कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

पातालकाण्डः · धातुवर्गः (1/5)

॥ इति प्रकीर्णवर्गः ॥

सतां कवीनां नव्यानि काव्यानि वितितंसताम् ।प्रयोगानुपघाताय धातुमाला विलास्यते ॥ १ ॥
3.5.1 · p. 35
अनुष्टुप्
क्रियार्थका धातवः स्युस्तिङन्तास्ते न लिङ्गिनः ।नित्यैकवचनान्तास्ते भावे यदि लडादयः ॥ २ ॥
3.5.2 · p. 35
अनुष्टुप्
सेटो वेटोऽनिटोऽकर्मैककर्मद्विककर्मणः ।सौत्रान्पारायणोक्तांस्ताञ्जानीयादाकराद्बुधः ॥ ३ ॥
3.5.3 · p. 35
अनुष्टुप्
धातुषु द्विपदेषु स्यात्कर्तृभाजि क्रियाफले ।आत्मनेपदमाख्यातं परस्मैपदमन्यथा ॥सत्तायामस्ति भवति विद्यते कर्तरि त्रयम् ।भवतक्यस्तकि स्वार्थे भूयते भाव-कर्मणोः ॥ ४ ॥
3.5.4 · p. 35
अनुष्टुप्
व्यतिस्ते व्यतिहारे स्यात्कर्मणो भावयत्यपि ।फले तु कर्तृगे भावयते स्याद्धेतुमण्णिचि ॥ ५ ॥
3.5.5 · p. 35
अनुष्टुप्
बुभू[181b]षतीति भवनेच्छा स्याच्चेदेककर्तृका ।क्रियासमभिहारे तु भवेद्बोभूयतेऽपि च ॥ ६ ॥
3.5.6 · p. 35
अनुष्टुप्metre not read in every line
बोभोति बोभवीति स्यात्प्रकर्षेऽस्तितमामिति ।एवमेवान्यधातुभ्यो विकारप्रत्ययान्वदेत् ॥ ७ ॥
3.5.7 · p. 35
अनुष्टुप्
भूः प्रात्प्रताप-पर्याप्ति-शक्त्यैश्वर्यातिशायने ।जन्मन्याद्योपलब्धौ वेः संपदैश्वर्यसंस्तवे ॥ ८ ॥
3.5.8 · p. 35
अनुष्टुप्
निर्वृति-व्याप्ति-नित्यत्वे प्रतेर्लग्नक आङ्परः ।भागागतावधेरैश्ये उद उद्भेदने समः ॥ ९ ॥
3.5.9 · p. 35
अनुष्टुप्
सहभावोत्पत्तिमाने योग्यमेलनयोरनोः ।प्रभाव-ज्ञानयोः पर्याङ्युक्तः स्याद[प]वर्तने ॥ १० ॥
3.5.10 · p. 35
अनुष्टुप्
पर्यभिभ्यां तिरस्कारे परा न्यग्भुव्यपक्षये ।निरः परो विद्यतिः स्याद्वैराग्ये भन्दते पुनः ॥ ११ ॥
3.5.11 · p. 35
अनुष्टुप्
भवेद्भन्दयते भन्दयति भन्दति नन्दति ।पुनाति स्याद्भण्डयति तथा भण्डयते शुभे ॥ १२ ॥
3.5.12 · p. 36
अनुष्टुप्
स्फायते श्वयति पूषति तौतिप्यायतेऽपि च बिभर्ति तवीति ।पुंसयत्यपि च ऋध्यति ऋध्नो-त्येधते भवति पोषति वृद्धौ ॥ १३ ॥
3.5.13 · p. 36
स्वागता
बंहते मंहते बर्हत्यपि बृंहति दृं[182a]हति ।वर्धते दर्हति समाः पुष्टौ पुष्णाति पुष्यति ॥ १४ ॥
3.5.14 · p. 36
अनुष्टुप्metre not read in every line
समृध्यति समृध्नोति नन्दति प्रार्द्ध्यति स्मृताः ।समृद्धौ नेस्त्वयमये परेः स्वक्तौ वहिर्मतः ॥ १५ ॥
3.5.15 · p. 36
अनुष्टुप्
आङ्परो नन्दतिर्हर्षे स्तुतौ स प्रतितः परः ।अभेस्तु स परो व्याप्तौ प्रशंसायामपीष्यते ।वठति पीवति मीवति तीवतिस्थविमति प्रथितोऽत्र च नीवति ।उपचिनोति तु *** लिम्पतेकथय(?)गोमयति प्रणिदेग्धि च ॥ १६ ॥
3.5.16 · p. 36
अनुष्टुप्two metres in one verse
अनोः प्रसाधनेऽवात्तु लिपिर्दूषण-गर्वयोः ।समो दिहिः संशये स्यादुपाद्वृद्धौ प्रकीर्तितः ॥ १७ ॥
3.5.17 · p. 36
अनुष्टुप्
कार्श्ये तु स्याच्छ्रथयति कत्रयत्यपि कत्रति ।सारयत्यथ मुख्यत्वे बर्हते वल्हते स्मृते ॥ १८ ॥
3.5.18 · p. 36
अनुष्टुप्
मण्डयते मण्डयति प्रसाधयत्यलति मङ्कते चात्र ।मङ्घति भूषति लूषत्यलंकरोतीह रूषति स्याच्च ॥ १९ ॥
3.5.19 · p. 36
गीतिः
