All kośas › Trikāṇḍaśeṣa
त्रिकाण्डशेष Trikāṇḍaśeṣa
1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)
तृतीयः काण्डः · नानार्थवर्गः (1/5)
अथ नानार्थः ।
स्वरकाद्यादिकाद्यन्तक्रमान्नानार्थसङ्ग्रहम् ।विहायाऽमरकोषोक्तमकार्षीत्पुरुषोत्तमः ॥ १ ॥
3.3.1 · p. 91
अनुष्टुप्
शक्रार्कपर्णयोश्चार्कोऽभीकस्त्वभयकामिनोः ।रूपकान्तिकयोश्चाङ्कोऽलिमकौ भेककोकिलौ ॥ २ ॥
3.3.2 · p. 92
अनुष्टुप्
अन्तिकं निकटे चुल्ल्यां नाटयोक्तौ चाग्रजन्तिका ।अनीकोऽत्री रणे सैन्ये गौर्यां मातरि चाम्बिका ॥ ३ ॥
3.3.3 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्यादश्मन्तकमुद्धाने मल्लिकाछदनेपि च ।आह्निकं दिननिर्वर्त्ये तत् क्लीबं नित्यकर्मणि ॥ ४ ॥
3.3.4 · p. 92
अनुष्टुप्
स्त्रियामुत्कलिका हेलोत्कण्ठासलिलवीचिषु ।कोशज्ञे कौशिको विश्वामित्रे गौर्यां च कौशिकी ॥ ६ ॥
3.3.6 · p. 93
अनुष्टुप्
कृष्णत्वे च हिमान्यां च गौरीकाल्योश्च कालिका ।वर्षोपले स्त्री करका करङ्के करकोऽस्त्रियाम् ॥ ७ ॥
3.3.7 · p. 93
अनुष्टुप्
कुसुम्भे दाडिमे पक्षिभेदे च करकः पुमान् ।करमध्याङ्गुलौ च स्यात्कर्णिका च द्रुमान्तरे ॥ ८ ॥
3.3.8 · p. 94
अनुष्टुप्
द्विके धृष्टे च काकः स्यात्कौतुकं मङ्गलेच्छयोः ।भोग्येप्यथ स्यात्कुलकं श्लोकैकार्थपटोलयोः ॥ ९ ॥
3.3.9 · p. 94
अनुष्टुप्
कुलकौ नाककाकेन्दू क आत्मा च सुखं च कम् ।पेचके स्त्रीजिते काकरुको कौलेयकः शुनि ॥ १० ॥
3.3.10 · p. 94
अनुष्टुप्
कुलीने चाथ कनकं धुस्तूरे नागकेशरे ।चम्पके किंशुके हेम्नि कृषकौ फालकर्षकौ ॥ ११ ॥
3.3.11 · p. 95
अनुष्टुप्
रोमाञ्चे क्षुद्रशत्रौ च द्रुमाङ्गे कण्टकोऽस्त्रियाम् ।राजधान्यां नितम्बेऽद्रेर्वलये कटकोऽस्त्रियाम् ॥ १२ ॥
3.3.12 · p. 95
अनुष्टुप्
वेणौ ना कार्मुकं चापे गुणवृक्षेऽपि कूपकः ।कल्को विभीतके तैलादिशेषे चाथ कञ्चुकः ॥ १३ ॥
3.3.13 · p. 95
अनुष्टुप्
निर्मोके चोलके वारबाणोऽथ कुशिको मुनौ ।शाले किष्कुः प्रकोष्ठेऽपि व्याख्याश्लोकेऽपि कारिका ॥ १४ ॥
3.3.14 · p. 96
अनुष्टुप्
खगे यमे छद्मविप्रे कङ्कः सूच्यां च कूर्चिका ।क्रमुको भद्रमुस्तेऽपि कोकश्चक्रे वृकेऽपि च ॥ १५ ॥
3.3.15 · p. 96
अनुष्टुप्
पुनर्नवाकारवेल्लपर्णासेषु कठिल्लकः ।कृकवाकुर्मयूरेऽपि वंशे दैत्ये च कीचकः ॥ १६ ॥
3.3.16 · p. 97
अनुष्टुप्
नीचेऽपि क्षुल्लको मूर्धत्राणौ नाकौ च खोलकः ।चौरोन्दुरू च खनकौ गोलकौ मणिजारजौ ॥ १७ ॥
