कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

नानार्थवर्गप्रकाशः · हान्ताः

इति सान्तवर्गः ॥

हकारः पापहरणे हरे हिमकरेऽपि च ।हा विषादे गुणेष्वत्तौ हे च सम्बोधनेऽपि च ॥
7.33.1 · p. 297
अनुष्टुप्
ही पूरणाश्चर्ययोः स्याद्धि हेतावनधारणे ।
7.33.2 · p. 297
अनुष्टुप्
अहिर्ना भुजगे वृत्रे ईहा वाञ्छितचेष्टयोः ॥
7.33.3 · p. 297
अनुष्टुप्
कुहूः स्त्री कोकिलालापनष्टेन्दुकलदर्शयोः ।ग्रहोऽनुग्रहनिर्बन्धग्रहणेषु रणोद्यमे ॥
7.33.4 · p. 297
अनुष्टुप्
सूर्पादौ पूतनादौ च राहूपरागयोः पुमान् ।ग्राहोऽवहारग्रहयोः सामान्याम्बुचरे क्वचित् ॥
7.33.5 · p. 297
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
गृहं नाम्नि कलत्रे च गेहे पुंभूम्नि च क्वचित् ।गुहः पुंसि महासेने भृशवेगितरङ्गयोः (?) ॥
7.33.6 · p. 297
अनुष्टुप्
गुहा गर्ते सिंपुच्छी धवगह्वस्केषु च ।वाहः स्याद्वन्धने कूटे बर्हं पुच्छे दलेऽस्त्रियाम् ॥
7.33.7 · p. 298
अनुष्टुप्metre not read in every line
प्रोहस्तु निपुणे तर्के गजानां पादपर्वणि ।बहुस्त्रित्वादिसंख्यासु तथा सुविपुले त्रिषु ॥
7.33.8 · p. 298
अनुष्टुप्
मही भूम्यां नदीभेदे मह उत्सवतेजसोः ।मोहो मूर्छाविद्ययोर्ना दुःखमात्रे क्वचिद्भवेत् ॥
7.33.9 · p. 298
अनुष्टुप्
लोहः शस्त्रेऽस्त्रियां क्लीबं सर्वतैजसजोङ्गके ।वहस्तु वृषभस्कन्धे स्याद्गन्धवाहवाहयोः ॥
7.33.10 · p. 298
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्ध (wrong syllable)
वाहो द्वयोर्भुजे पुंसि मानभेदे हये वृषे ॥
7.33.11 · p. 298
व्रीहिः शरत्पक्वधान्ये धान्यमात्राशुधान्ययोः ॥
7.33.12 · p. 298
व्यूहस्तु बलविन्यासे तर्के निर्माणवृन्दयोः ।सहं बले स्यादस्त्री तु क्षमे चाप्यभिधेयवत् ॥
7.33.13 · p. 298
अनुष्टुप्
सहा पृथ्वीमुद्गपर्णीकुमारीषु नखौषधे ।सिंहः कण्ठीरवे राशौ चोत्तरत्थो भवेद्वरे ॥
7.33.14 · p. 298
अनुष्टुप्
सिंही वासकवार्चाकीकण्टकारीष्वपि स्त्रियाम् ।स्नेहः स्यात्सौहृदे पुंसि तैलादिरसवस्तुनि ॥
7.33.15 · p. 298
अनुष्टुप्
प्रत्यूहा नीलिकायां ना कालकण्ठे विहङ्गमे ।आग्रहो ग्रहणे शक्तौ क्रमणेऽनुग्रहेऽपि च ॥
7.33.16 · p. 298
अनुष्टुप्
आरोहस्तु समुच्छ्रयदीर्घत्वारोहणेषु च ।कट्यामप्युत्तमस्त्रीणां तथावरोह इत्यपि ।उत्साह उद्यमे सूत्रे कल्याणभावभेदयोः ॥
7.33.17 · p. 298
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 च्छ्र (wrong syllable); pāda 4, syllable 3 व (wrong syllable)
कटाहो दीपतैलादिपाकयाजनकर्परे ।कूपे जातविषाणाग्रमहिषे कूर्मपृष्ठके ॥