मार्जति स्यान्मार्जयति भूषयत्यपि मण्डति ।स्वनयत्युत्तंसयति वतंसयति च स्मृतम् ।कर्णयोर्भूषणे तद्वच्छिख्याद्यजि च कीर्तितम् ।मोदते माद्यति[182b]स्याच्च सभाजयति हृष्यति ॥ २० ॥
3.5.20 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्मा (wrong syllable); pāda 3, syllable 5 त्तं (wrong syllable)
मोदतिः स्यात्प्रतो हर्षे स आङः सौरभे मुदि ।माद्यतिः प्रात्प्रमादे स्याद्धर्षे मोहेऽयमुत्परः ॥ २१ ॥
3.5.21 · p. 37
अनुष्टुप्
अङ्गीकारानुमत्योः स्यादनुपूर्वश्च मोदतिः ।मनोहर्षे निर्वृणोति तथा तूषति तुष्यति ॥ २२ ॥
3.5.22 · p. 37
अनुष्टुप्
प्रीणाति प्रीयते प्रीणयति [प्रीयति?] जोषति ।प्रीणीते च प्रीणयते प्रयति प्रयतेऽपि च ।पृणोति स्यात्प्राययति स्पृणोति पृणतीति च ॥वृणति स्यात्तर्पयति तृप्नोत्येव च तृप्यति ।जुषति स्यान्मादयते तथा तृपति तृम्फति ॥तर्पति स्याज्जोषयति तथा स्नुह्यति चकति च ।[धिन्वति]हिन्वति जिन्वति धिनोति दिन्वति जुहोति तृप्त्यर्थाः ।स्वादे लेढि स्वदते स्वादयति स्वादते तद्वत् ।स्यात्स्वर्दते राकयति लाकयत्यपि सम्मतम् ।राघयत्यपि च प्रोक्तं रागयत्यपि तत्समम् ।पिबति चूषति तत्र च पीयतेधयति चाथ पिपासति तृष्यति ।भवति पीङ्निपरः श्रवणार्थको-ऽप्यथ निकेतयतीति निमन्त्रणे ।बुभुक्षते क्षुध्यति च जिघत्सत्यशना[183a]यति ।लङ्घते तूपवसति मते भुक्तिनिवर्तने ।भुङ्क्ते जक्षिति वेति खादति घसत्याचामति भ्रक्षतिम्लक्षत्यत्ति तृणोति तत्र [च] भवेत्तर्णोति चर्वत्यपि ।स्यात्प्साति च्छमतीह जेमति जमत्यश्नाति सेमत्यपिस्नुस्यत्यत्र झमत्यपीह चमति स्याद्भक्षयत्यत्र* ॥
3.5.23 · p. 37
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 त्त (wrong syllable); pāda 3, syllable 5 न्मा (wrong syllable)nearly शार्दूलविक्रीडितम्
प्रीणातिक्रियाप्रीयतेक्रियाप्रीणयतिक्रियाप्रीयतिक्रियाजोषतिक्रियाप्रीणीतेक्रियाप्रीणयतेक्रियाप्रयतिक्रियाप्रयतेक्रियापृणोतिक्रियाप्राययतिक्रियास्पृणोतिक्रियापृणतिक्रियावृणतिक्रियातर्पयतिक्रियातृप्नोतिक्रियातृप्यतिक्रियाजुषतिक्रियामादयतेक्रियातृपतिक्रियातृम्फतिक्रियातर्पतिक्रियाजोषयतिक्रियास्नुह्यतिक्रियाचकतिक्रियाधिन्वतिक्रियाहिन्वतिक्रियाजिन्वतिक्रियाधिनोतिक्रियादिन्वतिक्रियाजुहोतिक्रियालेढिक्रियास्वदतेक्रियास्वादयतिक्रियास्वादतेक्रियास्वर्दतेक्रियाराकयतिक्रियालाकयतिक्रियाराघयतिक्रियारागयतिक्रियापिबतिक्रियाचूषतिक्रियापीयतेक्रियाधयतिक्रियापिपासतिक्रियातृष्यतिक्रियाबुभुक्षतेक्रियाक्षुध्यतिक्रियाजिघत्सतिक्रियाअशनायतिक्रियालङ्घतेक्रियाउपवसतिक्रियाभुङ्क्तेक्रियाजक्षितिक्रियावेतिक्रियाखादतिक्रियाघसतिक्रियाआचामतिक्रियाभ्रक्षतिक्रियाम्लक्षतिक्रियाअत्तिक्रियातृणोतिक्रियातर्णोतिक्रियाचर्वतिक्रियाप्सातिक्रियाछमतिक्रियाजेमतिक्रियाजमतिक्रियाअश्नातिक्रियासेमतिक्रियास्नुस्यतिक्रियाझमतिक्रियाचमतिक्रियाभक्षयतिक्रियानि-पी=श्रवणनिकेतयति=निमन्त्रण