3.3.17 · p. 97
अनुष्टुप्
खगे नग्ने च गोरङ्कुः सङ्ख्याभेदेऽपि गण्डकः ।शृङ्ग्यां च ग्रामयुद्धे च ग्राममद्गुरिका स्त्रियाम् ॥ १८ ॥
3.3.18 · p. 97
अनुष्टुप्
गान्धिको लेखकेऽपि स्याद्गुह्यकश्छेकनिघ्नयोः ।वेश्यायूथ्योश्च गणिका चषकं सरकेऽपि च ॥ १९ ॥
3.3.19 · p. 98
अनुष्टुप्
ग्रन्थिकौ पार्थदैवज्ञौ ग्रन्थिपर्णे च न द्वयोः ।कुण्ठालङ्कारखद्योतविद्युत्सु चिलिमीलिका ॥ २० ॥
3.3.20 · p. 98
अनुष्टुप्
चारको भोजके बन्धे नाटकाङ्गेऽपि चूलिका ।चित्रकं चित्रके क्लीबं व्याघ्रैरण्डौ च चित्रकौ ॥ २१ ॥
3.3.21 · p. 98
अनुष्टुप्
गृहासक्ते पक्षिमृगे छेको नागरिके त्रिषु ।कम्बौ जलकरङ्कः स्यान्नारिकेलफलेऽपि च ॥ २२ ॥
3.3.22 · p. 99
अनुष्टुप्
जैवातृकः कृशे चन्द्रे दीर्घायुषि च स त्रिषु ।जालिका वस्त्रभित्कूटकृत्कैवर्ते च जालिकः ॥ २३ ॥
3.3.23 · p. 99
अनुष्टुप्
जायामद्रिभित्तौ च खनित्रे ग्रावदारणे ।कपित्थे चास्त्रियां टङ्कष्टुण्टुकावल्पशोणकौ ॥ २४ ॥
3.3.24 · p. 99
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 जा (syllables merged)
तिलकं चित्रके क्लोम्नि ना तरौ तिलकालके ।गृहदारौ तण्डकोऽस्त्री समासप्रायवाचि च ॥ २५ ॥
3.3.25 · p. 100
अनुष्टुप्
तुरुष्कः सिह्लके देशे प्राण्यङ्गे त्रितये त्रिकम् ।कूपाङ्गे स्त्री तिक्तशाकः खदिरे वरुणद्रुमे ॥ २६ ॥
3.3.26 · p. 100
अनुष्टुप्
दैत्ये ना कर्णधारे च तारकं दृशि भे न ना ।द्विको काकचक्रवाकौ पृश्न्यां कुन्दे दलाढकः ॥ २७ ॥
3.3.27 · p. 100
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
नरको निरये दैत्यै नौवाहै स्यान्नियामकः ।सभ्ये गुरौ च नवफलिका नवरजस्यपि ॥ २८ ॥
3.3.28 · p. 101
अनुष्टुप्
नालीकौ पद्मनाराचौ वृन्देऽपि पेटकोऽस्त्रियाम् ।सौभाग्येऽपि पताका स्यात्पङ्कोऽस्त्री कर्दमांहसोः ॥ २९ ॥
3.3.29 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
पञ्चालिका वस्त्रकृतपुत्रिकागीतभेदयोः ।मणिदोषे शिलाभेदे पुलको लोमहर्षणे ॥ ३० ॥
3.3.30 · p. 101
अनुष्टुप्
पर्यस्त्यामपि पल्यङ्कः प्रियको मृगनीपयोः ।पुष्पकं कङ्कणेऽपि स्यात्पराको व्रतखड्गयोः ॥ ३१ ॥
3.3.31 · p. 102
अनुष्टुप्
चामरे ग्रन्थभेदे च विस्तरेऽपि प्रकीर्णकम् ।सितच्छत्राब्जयोः पुण्डरीकं पुंसि तु दिग्गजे ॥ ३२ ॥
3.3.32 · p. 102
अनुष्टुप्
