All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
भूकाण्डः · वनौषधिवर्गः (11/15)
आश्वत्थो जितनेमिः स्यादौदुम्बर उलूखलः ।बैल्वः सारस्वतो रौच्यः पैलवस्त्वौपरौधिकः ।कुण्डी कमण्डलुर्न स्त्री व्रतिनामासनं वृषी ॥ ९६ ॥
2.3.96 · p. 242
अनुष्टुप्
वृसी च कृत्तिस्त्वजिनं चर्म च व्रतिवाससि ॥ ९७ ॥
2.3.97 · p. 242
अङ्गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मूलेकायम् ।मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यं मूले त्वङ्गुष्ठस्य ब्राह्मम् ॥ ९८ ॥
2.3.98 · p. 242
metre not recognised
करमध्ये तु सौम्यं स्याद्वानप्रस्थस्त्वरण्यगः ।वैखानसोऽप्य[103b]थो भिक्षुर्भवेत्सांन्यासिको यतिः ॥ ९९ ॥
2.3.99 · p. 242
अनुष्टुप्metre not read in every line
पाराशरी च कर्मन्दी परिव्राण्मस्करी च सः ।पारिरक्षक - निर्ग्रन्थ - पारिकाङ्क्षि-तपस्विनः ॥ १०० ॥
2.3.100 · p. 242
अनुष्टुप्
नीवरो रक्तवसन - परिव्राजक - तापसाः ।साधन्तश्च भदन्तः स्यादथ वाचंयमो मुनिः ॥ १ ॥
2.3.1 · p. 242
अनुष्टुप्
तपःक्लेशसहो दान्तः शान्तः श्रान्तो जितेन्द्रियः ।यतिर्यती स्थाण्डिलस्तु व्रतात्स्थण्डिलशायिनि ॥ २ ॥
2.3.2 · p. 242
अनुष्टुप्
द्वयातिगः सात्त्विकः स्याद्यो भवेद्विरजस्तमाः ।ऋषयः सत्यवचसः सात्वन्तो ब्रह्मतत्पराः ॥ ३ ॥
2.3.3 · p. 242
अनुष्टुप्
योगाय यौ प्रभवतस्त्रिष्विमौ योग्य-यौगिकौ ।पवितः प्रयतः पूतः पवित्रः पावनः शुचिः ।मेध्यः पुण्योऽथ वाल्मीकि - वाल्मीक - कुशिनः कविः ॥ ४ ॥
2.3.4 · p. 242
अनुष्टुप्
प्राचेतसश्च वल्मीको मैत्रावरुण इत्यपि ।त्रिशङ्कुयाजी गाधेयो विश्वामित्रश्च कौशिकः ॥ ५ ॥
2.3.5 · p. 242
अनुष्टुप्
व्यासस्तु माठरः कृष्णः कानीनो वादरायणः ।पाराशर्यः सत्यवतीसूनुर्वैयासिकिः शुकः ॥ ६ ॥
2.3.6 · p. 242
अनुष्टुप्
व्यासमाता सत्यवती वासवी ग[104a]न्धकालिका ।सालङ्कायनजा दाशेयी च योजनगन्धिका ॥ ७ ॥
2.3.7 · p. 242
अनुष्टुप्metre not read in every line
कुशारणिस्तु दुर्वासाः शतानन्दस्तु गौतमः ।राहुलो गौतमस्तस्य त्वहल्या कामिनी भवेत् ।भवेद्व्याडिर्विन्ध्यवासी नन्दिनीतनयश्च सः ॥ ८ ॥
2.3.8 · p. 242
अनुष्टुप्metre not read in every line
स्फोटायनस्तु कक्षीवान्पालकाप्यः करेणुभूः ।कौटिल्यनामा चाणक्योऽशमिलो विष्णुगुप्तकः ॥ ९ ॥
2.3.9 · p. 242
अनुष्टुप्
अङ्गुलः पक्षिलः स्वामी कौण्डिन्यश्च स कथ्यते ।उपव[र्षो]हलभृतिर्जोटिङ्गस्तु महाव्रती ॥ १० ॥
2.3.10 · p. 242
अनुष्टुप्
