चण्डभानु
caṇḍabhānuIn 1 kośa: 0 synonym verses, 3 as a meaning of another word.
चण्डभानु as a meaning in nānārtha verses
- शब्दरत्नावली चित्ररथअनीकस्थो हस्तिशिक्षाशूरे युद्धगतेऽपि च । स्याद्वीरमर्दलके चिह्ने भूपालगणरक्षिणि ॥ भवेदतिकथाऽश्रद्धे नष्टेऽपार्थवचस्यपि । चतुष्पथो द्विजे पुंसि चतुर्मार्गे न पुंसकम् ॥ चित्ररथश्चण्डभानुगन्धर्वराजयोः पुमान् ॥ Śabdaratnāvalī 7.17.15
- शब्दरत्नावली भरण्युपानीयं सलिले क्लीबं पातव्ये पुनरन्यवत् । पौलस्त्यो ना धनाधीशे दशकण्ठे विभीषणे ॥ वलयं कङ्कणे क्लीबं कण्ठरोगे पुमानयम् । वालेयं स्याद्वलिहिते मृदौ त्रिषु खरे पुमान् ॥ ब्राह्मण्यं ब्रह्मवृन्दे स्यात्ब्राह्मणत्वेऽपि न द्वयोः । भरण्युर्ना चण्डभानौ मृगाङ्के च विभावसौ ॥ भुजिष्यः पुंसि दासे स्यात्स्वन्त्रहस्तसूतत्रके । स्त्रियां दासीगणिकयोः स्वतन्त्रायामपि क्वचित् ॥ मलयो ना चलारामदेशेषु स्त्री तथौषधे । मङ्गल्यो ना त्रायमानामसूराश्वत्थबिल्वके ॥ स्त्रियात्तु रोचनाशुक्लवचाशमीमिमीषु च । अधःपुष्प्यां स्त्रियां दध्नि क्लीबं शिवकरे त्रिषु ॥ मृगयुर्ना शृगाले स्याद् व्याधे पितामहेऽपि च । रहस्या स्त्री सरिद्भदे गोपनीयेऽभिधेयवत् ॥ विजया पार्वतीसख्यां तिथिभेदेऽपि च स्त्रियाम् । विजयस्तु जये पुंसि तथा गाण्डीवधन्वनि ॥ विस्मयः पुंसि दर्ये स्यात्स्यन्देहाश्चर्ययोरपि । विषयो यस्य यो ज्ञातस्तत्रदेशे च गोचरे ॥ रूपादौ स्याज्जनपदे कान्तादौ च भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.46
- शब्दरत्नावली तमोपहतमोपहो हिमकरे चण्डभानुजिनाग्रिषु । प्रतिग्रहो ग्रहभिदि स्वीकारसैन्यपृष्ठयोः ॥ पतद्ग्रहग्रहणयोर्विधिदावव्यवस्तुनि । परिग्रहः स्त्रीस्वजनादानेषु मूलशापथोः ॥ परीवहो जलोच्छ्वासक्षितिभिद्योग्यवस्तुनीः ॥ Śabdaratnāvalī 7.33.32