व्याघ्रे च कोषकारे व पाकौ पचनशावकौ ।पुष्यलको गन्धमृगे कीलके क्षपणेऽपि च ॥ ३३ ॥
3.3.33 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ष्य (wrong syllable)
कपर्दे रज्जौ राजीवे बीजकोशे वराटकः ।वृन्दारकौ सुरश्रेष्ठौ गिरिमेघौ बलाहकौ ॥ ३४ ॥
3.3.34 · p. 103
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्जौ (wrong syllable)
पिञ्जे ना सिकताकर्णभूषाकन्यासु बालिका ।शिवमल्ल्यां बकः कह्वे राज्ञि भट्टारकः सुरे ॥ ३५ ॥
3.3.35 · p. 103
अनुष्टुप्
भूमिका रचनायां च मूर्त्यन्तरपरिग्रहे ।मधुको वल्लिभेदे च बर्हिचन्द्रे च मेचकः ॥ ३६ ॥
3.3.36 · p. 103
अनुष्टुप्
हारभेदे माणवको बाले कुपुरुषे वटौ ।मयूरकोऽपामार्गे च हंसभेदेपि मल्लिकः ॥ ३७ ॥
3.3.37 · p. 104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
युतकं वस्त्रभेदे च यौतके संशयेऽपि च ।यमकं संयमे शब्दालङ्कारे यमजे त्रिषु ॥ ३८ ॥
3.3.38 · p. 104
अनुष्टुप्
याज्ञिको याजके दर्भे बिले रोकं रुचौ पुमान् ।राका दृष्टरजःकन्या कच्छपूर्णेन्दुपूर्णिमाः ॥ ३९ ॥
3.3.39 · p. 104
अनुष्टुप्
नीलवस्त्रेऽक्षितारायां लोचको निर्मितौ त्रिषु ।नगरीशाखयोर्लङ्का करिण्यामपि बन्धकी ॥ ४० ॥
3.3.40 · p. 105
अनुष्टुप्
गुरावनाथे गरुडे जिने विघ्ने विनायकः ।वृषाङ्कौ शिवभल्लातौ वञ्चकौ धूर्तफेरवौ ॥ ४१ ॥
3.3.41 · p. 105
अनुष्टुप्
वैदेहको वाणिजके वैश्यायामपि शूद्रजे ।वैलक्ष्याकार्ययोः क्लीबं व्यलीकं त्रिषु नागरे ॥ ४२ ॥
3.3.42 · p. 106
अनुष्टुप्
वाह्लीकं बाह्लिके धीरहिङ्गुनोर्नाऽश्वदेशयोः ।विपाकः परिणामेऽपि तिलकेऽपि विशेषकः ॥ ४३ ॥
3.3.43 · p. 106
अनुष्टुप्
शङ्कुः कीलकसङ्ख्यास्त्रजलजन्तुषु दृश्यते ।शिशुकः शिशुमारेऽपि शुकं ग्रन्थिशिरीषयोः ॥ ४४ ॥
3.3.44 · p. 106
अनुष्टुप्
कीरे रावणपात्रे ना वचाऽपि शतपर्विका ।शल्कचूर्णेऽपि शूकस्तु स्यादनुक्रोशशृङ्गयोः ॥ ४५ ॥
3.3.45 · p. 107
अनुष्टुप्
शिलाटको विलेपेऽट्टे शुल्को यौतकदानयोः ।श्वाविध्वृक्षौ च शल्लक्यौ मणौ खड्गे च सस्यकः ॥ ४६ ॥
3.3.46 · p. 107
अनुष्टुप्
शीधौ च शीधुपाने च सरकोऽस्त्र्यथ जन्मनि ।सूतकं पारदेऽप्यऽस्त्री सूचकौ खलकुक्कुरौ ॥ ४७ ॥
3.3.47 · p. 107
अनुष्टुप्
युग्मे सङ्घाटिका कुट्टन्यां च गद्येऽपि हारकः ।वाद्यभेदे हुडुक्कः स्याद्दात्यूहे च मदोत्कटे ॥ ४८ ॥
3.3.48 · p. 108
अनुष्टुप्
इति कान्ताः ॥