वात्स्यायनो मल्लिनागः कणादः कश्यपो मतः ।याज्ञवल्क्यो यज्ञरात्रिर्योगीशो ब्रह्मवित्तमः ॥यास्को निरुक्तकारी स्यात्कृशाश्वो नटसूत्रकृत् ।शालिहोत्रोऽश्विनीजन्मा तद्भेदा अङ्गिरा भृगुः ॥ ११ ॥
2.3.11 · p. 242
अनुष्टुप्
गर्गो नडो भरद्वाजः शङ्खो लिखित इत्यपि ।अग्निवेशः सुश्रुतश्च खारणादिः पराशरः ॥ १२ ॥
2.3.12 · p. 242
अनुष्टुप्
गौतमश्च जरत्कारुरसितो बहवोऽपरे ।गर्गस्यान[104b]न्तरापत्ये गार्गिर्नाडिर्द्ध(र्न)डस्य च ॥ १३ ॥
2.3.13 · p. 242
अनुष्टुप्metre not read in every line
तयोस्तु गोत्रापत्ये स्याद्गार्ग्यो नाडायनः क्रमात् ।गार्गी नाडायनी च स्यात्स्त्र्यपत्ये ह्यनयोः क्रमात् ।पुमपत्ये तु गर्गस्य गार्ग्यायण उदीरितः ॥ १४ ॥
2.3.14 · p. 242
अनुष्टुप्
नाडायनिर्नडस्य स्यात्स्त्र्यपत्ये पूर्ववद्द्वयम् ।स्याच्छौनकायनो वात्स्यः शौनकोऽन्य उदीरितः ॥ १५ ॥
2.3.15 · p. 242
अनुष्टुप्
शारद्वतायनो भृग्वपत्ये शारद्वतस्त्रयः ।दार्भायणो भवेदाग्रायणो दार्भिः परः स्मृतः ॥ १६ ॥
2.3.16 · p. 242
अनुष्टुप्
बाभ्रव्यः कौशिकापत्ये स्याद्बाभ्रव्यायणी स्त्रियाम् ।कौञ्जिः कुञ्जानन्तरो यः कौञ्जायन्योऽस्य गोत्रजः ॥ १७ ॥
2.3.17 · p. 242
अनुष्टुप्
वातण्ड्यः स्यादाङ्गिरसो वतण्डी तु स्त्र्यपत्यके ।काप्य-बौध्यावाङ्गिरसौ कापेयो बौधिरन्यजः ।वत्सापत्ये तु वैकर्णः कश्यपस्य त्वपत्यके ॥ १८ ॥
2.3.18 · p. 243
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
वैकर्णेयस्ततोऽन्यस्यापत्ये वैकर्णिरुच्यते ।भार्गायणस्तु त्रैगर्तो भार्गिस्त्वितर ईरितः ॥ १९ ॥
2.3.19 · p. 243
अनुष्टुप्
गार्गीया गर्गशिष्याः स्युर्गर्गरूप्यं[105a] तदागतम् ।गार्गीयं यद्गर्गहितं गार्ग्याद्याः स्युर्विशेष्यगाः ॥ २० ॥
2.3.20 · p. 243
अनुष्टुप्metre not read in every line
जारत्कारेय आस्तीकः स्याज्जारत्कारवश्च सः ।भारद्वाजो भवेद्द्रोणः कृपीशो द्रुपदान्तकः ।द्रौणिर्द्रौणायनिश्च स्यादश्वत्थामा कृपीसुतः ॥ २१ ॥
2.3.21 · p. 243
अनुष्टुप्
गोत्रान्तेभ्यस्तस्य वृन्दे क्लीबे स्युर्गार्ग्यकादयः ।;l(5755}त्र्यार्षेयः प्रवरस्त्वस्त्रि(?) ते पुनर्यस्य पञ्च चेत् ।पञ्चावत्ती स उक्तोऽथ सापिण्ड्यं साप्तपूरुषम् ॥ २२ ॥
2.3.22 · p. 243
अनुष्टुप्metre not read in every lineLatin letters: l
मेधारुद्रः कालिदासः कालीदासश्च तिन्तिडः ।भूगर्भो भवभूतिः स्याच्छ्रीकण्ठपदलाञ्छनः ॥ २३ ॥
2.3.23 · p. 243
अनुष्टुप्
उम्बेको विश्रुतश्चासौ शतलुम्पस्तु भारविः ।संन्यासवत्यनशने पुमान्प्रायोऽथ यो व्रती ॥ २४ ॥
2.3.24 · p. 243
अनुष्टुप्
श्राद्धे न भुङ्क्ते सोऽश्राद्धभोजी स्याच्छ्राद्धिकः पुनः ।श्राद्धी स्याल्लिङ्गवृत्तिस्तु भवेद्धर्मध्वजी तथा ॥ २५ ॥
