कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnākara

शब्दरत्नाकर Śabdaratnākara

2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)

तृतीयः काण्डः · क्षत्रियाध्यायः (1/2)

क्षत्रियाध्यायः

मूर्धाभिषिक्तबाहुजराजन्यक्षत्रियविराजः ।क्षत्रमथ राण्महीभृत्पार्थिवनृपराजभूपनरदेवाः ॥ १२६६ ॥
3.3.1266 · p. 155
उद्गीतिः
महीक्षिदथ राजन्यराजसंघे यथाक्रमम् ।राजन्यकं राजकं च सुराजा रज्ञि सत्तमे ॥ १२६७ ॥
3.3.1267 · p. 155
अनुष्टुप्
चक्रवर्ती सार्वभौमो यः सर्वपृथिवीश्वरः ।राजसूयेन येनेष्टं शास्ति राज्ञो य आज्ञया ॥ १२६८ ॥
3.3.1268 · p. 155
अनुष्टुप्
मण्डलाधीश्वरो यश्च स सम्राण्मध्यमश्च सः ।अधीश्वरो नताशेषसामन्तो नाभिरित्यपि ॥ १२६९ ॥
3.3.1269 · p. 155
अनुष्टुप्
मन्त्री तु सचिवोऽमात्यः पुरोधाः स्यात् पुरोहितः ।प्रधानानि महामात्रा बलं मौलादिषड्विधम् ॥ १२७० ॥
3.3.1270 · p. 155
अनुष्टुप्
ते मौलभृतकश्रेणीसुहृदाटविकद्विषः ।राज्याङ्गानि तु पौराणां श्रेण्यः प्रकृतयस्तथा ॥ १२७१ ॥
3.3.1271 · p. 155
अनुष्टुप्
स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च ।षाड्गुण्यं षड्गुणाः संधिविग्रहो यानमासनम् ॥ १२७२ ॥
3.3.1272 · p. 155
अनुष्टुप्
द्वैधं समाश्रयस्तिस्रः प्रभावोत्साहमन्त्रजाः ।शक्तयोऽथ क्षयः स्थानं वृद्धिरेष त्रिवर्गकः ॥ १२७३ ॥
3.3.1273 · p. 155
अनुष्टुप्
सेतुर्दुर्गं वनादानं खनिक्षेत्रं वणिक्पथः ।गजबन्धः कृषिः शून्यदेशानां च निवेशनम् ॥ १२७४ ॥
3.3.1274 · p. 155
अनुष्टुप्
अष्टवर्गोऽथ धर्माद्यैरुपधा स्यात् परीक्षणम् ।अथोपायाः सामदानभेददण्डाश्चतुष्टये ॥ १२७५ ॥
3.3.1275 · p. 156
अनुष्टुप्
उपजापस्तु भेदः स्यात् समाने सामसान्त्वने ।तन्त्रं स्वराष्ट्रचिन्ता स्यादावापः परिचिन्तनम् ॥ १२७६ ॥
3.3.1276 · p. 156
अनुष्टुप्
स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यार्थदूषणे ।दण्डपारुष्यमित्येतन्महाव्यसनसप्तकम् ॥ १२७७ ॥
3.3.1277 · p. 156
अनुष्टुप्
स तु त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः ।प्रतापश्च प्रभावश्च तेजो यत् कोशदण्डजम् ॥ १२७८ ॥
3.3.1278 · p. 156
अनुष्टुप्