इन्दुलेखा गुडूच्यां च पूः सुखं स्वर्न्नभश्च खम् ।गोमुखं लेपने वाद्यभाण्डे सर्पेऽपि दुर्मुखः ॥ ४९ ॥
3.3.49 · p. 108
अनुष्टुप्
त्रिशिखं स्यात्त्रिशूलेऽपि न्युङ्खः साम्नि मनोहरे ।नखं शुक्तौ कररुहे कूर्मे पञ्चनखो गजे ॥ ५० ॥
3.3.50 · p. 108
अनुष्टुप्
आदौ प्रधाने प्रमुखं वैशाखो मन्थमासयोः ।काण्डे ना विशिखा रथ्या विशाखा भे गुहे पुमान् ॥ ५१ ॥
3.3.51 · p. 109
अनुष्टुप्
लेखो देवेऽपि पङ्क्तौ स्त्री शिखा चूडाग्रयोरपि ।शाखा वेदविभागेऽपि सखा मित्रसहाययोः ॥ ५२ ॥
3.3.52 · p. 109
अनुष्टुप्
सुमुखस्तार्क्ष्यपुत्रे च शोभनास्यगणेशयोः ।सुमुखी शोभनास्या-
3.3.53 · p. 110
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
इति खान्ताः
शरीरोपायाप्रधानेष्वङ्गं पुंभूम्नि नीवृति ।सम्बोधनेऽङ्गाऽव्ययं स्यादयोगो विधुरेऽपि च ॥ ५४ ॥
3.3.54 · p. 110
अनुष्टुप्
शपथेऽप्यभिषङ्गः स्यादनङ्गः खे स्मरे पुमान् ।पूर्णत्वयत्नावाभोगावायोगो व्यापृतावपि ॥ ५५ ॥
3.3.55 · p. 110
अनुष्टुप्
जङ्गमेङ्गितयोरिङ्गो नाड्य ईहामृगो वृके ।फलं पूगस्य चोद्वेगमुत्सर्गो न्यायदानयोः ॥ ५६ ॥
3.3.56 · p. 111
अनुष्टुप्
सामान्येऽप्युपरागस्तु ग्रहेर्केन्द्वोश्च दुर्नये ।हस्तच्छेदे तु सस्यानां कटभङ्गो नृपात्यये ॥ ५७ ॥
3.3.57 · p. 111
अनुष्टुप्
कथाप्रसङ्गो वातूले विषवैद्येऽपि वाच्यवत् ।देशे कलिङ्गो धूम्याटे कलिङ्गं कौटजे फले ॥ ५८ ॥
3.3.58 · p. 111
अनुष्टुप्
त्रिषु दक्षे विदग्धे च खड्गौ निस्त्रिंशगण्डकौ ।स्वर्गे वज्रे च रश्मौ च बलिवर्दे च गौः पुमान् ॥ ५९ ॥
3.3.59 · p. 111
अनुष्टुप्
स्त्रीबाणरोहिणीदृग्दिग्वाग्भूमिष्वप्सु भूम्नि च ।वैधव्ये नृपनाशे च छत्रभङ्गः प्रकीर्तितः ॥ ६० ॥
3.3.60 · p. 112
अनुष्टुप्
अश्वगन्धाऽपि तुरगी तुङ्गौ पुन्नागसोच्छ्रयौ ।दीर्घाध्वगः स्यादुष्ट्रेऽपि निषङ्गः सङ्गतूणयोः ॥ ६१ ॥
3.3.61 · p. 112
अनुष्टुप्
नागः श्रेष्ठेभसर्पेषु क्लीबं सीसकरङ्गयोः ।वृक्षे स्यात्पुंसि पुन्नागः पतङ्गः शलभे रवौ ॥ ६२ ॥
3.3.62 · p. 112
अनुष्टुप्
काकोदुम्बरिकायां स्त्री फल्गुत्रिषु निरर्थके ।पालनेऽभ्यवहारे च निर्वेशे पण्ययोषिताम् ॥ ६३ ॥
3.3.63 · p. 113
अनुष्टुप्
भोगः सुखे धने चाहेः शरीरफणयोरपि ।भगं वैराग्ययोनीच्छाज्ञानैश्वर्येषु चेष्यते ॥ ६४ ॥
3.3.64 · p. 113
अनुष्टुप्
तरङ्गभेदयोर्भङ्गो भङ्गा सस्ये शणाह्वये ।एकदेशांशयोर्भागो भृङ्गो धूम्याटकेऽपि च ॥ ६५ ॥
3.3.65 · p. 113