2.3.25 · p. 243
अनुष्टुप्
वार्त्ताशी भोजनार्थं यो गोत्रादि वदति स्वकम् ।उच्छिष्टभोजनो देवनैवेद्यबलिभोजनः ॥ २६ ॥
2.3.26 · p. 243
अनुष्टुप्
गुरु [105b]हा नरकीलः स्यान्मलोऽश्राद्धः सुरार्चने ।पञ्चयज्ञपरिभ्रष्टो यो द्विजः स मलिम्लुचः ॥ २७ ॥
2.3.27 · p. 243
अनुष्टुप्metre not read in every line
खरुर्निषिद्धैकरुचिर्वीरोज्झो न जुहोति यः ।अग्निहोत्रच्छलाद्याच्ञापरो वीरोपजीवकः ॥ २८ ॥
2.3.28 · p. 244
अनुष्टुप्
वीरविप्लावको जुह्वद्धनैः शूद्रसमाहृतैः ।अनाश्रमी स्याद्विधुरो भानोस्तूदयनास्तयोः ॥ २९ ॥
2.3.29 · p. 244
अनुष्टुप्
सुप्तो भवेदभ्युदितोऽभिनिर्मुक्तश्च स क्रमात् ।नग्नव्रता वेदबाह्याः सर्वे पाखण्डनामकाः ॥ ३० ॥
2.3.30 · p. 244
अनुष्टुप्
हौव ऊर्ध्वस्रोतसिकः शुद्धान्ती सिद्धमार्गिकः ।पञ्चार्थिकः पाशुपतो नाकुलोऽथ महाव्रती ॥ ३१ ॥
2.3.31 · p. 244
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्रो (wrong syllable)
तान्त्रिकः सोमसिद्धान्ती कापाली च विशेषदृक् ।शाक्तो वामस्रोतसिकः कौल आन्वयिकोऽपि सः ॥ ३२ ॥
2.3.32 · p. 244
अनुष्टुप्
पूर्वाम्नायी तु महामार्गो भैरव्युपासको गदितः ।वैष्णव एकायनकः स शाश्वतः पाञ्चरात्रिकश्चोक्तः ॥ ३३ ॥
2.3.33 · p. 244
गीतिःmetre not read in every line
इति ब्रह्मवर्गः ।
[106a] क्षत्रमस्त्री क्षत्रियः स्याद्राजन्यो बाहुजो विराट् ।भार्यो द्वितीयवर्णश्च नाभिः क्षात्रं तु तस्य यत् ॥ १ ॥
2.3.1 · p. 244
अनुष्टुप्
राजा राट् पृथिवीशक्रो महीक्षित्पार्थिवो नृपः ।मध्यलोकपतिर्भूभृत्प्रजानाथश्च भूपतिः ॥ २ ॥
2.3.2 · p. 244
अनुष्टुप्
गुपिलो जागृविः संपद्वरः संयद्वरोऽवसः ।मूर्द्धाभिषिक्तो भूदेवो नरदेवोऽपि लोकपः ॥ ३ ॥
2.3.3 · p. 244
अनुष्टुप्
महिनं माहिनं राज्यमाधिराज्यं तु तन्महत् ।प्रभावती तु प्रभुता तथैव प्रभविष्णुता ।मण्डलेशो माण्डलिकः सामन्तो नृप इत्यपि ॥ ४ ॥
2.3.4 · p. 244
अनुष्टुप्metre not read in every line
अधीश्वरोऽप्रतिरथो यं नमन्त्यखिला नृपाः ।चक्रवर्त्ती सार्वभौमस्ते तु स्युर्भरतादयः ॥ ५ ॥
2.3.5 · p. 244
अनुष्टुप्
ईजे यो राजसूयेन मण्डलेशोऽन्यभूपतीन् ।आज्ञापयत्यसौ सम्राट् क्षत्रजातिस्तु तत्सुतः ॥ ६ ॥
2.3.6 · p. 245
अनुष्टुप्
साम्राज्योऽन्यस्तु साम्राजो विश्वाराट् सर्वभूपतिः ।सुराजा यः प्रजापोषी कुराजा तु प्रजाहरः ॥द्विषन्तं तापयन्राजा द्विषंतप उदीरितः ।द्विषन्तीं तापय[106b]न्नेष द्विषतीतापनामकः ॥परंतपः परोत्तापी राजघो राजघातकः ।श्वैतच्छत्रिक उक्तोऽसौ यः श्वेतच्छत्रमर्हति ॥एवं शत्रुंसहः शत्रुंतपाद्या नाम्नि भेद्यवत् ।राजन्यकं राजकं च क्षत्रं राजगणे क्रमात् ॥राजन्यानां तु विषयो भवेद्राजन्यकः पुमान् ॥ ८ ॥
