All kośas › Trikāṇḍaśeṣa
त्रिकाण्डशेष Trikāṇḍaśeṣa
पुरुषोत्तमदेव · त्रिकाण्डशेशः नाम संस्कृतप्राचीनकोषः । कलङ्गाधिनाथेन श्रीपुरुषोत्तमदेवनृपतिवरेण विरचितः । दोडन्दुग्रामे शैलबिम्बाराममहाविहारे सरस्वतीमण्डपमधिवसता श्रीबौद्धसिद्धान्ताचार्य्यधर्मरक्षितचन्द्रकीर्त्युपाधिधारिणा श्रीमता-श्रीशीलस्कन्धमहानायकयतिवरेण (लङ्कागवर्नमेण्टस्य प्राचीनभाषोपकारसमित्यां सामाजिकधुरन्धरेण) विरचिततया सारार्थचन्द्रिकानामिकया व्याख्यया समन्वितः । तेनैव कृतया अकारादिहनतवर्णानुसारिण्या कोषस्थशब्दानुक्रमणिकया सनाथीकृतश्च । · Khemaraja Shrikrishnadāsa · 1916 A.D. · श्रीशीलस्कन्ध महानायकयति
1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)
प्रथमः काण्डः
॥ श्रीः ॥
अथ सटीकत्रिकाण्डशेषकोषस्य-
नमः सम्यक्सम्बुद्धाय ।
जयन्ति सन्तः कुशलं प्रजानां नमो मुनीन्द्राय सुराः स्मृताश्च ।स्तुताऽसि वाग्देवि दयस्व मातर्विधेहि विघ्नाधिप मङ्गलानि ॥ १ ॥
1.1 · p. 1
उपेन्द्रवज्रा
अलौकिकत्वादमरः स्वकोशे न यानि नामानि समुल्लिलेख ।विलोक्य तैरप्यधुना प्रचारमयं प्रयत्नः पुरुषोत्तमस्य ॥ २ ॥
1.2 · p. 2
उपेन्द्रवज्रा
वर्गक्रमस्तथा नामलिङ्गयोस्तूपदेशता ।परिभाषादिकं सर्वमत्राप्यमरकोषवत् ॥ ३ ॥
1.3 · p. 3
अनुष्टुप्