अनुष्टुप्
भुजङ्गो भुजगे षिड्गे जामदग्न्यतटौ भृगुः ।मृगोऽन्विष्टौ च मार्गस्तु मासान्वेषणवर्त्मसु ॥ ६६ ॥
3.3.66 · p. 114
अनुष्टुप्
योगश्चारेऽपूर्वलाभे सूत्रे विश्रब्धघातिनि ।उपाये सङ्गतौ ध्यानौषधसन्नाहयुक्तिषु ॥ ६७ ॥
3.3.67 · p. 114
अनुष्टुप्
नृत्ये रणे खले रागे रङ्गः क्लीबे त्रपुण्यऽपि ।रागः क्लेशादिके रक्ते मात्सर्थे लोहितादिषु ॥ ६८ ॥
3.3.68 · p. 114
अनुष्टुप्
चक्रे रथाङ्गं कोके ना रक्ताङ्गो मङ्गलेपि च ।व्यक्ते साङ्ख्योदिते लिङ्गं स्थाणौ शेफसि लक्षणे ॥ ६९ ॥
3.3.69 · p. 114
अनुष्टुप्
पुंस्त्वादौ च वराङ्गे तु गुडत्वचि गजे पुमान् ।वल्गुच्छागेऽपि वेगस्तु महाकालफलेऽपि च ॥ ७० ॥
3.3.70 · p. 115
अनुष्टुप्
जलोत्क्षेपे समुत्सर्गे शृङ्गमुत्कर्षचिह्नयोः ।शार्ङ्गं धनुर्विष्णुधनुः सम्भोगो रतभोगयोः ॥ ७१ ॥
3.3.71 · p. 115
अनुष्टुप्
इति गान्ताः ।
ओधः स्याद्द्रुतनृत्ये च काचिघौ काञ्चनोन्दुरू ।निदाघौ स्वेदतापौ च प्रतिधो रोषघातयोः ॥ ७२ ॥
3.3.72 · p. 115
अनुष्टुप्
परिघो योगभेदेऽपि मेधो वारिदमुस्तयोः ।महार्घस्तु महामूल्ये पुंसि लावकषक्षिणि ।पृक्कायां स्त्री लघुः क्लीबं शीघ्रे कृष्णागुरुण्यपि ॥ ७३ ॥
3.3.73 · p. 116
अनुष्टुप्
इति घान्ताः ।
प्रतिमापूजयोरर्चा क्रौञ्चः पक्ष्यद्रिभेदयोः ।कूर्चमस्त्री भ्रुवोर्मध्ये श्मश्रुकैतवयोरपि ॥ ७४ ॥
3.3.74 · p. 116
अनुष्टुप्
इभ्यां स्त्री गुरुपुत्रे ना केशे शुष्कव्रणे कचः ।देशभेदेऽपि काञ्ची स्यात्तथा स्थासकतर्कयोः ॥ ७५ ॥
3.3.75 · p. 117
अनुष्टुप्
चर्चिकायां च चर्चा स्यात्वक् स्त्री चर्मगुडत्वचोः ।वामने पामरे नीचो नमुचिर्दितिजे स्मरे ॥ ७६ ॥
3.3.76 · p. 117
अनुष्टुप्
मरीचिर्मुनिभेदेऽपि चौरवह्नी मलिम्लुचौ ।कक्कोलेऽपि च मारीचो मोचा शाल्मलिरम्भयोः ॥ ७७ ॥
3.3.77 · p. 117
अनुष्टुप्
कुक्कुरे रतनारीचः शीत्कारे वरयोषिताम् ।केतुग्रहे तु विकचो वीचिः सुखतरङ्गयोः ॥ ७८ ॥
3.3.78 · p. 118
अनुष्टुप्
स्वल्पेऽपि सारिकायां च वचा ग्रीष्मानलौ शुचिः ।सूची नृत्यप्रभेदे च व्यधनीशिखयोरपि ॥ ७९ ॥
3.3.79 · p. 118
अनुष्टुप्
इति चान्ताः ।
वाराही चीरिका कच्छा कच्छोऽनूपे द्रुमान्तरे ।पिच्छा स्त्रीत्वमण्डेऽपि लाङ्गुले पिच्छमस्त्रियाम् ॥ ८० ॥
3.3.80 · p. 118
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 पि (syllables merged)
इति छान्ताः ।