खेटयति खेडयति ग्रसते ग्लसते च खोटयति ।चरति चषतेऽपि चषति गलति तथाभ्यवहरत्यपि ।उपाद्भुजिश्चोपभोगेऽथाङः पूर्णत्व-यत्नयोः ।समो साभे नुतोमत्यां(?)न तु तङ्मान्स रक्षणे ॥आङश्चमिरुपस्पर्शे चाभ्यधिभ्यां चरिः क्षये ।अनोः सहायकेऽथोपादुपादाराधनार्थकः ॥रोगस्य च चिकित्सायां शब्दवृत्तेर्विशेषणे ।आङः कृतौ परेः सेवे वाच्युदः समुदः परः ॥सहचारिण्यपावृत्तौ भूयः प्रत्याङ उत्तरः ।अतेरुल्लङ्घनानीत्योः प्रात्प्रसिद्धावभेः पुनः ॥अन्यथात्वेऽथोत्परोऽसौ कर्मवानात्मनेपदी ।तथा तृतीयया युक्तः[183b]संपरश्च प्रकीर्तितः ॥चलनप्राशनार्थेभ्यः स्यात्परस्मैपदं णिचि ।आदेस्तु कर्त्रभिप्राये फले स्यादात्मनेपदम् ॥परेर्मोहयतेर्वादेर्वासेः पाययतेर्दमेः ।आङ्यासेरपि तद्वत्स्यात्तथा धापयतेरपि ॥तद्वद्रोचेर्नर्तयतेर्ण्यन्तानां बुधयुध्नशाम् ।प्रुद्रुस्रूणां जनेङोश्च परस्मैपदमीरितम् ॥इच्छति वाङ्क्षति काङ्क्षति वाञ्छति माङ्क्षति च लष्यते लषति ।लष्यति लषते लुभ्यति कामयते वष्टि चाशास्ते ।प्रीणाति प्रीणीते गृध्यत्यनुरुध्यते च गर्धयति ।आशंसते च हर्यति कनत्यवति खटति तद्वत्स्युः ।वरयति लालयते च स्पृहयति लिप्सत्यपि चेच्छार्थाः ॥ २६ ॥
3.5.26 · p. 37
metre not recognised
खेटयतिक्रियाखेडयतिक्रियाग्रसतेक्रियाग्लसतेक्रियाखोटयतिक्रियाचरतिक्रियाचषतेक्रियाचषतिक्रियागलतिक्रियाअभ्यवहरतिक्रियाइच्छतिक्रियावाङ्क्षतिक्रियाकाङ्क्षतिक्रियावाञ्छतिक्रियामाङ्क्षतिक्रियालष्यतेक्रियालषतिक्रियालष्यतिक्रियालषतेक्रियालुभ्यतिक्रियाकामयतेक्रियावष्टिक्रियाआशास्तेक्रियाप्रीणातिक्रियाप्रीणीतेक्रियागृध्यतिक्रियाअनुरुध्यतेक्रियागर्धयतिक्रियाआशंसतेक्रियाहर्यतिक्रियाकनतिक्रियाअवतिक्रियाखटतिक्रियावरयतिक्रियालालयतेक्रियास्पृहयतिक्रियालिप्सतिक्रियाउप-भुज्=उपभोगआ-भुज्=पूर्णत्वयत्नसम्-भुज्=रक्षणआ-चम्=उपस्पर्शअभि-चर्=क्षयअन्यथात्वअधि-चर्=अनु-चर्=सहायकउप-चर्=आराधनरोगचिकित्साशब्दवृत्तिविशेषणआ-चर्=कृतिपरि-चर्=सेवाउद्-चर्=वाच्समुद्-चर्=सहचारिन्प्रत्या-चर्=अपावृत्तिअति-चर्=उल्लङ्घनअनीतिप्र-चर्=प्रसिद्धि
हृदयप्रीतिनिदानेच्छार्थे स्याद्रोचते तद्वत् ।आशंसते तथाशास्ते नाथते च शुभैषणे ॥इच्छति स्यात्प्रतिज्ञाने प्राकाम्ये मार्गणे परेः ।स्यादात्मनेपदे गर्धयतिर्वञ्चयतिस्तथा ॥प्रतारणेऽर्थेऽन्यत्रोभौ परस्मैप[184a]दिनौ मतौ ।चतति चदत्यर्थयते नाथति वनुते च नाधतेऽर्दति च ।याचति च याचते स्याद्विथते स्याद्वेथते तद्वत् ।स्याद्भिक्षते च याच्ञावाचिन एते च धातवो गदिताः ।जिघ्रति शिङ्घति गन्धग्रहणे धमति स्मृतं धमने ।आङः स्यादुदरापूरे ध्मातिः शब्देऽप्युपात्परः ।प्रादर्थिः प्रार्थनाघातप्रेरणास्वरिसंरुधि ॥व्रतचारे प्रतेर्विघ्नेऽर्थवैरूप्ये च वै द्विष्ये ।समो वनोतिरालो* तथा प्रोक्तो वशीकृतौ ॥
3.5.25 · p. 38
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 द्वि (wrong syllable)
वक्षयते मानयति च मानति खर्जति सपर्यतीत्युक्ता ।अवतोऽग्रे मानयतिर्वेश्च परः स्यादवज्ञाने ॥ ४० ॥
3.5.40 · p. 39
आर्या
यजति यजते सुरार्चा-संगतिकरण-प्रदानेषु ।सूर्क्षत्याद्रियते स्यात्पुस्तयते पुस्तयत्येवम् ॥ ४१ ॥
3.5.41 · p. 39
उपगीतिः
अनादरे शेटति सेटति स्या-त्तृणत्ति तृन्ते[184b]ऽट्टयते च तद्वत् ।रौडत्यपि स्माययते च सुट्ट-यतीह लोडत्यपि सूर्क्षतीति ॥ ४२ ॥
3.5.42 · p. 39
उपजातिःmetre not read in every line
अट्टयति सुट्टयते पुस्तयति स्याच्च हेडते तद्वत् ।स्मेटयति स्मेटयते बुस्तयति च होडतेऽवधीरयति ॥ ४३ ॥
3.5.43 · p. 39
