कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

नानार्थस्कन्धः · गान्ताः

इति खान्ताः

एकगाः ।

गौरर्वनाकक्रतुभेदरश्मि-दृग्धेनुलोमाशनिनीरभूषु ।दिग्बाणवाणीवृषभेषु गस्तुगणेशगन्धर्वकगातृषु स्यात् ॥ ९० ॥
6.3.90 · p. 163
उपजातिः

द्विगः ।

अगो नगोऽर्कद्रुमपर्वतेषुखगास्तु सूर्यग्रहदेवबाणाः ।पक्षी शरोऽस्त्रीतु भगो वराङ्गै-श्वर्यप्रयत्नातिविरक्तिषु स्यात् ॥ ९१ ॥
6.3.91 · p. 163
उपजातिः
श्रीकीर्तिमाहात्म्यसमर्थतासुज्ञानस्पृहामुक्तिवृषेषु नार्के ।युगं चतुष्के च करस्य सीर-रथाङ्गयोर्युग्मकृतादिकेषु ।यूपेऽस्त्रियां मानपरः पुमान्स्या-न्मूर्खे पराभं लिगु मानसेऽन्त्ये ॥ ९२ ॥
6.3.92 · p. 163
इन्द्रवज्राtwo metres in one verse
मृगः पशौ वारणजातिभे[262b]देनक्षत्रभेदे मृगयार्थनासु ।मृगी तु कान्ताभिदि शंभुशुक्र-मुनिप्रपातेषु भृगुः प्रदिष्टः ॥ ९३ ॥
6.3.93 · p. 163
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 2, syllable 1 न (wrong syllable)
रूपार्धके चावयवे च भाग्ये[भागो]ऽथ नागोऽहिघनाम्बुदेषु ।पुंनागके मुस्तकनागदन्त-क्रूरस्वभावेष्वहिकेसरे च ॥ ९४ ॥
6.3.94 · p. 163
इन्द्रवज्रा
स्त्रीणां करणविशेषेसीसे रङ्गे द्वयोनः स्यात् ।उत्तरपदे स्थितोऽयंश्रैष्ठ्ये पुंलिङ्ग उद्दिष्टः ॥ ९५ ॥
6.3.95 · p. 163
metre not recognised
रागोऽनुरागे नृप-भैरवादौमात्सर्यदुःखादिषु चारुणिम्नि ।भोगस्तु सर्पस्य फणाङ्गयोः स्या-त्सुखेऽशने रक्षणवित्तयोश्च ॥ ९६ ॥
6.3.96 · p. 164
उपजातिः
पण्याङ्गनानां रतमूल्यके चयोगस्त्वलब्धाप्तिभिषग्जितेषु ।उपायसंनाहकसंगमेषुज्ञाने च युक्तावपि कार्मणे च ॥ ९७ ॥
6.3.97 · p. 164
उपजातिः
विष्कम्भकादौ वपुषः स्थिरत्वेरोगस्तु कुष्ठौषध आमये च ।वेगो महाकालफले प्रवाहेप्लवे च पूगः क्रमुके च वृन्दे ।चङ्गस्तु दक्षे रुचिरेऽन्यलिङ्गो-ऽथेङ्गोऽद्भुतज्ञानस[263a]मिङ्गितेषु ।स्याज्जङ्गमे चाथ कृपाणभेद-जङ्घाखनित्रेष्वपि टङ्गमस्त्री ॥ ९३ ॥
6.3.93 · p. 164
उपजातिःtwo metres in one verse
वपुष्युपाये निकटे प्रतीकेगौणे तथाङ्गं नरि भूम्नि देशे ।तुङ्गस्तु पुंनागनगज्ञवाचीतुङ्गी निशाबर्बरयोस्त्रिषूचे ॥ २०० ॥
6.3.200 · p. 164
उपजातिः
भङ्गस्तरंगेऽपि ऋचां विभेदेपराजये स्त्री तु शणोन्मदिन्योः ।रङ्गो रणे दुःप्रकृतौ च रागेक्लीबे त्रपुण्येनमुदाहरन्ति ॥ १ ॥
6.3.1 · p. 164
उपजातिः
सीसेऽपि वङ्गं नरि देशभेदेकार्पासवातिंगणवाचकं स्यात् ।षिद्गे च सङ्गे च वदन्ति लङ्गंलिङ्गं तु सांख्यप्रकृतौ च चिह्ने ॥ २ ॥
6.3.2 · p. 165
इन्द्रवज्रा
तथानुमाने शिवमूर्तिभेदेदृगिन्द्रिये शेपसि चामनन्ति ।शृङ्गं प्रधाने शिखरे च चिह्नेक्रीडाम्बुयन्त्रेऽपि विषाणके च ॥ ३ ॥
6.3.3 · p. 165
उपजातिः
ना कूर्चशीर्षे वृषभौषधौ तुस्वर्णे विषायां झषभिद्यपि स्त्री ।भीष्मे विशाखे नरि गाङ्गमाहु-र्हेम्न्यन्तिमे तद्भुवि तु त्रिषु स्यात् ॥ ४ ॥
6.3.4 · p. 165
इन्द्रवज्रा
पिङ्गः पिशङ्गे त्रिषु तद्वति स्या-द्ध्रीबेरकेऽन्त्येऽथ शमी च पिङ्गी ।गो[263b]रोचनारामज्जनालिकोमा-संज्ञासु पिङ्गा समुदीरितात्र ॥ ५ ॥
6.3.5 · p. 165
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 6 म (wrong syllable)
खड्गस्तु बुद्धासिषु खड्गिशृङ्गेस्याद्गण्डकेऽथ त्रिषु दुर्गमे स्यात् ।दुर्गः शिवानीलिकयोः स्त्रियां स्या-च्चापेऽपि शार्ङ्गं समुदीरयन्ति ॥ ६ ॥
6.3.6 · p. 165
इन्द्रवज्रा
सर्गस्तु शीलोद्यमनिर्णयेषुसंसारकाव्यादिकथासमाप्त्योः ।मार्गो मृगादिप्रभवेऽन्यलिङ्गो-ऽध्वान्वेषणामासभिदासु पुंसि ॥ ७ ॥
6.3.7 · p. 165
इन्द्रवज्रा
वल्गुस्तु पुंसि च्छगले मनोज्ञेत्वन्योपमः फल्गुरियं मलप्वाम् ।त्रुट्यां स मासेऽथ वटेऽपि शुङ्गीचाम्रातके पुंसि कपीतने च ॥ ८ ॥
6.3.8 · p. 165
इन्द्रवज्रा
गर्गो मुनौ किञ्चुलके वृषेऽपिभृङ्गस्तु धूम्याटविटालिषु स्यात् ।कलासु धूर्तस्य विशेषणे चस्यान्मार्कवेऽन्त्ये तु गुडत्वचायाम् ॥ ९ ॥
6.3.9 · p. 166
उपजातिः