2.3.8 · p. 245
अनुष्टुप्metre not read in every line
राज्ञस्त्विदं राजकीयं कथितं भेद्यलिङ्गकम् ।आदिराजो मनुर्द्वंद्वे विवस्वत्तनयोऽपि सः ।मनायी च मनावी च मनुर्मनुनृपाङ्गना ॥ ८ ॥
2.3.8 · p. 245
अनुष्टुप्metre not read in every line
मनूद्भवः स्यादिक्ष्वाकुरैक्ष्वाकस्तस्य नन्दनः ।इक्ष्वाकवस्तु भूम्नि स्युरार्षभिप्रमुखाः पुनः ॥ ९ ॥
2.3.9 · p. 245
अनुष्टुप्
शलाकापुरुषा भूपाः पृथुः स्यादादिभूपतिः ।वैन्यश्चाप्यथ मान्धाता युवनाश्वसुतो मतः ॥ १० ॥
2.3.10 · p. 245
अनुष्टुप्
कुवलाश्वो धुन्धुमारो हरिश्चन्द्रस्त्रिशङ्कुजः ।पुरूरवा बौधिरैल उर्वशीरमणश्च सः ॥ ११ ॥
2.3.11 · p. 245
अनुष्टुप्
शाकुन्तलेयो भरतः स्यात्सर्वदमनोऽपि सः ।दौष्यन्तिर्हैहयस्तु स्याद्दोः[107a]सहस्रभृदर्जुनः ॥ १२ ॥
2.3.12 · p. 245
अनुष्टुप्metre not read in every line
कार्त्तिकेयोऽथाजमीढो धार्मिर्ब्राह्मणलिङ्गवान् ।* * * * * * * * ऽजातशत्रुर्युधिष्ठिरः ।धर्मपुत्रस्तपः पुत्रः शल्यारिः कङ्क इत्यपि ॥ १३ ॥
2.3.13 · p. 245
अनुष्टुप्metre not read in every line
पृष्ठशृङ्गी भीमसेनो भीमो मारुतनन्दनः ।वृकोदरो हिडिम्बेशो धृतराष्ट्रसुतान्तकः ॥ १४ ॥
2.3.14 · p. 246
अनुष्टुप्
बकारिर्मागधारिश्च गणकृत्कीचकान्तकः ।किर्मीरारिश्चाथ पार्थः सव्यसाची धनंजयः ॥ १५ ॥
2.3.15 · p. 246
अनुष्टुप्
नरः कृष्णोऽर्जुनो राधावेधी फाल्गुन-फल्गुनौ ।किरीटी विजयो जिष्णुः श्वेताश्वो हरिसारथिः ॥ १६ ॥
2.3.16 · p. 246
अनुष्टुप्
कपिध्वजश्च कर्णारिर्गुडाकेशश्च शक्रजः ।किरातजेता * * * * * * * * * * * ।सुभद्रेशश्च बीभत्सुस्तथा मध्यमपाण्डवः ॥ १७ ॥
2.3.17 · p. 246
अनुष्टुप्metre not read in every line
गाण्डीवं गाण्डिवं न स्त्री धनुस्तस्य रथः पुनः ।नन्दिघोषोऽथ शङ्खोऽस्य देवदत्तः प्रकीर्त्तितः ॥भीमस्य पौण्ड्रः शङ्खः स्यान्नकुलस्तन्त्रिपालकः ।ग्रन्थिकः सहदेवः स्यान्माद्रेयौ द्वाविमौ यमौ ॥ १९ ॥
2.3.19 · p. 246
अनुष्टुप्
विना यमाभ्यां कौ[107b]न्तेयाः धर्मवाय्विन्द्रनन्दनाः ।तापत्याः पाञ्चयश्च स्युरेते पञ्चापि पाण्डवाः ॥ २० ॥
2.3.20 · p. 246
अनुष्टुप्metre not read in every line
तपाः कुन्ती पृथा च स्यान्मद्री माद्री समे उभे ।पाञ्चाली द्रौपदी कृष्णा याज्ञसेनी च वेदिजा ॥ २१ ॥
2.3.21 · p. 246
अनुष्टुप्
भवेदुत्पलगन्धिश्च सैरन्ध्री नित्ययौवना ।भीष्मः शांतनवो गाङ्गो गाङ्गेयश्च पितामहः ॥ २२ ॥
