All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
नान्ताः · नार्धश्लोकः
॥ नार्धश्लोकः ॥
सानवो गहनप्रस्थवात्यामार्गाग्र?कोविदाः ।स्वप्नं स्वापे च सुप्तस्य विज्ञाने च प्रयुज्यते ॥
19.2.1 · p. 109
अनुष्टुप्
मुनिर्यन्ताङ्गुदी बुद्धः पियालागस्तिकिंशुके ।जिनो [बुद्धेऽति ?] वृद्धे च जिनः [55] स्यादर्हतीत्यपि ॥
19.2.2 · p. 109
अनुष्टुप्
मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतावपि ।वानं शुष्कफले शुष्के सीवने जलसंप्लवे ॥
19.2.3 · p. 109
अनुष्टुप्
स्त्यानं स्निग्धे प्रतिध्वाने घनत्वालस्ययोरपि ? ।भिन्नमन्यार्थवाचि स्याद्भिन्नौ संगतदारितौ ॥
19.2.4 · p. 109
अनुष्टुप्
दानं हस्तिमदे दत्ते छेदरक्षणशुद्धिषु ।हनुः स्त्रियां कपोलाधो हनुर्हट्टविलासिनी ॥
19.2.5 · p. 109
अनुष्टुप्
तनुस्त्वगल्पकायेषु तनुः स्याद्विरले कृशे ।मृत्स्ना तु वरिका प्रोक्ता मृत्स्ना प्रशस्तमृत्तिका ॥
19.2.6 · p. 110
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
ज्योत्स्ना ज्योतिःषु या रात्रिर्ज्योत्स्ना चन्द्रातपः स्मृतः ।ज्योत्स्नी पटोलिका ख्याता ज्योत्स्नी ज्योत्स्नान्विता निशा ॥
19.2.7 · p. 110
अनुष्टुप्
वर्ष्म देहे प्रमाणे स्यादाकारेऽप्यतिसुन्दरे ।धाम शक्तौ प्रभावेऽपि तेजोमन्दिरजन्मसु ॥
19.2.8 · p. 110
अनुष्टुप्
पक्ष्म सूत्रादिसूक्ष्मांशे किञ्जल्के नेत्रलोमनि ।धन्वा स्थाने च चापे च धन्वा मरुरपि स्मृतः ॥
19.2.9 · p. 110
अनुष्टुप्
राजा नृपे प्रभौ शक्रे राजा क्षत्रियचन्द्रयोः ।ग्रावा च प्रस्तरे शैले ग्रावा मेघे च कीर्तितः ॥
19.2.10 · p. 110
अनुष्टुप्
[श्येनाख्यो विहगः पत्री ?] पत्रिणौ शरपक्षिणौ ।शाखिनः स्युः तुरुष्काख्या जना वृक्षाश्च शाखिनः ॥
19.2.11 · p. 110
अनुष्टुप्
अर्थिनः स्युर्याचनका अर्थिनः सेवका अपि ।सादिनः स्यन्दनारोहा हस्त्यारोहाश्च सादिनः ॥
19.2.12 · p. 111
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्या (wrong syllable)
खड्गी च गण्डके ख्यातः सेवकोऽसिधरश्च यः ।पाशी चाखेटकः प्रोक्तः पाशी स्याद्वरुणे यमे ॥
19.2.13 · p. 111
अनुष्टुप्
चक्री सर्पे खले विष्णौ चक्री स्यात्काभ्र?तैलिकः ।धन्वी च ककुभे पार्थे धन्वी चापविचक्षणः ॥
19.2.14 · p. 111
अनुष्टुप्
शिखी वह्नौ मयूरे च व्रतिभेदः शिखी स्मृतः ।पद्मी गजे[59]ऽब्जवत्यां च स्त्रीभेदे चापि पद्मिनी ॥
19.2.15 · p. 111
अनुष्टुप्
सूचनाभिनये प्रोक्ता दर्शने व्यधनेऽपि च ।कुहना दम्भचर्यायां कुहनावीर्ष्यदाम्भिकौ ॥
19.2.16 · p. 111
अनुष्टुप्
पूतना राक्षसी काचित्पूतना च हरीतकी ।रोचना मङ्गलद्रव्यं रोचनः कूटशाल्मलिः ॥
19.2.17 · p. 111
अनुष्टुप्
वाणिनी नर्तकी मत्ता विदग्धा च स्मृता बुधैः ।संधिन्यकालदुग्धा गौर्वृषाक्रान्ता च संधिनी ॥
19.2.18 · p. 112
अनुष्टुप्
हस्ती चुतकावेणौ ? स्यात्स्त्रीभेदे चापि हस्तिनी ।नलिनी स्यात्सप्तमा गंगा पद्मे चापि सरोवरे ॥
