक्षेऽन्तरिक्षे कवचेऽहिकृत्तौ निर्मोक आद्ये चरकस्तु चारे । मुनौ कुषाकुस्तु कृशानुभानु- कीशेष्वथातापिनि वाच्यलिङ्गः ॥ १ ॥ Koṣakalpataru 6.1.1
  • कोषकल्पतरु भट्टारकपरस्य मर्माण्यभिगन्तरि स्या- द्भट्टारको राज्ञि सुरे मुनौ च । दलाढकः कुञ्जरकर्णकुन्द- चाम्पेयफेनातिमहत्तरेषु ॥ ३२ ॥ Koṣakalpataru 6.1.32
  • कोषकल्पतरु भृगुमृगः पशौ वारणजातिभे[262b]दे नक्षत्रभेदे मृगयार्थनासु । मृगी तु कान्ताभिदि शंभुशुक्र- मुनिप्रपातेषु भृगुः प्रदिष्टः ॥ ९३ ॥ Koṣakalpataru 6.3.93
  • कोषकल्पतरु गर्गगर्गो मुनौ किञ्चुलके वृषेऽपि भृङ्गस्तु धूम्याटविटालिषु स्यात् । कलासु धूर्तस्य विशेषणे च स्यान्मार्कवेऽन्त्ये तु गुडत्वचायाम् ॥ ९ ॥ Koṣakalpataru 6.3.9
  • कोषकल्पतरु वाजवाजो मुनौ निस्वनपक्षयोर्ना जवे मखान्ने तु घृते च षण्ढे । व्याजोऽपदेशे शठकर्मणि स्या- त्पाणौ सुबाहौ च भुजो द्विलिङ्गः ॥ २४ ॥ Koṣakalpataru 6.7.24
  • कोषकल्पतरु भरद्वाज[269a]ऽथार्केन्द्वोर्ग्रहराज इत्यथ भरद्वाजो मुनिद्रोणयोः । व्याघ्राटाह्वखगेऽहिभुक्तु गरुडे तार्क्ष्येऽथ काश्मीरजं प्रोक्तं पौष्करकुष्ठयोश्च घुसृणे माद्र्यौषधे तु स्त्रियाम् ॥ ४१ ॥ Koṣakalpataru 6.7.41
  • कोषकल्पतरु अगस्तिपुमानगस्तिर्मुनिवृक्षभेदे स्यात्संगतिः संगमबुद्धिनाम्नोः । स्त्री संनतिः स्यात्प्रणतौ ध्वनौ च दैवे च धृत्यां नियतिः स्त्रियां स्यात् ॥ ३१ ॥ Koṣakalpataru 6.16.31
  • कोषकल्पतरु मुचुकुन्दमुनिदैत्यद्रुमभेदे मुचुकुन्दो मुस्तके व्रीहौ । कुरुविन्दः कुल्माषे माणिक्ये हिङ्गुले मुकुरे ॥ ४६ ॥ Koṣakalpataru 6.19.46
  • कोषकल्पतरु कुम्भयोनिस्यात्कुम्भयोनिर्मुनिवृक्षभेदे कामे पुनर्ब्रह्मणि चात्मयोनिः । स्याच्चित्रभानुस्तरणौ च वह्नौ कलध्वनिः कोकिलकेकिनोश्च ॥ ४६ ॥ Koṣakalpataru 6.21.46
  • कोषकल्पतरु कुटपअर्केऽनले स्यादुषपोऽथ मान- भेदे मुनौ ना कुटपस्तथैव । स्यान्निष्कुटेऽथो कुतपः स्त्रियां न दिनाष्टमांशे च[26b]कुशे च वाद्ये । स्यात्कम्बलेऽजस्य पुमांस्तु सूर्ये स्वसुश्च पुत्रेऽ प्युलपस्तु न स्त्री । वीरुद्गतो ना तु मृदौ तृणे स्या- च्चन्द्रे पुमान्स्यादुडुपः प्लवेऽस्त्री । विटाधिपे ना विटपोऽस्त्रियां तु स्कन्धोर्ध्वशाखासु तरोस्ततौ च । स्यात्पल्लवे चाथ निशाचरे ना स्याद्रक्तपः स्त्री नुवि( ? )पादपस्तु । स्यात्पादपीठे च तरौ च पुंसि स्त्री पादुकायां महिषे त्वनूपो ऽम्बुप्रायदेशे तु विशेष्यलिङ्गः । स्यात्पूतिगन्धे कुणपः शवेऽस्त्री न स्त्री तथावाप इहालवाले ॥ १३ ॥ Koṣakalpataru 6.22.13
