All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
नानार्थवर्गप्रकाशः · थान्ताः
इति तान्तवर्गः ॥
अथोऽर्थने च विषये धने वस्तुनि कारणे ॥अभिधेये निवृत्तौ च कुशले च प्रयोजने ।आस्था चालम्बनास्थानयत्नापेक्षास्वपि स्त्रियाम् ॥कन्था मृण्मयभित्तौ तु स्त्रियां प्रावरणान्तरे ।क्वाथोऽतिदुःखे मूर्छायां निष्काके च द्रवस्य च ॥कुथो वर्णे कथने स्यान्न क्लीबं पुंसि बर्हिषि ।कोथस्तु शाटिते नेत्ररोगभेदे च पुंस्ययम् ॥
7.17.2 · p. 227
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 थ (wrong syllable)
गन्थः शास्त्रे धने वर्णसंख्याते ग्रथनेऽपि च ।ग्रन्थिर्ना पर्वरुग्भेदग्रन्थिपर्णेषु वल्कले ॥गाथा श्लोकगेपवृत्तसंस्कृतेतरभाषिते ।तीर्थं शास्त्रे कृतौ(?) क्षेत्रे पात्रे नारीरजस्यपि ॥उपाध्यायोपायमन्त्रितटषिजुष्टजलेष्वपि ।तुत्थं क्लीबमञ्जने स्यान्नीलीसूक्ष्मैलयोः स्त्रियाम् ॥दुःस्थो मूर्खे दुर्गते स्यात्पुंसि दुःखस्थिते त्रिषु ।प्रस्थोऽस्त्रियां मितद्रव्ये सानुमानभिदोरपि ॥
7.17.3 · p. 227
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 1 तट (syllable split); pāda 3, syllable 4 ब (wrong syllable)
पीथः पुंसि भास्करेऽग्नौ सलिले तु न पुंसकम् ।पृथुरग्नौ नृपे पुंसि निपुणे महति त्रिषु ॥त्वक्पत्रीकृष्णजिराहिफेणेषु च भवे स्त्रियाम् ।प्रोथोऽस्त्री वाजिघोणायां कटे ना पथिके त्रिषु ॥
7.17.4 · p. 227
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 सि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 जि (wrong syllable)
मन्थो मन्थान-चण्डांशु-साक्तवेषु पुमानयम् ।रथः पुमान् स्यन्दने स्याद् वेतसेऽवयवेऽपि च ॥
7.17.6 · p. 227
अनुष्टुप्
वीथिः पंक्तौ पुंसि पथे गृहाङ्गे रूपकान्तरे ।संस्थो मृतावस्थितयोः स्त्रियान्तु स्थितिनाशयोः ॥
7.17.7 · p. 227
अनुष्टुप्
सार्थः संघातमात्रे स्याद्वणिगवृन्दे च पुंस्ययम् ।सिक्थं क्लीबं मधूच्छिष्टे पुमान् भक्तपुलाकके ॥
7.17.8 · p. 227
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 द्वणि (syllable split)
अतिथिर्ना दर्भपुत्रे भवेदागन्तुके त्रिषु ।अश्वत्थो वृक्षभेदे स्यादश्वत्था पूर्णिमातिथौ ॥
7.17.9 · p. 227
अनुष्टुप्
अव्यथा पथ्याचारटयोः पुंसि निर्व्यथसर्पयोः ।उन्माथः कूटयन्त्रे ना मारणे घातनेऽपि च ॥
7.17.10 · p. 227
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उपास्थो ना समीपस्थे क्रोडे च योनिशेफयोः ।उद्रथो रथोकीले स्यात्ताम्रचूडतिहङ्गमे ।क्षवथुर्ना क्षुते कासे कण्ठकण्डूयनेऽपि च ॥
7.17.11 · p. 227
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable); pāda 3, syllable 5 थो (wrong syllable)
कायस्था स्त्री हरीतक्यां ना नृजातिपरात्मनोः ।गोग्रन्थिर्गोष्ठगोजिह्वाकरीषेषु भवेत्पुमान् ॥
7.17.12 · p. 227
अनुष्टुप्
दमथुर्ना दमे दन्ते निशीथो रात्रितद्भिदोः ।निर्ग्रन्थो नग्नके निःस्वे मूर्खेऽपि निःसहायके ॥प्रमथा स्त्री तु पथ्यायां तुरङ्गे पार्षदे पुमान् ।वरूथो रथगुप्तौ ना क्लीबन्तु गेहचर्मणोः ॥मन्मथः कामदेवे स्यात्कामचिन्ताकपित्थयोः ।भवेद्वयस्था सूक्ष्मैलाकाकल्यामलकीषु च ॥
7.17.13 · p. 228
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न्तु (wrong syllable)
ब्राह्मीगुडूचीपश्यासु स्त्रियां स्यात्तरुणे त्रिषु ।वमथुर्वमने पुंसि स्यात्कुम्भिकरशीकरे ॥विदिथः पण्डिते योगे शमथुः शान्तिमन्त्रिणोः ।षड्ग्रन्थो ना करञ्जे स्याद्वचायामपि च स्त्रियाम् ॥समर्थः शक्तहितयोः सम्बन्धे चान्यलिङ्गकः ।सिद्धार्थः शाक्यसिंहे च सार्थके श्वेतसर्षपे ॥
7.17.14 · p. 228
अनुष्टुप्
अनीकस्थो हस्तिशिक्षाशूरे युद्धगतेऽपि च ।स्याद्वीरमर्दलके चिह्ने भूपालगणरक्षिणि ॥भवेदतिकथाऽश्रद्धे नष्टेऽपार्थवचस्यपि ।चतुष्पथो द्विजे पुंसि चतुर्मार्गे न पुंसकम् ॥चित्ररथश्चण्डभानुगन्धर्वराजयोः पुमान् ॥
7.17.15 · p. 228
metre not recognisednearly अनुष्टुप्
दशमीरथोऽपि वृद्धे स्यान्नष्टबीजेऽन्यलिङ्गकः ।वानप्रस्थे मधुकद्रुतृतीयाश्रमयोः पुमान् ॥
7.17.16 · p. 228
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 धु (wrong syllable)