गीतिःmetre not read in every line
स्तौति स्तवीतीडयति स्तुते स्या-दिहानुते नौति पणायति स्यात् ।पनायतीट्टे नुवति प्रवर्ण-यतीह शंसत्यपि वन्दते च ॥ ४४ ॥
3.5.44 · p. 39
उपजातिः
तथा वर्णयते चूर्णयते चूर्णयतीति च ।शशत्युपश्लोकयति प्रतिनन्दति दीव्यति ॥
3.5.32 · p. 40
अनुष्टुप्
ऋचत्यपीहार्कयति स्तुतौ स्युःप्रादुत्तरः स्तौतिरुपक्रमार्थः ।समः परोऽसौ परिचायने स्या-निरः परो वर्णयतिश्च दृष्टौ ॥ ४५ ॥
3.5.45 · p. 40
उपजातिः
अभेः शंसिर्जनाकीर्तौ याचनार्थः स आङ्परः ।वन्दते स्यात्प्रणमति नमस्यति नमस्कृतौ ॥ ४६ ॥
3.5.46 · p. 40
अनुष्टुप्
नमिर्विवर्तने वेः स्यादुपात्स्यादनुकूलने ।परेः पक्वत्व-हस्तीन्द्रतिर्यक्प्रहृति-दानयोः ॥ ४७ ॥
3.5.47 · p. 40
अनुष्टुप्
उदो नतेर्वैपरीत्ये समृद्धावुदयेऽपि च ।अवान्न्यग्भवने[185a] शेषोपसर्गार्थैर्निजार्थभाक् ॥ ४८ ॥
3.5.48 · p. 40
metre not recognised
शास्ति तु कंस्ते कस्ते सेधति चाज्ञापने प्रोक्ताः ।प्रात्सेधतिः प्रसिद्धौ प्रादुष्कारे च भूषायाम् ॥ ४९ ॥
3.5.49 · p. 40
metre not recognised
प्रतेः परो निषेधने[त्वभियुक्ते]स आङ्परः ।उदः संवर्धनोच्छ्राये समः स्वभावसिद्धि* ॥ ५० ॥
3.5.50 · p. 40
metre not recognised
दीक्षते स्याद्व्रतादेशे विद्याया ग्रहणेऽपि सः ।स्यात्कालयति कालस्योपदेशे वेलयत्यपि ।उषस्यति प्रभातस्य भवने समुदीरितम् ॥ ५१ ॥
3.5.51 · p. 40
अनुष्टुप्
दत्ते ददाति ददते दयते जुहोतिस्यात्क्षञ्जते चणति यच्छति भल्लते च ।विश्राणयत्यपि च दासति दासते चस्याद्यच्छते श्रणति दाशति दाशते च ॥ ५२ ॥
3.5.52 · p. 40
वसन्ततिलका
वितरति सनोति सनुतेऽतिसृज्यते भाजयत्येवम् ।विसृजति शणति तु भलते दिशति च दिशतेऽत्र समार्थाः ॥ ५३ ॥
3.5.53 · p. 40
उपगीतिःmetre not read in every line
प्रतेर्विर्विनिमये व्याङ्युक्प्रसारण-विकासयोः ।उपाङः परिणामे संग्रहेऽभ्याङ उपक्रमे ॥संप्राद्ददातिराम्नाये दानेऽथोपायने ह्युपात् ।आत्मनेपदवानाङो ददातिर्नित्यमीरितः ॥[186a]स्वास्यप्रसारादन्यत्र स आङस्तु ग्रहे मतः ।नितो हेतौ रोगबोधे प्रैषे तु व्याङ्परो दिशिः ॥ ५४ ॥
3.5.54 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
व्यपात्परो दिशिर्व्याजे नाम्नि प्रत्याङ्परः पुनः ।निराकृतौ समोऽभ्यासे वाचिकेऽथ नितो दिशिः ॥ ५५ ॥
3.5.55 · p. 41
अनुष्टुप्
आज्ञापनेऽन्तिके वाचि प्रतिनिर्युक्स संनिधौ ।समाङ्भ्यां वाचिके शिष्टे व्याख्याज्ञापनयोर्निरः ॥ ५६ ॥
3.5.56 · p. 41
अनुष्टुप्
अपाद्व्याजे कैतवे च प्रभाषे तूद ईरितः ।अत्याङोऽतेरन्यधर्मप्राप्तावाङश्चाज्ञापने मतः ॥ ५७ ॥
3.5.57 · p. 41
metre not recognisednearly अनुष्टुप्
दाने तथा भाषणे च प्राङ्परस्तु मितौ भवेत् ।उपादादिकथायां स्याद्धितस्याज्ञापने च सः ॥ ५८ ॥
3.5.58 · p. 41
अनुष्टुप्
अशिष्टव्यवहारार्थतृतीयायोगिनस्त्विह ।संप्राभ्यां परतो दाण आत्मनेपदमादिशेत् ॥ ५९ ॥
3.5.59 · p. 41
अनुष्टुप्
प्रसादे तु स्तोचतिः स्याच्छ्लोकते ग्रन्थकर्मणि ।अप्रसादे कूटयते पञ्चते व्यक्तताकृतौ ॥ ५५ ॥
3.5.55 · p. 41
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 कू (wrong syllable)
