कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सुराजन्

surājanपुं · masc.

In 2 kośas: 2 synonym verses.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.8 · p. 245
साम्राज्योऽन्यस्तु साम्राजो विश्वाराट् सर्वभूपतिः ।सुराजा यः प्रजापोषी कुराजा तु प्रजाहरः ॥द्विषन्तं तापयन्राजा द्विषंतप उदीरितः ।द्विषन्तीं तापय[106b]न्नेष द्विषतीतापनामकः ॥परंतपः परोत्तापी राजघो राजघातकः ।श्वैतच्छत्रिक उक्तोऽसौ यः श्वेतच्छत्रमर्हति ॥एवं शत्रुंसहः शत्रुंतपाद्या नाम्नि भेद्यवत् ।राजन्यकं राजकं च क्षत्रं राजगणे क्रमात् ॥राजन्यानां तु विषयो भवेद्राजन्यकः पुमान् ॥ ८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1267 · p. 155
महीक्षिदथ राजन्यराजसंघे यथाक्रमम् ।राजन्यकं राजकं च सुराजा रज्ञि सत्तमे ॥ १२६७ ॥
अनुष्टुप्
genderपुंmasc.