19.2.19 · p. 112
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
शङ्खिनी कुचुचूका स्त्री स्त्रीभेदे चोरपुष्प्यपि ।अब्जिनी ? बिसिनीत्यादि पद्मे पद्माकरेऽपि च ॥
19.2.20 · p. 112
अनुष्टुप्
रजनी नीलिका रात्रि… ।धमनी च शिरा प्रोक्ता तथा हट्टविलासिनी ॥
19.2.21 · p. 112
अनुष्टुप्metre not read in every line
शतघ्नी शस्त्रभेदे च शतघ्नी वृश्चिकाल्यपि ।अर्शोघ्नी तालमूली स्यादर्शोघ्नश्चापि शूरणः ॥
19.2.22 · p. 112
अनुष्टुप्
अयनं पथि सूर्यस्याप्युदग्दक्षिणतो गतौ ।पाकस्थानं कुलालस्य पवनं पवनो मरुत् ॥
19.2.23 · p. 112
अनुष्टुप्
वृजिनं किल्बिषे भुग्ने वृजिनश्च शिरोरुहः ।रसनं स्वदने शब्दे रसना काञ्चिजिह्वयोः ॥
19.2.24 · p. 113
अनुष्टुप्
सवनं त्वध्वरे स्नाने सोमनिर्दलनेऽपि च ।जघनश्च स्त्रियाः पूर्वश्रोणीभागे कटौ तथा ॥
19.2.25 · p. 113
अनुष्टुप्
स्तननं मेघनिध्वाने स्तननं शब्दमात्रके ।मलनः पटवासे स्यान्मर्दल मलनं मतम् ॥
19.2.26 · p. 113
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 र्द (wrong syllable)
जयनं तुरगादीनां संनाहे विजये तथा ।मिथुनं राशिभेदे स्यान्मिथुने युग्मदम्पती ॥
19.2.27 · p. 113
अनुष्टुप्
भुवनं गगने प्रोक्तं सलिले विष्टपे जने ।शमनं च वधे शान्तौ शमनो यमराट् स्मृतः ॥
19.2.28 · p. 113
अनुष्टुप्
हसनं [57]हासमिच्छन्ति हसन्यंगारधानिका ।तपनं तापमादित्यं वदन्ति नरकान्तरम् ॥
19.2.29 · p. 113
अनुष्टुप्
असनं प्रापणे प्रोक्तमसनः पीतसालके ।श्वसनं मारुतं श्वासं मदनाख्यं द्रुमं विदुः ॥
19.2.30 · p. 114
अनुष्टुप्
दहनाः स्युः सुदुर्वृत्तवह्निभल्लातचित्रकाः ।मलिनः कृपणे म्लाने मलिनी ऋतुमत्यपि ॥
19.2.31 · p. 114
अनुष्टुप्
शकुनिः करणे च स्याच्छकुनी पक्षिसौबलौ ।स्पर्शनो मरुते ज्ञेयः स्पर्शनं स्पर्शदानयोः ॥
19.2.33 · p. 114
अनुष्टुप्
हायनास्तु समाख्याता व्रीहिसंवत्सरार्चिषः ।गोस्तनो हारभेदे च द्राक्षा तु गोस्तनी मता ॥
19.2.34 · p. 114
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
छर्दनोऽलम्बुषे निम्बे छर्दनं वमनं मतम् ।वामनो माधवेऽङ्कोठे खर्वे दक्षिणदिग्गजे ॥
19.2.35 · p. 114
अनुष्टुप्
फाल्गुनस्त्वर्जुने मासे फाल्गुनी चास्य पूर्णिमा ।पावनः सिह्लके वह्नौ पूते पथ्या च पावनी ॥
19.2.36 · p. 115
अनुष्टुप्
चेतनो ज्ञानवान्प्राणी चेतना बुद्धिरिष्यते ।गायनो मुखरे प्रोक्तो गीतोपजीवकेऽपि च ॥
19.2.37 · p. 115
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
विभिन्नं च समालब्धे विभक्ते च प्रकीर्तितम् ।प्रसूनं विदुरुत्पन्नं प्रसूनं कुसुमं फलम् ॥
19.2.38 · p. 115
अनुष्टुप्
कौपीनं च विनिर्दिष्टमकार्यं गुह्यचीरयोः ।कौलीनं पशुभिर्युद्धे कुलीनत्वापवादयोः ॥
19.2.39 · p. 115
अनुष्टुप्
विमानं देवयाने स्यात्सार्वभौमे च वेश्मनि ।प्रधानं स्यान्महामात्रमनीषापरमात्मसु ॥
19.2.40 · p. 115
अनुष्टुप्
