महासैन्यपति
mahāsainyapatiIn 2 kośas: 0 synonym verses, 2 as a meaning of another word.
महासैन्यपति as a meaning in nānārtha verses
- धरणिकोश महासेनपुण्यजनः स्मृतो यक्षे राक्षसे च प्रयुज्यते । महासेनः कार्तिकेये महासैन्यपतावपि ॥ Dharaṇikośa 19.2.68
- शब्दरत्नावली महासेनप्रसाधनी स्त्री कङ्कत्यां क्लीबन्तु सिद्धिवेशयोः । पयस्विनी विभावर्य्यां धेनौ नद्यामपि स्त्रियाम् ॥ पुण्यजनः सज्जने स्याद्यक्षराक्षसयोरपि । पृण्यजनस्तु पुंसि स्यान्नीचे मूर्खे च पापिनि ॥ फलकी मीनभेदे ना त्रिषु स्यात्फलकान्विते । वार्वकी वे विचित्राश्वपर्ण्यजीवशरान्विषु (?) ॥ भूतात्मा पुंसि भूतेशे देहे बुद्धे विधातरि । महाधनं महामूल्यसुवर्णसिह्लकादिषु ॥ महासेनः कुमारे स्यान्महासैन्यपतौ पुमान् । मदयित्नुः स्मरे शौण्डे पुमान्मद्ये तु न द्वयोः ॥ महामुनिः कुम्भयोनिबुद्धयोः क्लीबमोषधे । मातुलानी तु भङ्गायां कलायं मातुलस्त्रियाम् ॥ Śabdaratnāvalī 7.20.118