राज्यस्याचिरलब्धस्य शमनं परिपन्थिनाम् ।रञ्जनाप्रतिकाराभ्यां लब्धप्रशमनं विदुः ॥ १२७९ ॥
3.3.1279 · p. 156
अनुष्टुप्
समौ विश्वासविश्रम्भावुपेक्षा त्ववधीरणा ।मर्यादाधारणासंस्थाव्यवस्थास्थितयः समाः ॥ १२८० ॥
3.3.1280 · p. 156
अनुष्टुप्
निदेशः शासनं शिष्टिराज्ञाशास्तिनियुक्तयः ।कामक्रोधौ लोभमोहौ मदो मत्सर इत्यमी ॥ १२८१ ॥
3.3.1281 · p. 156
अनुष्टुप्
षट् शरीरान्तररयः शत्रुर्द्वेषणदुर्हृदौ ।परिपन्थिसपत्नपरासुहृदः प्रतिपक्षविपक्षविरोधभृतः ॥ १२८२ ॥
3.3.1282 · p. 156
अनुष्टुप्two metres in one verse
विमताहितशात्रववैरिरिपुद्विषतो द्विडरात्यभिधात्यरयः ।प्रत्यनीकप्रतिद्वन्द्विप्रत्यवस्थातृदस्यवः ।द्वेष्यानिष्टप्रतिस्पर्धिप्रत्यवस्कन्दिनोऽपि च ॥ १२८३ ॥
3.3.1283 · p. 156
तोटकम्two metres in one verse
मित्रं सखा सुहृत् स्निग्धो वयस्यः सवया अपि ।अनुरोधोऽनुवृत्तिः स्यादनुसारोऽनुकूलनम् ॥ १२८४ ॥
3.3.1284 · p. 157
अनुष्टुप्
सख्यं साप्तपदीनं स्यान्मैत्री मैत्रं च सौहृदम् ।अपसर्पश्चरश्चारः प्रणिधिर्गूढपूरुषः ॥ १२८५ ॥
3.3.1285 · p. 157
अनुष्टुप्
स्पशो यथार्हवर्णश्च दूतवार्ताहरौ समौ ।संदेशहारी दौत्यं तु दूतानां भावकर्मणोः ॥ १२८६ ॥
3.3.1286 · p. 157
अनुष्टुप्
ते पञ्चधा वणिग्भिक्षुच्छात्रलिङ्गिकृषीवलाः ।आगोऽपराध उद्दानं बन्धनं दण्डनं दमः ॥ १२८७ ॥
3.3.1287 · p. 157
अनुष्टुप्
द्विपाद्यो द्विगुणो दण्डः शुल्को घट्टादिदेयके ।बलिः करो भागधेय उपदा स्यादुपायनम् ॥ १२८८ ॥
3.3.1288 · p. 157
अनुष्टुप्
उपग्राह्यं प्राभृतं तदुपहारोऽथ शम्बलः ।पाथेयमधिकारस्तु प्रक्रिया ककुदोऽस्त्रियाम् ॥ १२८९ ॥
3.3.1289 · p. 157
अनुष्टुप्
राजचिह्ने नृपच्छत्रमातपत्रं हिरण्मयम् ।प्रकीर्णकं चामरं स्याद्राज्ञां सिंहासनं तु यत् ॥ १२९० ॥
3.3.1290 · p. 157
अनुष्टुप्
भद्रासनं भद्रपीठं पीठं कोशोऽर्थसंचयः ।लक्ष्मीश्रीसंपदस्तुल्या विपत्तिविपदापदःधान्यादेर्वीवधः प्राप्तिरायातिस्तु धनागमः ॥ १२९१ ॥
3.3.1291 · p. 157
अनुष्टुप्metre not read in every line
आयतिस्तूत्तरे काले उदर्कस्तूत्तरं फलम् ।क्लीबे तदात्वं तत्कालः स्वपक्षप्रभवं भयम् ॥ १२९२ ॥
3.3.1292 · p. 157
अनुष्टुप्
राज्ञामहिभयं व्याधिदुर्दुर्भिक्षमशनिः शिखी ।मकरश्च भयं दैवं भूतान्यर्कः शशी यमः ॥ १२९३ ॥