समानं सत्समैकेषु समानो नाभिमारुतः ।संस्थानमाकृतौ मृत्यौ संनिवेशे चतुष्पथे ॥
19.2.41 · p. 115
अनुष्टुप्
आदानं ग्रहणे ज्ञेयं तुरंगाभरणेऽपि च ।उद्यानं वनान्तरं स्यान्निःसृतौ च प्रयोजने ॥
19.2.42 · p. 116
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
निदानं तण्डके [58] विद्यात्कारणे व्याधिनिर्णये ।अम्लानं निर्मले ज्ञेयमम्लानं कुसुमान्तरम् ॥
19.2.43 · p. 116
अनुष्टुप्
व्युत्थानं स्वातन्त्र्यकृत्ये विरोधाचरणेऽपि च ।संतानः संततौ देववृक्षे चापत्यगोत्रयोः ॥
19.2.44 · p. 116
अनुष्टुप्
अरत्निः कफणौ हस्ते प्रकोष्ठे च तताङ्गुलौ ।विक्लिन्नो जरया जीर्णे विक्लिन्नमार्द्रकीर्णयोः ॥
19.2.45 · p. 116
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्न (wrong syllable)
तमोघ्ना वह्निरवीन्दुशम्भुनारायणाः स्मृताः ।स्थापनं स्यात्पुंसवनं स्थापनं रोपणं मतम् ॥
19.2.46 · p. 116
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable); pāda 3, syllable 5 त्पुं (wrong syllable)
राधनं तोषणे प्राप्तौ साधने राधनं विदुः ।स्यन्दनं क्षरणे नीरे स्यन्दनौ रथपादपौ ॥
19.2.47 · p. 116
अनुष्टुप्
गन्धनश्चैव हिंसायामुत्साहे च प्रकाशने ।नन्दनं स्यादिन्द्रवनं नन्दनौ पुत्रहर्षकौ ॥
19.2.48 · p. 117
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दि (wrong syllable)
केतनमायतने चिह्ने कृत्ये चोपनिमन्त्रणे ।यापनं स्यान्निरसनं यापनं वर्तनं विदुः ॥
19.2.49 · p. 117
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वासनं धूपने ज्ञाने वासनं वारिधानिका ।कल्पनं कर्तने क्लृप्तो कल्पना गजसज्जना ॥
19.2.50 · p. 117
अनुष्टुप्
देवनं व्यवहारे स्याज्जिगीषाक्रीडनादिषु ।आसनं करिणां स्कन्धे पीठे गतिनिवर्तने ॥
19.2.51 · p. 117
अनुष्टुप्
शासनं नृपदत्तोर्व्यां लेखाज्ञाशास्त्रशान्तिषु ।सेचनं रक्षणे सेके नौकासेचनभाजने ॥
19.2.52 · p. 117
अनुष्टुप्
कर्तनं छेदनं प्रोक्तं स्त्रीणां च सूत्रकर्शने ।दर्शनं लोचने स्वप्ने बुद्धिशास्त्रोपलब्धिषु ।रञ्जनं रागजननं रञ्जनं रक्तचन्दनम् ॥
19.2.53 · p. 117
अनुष्टुप्metre not read in every line
जीवनं जीवने तोये जीवनी चौषधी स्मृता ।अङ्गनं प्राङ्गणे गत्यामङ्गना कामिनी स्मृता ॥
19.2.54 · p. 118
अनुष्टुप्
वेष्टनं कर्णवेष्टन्यामुष्णीषे परिवारणे ।धावनं प्रगमे शौचे धावनी पृश्निपर्णिका ॥
19.2.55 · p. 118
अनुष्टुप्
वर्धनं छेदने वृद्धौ वारिधानी तु वर्धनी ।चन्दनं तरुभेदः स्याच्चन्दनं वानरान्तरम् ॥
19.2.56 · p. 118
अनुष्टुप्
मार्जनं मार्ष्टिरुद्दिष्टा मार्ज[59]नो लोध्रपादपः ।सुधन्वा तरुपादः स्यात्सुधन्वा देववर्धकिः ॥
19.2.57 · p. 118
अनुष्टुप्
अर्यमा रविराख्यातश्चार्यमा पितृदेवता ।सुदामा मेघ उद्दिष्टः सुदामा पर्वतेऽपि च ॥
19.2.58 · p. 118
अनुष्टुप्
दुर्णामादर्शनं ज्ञेयं दुर्णामा दीर्घकोषिका ।कुण्डली भुजगो येन पिनद्धमपि कुण्डलम् ॥
19.2.59 · p. 119