त्रिगाः ।

भेकेऽरुणे च प्लवगः प्लवङ्गे-ऽथो पन्नगो भोगिनि पद्मकाष्ठे ।स्याज्जिह्मगो मन्दगसर्पवाचीना सर्वगो व्यापकशंकरार्थः ॥ १० ॥
6.3.10 · p. 166
इन्द्रवज्रा
आभोगः सलिलपतेः किलातपत्रेपूर्णत्वे वपुषि त[264a]था प्रय[त्न]वाची ।व्यापारे कुसुमसुगन्धकोपदायांसंभोगो जिननयभोगमैथुनेषु ॥ ११ ॥
6.3.11 · p. 166
प्रहर्षिणीmetre not read in every line
उद्वेगो बाहुलको-द्विजनोद्गमने गुवाकुफलकेऽन्त्ये ।कठिनोद्यते च कूटेविश्लेषेऽयोग आम्नातः ॥ १२ ॥
6.3.12 · p. 166
metre not recognised
आशुग इषौ च बाणे[वायावर्के] प्रसूनरेणौ च ।स्नानीये च परागोगिरिभेदे चन्दने ग्रहणे ॥ १३ ॥
6.3.13 · p. 166
metre not recognised
यज्ञे तु तीर्थराजेशतमखहययोः प्रयागः स्यात् ।स्यात्कार्मणे प्रयुक्तौनिदर्शने च प्रयोग उद्दिष्टः ॥ १४ ॥
6.3.14 · p. 166
metre not recognised
भण्डेऽपि चारुवादि-न्याम्राते वातिगो विज्ञैः ।नीराशये तडागो-ऽप्येवं तत्कूट[यन्त्र]के तद्वत् ॥ १५ ॥
6.3.15 · p. 166
metre not recognised
पुंनागो नरवर्येतुङ्गतरौ स्यात्सितोत्पले किंच ।जातीफलेऽथ शीलेदाने सर्गे निसर्गः स्यात् ॥ १६ ॥
6.3.16 · p. 167
metre not recognised
याम्यायने विसर्गोविसर्जनीये मलच्युतौ च स्यात् ।उत्सर्गः सामान्येन्याये दाने च वर्जने कथितः ॥ १७ ॥
6.3.17 · p. 167
metre not recognised
धर्मार्थकाम-त्रिफला-कटुत्रय-वृद्धिक्षयस्थानगुणत्रयेषु तु ।त्रिवर्ग उक्तोऽप्यथ तातगुर्भवे-त्पितुर्हिते क्षु[264b]द्रपितर्यपीरितः ॥ १८ ॥
6.3.18 · p. 167
इन्द्रवंशाmetre not read in every line
कामे त्वनङ्गः खहृदोस्तु षण्ढेशालौ पतंगः शलभे खगेऽर्के ।स्यात्पारदेऽन्त्येऽथ वरण्डकेऽपिनरङ्ग ऊर्मौ चरमे शफे स्यात् ॥ १९ ॥
6.3.19 · p. 167
उपजातिः
षिङ्गे भुजंगो भुजगे मृदङ्गोघोषे तथाचानकवाचकोऽपि ।सङ्गे च तूणे च निषङ्ग उक्तोवेल्ले विडङ्गं त्रिषु नागरे स्यात् ॥ २० ॥
6.3.20 · p. 167
इन्द्रवज्रा