लेलायतीन्धेऽवति[186b]राजते चघर्णोति राजत्युदितं घृणोति ।चकास्ति शुम्भत्यपि भाति चेतिस्यात्त्वेषते त्वेषति दीप्यते च ॥ ५७ ॥
3.5.57 · p. 41
उपजातिःmetre not read in every line
छृणत्ति छृन्ते[न]टति सुरत्यसति काश्यते ।लोचते स्याद्रङ्घयति तथा वर्तयतीत्यपि ।शुभति क्नस्यति द्युत्यां ज्वलत्यपि च दीव्यति ॥ ५८ ॥
3.5.58 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्र (wrong syllable)
निरः पृथक्कृतौ काशिः प्रैषनिर्गमनेऽपि च ।नितः साम्ये निश्चये च समोऽनुकरणेऽन्तिके ॥ ५९ ॥
3.5.59 · p. 42
अनुष्टुप्
प्रादातपे प्रहासे च स्फुटाविर्भावयोरपि ।चकास्तिरभितोभूषे भासतिस्तु प्रतेः परः ॥ ६० ॥
3.5.60 · p. 42
अनुष्टुप्
ज्ञानेच्छयोराङ एष विज्ञाने बोधनेऽवतः ।उद्भासे च विषिस्तूदो दीप्तौ दाने च सम्मतः ॥ ६१ ॥
3.5.61 · p. 42
अनुष्टुप्
अपादपाकृतौ वेस्तु छृणत्तिः स्याद्गृहोकृतौ (?) ।आङो दिविर्जयेच्छायां परिपूर्वोऽनुशोचने ॥प्रकटीकरणे प्रादुष्करोत्याविष्करोति च ।वण्टापयति लञ्जापयति लञ्जयतीति च ॥ ६२ ॥
3.5.62 · p. 42
अनुष्टुप्
लजयति वटयति स्याद्दृष्ट्युपघाते तथान्धयति ।ओठति रोठति लोठत्यूठति चैते स्युरुपघाते ॥ ६३ ॥
3.5.63 · p. 42
उपगीतिःmetre not read in every line
तानयति श्रद्धत्ते चनति श्रद्धा[187a]सु चानयति ।विश्वसिति विश्वासार्थे तद्वदिह श्रम्भते प्रोक्तम् ॥ ६४ ॥
3.5.64 · p. 42
metre not recognised
वितः स्याच्छ्रम्भतिर्हिंसा प्रणयानुद्भरा(टा?)र्थकः ।अवात्स केलिकलहेऽत्यर्थशान्तावपीरितः ।धत्ते दधाति दधते मलते बिभर्तिस्कुभ्नाति बालयति पोषयतीह तद्वत् ।स्कुभ्नोति तत्र च भुरण्यति मल्लते चधृत्यां धियत्यपि धरत्यपि मञ्चते च ॥ ६६ ॥
3.5.66 · p. 42
अनुष्टुप्two metres in one verse
अपेर्दधातिः संवृत्यामदादेकाग्र्यसीनयोः ।परेर्निवसने वेष्टेऽन्तरन्तर्धौ न्यवादपि ॥ ६७ ॥
3.5.67 · p. 42
अनुष्टुप्
वेः कृतावुपनेर्न्यासे प्रतिवेस्तु विलोकने ।लोभयाचायन्नेवेशसमाद्धान्तर्द्धि विन्यसे ॥ ६८ ॥
3.5.68 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)
प्रतेरभिवितो व्याप्तौ चाङस्त्वावपने हुतौ ।प्रक्षेपारम्भयोरभ्याङ्युक्तोऽभेर्नाम्नि भाषणे ॥ ६९ ॥
3.5.69 · p. 43
अनुष्टुप्
स्मृत्यामभिसमोऽनोः संप्रतेश्चालोचने दृशि ।प्रतिनेः सदृशत्वे प्रात्प्रतिज्ञामुख्ययोः समः ॥ ७० ॥
3.5.70 · p. 43
अनुष्टुप्
संध्युरीकृत्यभिषवे सङ्गे संनेस्तु संनिधौ ।अत्याङोऽनर्थशङ्कोपश्लेषाश्चर्यमहाभये ॥ ७१ ॥
3.5.71 · p. 43
अनुष्टुप्
संविभ्यामुत्तरः प्रोक्तः स आकारस्य गोपने ।स[187b]माङः स्यात्कृतौ ज्ञान-मौन-नीवाक-सिद्धिषु ।ध्यानावधान-निक्षेप-नियमेषु समर्थने ॥ ७२ ॥
3.5.72 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 मा (syllables merged)
सम्यक्कृतौ प्रतिज्ञायामुपाङो धर्मचिन्तने ।कैतवोपप्लवारोप-सयोजन-वियोजने ॥ ७३ ॥
3.5.73 · p. 43
अनुष्टुप्
कुटुम्बव्यापृतौ चाथोन्मूलने तुलनेऽप्युदः ।भुक्तत्यागे च धरतिरवतो निर्णयार्थकः ॥ ७४ ॥
3.5.74 · p. 43
अनुष्टुप्
स णिजन्तः संप्रयुक्तो विमर्शे परिकीर्तितः ।निरः परः पृथक्कारे प्रणिधानेऽवतः परः ॥ ७५ ॥
3.5.75 · p. 43
अनुष्टुप्