पद्मधन्वन्तरी चाऽब्जावण्डजः खगमीनयोः ।निचुलेऽप्यम्बुजोऽजस्तु ब्रह्मविष्णुस्मरेष्वपि ॥ ८१ ॥
3.3.81 · p. 119
अनुष्टुप्
स्यादङ्गजः स्मरे केशे पुत्रे रक्ते नपुंसकम् ।उत्साहकार्तिकावूर्जौ कम्बोजो देशशङ्खयोः ॥ ८२ ॥
3.3.82 · p. 119
अनुष्टुप्
नखे करञ्जे करजः कुब्जो न्युब्जे द्रुमान्तरे ।खनौ सुरागृहे गञ्जो गुञ्जा पटहकृष्णले ॥ ८३ ॥
3.3.83 · p. 119
अनुष्टुप्
जघन्यजोऽनुजे शूद्रे जलजं शङ्खपद्मयोः ।चिह्नशेफपताकासु खट्वाङ्गेऽपि ध्वजोऽस्त्रियाम् ॥ ८४ ॥
3.3.84 · p. 120
अनुष्टुप्
नीरजं कमले कुष्ठे पिञ्जा हिंसाहरिद्रयोः ।भारद्वाजो गुरोः पुत्रे व्याघ्राटाख्ये च पक्षिणि ॥ ८५ ॥
3.3.85 · p. 120
अनुष्टुप्
बुधैः ख्यातो भारद्वाजो द्रोणाचार्ये मुनावपि ।भृङ्गराजः खगौषध्योर्लङ्घने मुनिभेषजम् ॥ ८६ ॥
3.3.86 · p. 120
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भा (wrong syllable)
अगस्त्ये च हरीतक्यां रुजा स्याद्रोगभङ्गयोः ।मुस्तेऽपि वनजो बीजं रेतस्तत्त्वार्थहेतुषु ॥ ८७ ॥
3.3.87 · p. 121
अनुष्टुप्
व्याजः शाठ्येऽपदेशे च स्वेदरक्तात्मजाः स्वजाः ।निसर्गे सहजः पुंसि सहोत्थे वाच्यलिङ्गकः ॥ ८८ ॥
3.3.88 · p. 121
अनुष्टुप्
इति जान्ताः ।
इति ञान्ताः ।
काके निम्बे च लशुने गर्त्ते कूपे खलेऽवटः ।अत्यर्थक्षौमयोरट्टः कृताविष्टं प्रिये त्रिषु ॥ ९१ ॥
3.3.91 · p. 122
अनुष्टुप्
केटः शोणके विष्णौ कृपीटमुदरे जले ।पुंश्चले कुण्डकीटः स्याज्जाराच्च ब्राह्मणीसुते ॥ ९२ ॥
3.3.92 · p. 123
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 के (syllables merged)
समये च क्रियाकारे किलिञ्जशरयोः कटः ।कोटिः सङ्ख्याऽपि करटो वाद्यभाण्डविप्रयोः ॥ ९३ ॥
3.3.93 · p. 123
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कुलीरे कर्कटो राशौ कृष्टिः कर्षे बुधे पुमान् ।अप्रियेऽपि कटुः कुम्भे कुटो ना भवने द्वयोः ॥ ९४ ॥
3.3.94 · p. 123
अनुष्टुप्
सुरायां स्त्री कीकटुस्तु निःस्वे देशे मितम्पचे ।खेटः सिङ्घाणके हीने गृष्टिर्धेन्वौषधीभिदोः ॥ ९५ ॥
3.3.95 · p. 123
अनुष्टुप्
सूकरे पुंसि घृष्टिः स्यात्स्पर्द्धाघर्षणयोः स्त्रियाम् ।घोण्टा तु बदरे पूगे देहांशे वर्णने चटुः ॥ ९६ ॥
3.3.96 · p. 124
अनुष्टुप्
निःश्वासे दशनोच्छिष्टश्चुम्बे दन्तच्छदेपि च ।परिमाणमुदोर्दिष्टिर्दिष्टः कालोपदिष्टयोः ॥ ९७ ॥
3.3.97 · p. 124
अनुष्टुप्