  • कोषकल्पतरु शाण्डिल्यउक्तं प्रसव्यं ह्यनुकूलवाचि प्रतीपवाचि त्वपरस्य लिङ्गे । प्रणाय्य उक्तोऽप्यभिलाषहीने- ऽप्यसम्मते चाथ मुनौ च बिल्वे ॥ ७४ ॥ Koṣakalpataru 6.26.74
  • कोषकल्पतरु बभ्रुव्याघ्रोऽपि र[49b]क्ते उरुबौ स्त्रियां तु निदिग्धिकायां मृगराजजातौ । हरौ हरेऽग्नौ नकुले च वज्रे मुनौ विलासे नरि बभ्रुरुक्तः ॥ ६१ ॥ Koṣakalpataru 6.27.61
  • कोषकल्पतरु मठरपुंस्यूर्दरो वीरगतोऽपि दिष्टो मुनौ तु शौण्डे मठरस्तथैव । स्यादम्बरं वाससि चान्तरिक्षे कर्पासके स्याच्च सुगन्धभेदे ॥ ८९ ॥ Koṣakalpataru 6.27.89
  • कोषकल्पतरु कञ्जार[57b] सोपाने च तथैव हस्तिनखके शालारमुक्तं बुधैः कञ्जारो रविधातृहस्तिषु मुनौ कुक्षौ मयूरेऽपि च । कोषाम्भोनिधिपारगैस्तु कनकालौ पुंसि विज्ञैर्मतो भृङ्गारोऽप्यथ स स्त्रियां निगदितो ज्ञैर्झिल्लिकायामपि ॥ ५२ ॥ Koṣakalpataru 6.27.52
  • कोषकल्पतरु दैत्यारित्वक्पत्रं तु वराङ्गौषधके प्रोक्तं [ स्त्रियां ] च कारव्याम् । दैत्यारिरिन्द्रहर्योर्मुनिपक्षिभिदोस्तु तित्तिरिः [ प्रोक्तः ] । स्यान्मन्दुराश्वशाला … । … भ्यर्णगवेस्त्वर्थका तद्वत् ( ? ) ॥ ७९ ॥ Koṣakalpataru 6.27.79
  • कोषकल्पतरु दुलियुगे चतुर्थे सुभटे स्त्रियां तु बुद्धैः प्रदिष्टः कलिकागतोऽयम् । धूलिस्तु संख्यान्तररेणुषु स्त्री दुलिर्मुनौ ना कमठस्त्रियां स्त्री ॥ ८८ ॥ Koṣakalpataru 6.28.88
  • कोषकल्पतरु पिङ्गलस्त्रियां मृगद्रुभेदे स्यान्नागभेदे तु पिङ्गलः । मुनौ रुद्रेऽर्कानुचरे निधिभेदेऽनले कपौ ॥ १५ ॥ Koṣakalpataru 6.28.15
  • कोषकल्पतरु ध्रुवनवः स्तवे ना तरुणेऽन्यवत्स्याद्- ध्रुवः शिवे भान्तरयोगयोश्च । मुनौ वसौ स्याद्वटशङ्कुकीले स्त्री शालिपर्ण्यां स्रुचि गीतिभेदे ॥ ९३ ॥ Koṣakalpataru 6.29.93
  • कोषकल्पतरु कण्वप्रागाद्ययोरन्यवदेव पूर्वः स पूर्वजे पुंसि वहौ च वां नः (?) । कण्वो मुनौ ना कुकृतेऽन्तिमे स्या- त्किण्वं सुराबीजकपापयोश्च ॥ १ ॥ Koṣakalpataru 6.29.1