विपरः स भवेत्कालहरण-प्रतिबन्धयोः ।सौगन्ध्ये च विमर्दे च मलतिः स्यात्परेः परः ।ध्रियते स्यादवस्थानेऽप्याधारे धीयते भवेत् ॥ ७६ ॥
3.5.76 · p. 43
अनुष्टुप्
अवष्टभ्नोत्यवष्टभ्नाति च संपरिकीर्त्यते ।प्रारम्भाक्रमयोः स्तम्भिरवादालम्बने मतः ॥ ७७ ॥
3.5.77 · p. 43
अनुष्टुप्
सांनिध्यौर्जित्ययोश्चाथ दोग्धि स्यात्संप्रपूरणे ।समो दुहिः समूहेऽथाशायां भ्रूणयते भवेत् ॥ ७८ ॥
3.5.78 · p. 43
अनुष्टुप्
स्यात्कुटुम्बयते तन्त्रयते स्वजनधारणे ।प्रख्याने प्रथते प्राथयते प्राथयतीति च ॥ ७९ ॥
3.5.79 · p. 43
अनुष्टुप्
पाति पालयति पालयते चत्राय[188a]तेऽवति पिपर्ति पृणाति ।कुण्डयत्यपि च कुण्डयते स्याद्गुण्ठयत्यपि च गुण्ठयतेऽत्र ॥ ८० ॥
3.5.80 · p. 43
स्वागताmetre not read in every line
तेजति तुञ्जति जंसति जंसयते गुण्ठति प्रोक्तम् ।कुण्डति गोपायति च स्याद्दयते रक्षति त्राणे ॥ ८१ ॥
3.5.81 · p. 44
उपगीतिः
भर्त्सयते तर्जयते तर्जति लाजति भृणाति कुट्टयते ।लाञ्जति कुट्टयतीति प्रोक्ता एतेऽत्र भर्त्सने विबुधैः ॥ ८२ ॥
3.5.82 · p. 44
गीतिः
ईर्ष्यंतीर्क्ष्यति च सूर्क्ष्यतीर्यतेस्यादिरस्यति भवेदिरज्यति ।ईर्यतीत्यथ दुनोति दूयतेकूटयत्यभिहिताः परितापे ॥ ८३ ॥
3.5.83 · p. 44
metre not recognisednearly रथोद्धता: pāda 1, syllable 2 र्ष्यं (wrong syllable)
असूयते चास्यति चोपतापेधूपायति त्वर्कयतीह तद्वत् ।संतापने स्यात्तपतीह तादृ-गनोस्तपेः स्यादनुतापवाची ॥ ८४ ॥
3.5.84 · p. 44
उपजातिः
दुःखे परेर्निरः सोऽल्पतापे क्रोधे समः परः ।उदः शोषे च तापे च तथैव च परिप्लवे ॥ ८५ ॥
3.5.85 · p. 44
अनुष्टुप्
उपात्त्वरायामुत्तापे प्रभावौदार्ययोः प्रतः ।स्यादात्मनेपदी व्युद्भ्यामकर्मा स्वाङ्गकर्मकः ॥ ८६ ॥
3.5.86 · p. 44
अनुष्टुप्
बाधते घुटति खोटति लुण्ठति[ए]ठते स्पशति खोरति चापि ।हेठतेऽत्र कथितं स्पशते चरोठते च[188b]चकते दृपतीति ॥ ८७ ॥
3.5.87 · p. 44
metre not recognisednearly स्वागता
लोटते लोठते चाधिक्लेशते चापि लुण्ठति ।भवेत्पेठति कुथ्नाति तथा मन्थति लुन्थति ।विबाधने तु क्लिश्नाति तथा दुःखयतीति च ॥ ८८ ॥
3.5.88 · p. 44
अनुष्टुप्
धुक्षते स्याद्धिक्षते च क्लिश्यते दूयते तथा ।व्याङ्भ्यां घुटतिरग्रस्थः परिवर्तन ईरितः ॥ ८९ ॥
3.5.89 · p. 45
अनुष्टुप्
कुन्थति स्याद्युन्थति च संक्लेशे स्वरतीत्यपि ।आह्वयते स्याद्धर्षति च स्पर्धते मिषतीति च ॥ ९० ॥
3.5.90 · p. 45
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 द्यु (wrong syllable); pāda 3, syllable 2 ह्वय (syllable split)
एते स्पर्धावाचिनः स्युरथ जर्जति चर्चति ।[झ]र्झति स्यान्मेधति च मेधते तर्जनार्थकाः ॥ ९१ ॥
3.5.91 · p. 45
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 न्मे (wrong syllable)
त्रासने स्याद्भाययति**भयं तु हेतुतः ।तदा भापयते भीषयते चेति प्रकीर्तितम् ॥ ९२ ॥
3.5.92 · p. 45
अनुष्टुप्metre not read in every line
लेट्यति स्याल्लोट्यति[च]धातू द्वौ धौर्त्यकर्मणि ।बिभेति भ्यसते भेषत्युद्विनक्ति च भेषते ।त्रसति त्रस्यति भ्रीणात्यपि चोद्विजते मतम् ॥ ९३ ॥
3.5.93 · p. 45
अनुष्टुप्metre not read in every line
खेटति केटति दर्भतिदृणाति दर्भयति तत्र च व्यथते ।श्राम्यति ताम्यति खिन्तेग्लेपत इह खिद्यते दैन्ये ॥ ८४ ॥