2.3.22 · p. 246
अनुष्टुप्
गाङ्गायनिस्तथा देवव्रतः स्वच्छन्दजीवनः ।धृतराष्ट्रस्त्वाम्बिकेयो धार्तराष्ट्रास्तु कौरवाः ॥ २३ ॥
2.3.23 · p. 246
अनुष्टुप्
कर्णो वैकर्तनोऽङ्गेशो राधेयश्च वृषापि सः ।कानीनोऽप्यस्य चापस्तु कालपृष्ठमुदीरितम् ॥ २४ ॥
2.3.24 · p. 246
अनुष्टुप्
सौभद्रस्त्वभिमन्युः स्यात्परीक्षित्तूत्तरात्मजः ।पारीक्षितः सर्पसत्रव्रती च जनमेजयः ।भम्भासारः श्रेणिकः स्यात्कुन्तलः शालिवाहनः ॥ २७ ॥
2.3.27 · p. 246
अनुष्टुप्metre not read in every line
हालश्चाथो साहसाङ्को विक्रमादित्य इत्यपि ।शकान्तकोऽथ श्रीहर्षो वत्सराज इति स्मृतः ॥ २८ ॥
2.3.28 · p. 247
अनुष्टुप्
महापद्मस्तु नन्दः स्याद[108a ]ग्निमित्रस्तु शूद्रकः ।वृषलश्चन्द्रगुप्तः स्याद्बिन्दुसारस्तु तत्सुतः ॥ २९ ॥
2.3.29 · p. 247
अनुष्टुप्metre not read in every lineLatin letters: a
शकटारो नन्दमन्त्री शाकश्चेति नृपाः परे ।सर्वे रामप्रभृतयो मता मौखरजा नृपाः ॥ ३० ॥
2.3.30 · p. 247
अनुष्टुप्
कुरोरपत्यं क्षत्रं यत्तत्कौरव्यं बहूक्तिषु ।कुरूणि ब्राह्मणास्त्वित्थं कौरव्या इति सम्मताः ॥ ३१ ॥
2.3.31 · p. 247
अनुष्टुप्
राजबीजी राजवंश्योऽथाभिजिद्भूपनन्दनः ।आभिजित्यश्चाभिजितो भवेद्ग्रन्थिहरः पुनः ॥ ३२ ॥
2.3.32 · p. 247
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 श्चा (wrong syllable)
मन्त्री त्वमात्य आमात्यः सचिवः सामवायिकः ।धीसखो व्यापृतस्त्वन्य आयुक्तश्च नियोग्यपि ॥ ३३ ॥
2.3.33 · p. 247
अनुष्टुप्
स्यात्कर्मसचिवश्चाथ मुक्तव्यापारमन्त्रिणि ।पात्रटीरो महामात्रः प्रधानान्यन्तिमे ध्रुवम् ॥ ३३ ॥
2.3.33 · p. 247
अनुष्टुप्
पुरोहितः पुरोधाः स्यान्नेपः सौवस्तिकश्च सः ।द्रष्टा तु व्यवहाराणां प्राड्विवाकोऽक्षदर्शकः ॥ ३४ ॥
2.3.34 · p. 247
अनुष्टुप्
त्रिषु धर्माधिकाराणां धर्माध्यक्षश्च धार्मिकः ।दौवारिको द्वारपालो द्वाः[108b]स्थो द्वाःस्थितदर्शकः ॥ ३५ ॥
2.3.35 · p. 247
अनुष्टुप्metre not read in every line
प्रतीहारो वेत्रधर-वेत्र्युत्सारक-दण्डिनः ।क्षत्ता चाथ प्रतीहारी द्वाःस्था दौवारिकी स्त्रियाम् ॥ ३६ ॥
2.3.36 · p. 247
अनुष्टुप्
रक्षिवर्गस्त्वनीकस्थो राजशिक्षाविचक्षणः ।अध्यक्षोऽधिकृतस्तुल्यावधिकारो नियोजनम् ॥ ३७ ॥
2.3.37 · p. 247
अनुष्टुप्
प्रक्रिया चाथ शुल्कोऽस्त्री देयं घट्टादिकेषु यत् ।स्थायुकोऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु ॥ ४० ॥
2.3.40 · p. 248
अनुष्टुप्