  • कोषकल्पतरु गालवपुष्पाकरे स्त्री त्वतिमुक्तमद्य- दूतीषु च स्यान्मधुशर्करायाम् । लोध्रे मुनौ गालव आर्तवं तु ऋतूद्भवे स्त्रीरजसि प्रसूने ॥ २४ ॥ Koṣakalpataru 6.29.24
  • कोषकल्पतरु लोमशबाले च मूर्खेऽथ मुनौ सलोम्नि स्याल्लोमशो मद्रकवाचकश्च । कासीसकेऽन्त्ये जटिलाशृगाल्योः स्त्री शूकशिम्ब्यामपि मर्कटीषु ॥ १६ ॥ Koṣakalpataru 6.30.16
  • कोषकल्पतरु व्याससद्योजपुत्रादिकयोश्च वत्सो- ऽन्तिमे तु वक्षोर्थकमामनन्ति । गुत्सं[ तु ]गुच्छाभमुशन्ति पुंसि व्यासो मुनौ विस्तृतिवाचकश्च ॥ ७९ ॥ Koṣakalpataru 6.31.79
  • कोषकल्पतरु नोधस्वक्षो हृदि स्याद्वृषभे तु पुंसि नोधा मुनौ स्तव्यगतोऽन्यवच्च । योगः समाधौ समये तथान्त्ये रोकोऽस्त्रियां नावि तरित्रयेऽपि ( ? ) ॥ Koṣakalpataru 6.31.41
  • कोषकल्पतरु सुमेधस्ज्योतिष्मत्यां सुमेधाः स्त्री मुनौ ना सन्मतौ त्रिषु । स्त्री भूम्नि पक्षे सुमनाः स्त्री मालत्यां सुरे पुमान् ॥ २७ ॥ Koṣakalpataru 6.31.27
  • नानार्थार्णवसंक्षेप अर्वन्पुंश्चल्यामसती स्त्री स्यादर्वा तु त्रिषु कुत्सिते । अश्वे द्वयोः पुमांस्तु स्यादशनौ च मुनौ तथा ॥ ६० ॥ Nānārthārṇavasaṃkṣepa 2.5.60
  • नानार्थार्णवसंक्षेप न्यङ्कुन्यङ्कुर्गुरुकुलेवासिशिष्ये मुन्यन्तरे च ना । मृगभेदे द्वयोर्नप्ता पुनर्दौहित्रपौत्रयोः ॥ ६७० ॥ Nānārthārṇavasaṃkṣepa 2.5.670
  • नानार्थार्णवसंक्षेप कुटजरभसस्त्वाह कुटजो मुनौ पुंसि द्रुमान्तरे । क्लीबलिङ्गं तु वृक्षस्य तस्य पुष्पे फलेऽपि च ॥ ५०९ ॥ Nānārthārṇavasaṃkṣepa 4.509
  • नानार्थार्णवसंक्षेप इध्मवाहइन्दीवरा शतावर्यां स्त्रियां ना त्विध्मवाहवाक् । दृढच्युत्संज्ञकमुनौ त्रिषु त्विध्मस्य वाहके ॥ ८६ ॥ Nānārthārṇavasaṃkṣepa 6.86
  • नानार्थार्णवसंक्षेप शङ्कुकर्णशङ्कुकर्णस्तु पुंसि स्यात् पुराणप्रथिते मुनौ । विज्ञेयस्तु द्वयोरुष्ट्रे गर्दभेऽपि स्त्रियां पुनः ॥ ५९९ ॥ Nānārthārṇavasaṃkṣepa 6.599
  • परमानन्दीयनाममाला ज्ञज्ञो मुनौ चतुरे चन्द्रपुत्रे ब्रह्मणि ञः पुनः । गायने घर्घरध्वानगूढरूपकयोस्तथा ॥ १९ ॥ Paramānandīyanāmamālā 1.19