3.5.84 · p. 45
metre not recognised
वेः परः श्रमिरारत्यामथालस्ये च लुण्ठति ।शोठयत्यपि[189a] संप्रोक्तमवसादे तु सीदति ॥ ९५ ॥
3.5.95 · p. 45
अनुष्टुप्metre not read in every line
शटति स्यात्क्षयति च तथा मटति नन्दति ।वेति प्राप्तौ त्वाङ्परः स्यात्सीदतिश्चासने नितः ॥उदो विनाशेऽवाद्ध्रासेऽनुत्साहेऽपादनुग्रहे ।शुद्धावुपादानुकूल्ये प्रतिपादन-सेवयोः ॥ ९७ ॥
3.5.97 · p. 45
अनुष्टुप्
प्रात्प्रसत्तावुदो ण्यन्त उद्वाहोल्लेखनोद्धृतौ ।ग्लायति म्लायति ग्लानौ क्लाम्यति क्लामतीति च ॥ ९८ ॥
3.5.98 · p. 45
अनुष्टुप्
निन्दति नेदति गर्हति कुत्सयते गर्हते रिफति ।रि[ह]ति श्वल्कयति स्याद्भलते भल्लते वटति ।जर्जति झर्झति चर्चति रेटति परिभाषते तद्वत् ॥ ६ ॥
3.5.6 · p. 45
metre not recognised
रेटते बर्हते बल्हते च स्युः परिभाषणे ।द्वेष्ट्यप्रीतौ विप्रकारे पुनर्यातयति स्मृतम् ॥ ७ ॥
3.5.7 · p. 46
अनुष्टुप्
मन्तूयत्यपराधे स्यात्तथा मन्तूयतेऽपि च ।अभियोगेऽड्डति प्रोक्तमट्टतिः स्यादतिक्रमे ॥ ८ ॥
3.5.8 · p. 46
अनुष्टुप्
गर्वति स्याद्गर्वयतेऽवलिम्पति च दृप्यति ।ककते शौटति प्रोक्तं गर्वे कर्वति खर्वति ॥ ९९ ॥
3.5.99 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्ग (wrong syllable)
कत्थते श्लाघते रेखायति स्तोमयतीति च ।रिफति स्याच्छाठयते शाडते शीभते तथा ॥ १० ॥
3.5.10 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्छा (wrong syllable)
[189b] शल्भते चीभते श्लाघावाचिनो धातवो दश ।मचते स्याच्चह(प?)यति दम्भे दभ्नोति मुञ्चते ॥ ११ ॥
3.5.11 · p. 46
अनुष्टुप्
चहति स्याच्चहयति मङ्घते हठतीति च ।कैतवे व्याजकरणे विचतीति प्रकीर्तितः ॥ १२ ॥
3.5.12 · p. 46
अनुष्टुप्
धृष्णोति धृष्णुते धार्ष्ट्ये गल्भते च प्रकीर्तितम् ।अधार्ष्ट्ये क्लीबते छ्र(?)पयति मूर्छति चोच्छ्रये ॥ १३ ॥
3.5.13 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 छ्र (wrong syllable)
रोषयति रोषयतेक्रुध्यति कुप्यति हृणीयते तद्वत् ।भामयति भामते स्या-द्वक्षति गुध्नाति चण्डते तत्र ॥ १४ ॥
3.5.14 · p. 46
metre not recognised
स्याद्रोटयति च कोपेसहति तु सहते तितिक्षते** ।क्षाम्यति मर्षयति स्या-न्मृष्यति मर्षति च मृष्यते तद्वत् ॥ १५ ॥
3.5.15 · p. 46
metre not recognised
साहयति क्षम्पयतिक्षम्पयते क्षम्पति प्रोक्तम् ।शक्यति च शक्यते वा-ऽऽगमयत इह मर्षते क्षान्तौ ॥ १६ ॥
3.5.16 · p. 46
metre not recognised
उदस्तु सहिरुत्साहेऽधीनभावे निरः परः ।परेर्मृषिर्विचारे स्यात्परस्मैपदवानपि ॥ १७ ॥
3.5.17 · p. 47
अनुष्टुप्
अभेः शकिः शङ्कने स्याद्रेकते शङ्कतेऽपि च ।रगतिः स्याद्भ्रूणयते बाल्ये लटति कुडति ॥ १८ ॥
3.5.18 · p. 47
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 द्भ्रू (syllables merged)
जीर्यति स्याज्जूर्य[190a]ते च जिनाति च जृणात्यपि ।झृणाति च घृणाति स्याज्जरति ज्राययत्यपि ॥ १९ ॥
3.5.19 · p. 47
अनुष्टुप्metre not read in every line