देशाध्यक्षो दैशिकः स्यादथ भौरिक-हैरिकौ ।स्वर्णाध्यक्षो नैष्किकस्तु रूप्याध्यक्षोऽथ कौषिकः ॥ ४१ ॥
2.3.41 · p. 248
अनुष्टुप्
स्याद्भाण्डागारिकः कोषागारिकश्चाथ शौल्किकः ।स्याच्छौल्कशालिकश्चाथ हाट्टिकश्चाधिकर्मिकः ॥ ४२ ॥
2.3.42 · p. 248
अनुष्टुप्
स्थानाध्यक्षः स्थानिकः स्यात्सेनानीर्दण्डनायकः ।सेनापतिश्चाथ दौःसाधिको दण्डाधिकारिणि ॥ ४३ ॥
2.3.43 · p. 248
अनुष्टुप्
स्यादन्तर्वंशिकश्चान्तर्वेश्मिकश्चावरोधिकः ।शौद्धान्तिकान्तः पुरिकौ त्रिषु तु स्थायुगा[का]दयः ॥ ४४ ॥
2.3.44 · p. 248
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
[109a] सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते ।शण्ढः षण्ढो वर्षधरः सेवकस्तूपजीवकः ॥ ४५ ॥
2.3.45 · p. 248
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
अनुजीवी चोपजीवी स्यादर्थी च त्रिलिङ्गगाः ।संवाहकोऽङ्गमर्द्दी स्याच्छायाकृच्छत्रधारकः ।सेवा श्ववृत्तिर्दुर्वृत्तिरतिश्वी च निगद्यते ॥ ॥
2.3.1280 · p. 248
अनुष्टुप्metre not read in every linedoubled daṇḍa: ॥ ॥
विषह्योऽनन्तरो राजा शत्रुर्मित्रमतः परम् ।उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः ॥ ४७ ॥
2.3.47 · p. 248
अनुष्टुप्
अमित्रः शात्रवः शत्रुर्द्विट् द्विषन्द्वेषणो रिपुः ।परिपन्थी प्रत्यनीकः प्रतीपः परिपन्थिकः ॥ ४८ ॥
2.3.48 · p. 248
अनुष्टुप्
प्रत्यर्थी प्रत्यवस्थाता प्रतिपक्षः परोऽप्यरिः ।दस्युः सपत्नोऽसहनो विरोद्ध्रररु-दुर्हृदः ॥ ४९ ॥
2.3.49 · p. 248
अनुष्टुप्
वैरी वैरायमाणश्च विरोधी च विपक्षवत् ।अभिघाती चाभिमातिर्जिघांस्वरात्यरातयः ॥ ५० ॥
2.3.50 · p. 248
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्व (wrong syllable)
भ्रातृव्यश्चाहितो(तः) सध्र्यङ् वयस्यः सवयाः सुहृत् ।सजूः स्निग्धः सहचरः सखा मित्रं नपुंसकम् ॥ ५१ ॥
2.3.51 · p. 248
अनुष्टुप्
अजर्यं संगतं सख्यं सौहार्दं * [सौ] हृदं तथा ।तथा साप्तपदीनं स्यान्मैत्री [109b] स्त्रीक्लीबयोर्भवेत् ॥ ५२ ॥
2.3.52 · p. 249
अनुष्टुप्metre not read in every line
तारमैत्रं तु तत्सख्यं जन्मतारानुकूल्यजम् ।अनुरोधोऽनुवृत्तिः स्त्री चरमे त्वनुवर्तनम् ॥ ५३ ॥ ५४ ॥
2.3.53 · p. 249
अनुष्टुप्
चरश्चारः स्पशो वार्तायनश्च प्रणिधिश्च सः ।अवसर्पो मन्त्रवेत्ता हेरीको गूढपूरुषः ॥ ५५ ॥
2.3.55 · p. 249
अनुष्टुप्
यथार्हवर्णो विश्वस्तस्त्वाप्तः प्रत्ययितस्त्रिषु ।स्वाम्यमात्य-सुहृत्कोश-राष्ट्र-दु*[र्ग]बलानि च ॥ ५६ ॥
2.3.56 · p. 249
अनुष्टुप्
राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ।तन्त्रं स्वराष्ट्रचिन्ता स्यादावापस्त्वरिचिन्तनम् ॥ ५७ ॥