अनुष्टुप्
शिखण्डी च मयूरः स्याच्छिखण्डी क्षत्रियान्तरम् ।प्रत्यर्थी शत्रुराख्यातः प्रतिवादी च कीर्तितः ॥
19.2.60 · p. 119
अनुष्टुप्
कञ्चुकी भुजगः प्रोक्तः कञ्चुकी च महल्लकः ।विषयि त्विन्द्रिये प्रोक्तं विषयी विषयान्वितः ॥
19.2.61 · p. 119
अनुष्टुप्
तरस्वी वेगसंयुक्तः तरस्वी बलवानपि ।फलकी फलकपाणिः स्यादिन्द्रियाख्ये क्रतुस्तथा ॥
19.2.62 · p. 119
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विरोचनो रवौ वह्नौ चन्द्रे प्रह्लाददानवे ।वैरोचनो वैवस्वतो बलिर्दैत्यस्तथागतः ॥
19.2.63 · p. 119
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
अभिपन्नोऽपराद्धोऽभिद्रुतो ग्रस्तो विपद्गतः ।प्रतिपन्नश्च विज्ञाते स्वीकृते च प्रकीर्तितः ॥
19.2.64 · p. 119
अनुष्टुप्
अनूचानो विनीतः स्यात्साङ्गवेदज्ञ एव च ।प्रतियत्नस्तु संस्कारे उपग्रहणलिप्सयोः ॥
19.2.65 · p. 120
अनुष्टुप्
स्तनयित्नुः स्मृतो मेघे घनस्य स्तनितेऽपि च ।सनातनो ध्रुवो विष्णुः पितॄणामतिथावपि ॥
19.2.66 · p. 120
अनुष्टुप्
कुम्भयोनिरगस्तिः स्याद्द्रोणश्च कुरुसम्मतः ।वर्धमानः शरावे स्यादेरण्डे वृद्धिमत्यपि ॥
19.2.67 · p. 120
अनुष्टुप्
पुण्यजनः स्मृतो यक्षे राक्षसे च प्रयुज्यते ।महासेनः कार्तिकेये महासैन्यपतावपि ॥
19.2.68 · p. 120
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ज (wrong syllable)
विष्वक्सेना प्रियङ्गुः स्याद्विष्वक्सेनो जनार्दनः ।देवसेनेन्द्रकन्यायां सेनायां च पिनाकिनः ॥
19.2.69 · p. 120
अनुष्टुप्
सौदामिन्यप्सरोभेदे विद्युद्विद्युद्विशेषयोः ।अभिजनो जन्मभूमावभिजनः कुलध्वजम् ? ॥
19.2.70 · p. 121
अनुष्टुप्metre not read in every line
उदयनो व[60]त्सराजे उदयनं तथोदये ।निशमनं विनिर्दिष्टं दर्शने श्रवणेऽपि च ॥
19.2.71 · p. 121
metre not recognised
निरसनं च हिंसायां निरासे ष्ठीवनेऽपि च ।विहननं समाघाते पिञ्जने तूलधूनने ॥
19.2.72 · p. 121
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable); pāda 3, syllable 3 न (wrong syllable)
प्रवचनं च वेदे स्यात्प्रकृष्टवचनेऽपि च ।निधुवनं सुरतं स्यात्कम्पनं च प्रकीर्तितम् ॥
19.2.73 · p. 121
metre not recognised
प्रजननं भगं प्रोक्तं जन्म प्रजननं विदुः ।आराधनं तोषणं च प्राप्तावाराधनं विदुः ॥
19.2.74 · p. 121
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
विसर्जनं परित्यागे दाने संप्रेषणेऽपि च ।समादानं नित्यकर्म सम्यगादानमिष्यते ॥
19.2.75 · p. 121
अनुष्टुप्
आस्कन्दनं समाख्यातं तिरस्कारे रणेऽपि च ।अभिमानश्च विज्ञप्तौ गर्वे प्रणयहिंसयोः ॥
19.2.76 · p. 122
अनुष्टुप्
उपासनं देवसेवा बाणाभ्यास उपासनम् ।अवदानमतिवृत्ते कर्मखण्डनयोर्मतम् ॥
19.2.78 · p. 122
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ति (wrong syllable)
सारसनमुरस्त्रे च मेखलायां च कीर्तितम् ।अधिष्ठानं प्रभावे स्याद्रथाङ्गेऽध्यासने पुरे ॥
