शब्दभेद
śabdabhedaIn 1 kośa: 0 synonym verses, 2 as a meaning of another word.
शब्दभेद as a meaning in nānārtha verses
- शब्दरत्नावली समाघातआहितेऽप्युक्तसिद्धान्ते समाधिस्थे शुचौ पुमान् । समाघातः शब्दभेदे वधे युद्धे भये पुमान् ॥ संख्यावान् पण्डिते पुंसि संख्यायुक्तेऽन्यलिङ्गकः । सुधासूतिः पुमान् यज्ञे पद्मे हिमकरेऽपि च ॥ सूर्यभक्तश्चार्कपणे बन्धुके च भवेत्पुमान् । सेनापतिः कुमारे स्यात्सैन्याधिकारिणि पुमान् ॥ हिमारातिर्वीतिहोत्रे पुमान् किरणमलिनि । हैमवती श्वेतवचास्वर्णक्षीर्यभयासु च ॥ Śabdaratnāvalī 7.16.176
- शब्दरत्नावली अव्ययअनयो व्यसने दैवे विपत्त्यशुभयोरपि ॥ अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः । अवध्यमवधार्हे स्यादनर्थकवचस्यपि ॥ अव्ययो ना हरौ शब्दभेदेऽस्त्री निर्व्यये त्रिषु । अहार्यः पुंसि शैले स्यादहर्त्तव्येऽभिधेयवत् ॥ अभिख्यानाम्नि शोभायां यशस्याख्यान इत्यपि । अभया स्त्री हरितक्यां वीरणेऽपि च न द्वयोः ॥ निर्भये वाच्यलिङ्गं स्यात्प्रसादेऽपि च कुत्रचित् । अगस्त्यो वङ्गसेनाख्यतरौ कुम्भोद्भवेऽपि च ॥ आशयः स्यादभिप्रायाधारयोः पनसेऽपि च । आत्रेयो ना मुनौ पुष्पवतीनद्योरपि स्त्रियाम् ॥ आम्नायः पुंसि वेदे स्यादुपदेशे कुलक्रमे । उदयस्तून्नतौ दीप्तौ मङ्गले पूर्वपर्वते ॥ उपायः स्यादुपपन्तौ सामभेदादिके पुमान् । ऊर्णायुः क्षणभङ्गे ना मेषे च मेषकम्बले ॥ Śabdaratnāvalī 7.26.38