3.3.1293 · p. 158
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 4 क्षम (syllable split)
मनो रात्रिर्दिनं संध्ये धर्मश्चैते चतुर्दश ।साक्षिणोऽधिकृतोऽध्यक्षो हेमाध्यक्षस्तु भौरिकः ॥ १२९४ ॥
3.3.1294 · p. 158
अनुष्टुप्
रूप्याध्यक्षो नैष्किकः स्यात् षण्डवर्षवरौ समौ ।अन्तःपूरे योऽधिकृतः स्यादन्तर्वेशिकश्च सः ॥ १२९५ ॥
3.3.1295 · p. 158
अनुष्टुप्
सामन्तराज्यसंधिस्था आरक्षाः पुररक्षकाः ।वैहासिकः केलिकिलो वासन्तिकविदूषकौ ॥ १२९६ ॥
3.3.1296 · p. 158
अनुष्टुप्
कार्मिकोऽधिकृतः शुल्के गोपो ग्रामेषु भूरिषु ।स्थायुकोऽधिकृतो ग्रामे स्थाने तु स्थानिकोऽप्यसौ ॥ १२९७ ॥
3.3.1297 · p. 158
अनुष्टुप्
क्षुद्रोपकरणेषु स्यादध्यक्षः पारिकार्मिकः ।धर्मी तु धार्मिकोऽध्यक्ष उभावायोदयौ समौ ॥ १२९८ ॥
3.3.1298 · p. 158
अनुष्टुप्
द्वारपालः प्रतीहारो द्वार्स्थो दण्डी च वेत्रभृत् ।स्थापत्याः सौविदाः सौविदल्लाः कञ्चुकिनः समाः ॥ १२९९ ॥
3.3.1299 · p. 158
अनुष्टुप्
तलकाराः पुरीवृत्तशोधकाः दण्डपाशिकाः ।दुर्गं पञ्चविधं वानपार्वतैरिणमारवम् ॥ १३०० ॥
3.3.1300 · p. 158
अनुष्टुप्
जालं चेति समार्थं स्यादजर्यं संगतं द्वयम् ।अरिमित्रमरेर्मित्रं मित्रामित्रमतः परम् ॥ १३०१ ॥
3.3.1301 · p. 158
अनुष्टुप्
तथारिमित्रं(त्र?)मित्रं च विजिगीषोः परे नृपाः ।यातव्यस्त्वभिगन्तव्यः पार्ष्णिग्राहस्तु पृष्ठतः ॥ १३०२ ॥
3.3.1302 · p. 159
अनुष्टुप्
पृथ्वीवरोऽक्षदृक् स्थेयो न्यायदर्शी च धार्मिकः ।मागधो मगधो बन्दी मधुकः स्तुतिपाठकः ॥ १३०३ ॥
3.3.1303 · p. 159
अनुष्टुप्
वैतालिको बोधकरो घाटिकश्चाक्रिकश्च सः ।पादुका कण्टकीगर्तः पांसुच्छन्नो महापथे ॥ १३०४ ॥
3.3.1304 · p. 159
अनुष्टुप्
तालयन्त्रं क्षुराकारं यदि वा क्रकचोपमम् ।शरभाभा जानुदात्री दारुजा जानुभञ्जनी ॥ १३०५ ॥
3.3.1305 · p. 159
अनुष्टुप्
स्यात् कण्टकप्रतिसरा रज्जुः कण्टकसंचिता ।अहिपृष्टं तु निर्मांसपृष्ठास्थ्याभमयोमयम् ॥ १३०६ ॥
3.3.1306 · p. 159
अनुष्टुप्
उपस्कारः प्रस्खलनी भूमिस्था पुटपिच्छला ।श्वद्रंष्ट्रार्गलशृङ्गाटमण्डूकाद्यन्वितार्थकम् ॥ १३०७ ॥
3.3.1307 · p. 159
अनुष्टुप्