2.3.57 · p. 249
अनुष्टुप्
परिस्पन्दः परिकरः परिबर्हः परिच्छदः ।परिग्रहः परीवारस्तन्त्रोपकरणे अपि ॥ ५८ ॥
2.3.58 · p. 249
अनुष्टुप्
संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः ।षड्गुणाः शक्तयस्तिस्रः प्रभुत्वोत्साहमन्त्रजाः ॥ ५९ ॥
2.3.59 · p. 249
अनुष्टुप्
क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ।स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम् ॥ ६० ॥
2.3.60 · p. 249
अनुष्टुप्
भेदो दण्डः साम दानमित्युपायचतुष्टयम् ।भेदोप[110a]जापौ शास्तिः स्त्री * * * * * * * * ।शास्तिः स्याद्भूपतेर्दण्डयमो दण्डश्च साहसम् ॥ ६१ ॥
2.3.61 · p. 249
अनुष्टुप्metre not read in every line
दिशोदण्डस्तु दिग्दण्डो दम्यो दण्ड्यश्च भेद्यवत् ।द्विपाद्यश्च त्रिपाद्यश्च दण्डो द्वित्रिगुणो हि यः ।साम सान्त्वं सान्त्वनं च ढौकन-प्राभृते समे ॥ ६२ ॥
2.3.62 · p. 249
अनुष्टुप्metre not read in every line
कार्याय गुप्तं यद्देयं तत्र लञ्चो द्वयोर्भवेत् ।उत्कोच आमिषं कौशलिकं चात्र प्रकीर्तितम् ॥ ६३ ॥
2.3.63 · p. 249
अनुष्टुप्
उपहारस्तूपचार उपग्राह्यमुपायनम् ।उपदानं चोपदा स्यादायस्त्वर्थागमो भवेत् ॥ ६४ ॥
2.3.64 · p. 250
अनुष्टुप्
आगतः शुल्कशालायास्त्रिष्वसौ शौल्कशालिकः ।एवं तैर्थः शौण्डिकश्च तीर्थादिभ्यः स आगतः ॥ ६५ ॥
2.3.65 · p. 250
अनुष्टुप्
करो बलिर्भागधेयी द्वयोर्धर्मादितः पुनः ।शौचाशौचपरिज्ञानममात्यानां मतोपधा ॥मायोपेक्षेन्द्रजालानि क्षुद्रोपाया अमी त्रयः ।मृगयाक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ॥ ६७ ॥
2.3.67 · p. 250
अनुष्टुप्
दण्डपारुष्यमित्येतद्धेयं व्यसनसप्तकम् ।पौरुषं विक्रमः[110b]शौर्यं शौण्डीर्यं च पराक्रमः ॥ ६८ ॥
2.3.68 · p. 250
अनुष्टुप्metre not read in every line
रहस्यालोचनं मन्त्रोऽषडक्षीणस्तदादिकः ।यस्तृतीयाद्यविषयोऽषडक्षीणादयस्त्रिषु ।छन्न-प्रच्छन्न-विजिन-निःशलाक-विविक्तकाः ॥ ६९ ॥
2.3.69 · p. 250
अनुष्टुप्
उपह्वरोऽस्त्रियां क्लीबे केवलं च रहो रहम् ।निर्मक्षिकं निर्जनं च क्लीबाव्ययमुपांशु तु ॥ ७० ॥
2.3.70 · p. 250
अनुष्टुप्
रहश्चालिङ्गमेकान्तं द्वंद्वहीनं प्रकीर्तितम् ।अथानुरहसं त्रय्यां यद्रहोनुगतं भवेत् ॥ ७१ ॥
2.3.71 · p. 250
अनुष्टुप्
तथाऽवरहसं यत्स्याद्रहसोऽवगतं हि यत् ।स्यात्तप्तरहसं यत्स्याद्रहो हृद्येव तापकम् ॥ ७२ ॥
2.3.72 · p. 250
अनुष्टुप्
एकान्तिकं रहस्यं च रहोजन्म विशेष्यवत् ।विश्वासाश्वास-विश्रम्भ-प्रत्ययाः स्युः समार्थकाः ॥ ७३ ॥