  • परमानन्दीयनाममाला ऋषिकक्षो भल्लूकवाच्यार्थे स्यादृषिर्मुनिवेदयोः । ऋतुर्वसन्ते स्त्रीपुष्पयृषभो वृषभे मतः ॥ ७८ ॥ Paramānandīyanāmamālā 5.4.78
  • परमानन्दीयनाममाला कठकुजो वृक्षे महीपुत्रे कुटः कुम्भे गृहे द्रुमे । क्रमस्तु परिपाट्यां स्यात्पदशक्त्योः कठो मुनौ ॥ ८८ ॥ Paramānandīyanāmamālā 5.7.88
  • परमानन्दीयनाममाला कविकविर्मुनौ विधौ शुके हयोपकरणेऽपि च । लोहपृष्ठे यमे कङ्को द्विजलिङ्गोपजीविनि ॥ ११० ॥ Paramānandīyanāmamālā 5.7.110
  • परमानन्दीयनाममाला कपिलकशिपुर्भोजने वस्त्रे करीरः स्याद्द्रुमान्तरे । कलशे वैणवाङ्कूरे कपिलो वासवे मुनौ ॥ ११५ ॥ Paramānandīyanāmamālā 5.7.115
  • परमानन्दीयनाममाला कुटपकुटपस्तु मुनौ माने निष्कुटे काश्यपो मुनौ । मीनेऽथ काश्यपी नद्यां कबरं लवणाम्लयोः ॥ १३३ ॥ Paramānandīyanāmamālā 5.7.133
  • परमानन्दीयनाममाला गालवगर्जितं मेघजे शब्दे गह्वरं दम्भरन्ध्रयोः । [21] गैरिकं धातुभेदेऽपि स्वर्णे स्पाद्गालवो मुनौ ॥ १६६ ॥ Paramānandīyanāmamālā 5.9.166
  • परमानन्दीयनाममाला भद्रभद्रो गजान्तरे श्रेयोवृषयोर्मुनिरुद्रयोः । भर्म भारे भृतौ स्वर्णे भोगी तालनृपाहिषु ॥ ३३२ ॥ Paramānandīyanāmamālā 5.20.332
  • परमानन्दीयनाममाला भावाटभूभृद्वरे गिद्रे शेषे भूतिर्लक्ष्म्यां च भस्मनि । भीमो रौद्रे हरे भूपे भावाटः कामुके मुनौ ॥ ३३४ ॥ Paramānandīyanāmamālā 5.20.334
  • परमानन्दीयनाममाला भरतभरतस्तु मुनौ भूपे भुवनं जललोकयोः । भास्करः सूर्यवह्न्योः स्याद् भ्रमरः कामुकेऽप्यलौ ॥ ३३६ ॥ Paramānandīyanāmamālā 5.20.336
  • परमानन्दीयनाममाला भट्टारकभट्टारको मुनौ देवे भारद्वाजः खगान्तरे । भौमस्तु मङ्गले दैत्ये मुष्कः सङ्घेऽण्डचौरयोः ॥ ३३८ ॥ Paramānandīyanāmamālā 5.20.338
  • परमानन्दीयनाममाला साधुसह्यो राज्ञि गिरौ सह्यं सोढव्ये रोगवर्जिते । साधुर्मुनौ तथार्ये च सोमः कर्पूरचन्द्रयोः ॥ ३६६ ॥ Paramānandīyanāmamālā 5.27.366
  • शब्दरत्नावली न्यङ्कुतोकं पुत्रदुहित्रोश्च त्विकः स्यात् कोककाकयोः । न्यङ्कुर्ना मनिमृगयोः नाकः स्वर्गान्तरीक्षयोः ॥ Śabdaratnāvalī 7.1.12
  • शब्दरत्नावली कुशिकक्षण्णकः स्त्रीषु नीचेऽल्पे कुशिको मुनिसर्जयोः । कुषाकुर्वानरेर्केऽऽग्नौ परोत्तापिनि तु त्रिषु ॥ Śabdaratnāvalī 7.1.54