7.33.18 · p. 298
अनुष्टुप्
कलहः खड्गकोषे स्याद्युद्धबन्धनवर्त्मषु ।दात्यूहश्चातके कालकण्ठपक्षिणि तोयदे ॥
7.33.19 · p. 298
अनुष्टुप्
निग्रहो भर्त्सने बन्धमर्यादाभङ्गयोरपि ।निर्व्यूहः शेखरे द्वारे निर्यासनागदन्तयोः ॥
7.33.20 · p. 298
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
निरूहो वस्तिभेदे स्यादूहशून्यविवेकिनोः ।प्रग्राहस्तु तुलासूत्रे वृषादिप्रग्रहेऽपि च ॥
7.33.21 · p. 298
अनुष्टुप्
पटहस्तु समारम्भे वाद्यभेदे तु हिंसवे ।प्रवहो वायुभेदे स्याद्वायुमात्रे वहिश्चरे ॥
7.33.22 · p. 298
अनुष्टुप्
प्रग्रहस्तु रश्मिमात्रे तुलासूत्रे च वन्दिनि ।स्वर्णालुवृक्षे नियमे हयादीनाञ्च रश्मिषु ॥
7.33.23 · p. 298
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
प्रवाहस्तु प्रवृत्तौ स्यान्नीरस्रोतसि पुंस्ययम् ।वराहः शूकरे मुस्ते मावभेदाब्दसूरिषु ॥
7.33.24 · p. 298
अनुष्टुप्
वाराही मातृभेदे स्याद्विश्वक्सेनप्रियौषधौ ।राजार्हं जोङ्गके राजयोग्ये चाप्यभिधेयवत् ॥
7.33.25 · p. 299
अनुष्टुप्
विग्रहं समरे देहे विस्तारप्रविभागयोः ।विदेहो मिथिलाभूपे देहशून्ये तु वाच्यवत् ॥वैदेही पिप्पलीसीतारोचवासु वणिक् स्त्रियाम् ।संग्रहो ग्राहसंक्षेपबृहदुत्तुङ्गकेषु च ॥
7.33.26 · p. 299
अनुष्टुप्
सुवहा शल्लकीवीणारास्नागोधापदीषु च ।शेफालिकैलापर्ण्योश्च सुवहः सुखबाह्यके ॥
7.33.27 · p. 299
अनुष्टुप्
अवग्रहो वृष्टिरोधे ललाटेऽपि च हस्तिनाम् ।अभिग्रहोऽभिग्रहणेऽभियोगे गौरवेऽपि च ॥
7.33.28 · p. 299
अनुष्टुप्
अवरोहोऽवतरणे समारोहे लतोद्गमे ।अश्वारोहोऽश्वगन्धायां त्रिषु स्यादश्ववाहके ॥
7.33.29 · p. 299
अनुष्टुप्
उपनाहो व्रणालेपपिण्डे वीणानिबन्धने ।उपग्रहोऽनुकूले स्यादुपयोगे च वन्दिनि ॥
7.33.30 · p. 299
अनुष्टुप्
गन्धवहः समीरे स्यान्नासिकायां भवेत्स्त्रियाम् ।तनूरुहं भवेल्लोम्नि पतत्रे च नपुंसकम् ॥
7.33.31 · p. 299
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
तमोपहो हिमकरे चण्डभानुजिनाग्रिषु ।प्रतिग्रहो ग्रहभिदि स्वीकारसैन्यपृष्ठयोः ॥पतद्ग्रहग्रहणयोर्विधिदावव्यवस्तुनि ।परिग्रहः स्त्रीस्वजनादानेषु मूलशापथोः ॥परीवहो जलोच्छ्वासक्षितिभिद्योग्यवस्तुनीः ॥
7.33.32 · p. 299
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable)
पितामहः पितुस्ताने विरिञ्चावपि पुंस्ययम् ।
7.33.33 · p. 299
अनुष्टुप्metre not read in every line
प्रपितामहः स्याद्विधौ ताते पितामहस्य च ॥
7.33.34 · p. 299
अनुष्टुप्metre not read in every line