2.3.73 · p. 250
अनुष्टुप्
भ्रेषो यथोचिताद्भ्रंशोऽथाभ्रेषः कल्प आदिमे ।न्यायो नयश्च नीतिः स्त्री देशरूपं समञ्जसम् ॥ ७४ ॥
2.3.74 · p. 250
अनुष्टुप्
युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् ।न्याय्यं प्राप्तं चोचितं चेत्यष्टौ त्रिषु च सांप्रतम् ॥ ७५ ॥
2.3.75 · p. 250
अनुष्टुप्
[111a]स्थाने वरं चाव्ययानि मर्यादा धारणा स्थितिः ।संस्था चाज्ञा तु निर्द्देशो निदेशोऽप्यववादवत् ॥ ७६ ॥
2.3.76 · p. 250
अनुष्टुप्
आदेशोऽपि नियोगश्च शासनं शिष्टिरित्यपि ।विप्रियागो-व्यलीकानि मन्तुः स्यादपराधवत् ॥ ७७ ॥
2.3.77 · p. 250
अनुष्टुप्
दण्ड्यस्त्रिष्वपराधार्हः समे तूद्दान-बन्धने ।संदानं स्यात्संयमनं हननं च समार्थकम् ॥ ७८ ॥
2.3.78 · p. 250
अनुष्टुप्
प्रकीर्णकं चामरोऽस्त्री वालव्यजनमित्यपि ।रोमगुदोऽथातपत्त्रं तपादातपवारणम् ॥ ७९ ॥
2.3.79 · p. 250
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 गु (wrong syllable)
छत्रं त्रिष्वथ तद्राज्ञो नृपलक्ष्म समीरितम् ।वङ्क्रिका तु स्त्रियामेतत्केकिपक्षादिनिर्मितम् ।मञ्चो भद्रासनं राजपीठं सिंहासनं तु तत् ॥ ८० ॥
2.3.80 · p. 250
अनुष्टुप्
सौवर्णं पादपीठं तु पदासनमथास्त्रियाम् ।भृङ्गारः कनकालुः स्त्री भद्रकुम्भो भृतो घटः ॥ ८१ ॥
2.3.81 · p. 250
अनुष्टुप्
बलस्थितिर्निवेशं स्याच्छिबिरं च नपुंसके ।हस्त्यश्व-रथ-पादातं सेनाङ्गं स्याच्चतुष्टयम् ॥ ८२ ॥
2.3.82 · p. 250
अनुष्टुप्
हस्तीभो द्विपिबो द्विपो द्विरदनो नागः करी [111b] पुष्करीपद्मी पेचकि-पीलु-कुम्भि-करटि-स्तम्बेरमानेकपाः ।मातङ्गश्च मतङ्गजः सुरगजो दन्ती च दन्तावलोवेतण्डश्च मितंगमोऽपि जलकाङ्क्षः सिन्धुरश्चन्दिरः ॥ ८३ ॥
2.3.83 · p. 250
शार्दूलविक्रीडितम्metre not read in every line
दीर्घप्राण-विषाणि-वारण-महादाना द्विपायी जटीस्याच्छूर्पश्रवणो विलोमरसनश्चोच्चैर्मृगः सामजः ॥ ८४ ॥
2.3.84 · p. 250
शार्दूलविक्रीडितम्
अन्तःस्वेदक-षष्टिहायन-महाकाया मतङ्गः कपिःशुण्डालोऽपि च सूचिकौष्ठ-पिचिलौ शत्त्रिश्च गर्जोऽपि च ॥ ८५ ॥
2.3.85 · p. 250
शार्दूलविक्रीडितम्
स्त्रीलिङ्गेऽत्र न कुञ्जरो निगदितो द्वंद्वे करेणुस्तथाहस्तिन्यामिह धेनुकापि च वशा तस्यां मनाका कचा ॥ ८६ ॥
2.3.86 · p. 250
शार्दूलविक्रीडितम्
कालेऽपि योऽजातदन्तो गजो लघुवपुश्च यः ।तौ मत्कुणौ पञ्चवर्षस्त्विभो बालः प्रकीर्तितः ॥ ८७ ॥
2.3.87 · p. 252
अनुष्टुप्
पोतस्तु दशवर्षोऽसौ विष्को विंशतिहायनः ।विक्कः शुण्डारकोऽस्त्री तु कलभस्त्रिंशदब्दकः ॥ ८८ ॥
2.3.88 · p. 252
अनुष्टुप्