धाराटौ चातकहयौ कपाटेऽपि च निष्कुटः ।कोटरेऽप्यथ पट्टः स्यात्फलके नृपशासने ॥ ९८ ॥
3.3.98 · p. 124
अनुष्टुप्
प्रत्याख्याते प्रेषिते च प्रतिसृष्टं त्रिलिङ्गकम् ।पर्कटी प्लक्षवृक्षे च पूगादेश्च नवे फले ॥ ९९ ॥
3.3.99 · p. 125
अनुष्टुप्
वटी त्रिषु गुणे पुंसि न्यग्रोधे च कपर्दके ।बर्बट्यौ व्रीहिभिद्वेश्ये नटौ भरतकामुकौ ॥ १०० ॥
3.3.100 · p. 125
अनुष्टुप्
मोरटं गोर्नवे क्षीरेऽङ्कोटपुष्पेक्षुमूलयोः ।म्लिष्टं म्लाने कुवचने मर्कटी शूकशिम्ब्यऽपि ॥ १०१ ॥
3.3.101 · p. 125
अनुष्टुप्
लाटोंऽशुके च देशे च व्युष्टं कल्ये त्रिषूषिते ।पथि वास्तुनि वाटः स्याद्विकटं विकृतं बृहद् ॥ १०२ ॥
3.3.102 · p. 126
अनुष्टुप्
वर्कराटः कटाक्षे च स्त्रीणां स्तननखक्षते ।अद्रप्रेषणयोर्विष्टिर्वर्णाटौ कामिगायनौ ॥ १०३ ॥
3.3.103 · p. 126
अनुष्टुप्
विटोऽद्रौ लवणे षिड्गे मूषिके खदिरेऽपि च ।पाञ्चलौहे श्रुतिकटः प्रायश्चित्तभुजङ्गयोः ॥ १०४ ॥
3.3.104 · p. 126
अनुष्टुप्
इति टान्ताः ।
काष्ठा कालेऽपि कोष्ठस्तु स्वकीयेऽप्यथ सुध्वनौ ।ग्रीवादेशेऽपि कण्ठः स्यात्कुष्ठं रोगौषधीभिदोः ॥ १०६ ॥
3.3.106 · p. 127
अनुष्टुप्
दात्यूहे कालकण्ठः स्याच्छिवखञ्जनयोरपि ।ज्येष्ठो मासि च वृद्धे च ज्येष्ठा च गृहगोधिका ॥ १०७ ॥
3.3.107 · p. 127
अनुष्टुप्
अम्ललोण्यां दन्तशठा ना जम्बीरकपित्थयोः ।प्रकोष्ठौ बाहुगेहांशौ वरिष्ठं मरिचेऽपि च ॥ १०८ ॥
3.3.108 · p. 128
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
ताम्रे चोरुतरे चाऽथ मध्यस्थखलयोः शठः ।शोठोऽलसे च मूर्खे च सूत्रकण्ठो द्विजन्मनि ॥ १०९ ॥
3.3.109 · p. 128
अनुष्टुप्
इति ठान्ताः ।
कुण्डं खातोखयोर्जारजे ना कुण्डी कमण्डलौ ।सिंहोक्तौ स्त्री विषे क्ष्वेडः पशौ क्रोडो न नोरसि ॥ १११ ॥
3.3.111 · p. 129
अनुष्टुप्
खण्डोऽस्त्री शकले नेक्षुविकारमणिदोषयोः ।गण्डः कपोले पिटके श्रेष्ठे गण्डकयोगयोः ॥ ११२ ॥
3.3.112 · p. 129
अनुष्टुप्
चण्डौषधिः खरश्चण्डो दण्डौ सैन्यार्कपार्श्वगौ ।व्यथा कृपा च पीडे द्वे पाण्डुः कुन्तीपतौ सिते ॥ ११३ ॥
3.3.113 · p. 129
अनुष्टुप्
पिण्डः सान्द्रे गृहांशेऽङ्गे पण्डः षण्डे मत स्त्रियाम् ।स्तम्बे शस्ते प्रकाण्डोऽस्त्री वरण्डो वदनामये ॥ ११४ ॥
3.3.114 · p. 130
अनुष्टुप्
समूहे चान्तरावेद्यां मण्डः स्यात्सारपिच्छयोः ।एरण्डे मस्तुनि क्लीबे मार्तण्डौ खगदंष्ट्रिणौ ॥ ११५ ॥
3.3.115 · p. 130
अनुष्टुप्