लभ्यमौपयिकं न्याय्यं भजमानाभिनीतवत् ।युक्तं च विजनच्छन्ननिःशलाके विविक्तवत् ॥ १३०८ ॥
3.3.1308 · p. 159
अनुष्टुप्
रहश्चोपह्वरं क्लीबे उपांशु च रहोऽव्यम् ।वित्तत्यागो व्ययः संप्रधारणं स्यात् समर्थनम् ॥ १३०९ ॥
3.3.1309 · p. 159
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्रंसनं ध्वंसनं भ्रंशो भ्रेषोऽधःपतनं स्थितेः ।अनीकस्थो रक्षिवर्गोऽनुजीवी सेवकः समौ ॥ १३१० ॥
3.3.1310 · p. 159
अनुष्टुप्
साम सान्त्वं बलात्कारः प्रसभो हठ इत्यपि ।आयुक्तिविनियुक्ता या सा ताम्बूलकरङ्किका ॥ १३११ ॥
3.3.1311 · p. 160
अनुष्टुप्
अन्तःपुराङ्गनास्वन्तःपुरिका अवरोधिकाः ।सेनाङ्गं रथहस्त्यश्वपादातं स्याच्चतुर्विधम् ॥ १३१२ ॥
3.3.1312 · p. 160
अनुष्टुप्
रथनिकुरुम्बे रथ्या रथकट्या स्यन्दनः शताङ्गरथौ ।पुष्परथः क्रीडार्थः समरार्थः सांपरायिकोऽसौ स्यात् ॥ १३१३ ॥
3.3.1313 · p. 160
गीतिः
देवार्थो देवरथः तार्क्ष्यः पुष्परथ इत्युभौ शौरेः ।कर्णीरथः प्रवहणं डयने भेदे तु गोमुखप्रमुखाः ॥ १३१४ ॥
3.3.1314 · p. 160
गीतिः
चक्रं रथाङ्गमस्य प्रान्ते नेमिः स्त्रियां प्रधिः पुंसि ।अक्षस्तु चक्रधारकदारुणि रथमध्य एव रथनीडः ॥ १३१५ ॥
3.3.1315 · p. 160
गीतिःmetre not read in every line
स्त्रीपुंसोरणिराणी स्यातामक्षाग्रकील एवोभौ ।शकटमनः शकटिः स्यात् कम्बलिवाह्यं तु गन्त्री स्त्री ॥ १३१६ ॥
3.3.1316 · p. 160
आर्याmetre not read in every line
अपस्करो रथाङ्गं स्यात्तद्भेदे गण्डकोऽस्त्रियाम् ।प्रवाहिर्ना वृत्तमध्ये रथे कूबरवर्जिते ॥ १३१७ ॥
3.3.1317 · p. 160
अनुष्टुप्
वैयाघ्रो द्वैप इत्येतौ व्याघ्रचर्मावृते रथे ।वस्त्रावृते रथे वास्त्रः काम्बलः कम्बलावृते ॥ १३१८ ॥
3.3.1318 · p. 160
अनुष्टुप्
पाण्डुकम्बलसंछन्नस्यन्दनः पाण्डुकम्बली ।त्रिषु वैयाघ्रमुख्याः स्युः कूबरो ना युगंधरः ॥ १३१९ ॥
3.3.1319 · p. 160
अनुष्टुप्
रथस्थं यस्तिरोधत्ते स वरूथोऽथ धूः स्त्रियाम् ।सा स्याद्यानमुखेऽधःस्थं दारु स्यादनुकर्षकः ॥ १३२० ॥
3.3.1320 · p. 161
अनुष्टुप्
अराणि चक्रावयवाश्चक्रनाभिस्तु पिण्डिका ।सूतस्तु सारथिर्यन्ता नियन्ता प्राजिता च सः ॥ १३२१ ॥
3.3.1321 · p. 161
अनुष्टुप्
