कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पूर्णत्व

pūrṇatva

In 2 kośas: 0 synonym verses, 3 as a meaning of another word.

पूर्णत्व as a meaning in nānārtha verses

  • कोषकल्पतरु आ-भुज्खेटयति खेडयति ग्रसते ग्लसते च खोटयति । चरति चषतेऽपि चषति गलति तथाभ्यवहरत्यपि । उपाद्भुजिश्चोपभोगेऽथाङः पूर्णत्व-यत्नयोः । समो साभे नुतोमत्यां(?)न तु तङ्मान्स रक्षणे ॥ आङश्चमिरुपस्पर्शे चाभ्यधिभ्यां चरिः क्षये । अनोः सहायकेऽथोपादुपादाराधनार्थकः ॥ रोगस्य च चिकित्सायां शब्दवृत्तेर्विशेषणे । आङः कृतौ परेः सेवे वाच्युदः समुदः परः ॥ सहचारिण्यपावृत्तौ भूयः प्रत्याङ उत्तरः । अतेरुल्लङ्घनानीत्योः प्रात्प्रसिद्धावभेः पुनः ॥ अन्यथात्वेऽथोत्परोऽसौ कर्मवानात्मनेपदी । तथा तृतीयया युक्तः[183b]संपरश्च प्रकीर्तितः ॥ चलनप्राशनार्थेभ्यः स्यात्परस्मैपदं णिचि । आदेस्तु कर्त्रभिप्राये फले स्यादात्मनेपदम् ॥ परेर्मोहयतेर्वादेर्वासेः पाययतेर्दमेः । आङ्यासेरपि तद्वत्स्यात्तथा धापयतेरपि ॥ तद्वद्रोचेर्नर्तयतेर्ण्यन्तानां बुधयुध्नशाम् । प्रुद्रुस्रूणां जनेङोश्च परस्मैपदमीरितम् ॥ इच्छति वाङ्क्षति काङ्क्षति वाञ्छति माङ्क्षति च लष्यते लषति । लष्यति लषते लुभ्यति कामयते वष्टि चाशास्ते । प्रीणाति प्रीणीते गृध्यत्यनुरुध्यते च गर्धयति । आशंसते च हर्यति कनत्यवति खटति तद्वत्स्युः । वरयति लालयते च स्पृहयति लिप्सत्यपि चेच्छार्थाः ॥ २६ ॥ Koṣakalpataru 3.5.26
  • कोषकल्पतरु आभोगआभोगः सलिलपतेः किलातपत्रे पूर्णत्वे वपुषि त[264a]था प्रय[त्न]वाची । व्यापारे कुसुमसुगन्धकोपदायां संभोगो जिननयभोगमैथुनेषु ॥ ११ ॥ Koṣakalpataru 6.3.11
  • त्रिकाण्डशेष आभोगशपथेऽप्यभिषङ्गः स्यादनङ्गः खे स्मरे पुमान् । पूर्णत्वयत्नावाभोगावायोगो व्यापृतावपि ॥ ५५ ॥ Trikāṇḍaśeṣa 3.3.55