  • शब्दरत्नावली शतानीकखेड्डताले पुमान् बोधकरे वैतालिकस्त्रिषु । वृद्धे मुनौ राजभेदे शतानीक उदीरितः ॥ Śabdaratnāvalī 7.1.199
  • शब्दरत्नावली वाजबहुत्वे पुंसि लाजाः स्युर्व्याजोऽपदेशशाठ्ययोः । ब्रजो गोष्ठे पथिच्छन्दे वाजः पक्षे च निस्वने । मुनौ पुमान् जले क्लीबं यज्ञे चैव घृतान्नयोः ॥ Śabdaratnāvalī 7.8.16
  • शब्दरत्नावली भरद्वाजधर्मराजो नरपतौ यमे बुद्धे युधिष्ठिरे । भरद्वाजो गुरुसुते मुनौ व्याघ्राटपक्षिणि ॥ Śabdaratnāvalī 7.8.35
  • शब्दरत्नावली भारद्वाजीभारद्वाजी मुनौ द्रोणे वनकार्पासके स्त्रियाम् । भृङ्गराजः पक्षिवृक्षभिदो मधुकरेऽपि च ॥ Śabdaratnāvalī 7.8.36
  • शब्दरत्नावली कठकठो गुनौ च वेदज्ञे वेदभागे स्वरेऽपि च ॥ Śabdaratnāvalī 7.12.2
  • शब्दरत्नावली क्रतुकान्तिः शोभेच्छयोः स्त्री तु क्रतुर्यज्ञे मुनौ पुमान् । कान्ता प्रियङ्गौ नार्यां स्त्री प्रिये ना शोभने त्रिषु ॥ लोहं च चन्द्रसूर्ययोः पर्यायान्तशिलासु ना । क्षितिः क्षये निवासे च पृथिवी कालभेदयोः ॥ कीर्तिः प्रसादे यशसि शब्दे दीप्तौ च योषिति । कुन्तो गर्वधुकायां स्यात्पुमान् प्रासायुधेऽपि च ॥ Śabdaratnāvalī 7.16.8
  • शब्दरत्नावली भरतभवती बाणभेदे स्याद् युष्मदर्थसतोस्त्रिषु । भरतो मुनिदौष्मन्तिरामानुजनटेषु च ॥ Śabdaratnāvalī 7.16.122
  • शब्दरत्नावली विश्वकर्मन्देवशिल्पिनि चण्डांशौ विश्वकर्मा मुनावपि । विघातिघोरदृष्ट्योस्तु विघ्नकारी पुमान्भवेत् ॥ महेशे दैत्यभेदे स्याद् वृषपर्वा पुमानयम् । विहङ्गे देवतायाञ्च व्योमचारी भवेत्पुमान् ॥ शाकभेदे कृष्णभेद्यां स्त्रियाञ्च शकुलादनी । मुनिभेदे नन्दिनि स्याच् शालङ्कायन इत्यपि ॥ Śabdaratnāvalī 7.20.137
  • शब्दरत्नावली आत्रेयअनयो व्यसने दैवे विपत्त्यशुभयोरपि ॥ अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः । अवध्यमवधार्हे स्यादनर्थकवचस्यपि ॥ अव्ययो ना हरौ शब्दभेदेऽस्त्री निर्व्यये त्रिषु । अहार्यः पुंसि शैले स्यादहर्त्तव्येऽभिधेयवत् ॥ अभिख्यानाम्नि शोभायां यशस्याख्यान इत्यपि । अभया स्त्री हरितक्यां वीरणेऽपि च न द्वयोः ॥ निर्भये वाच्यलिङ्गं स्यात्प्रसादेऽपि च कुत्रचित् । अगस्त्यो वङ्गसेनाख्यतरौ कुम्भोद्भवेऽपि च ॥ आशयः स्यादभिप्रायाधारयोः पनसेऽपि च । आत्रेयो ना मुनौ पुष्पवतीनद्योरपि स्त्रियाम् ॥ आम्नायः पुंसि वेदे स्यादुपदेशे कुलक्रमे । उदयस्तून्नतौ दीप्तौ मङ्गले पूर्वपर्वते ॥ उपायः स्यादुपपन्तौ सामभेदादिके पुमान् । ऊर्णायुः क्षणभङ्गे ना मेषे च मेषकम्बले ॥ Śabdaratnāvalī 7.26.38
  • शब्दरत्नावली कञ्जारशबले वाच्यलिङ्गं स्यात्कृष्णवृन्तासु स्त्रियाम् । कर्परः स्यात्कटाहे च कपालशस्त्रभेदयोः ॥ कन्धरः स्याज्जलधरे ग्रीवायां कन्धरा स्त्रियाम् । कञ्जारो भास्करे कुक्षौ मुनौ वेधसि वारणे ॥ करीरो ना घटे वृक्षे तथा वंशाङ्कुरेऽस्त्रियाम् । करीरा चीरिकायां स्त्री दन्तमूले च हस्तिनाम् ॥ Śabdaratnāvalī 7.27.60
  • शब्दरत्नावली भेलभेलः प्लवे मुनौ भीरौ मूर्खेऽपि चञ्चलेऽपि च । मलं पापे विटकिट्टे कृपणे वाच्यवत्क्वचित् ॥ Śabdaratnāvalī 7.28.30
  • शब्दरत्नाकर बभ्रुराजदेये बलिर्दैत्यभेदे पूजोपहारयोः । कपिले त्रिषु बभ्रुर्ना नकुले केशवे मुनौ ॥ १९६४ ॥ Śabdaratnākara 4.1.1964
  • शब्दरत्नाकर भगभगो रुद्रे मुनौ सूर्ये धर्मे प्राज्ञे तपस्यपि । वैराग्यैश्वर्यकान्तीच्छायत्नवीर्ययशःस्वपि ॥ १९६८ ॥ Śabdaratnākara 4.1.1968
  • शब्दरत्नाकर रेणुरुचिः कन्तिस्पृहार्चिःषु रीतिः स्थित्यारकूटयोः । रेणुर्मुनौ च पांसौ च रिष्टं नाशे शुभाशुभे ॥ १९८८ ॥ Śabdaratnākara 4.1.1988
  • शब्दरत्नाकर वत्सवृत्तं तु चरिते पद्ये त्रिष्वतीते च वर्तुले । वत्सस्तु तर्णके वर्षे पुत्रादौ कुटजे मुनौ ॥ २००४ ॥ Śabdaratnākara 4.1.2004
  • शब्दरत्नाकर अगस्त्यअयाचिते जले मोक्षे त्रिषु स्यात् स्वादुनित्ययोः । अप्पती वरुणाम्भोधी अगस्त्यौ मुनिपादपौ ॥ २०३७ ॥ Śabdaratnākara 4.1.2037
  • शब्दरत्नाकर ऋषभऊर्णायुरूर्णनाभौ स्यान्मेषे तल्लोमकम्बले । ऋषभो गोवृषे श्रोत्ररन्ध्रे श्रेष्ठे स्वरे मुनौ ॥ २०५६ ॥ Śabdaratnākara 4.1.2056
  • शब्दरत्नाकर कमठकृतौ विवरणे श्लोके यातनायां च कारिका । कालिका घनजालेऽपि कमठो मुनिकूर्मयोः ॥ २०७० ॥ Śabdaratnākara 4.1.2070
  • शब्दरत्नाकर कपिलबकुलेऽस्त्री तु किञ्जल्के कपिलो मुनिवर्णयोः । कटीरं कन्दरे कट्यां कुशिको मुनिवृक्षयोः ॥ २०८० ॥ Śabdaratnākara 4.1.2080