सव्येष्ठो दक्षिणस्थश्च संज्ञा रथनिवासिनाम् ।आरा प्रवयणं तोत्रं प्राजनं तोदनं च तत् ॥ १३२२ ॥
3.3.1322 · p. 161
अनुष्टुप्
परंपरावाहनं स्याद्यत्तद्वैनीतकोऽस्त्रियाम् ।सर्वं तु वाहनं यानं पत्रं युग्यं च धोरणम् ॥ १३२३ ॥
3.3.1323 · p. 161
अनुष्टुप्
आन्दोलेऽन्दोलिका याप्ययानं तु शिबिका स्त्रियाम् ।डोला प्रेङ्खोलिका प्रेङ्खा भारवाहस्तु भारिकः ॥ १३२४ ॥
3.3.1324 · p. 161
अनुष्टुप्
अस्त्रं शस्त्रं प्रहरणमायुधं तच्चतुष्टयम् ।करमुक्तं यन्त्रमुक्तममुक्तं मुक्तमित्यदः ॥ १३२५ ॥
3.3.1325 · p. 161
अनुष्टुप्
शक्त्यादि पाणिमुक्तं स्यादमुक्तं क्षुरिकादिकम् ।मुक्तामुक्तं तु यष्ट्यादि यन्त्रमुक्तं शरादिकम् ॥ १३२६ ॥
3.3.1326 · p. 161
अनुष्टुप्
अस्त्रशरासनकार्मुककोदण्डद्रोणधन्वधर्माणि ।वा पुंसि चापधनुषी स्त्री तृणताऽस्याग्रमटनिरार्त्निश्च ॥ १३२७ ॥
3.3.1327 · p. 161
गीतिः
कपिकेतनकोदण्डे गाण्डीवो गाण्डिवश्च वा क्लीबे ।कर्णस्य कालपृष्ठं मिश्रकमनिलात्मसंभवस्य धनुः ॥ १३२८ ॥
3.3.1328 · p. 161
गीतिः
ज्याघातवारिणी गोधा धनुर्मध्ये तु लस्तकः ।जीवा ज्या शिञ्जिनी मौर्वी गुणः स्त्रीपुंसयोरिषुः ॥ १३२९ ॥
3.3.1329 · p. 162
अनुष्टुप्
पत्रिशरविशिखसायकबाणपृषत्काशुगप्रदराः ।काण्डखगरोपमार्गणनालीकाधोमुखकलम्बाः ॥ १३३० ॥
3.3.1330 · p. 162
उपगीतिः
कदम्बो जिह्मगः पुङ्खी वीरशङ्कुः शिलीमुखः ।स्नुही दलफलो भल्लः क्षुरप्रस्त्वर्धचन्द्ररुक् ॥ १३३१ ॥
3.3.1331 · p. 162
अनुष्टुप्
हस्तावापः शरादानं प्रमाथो लस्तकग्रहः ।लक्ष्यलक्षशरव्याणि निमित्तमथ कर्तरी ॥ १३३२ ॥
3.3.1332 · p. 162
अनुष्टुप्
पुङ्खो लक्षो(क्षा?)ऽतिगो वेगो दीप्तिः शल्यफले समे ।तूणीषुधिर्द्वयोस्तूण उपासङ्गः कलापकः ॥ १३३३ ॥
3.3.1333 · p. 162
अनुष्टुप्
सायकाशयतूणीरनिषङ्गा अथ धन्विनाम् ।स्थानमालीढवैशाखप्रत्यालीढादि पञ्चधा ॥ १३३४ ॥
3.3.1334 · p. 162
अनुष्टुप्
यत्रांसौ विनतावुरः प्रविततं शिख्यञ्चितं मस्तकंपादौ स्थानरतौ त्रिकं समनतं पूर्वापरौ शोभितौ ।दृष्टिर्लक्षगता न रिक्तमुदरं पार्श्वप्रदेशावृजूनासा सायकचुम्बिनी भवति चेत् तत् स्यात् पदं सौष्ठवम् ॥ १३३५ ॥
3.3.1335 · p. 162
शार्दूलविक्रीडितम्
मण्डलाग्रासिनिस्त्रिंशखड्गकौक्षेयरिष्टयः ।चन्द्रहासः कृपाणस्तु स्त्रियां च करवालवत् ॥ १३३६ ॥