ज्रयति स्याज्जारयति घूर्यते च वयःक्षये ।हूर्छति नसते क्नस्यतिकुटति च कुञ्चति तथा क्मरति ।क्रुञ्चति तुणति द्रुणति चभुजत्यपि ग्रन्थते ह्वरति ।ध्वरति च कौटिल्यार्थाद्रुह्यति तु स्याज्जिघांसायाम् ।स्याच्छ्रम्भते प्रमाद्यतियुच्छति चैतत्समानार्थः ॥ २० ॥
3.5.20 · p. 47
metre not recognised
आङः कुञ्चिः समानत्यामल्पवक्रे निरो भुजिः ।जिगीषायां दीव्यति स्याज्जयतीति जये स्मृतम् ॥ २१ ॥
3.5.21 · p. 47
अनुष्टुप्
वेरात्मनेपदी सर्वोत्कर्षणे जयतिः स्मृतः ।परातोऽभिभवे क्षान्तौ तथैव द्विविधोऽपि सः ॥ २२ ॥
3.5.22 · p. 47
अनुष्टुप्
जजति स्याज्जञ्जति च संग्रामयति युध्यते ।युध्यति स्याद्रिफति च युध्याङः स वधे स्मृतः ॥ २३ ॥
3.5.23 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्ज (wrong syllable)
स नेः परो बाहुयुद्धे प्रतेरन्योन्यसंगरे ।लोलति स्याद्विमर्देऽथ स्याद्दण्डयति दण्डने ॥ २४ ॥
3.5.24 · p. 47
अनुष्टुप्
हिंसायां हन्ति हिंसत्यपि कषति खषत्यर्दते चार्दति स्या-त्क्षीणाति स्यात्क्षिणाति क्षपयति भलते[190b]भल्लते बर्हते च ।मीनीते तौति मीनात्यपि मथति तथा मीयते स्या …..........................… नभ्नाति नभ्यत्यपि शुम्भतीह ।तोपत्यपि त्रोफति तुम्पति स्यात्तुम्फत्यपि त्रुम्पति तोफतीति ॥ २६ ॥
3.5.26 · p. 48
metre not recognised
नभते तुभते च तुण्डते दयते थूर्वति धूर्वतीषते ।रवते रिफति प्रतिस्किरत्यपि चोपस्किरति स्तृहत्यपि ॥ २७ ॥
3.5.27 · p. 48
वियोगिनी
तुम्फति तर्दति खर्दति तृन्तेतोजति तुञ्जति रिहति तृणत्ति ।पिञ्जति पिञ्जयते च तृणेढिस्तृहति पेजति पिञ्जयति स्यात् ॥ २८ ॥
3.5.28 · p. 48
metre not recognisednearly दोधकम्: pāda 2, syllable 7 रिह (syllable split); pāda 4, syllable 1 स्तृ (wrong syllable)
तोजयति ** लञ्जयति स्या-ल्लुञ्जयति द्रुणतीह *** ।तुञ्जयतेऽपि च तुञ्जयति स्या-दुमेति ? पुथ्यति रध्यति तद्वत् ॥ २९ ॥
3.5.29 · p. 48
metre not recognised
खदत्यट्टते धूर्यते गूर्यते स्या-त्तथा शूर्यते दक्षते स्याद्दृणोति ।कृणीते कृणात्युम्फति ? स्यात्कृणोतिस्मृतं हिंसयत्यर्दयत्युच्यतेऽत्र ॥ ३० ॥
3.5.30 · p. 48
भुजङ्गप्रयातम्
सट्टयते स्फिट्टयतिश्नथयति सघ्नोति ब्रूसयत्यपि च ।श्राथयति श्रथति स्या-ज्जासयति क्राथयत्येवम् ॥ ३१ ॥
3.5.31 · p. 48
metre not recognised
दूर्वति भर्वति शर्वतिसर्वति सर्भति च सृम्भति प्रोक्तम् ।सेभति सिम्भति शोभति[191a]यूषति जूषति शृणाति स्यात् ॥ ३२ ॥
3.5.32 · p. 49
metre not recognised
द्रूणाति द्रूणीतेरिष्यति रुष्यति च रोषति च्छषति ।छषते मेदति मेथ-त्यालभते मेधति तिग्नोति ॥ ३३ ॥
3.5.33 · p. 49
metre not recognised
बर्हयति जर्जयतिस्याद्भालयते जम्भयत्यपि च ।विष्कयते हिष्कयतेहिनस्ति चनयति तवीति रोजयति ॥ ३४ ॥
3.5.34 · p. 49
metre not recognised
मापयति क्लथयतिक्रथयति रेषति च लूषयत्यत्र ।लूषयते चुम्बयतिस्यात्तुम्बति जर्जति प्रोक्तम् ॥ ३५ ॥
3.5.35 · p. 49
metre not recognised
चर्चति झर्झति झषति चजषति तथा मषति सम्मतं हषति ।वर्षति तुपति तुफति ऋफतिचृतति मृणति रुशति रिशति होलति च ॥ ३६ ॥
3.5.36 · p. 49
metre not recognised
वेर्हन्तिर्विजटीकृत्यां विघाते तूलधूनने ।अन्तराये प्राद्विघाते क्षोदे व्याङीतराश्रये ॥ ३६ ॥
3.5.36 · p. 49
अनुष्टुप्