  • शब्दरत्नाकर भरतभरतं नाट्यशास्त्रे स्याद्भरतो मुनिभूभृतोः । भारती तुलसीवाण्योर्भैरवो रुद्रघोरयोः ॥ २१४१ ॥ Śabdaratnākara 4.1.2141
  • शब्दरत्नाकर मरीचिमरीचिर्ना मुनी रश्मिर्वा स्त्री स्त्री मृगतष्णिका । मोहनं सुरते मद्ये महिषी पशुराट्स्त्रियोः ॥ २१४७ ॥ Śabdaratnākara 4.1.2147
  • शब्दरत्नाकर हरितयौतकादि हृतिस्तप्तशीतल(वा?)र्यथ हिंसनम् । हरितस्तु मुनौ श्यामे हारीतो मुनिपक्षिणोः ॥ २१९० ॥ Śabdaratnākara 4.1.2190
  • शब्दरत्नाकर वासुदेववाडवेयोऽश्विनोर्विप्रे वासुदेवो मुनौ हरौ । धर्माध्यक्षे ज्योतिषिके वारवाणिरथो वटे ॥ २२२४ ॥ Śabdaratnākara 4.1.2224
  • त्रिकाण्डशेष कुशिकनिर्मोके चोलके वारबाणोऽथ कुशिको मुनौ । शाले किष्कुः प्रकोष्ठेऽपि व्याख्याश्लोकेऽपि कारिका ॥ १४ ॥ Trikāṇḍaśeṣa 3.3.14
  • त्रिकाण्डशेष भारद्वाजबुधैः ख्यातो भारद्वाजो द्रोणाचार्ये मुनावपि । भृङ्गराजः खगौषध्योर्लङ्घने मुनिभेषजम् ॥ ८६ ॥ Trikāṇḍaśeṣa 3.3.86
  • त्रिकाण्डशेष यतिमूर्तं स्यात्त्रिषु मूर्च्छाले कठिने मूर्तिमत्यपि । मतिरिच्छाप्थथ यतिः पाठच्छेदे मुनौ पुमान् ॥ १७८ ॥ Trikāṇḍaśeṣa 3.3.178
  • त्रिकाण्डशेष आत्रेयआत्रेयी पुष्पवत्यां स्यान्नदीभेदे च ना मुनौ । आशयश्छन्द आधार आदित्यो भास्करे सुरे ॥ ३०६ ॥ Trikāṇḍaśeṣa 3.3.306
  • त्रिकाण्डशेष शाण्डिल्यस्त्री मल्यां निर्जने शून्यं शौर्यं चारभदी बलम् । शाण्डिल्यो मुनिमालूरौ सौरभ्यं चारुताऽपि च ॥ ३२२ ॥ Trikāṇḍaśeṣa 3.3.322
  • त्रिकाण्डशेष कपिलकुलं गोत्रे गणे देहे न ना ज्ञाने च केवलम् । कपिला शिंशपाकौन्त्योः कपिलोऽग्नौ मुनौ शुनि ॥ ३८६ ॥ Trikāṇḍaśeṣa 3.3.386
  • त्रिकाण्डशेष गालवकेशवः केशवी विष्णुर्गालवो मुनिलोध्रयोः । जीवोऽस्त्री जीविते पुंसि गुरुजन्त्वोः स्त्रियां गुणे ॥ ४१५ ॥ Trikāṇḍaśeṣa 3.3.415
  • त्रिकाण्डशेष व्यासरसे क्रूरे च विकृतौ बीभत्सस्त्रिषु नाऽर्ज्जुने । व्यासो मुनौ च विस्तारे बर्हिर्ना कुशशुष्मणोः ॥ ४५२ ॥ Trikāṇḍaśeṣa 3.3.452
  • वैजयन्ती न्यङ्कुग्राहाभ्राहिगजा नागा नाभिः क्षत्रे महानृपे । न्यंकुर्गुरुकुलेवासी शिष्यो मुनिमृगावपि ॥ ३० ॥ Vaijayantī 6.1.30