3.3.1336 · p. 162
अनुष्टुप्
अर्धहासोऽर्धचन्द्राङ्गो मण्डलाग्रोऽन्वितार्थकः ।अम्बुनर्तस्तु खड्गोऽम्बुन्यस्ततैलानिभप्रभः ॥ १३३७ ॥
3.3.1337 · p. 162
अनुष्टुप्
खड्गे वराट एरण्डबीजाभपुलकान्वितः ।स्नुहीदलसदृक्छायो निस्त्रिंशोऽथावि(सि?)राजयः ॥ १३३८ ॥
3.3.1338 · p. 163
अनुष्टुप्
पुलकाः पुद्गलाः शस्त्री त्वसिपुत्र्यसिधेनुका ।क्षुरिका पुत्रिका पुत्री स्यादिली करवालिका ॥ १३३९ ॥
3.3.1339 · p. 163
अनुष्टुप्
पुष्करः पुलकै रूक्षसिता दीर्घानवस्थितैः ।कुण्डलो दीर्घनिस्त्रिंशे तरवारिः स्त्र्यसौ लघुः ॥ १३४० ॥
3.3.1340 · p. 163
अनुष्टुप्
पट्टसो दीर्घदण्डो यस्तीक्ष्णधारः क्षुरोपमः ।कण्टकच्छेदनोऽप्येवं द्विमुखश्च भवत्यसौ ॥ १३४१ ॥
3.3.1341 · p. 163
अनुष्टुप्
भिण्डिपालसृगौ तुल्यौ सर्वला तोमरोऽस्त्रियाम् ।बराहकर्णकोऽन्वर्थः कणयो लोहमात्रकः ॥ १३४२ ॥
3.3.1342 · p. 163
अनुष्टुप्
प्रासः कुन्तो हाटकस्तु स त्रिकण्टकसंस्थितिः ।हुलं द्विफलपत्राग्रं शङ्कुर्ना शल्यमस्त्रियाम् ॥ १३४३ ॥
3.3.1343 · p. 163
अनुष्टुप्
द्रुघणो मुद्गरघनौ परिघः परिघातनः ।शतघ्नी तु चतुस्ताला लोहकण्टकसंचिता ॥ १३४४ ॥
3.3.1344 · p. 163
अनुष्टुप्
श्रयः कण्टकसंछन्ना शतघ्न्येव महाशिला ।स्थूलायःकीलसंछन्ना मुसुण्ठी दारुनिर्मिता ॥ १३४५ ॥
3.3.1345 · p. 163
अनुष्टुप्
दन्तत्सरू द्वौ खड्गादेर्मुष्टौ बन्धस्तु मेखला ।हस्तिचारो जगत्त्रासहेतुः शरभसंनिभः ॥ १३४६ ॥
3.3.1346 · p. 163
अनुष्टुप्
मुसलस्त्वायसो देवदण्डो रत्निप्रमाणकः ।प्रत्याकारः परीवारः कोशोऽथास्त्रस्य शेखरः ॥ १३४७ ॥
3.3.1347 · p. 164
अनुष्टुप्
उन्नयो लगुडः कोणश्चक्रेयश्चक्रमित्यपि ।स्त्रीपुंसे तु कुठारो ना परशुश्च परश्वधः ॥ १३४८ ॥
3.3.1348 · p. 164
अनुष्टुप्
स्वधितिः शस्त्रधारीयां तिस्रः पाल्यश्रिकोटयः ।तद्दण्डलग्नशल्ये तु खेटकः क्षीणयः क्षुरः ॥ १३४९ ॥
3.3.1349 · p. 164
अनुष्टुप्
फलकोऽस्त्री फलं चर्म खेटकः क्षुद्रचर्मणि ।मुष्टौ मण्डुकसंग्राहौ क्रकचः करपत्रकम् ॥ १३५० ॥
3.3.1350 · p. 164
अनुष्टुप्
तनुत्रं दंसनं वर्म तनुच्छद उरच्छदः ।कङ्कटो जरगः पुंसि संनाहः कवचोऽस्त्रियाम् ॥ १३५१ ॥
3.3.1351 · p. 164