19.2.79 · p. 122
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable)
निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च ।समापन्नं वधे प्रोक्तं समाप्तलब्धयोस्तथा ॥
19.2.80 · p. 122
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 प्त (wrong syllable)
आवेशनं प्रवेशे स्यात्कोपे शिल्पिगृहेऽपि च ।निर्वासनं मारणके नगरादेर्बहिष्कृतौ ॥
19.2.81 · p. 122
अनुष्टुप्
आतञ्चनं प्रतीवापजवनाप्यायनार्थकम् ।आस्फोटनं स्मृतं मुद्गे आस्फोटनं विकासने ॥
19.2.82 · p. 123
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ट (wrong syllable)
प्रतिमानं प्रतिच्छायागजदन्तान्तरालयोः ।उत्पतनं समुत्पत्तौ तथोर्ध्वगमनेऽपि च ॥
19.2.83 · p. 123
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
संवदनं समालोके संवदनं च वशक्रिया ।सम्मूर्च्छनमभिव्याप्तिर्मूर्छा सम्मूर्च्छनं मतम् ॥
19.2.84 · p. 123
अनुष्टुप्metre not read in every line
संवाहनं मर्दने स्याद्भारादेर्वाहनेऽपि च ।उद्वाहनं द्विसीत्ये स्याद्रज्जावुद्वाहनी मता ॥
19.2.85 · p. 123
अनुष्टुप्
अर्धा[61]सनं स्नेहदानमर्धासनमकुत्सनम् ।उद्वर्तनमुत्पतनमुद्वर्तनमपि घर्षणम् ॥
19.2.86 · p. 123
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 न (wrong syllable); pāda 4, syllable 3 र्तन (syllable split)
प्रणिधानं प्रयत्ने स्यात्समाधौ तु प्रवेशने ।राजादनं प्रियाले स्यात्क्षीरिकायामपि स्मृतम् ॥
19.2.87 · p. 124
अनुष्टुप्
समुत्थानं समुद्योगे व्याधीनां निर्णयेऽपि च ।उत्सादनमुद्वासनमुद्वाहनमुद्वर्तनम् ॥
19.2.88 · p. 124
अनुष्टुप्metre not read in every line
संयमनं तु नियमः संयमनी यमस्य पूः ।गवादनीन्द्रवारुण्यां गवां घासादनालया ॥
19.2.89 · p. 124
अनुष्टुप्metre not read in every line
पयस्विनी निशा प्रोक्ता नदीधेन्वोः पयस्विनी ।अन्तेवासी स्मृतः शिष्यश्चाण्डालोऽपि प्रकीर्तितः ॥
19.2.90 · p. 124
अनुष्टुप्
श्वेतधामा च कर्पूरे श्वेतधामा च चन्द्रमाः ।प्रतिपादनमाख्यातं प्रतिदाने प्रबोधने ॥
19.2.91 · p. 124
अनुष्टुप्
अवरोधनमवरोधो राज्ञामन्तःपुरं गृहम् ।अपसर्जनमाख्यातं दाने संपरिवर्जने ॥
19.2.92 · p. 124
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 मव (syllable split)
हरिचन्दनमाख्यातं कुसुम्भे चन्दनान्तरे ।अभिसर्जनमित्येतद्वधे दाने प्रकाशितम् ॥
19.2.93 · p. 125
अनुष्टुप्
महारजनमाख्यातं कुसुम्भे काञ्चनेऽपि च ।आभिनिष्ठान इत्येषोऽक्षरे विसर्जनीयके ॥
19.2.94 · p. 125
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
गन्धमादन इत्येष गन्धके पर्वतान्तरे ।वरवर्णिन्यपि ख्याता हरिद्रायां वरस्त्रियाम् ॥
19.2.97 · p. 125
अनुष्टुप्
अन्तावसायिनौ सद्भिः स्मृतौ चाण्डालनापितौ ।जायानुजीविनौ चैव ख्यातौ बककृशाश्विनौ ॥
19.2.99 · p. 126
अनुष्टुप्