प्रकीर्यधूम्याटकयोः कलिङ्गःपुंभूम्नि देशे वनितार्थकः स्त्री ।क्लीबे तु शक्रद्रुफलेऽथ पुंसिभवेदपाङ्गस्तिलके दृगन्ते ॥ २१ ॥
6.3.21 · p. 167
उपजातिः
गुह्ये गुडत्वचि शिरोगजयोर्वराङ्गंपत्राङ्गमाहुरिह पद्मकभूर्जयोश्च ।कोके रथाङ्ग उदितश्चरमे तु चक्रेधाराङ्ग आदिमगतोऽप्यसितीर्थवाची ॥ २२ ॥
6.3.22 · p. 168
वसन्ततिलका
मातङ्गः श्वपचविषाणिनोरथ स्या-द्रक्ताङ्गः क्षितितनयेऽन्यवत्तु वीरे ।जीवन्त्यामरुणरुचि स्त्रियां प्रवालेकम्पिल्ले त्यजति नृयोषितोः स लिङ्गम् ॥ २३ ॥
6.3.23 · p. 168
प्रहर्षिणी
भूकर्कारौ हस्तिनि सर्पेकालिङ्गो ना कर्कट्यां स्त्री ।हेमाङ्गः[265a]स्याद्ब्रह्मणि तार्क्ष्येहालाङ्गोऽयं रोहितकूर्मे ॥ २४ ॥
6.3.24 · p. 168
metre not recognised
सारङ्गो नरि हरिणे नभोम्बुपे च ।रोलम्बे करिणि खगान्तरे प्रदीपे ।त्रय्यां स्यादिह शबले कणारसे तुनारङ्गं त्रिषु यमजे सुखप्रिये ना ॥ २५ ॥
6.3.25 · p. 168
प्रहर्षिणी
प्रियङ्गुरुक्ता फलिनी कणा चकङ्गुस्तथा रक्तकसर्षपेऽपि ।नीलङ्गुरुक्तः कृमिभम्भराल्यो-रश्वे तु चित्ते तुरगस्तुरंगः ॥ २६ ॥
6.3.26 · p. 168
उपजातिः
तुरगी तु वाजिगन्धापुंसि हंसे तु चक्राङ्गः ।चक्राङ्गी कटुकायांकोशागः स्यात्करीरेक्ष्वोः ॥ २७ ॥
6.3.27 · p. 168
metre not recognised

चतुर्गाः ।

ईहामृगो रूपकभेद उक्तोजन्तौ वृके स्यादथ मल्लनागः ।वात्स्यायनैरावतयोरथोप-रागः परीवादरविग्रहादौ ॥ २८ ॥
6.3.28 · p. 169
इन्द्रवज्रा
त्यागे मोक्षे कर्मसमाप्तावपवर्गःसाफल्येऽथ प्रादिषु रोगेऽप्युपसर्गः ।संघे संयोगे च समायोग इहार्थेशापाक्रोशस्याभिभवेष्व[प्य]भिषङ्गः ॥ २९ ॥
6.3.29 · p. 169
मत्तमयूरम्
संप्रयोगो रते चान्वये कार्मणेचाथ दीर्घाध्वगः केलिकीर्णेऽपि च ।छत्रभङ्गो महाराजना[265b]शे मतोयोषितां वल्लभस्यान्तकालेऽपि च ॥ ३० ॥
6.3.30 · p. 169
स्रग्विणीmetre not read in every line
वातूलवाची तु कथाप्रसङ्गोविषागदंकारवरेण्यवत्स्यात् ।काकोलके स्याद्रतहिण्डके चनाडीतरङ्गो नरि हिण्डके [च] ॥ ३१ ॥
6.3.31 · p. 169
उपजातिः