अनुष्टुप्
कवचे शस्त्रदुर्भेदे निवातकवचः स्मृतः ।शीर्षण्यं च शिरस्त्राणं शिरस्त्रं शीर्षकं च तत् ॥ १३५२ ॥
3.3.1352 · p. 164
अनुष्टुप्
नागो दर्युदरत्राणं जङ्घात्राणं तु मत्कुणम् ।अभ्यासस्तु श्रमो योग्या श्रमस्थानं खलूरिका ॥ १३५३ ॥
3.3.1353 · p. 164
अनुष्टुप्
पताका वैजयन्ती द्वे ध्वजे तद्वसनेऽपि च ।केतुरङ्को ध्वजोऽस्त्री स्यात् केतनं चाथ कूर्चकौ ॥ १३५४ ॥
3.3.1354 · p. 164
अनुष्टुप्
ऊर्ध्वाधोलम्बिनौ स्यातामुच्चचूडावचूडकौ ।ध्वजिनी पृतना सेनानीकिनी वाहिनी चमूः ॥ १३५५ ॥
3.3.1355 · p. 165
अनुष्टुप्
वरूथिनीतपाकिन्यावनीकं पुंनपुंसकम् ।चक्रं सैन्यं बलं सैन्यमुखे गुल्मगुणौ समौ ॥ १३५६ ॥
3.3.1356 · p. 165
अनुष्टुप्
प्रत्यासारो व्यूहपार्ष्णिरासारस्तु सुहृद्बलम् ।सेनाग्रभूमिर्नासीरः सैन्यपृष्ठे प्रतिग्रहः ॥ १३५७ ॥
3.3.1357 · p. 165
अनुष्टुप्
व्यूहः स्यात् सैन्यविन्यासः स चक्रमकरादिकः ।भटाश्चारभटा योधा योद्धारोऽथ चमूपतिः ॥ १३५८ ॥
3.3.1358 · p. 165
अनुष्टुप्
सेनानीर्दण्डनाथश्च सेनारक्षास्तु सैनिकाः ।समवेतास्तु सेनायां सैन्याः स्युः सैनिका अपि ॥ १३५९ ॥
3.3.1359 · p. 165
अनुष्टुप्
बलिनस्तु सहस्रेण साहस्राश्च सहस्रिणः ।परिधिस्थः परिचरो घट्टसंनाह इत्ययम् ॥ १३६० ॥
3.3.1360 · p. 165
अनुष्टुप्
संशप्तकाः स्युः समरात् समयादनिवर्तिनः ।पान्थाध्वनीनपथिकाध्वगाध्वन्यास्तु यात्रिकाः ॥ १३६१ ॥
3.3.1361 · p. 165
अनुष्टुप्
क्ष्वेडा स्त्री सिंहनादः स्यात् पादातं पत्तिसंहतिः ।पत्तिः पदातिः पदिकः पदाजिः पादातिकोऽसौ पदगश्च पद्गः ॥ १३६२ ॥
3.3.1362 · p. 165
अनुष्टुप्metre not read in every line
अभिद्विषो यानमभिक्रमः स्यात् समौ रणे भङ्गपराजयौ द्वौ ।अनुप्लवस्त्वनुचरः सहायोऽभिसरोऽनुगः ॥ १३६३ ॥
3.3.1363 · p. 165
अनुष्टुप्metre not read in every line
अन्वग्गाम्यनुगामी च पुरोगामी पुरःसरः ।पुरोगोऽग्रेसरः प्रष्ठश्चाग्रतःसर इत्यपि ॥ १३६४ ॥
3.3.1364 · p. 165
अनुष्टुप्
जङ्गालः शीघ्रगामी स्याज्जङ्घाकारिकजाङ्घिकौ ।धानुष्कास्त्रिधनुर्धरधन्विधनुष्मन्निषङ्गिणस्तुल्याः ॥ १३६५ ॥
3.3.1365 · p. 166
अनुष्टुप्metre not read in every line
काण्डीरः काण्डधरो नैस्त्रिंशिक आसिकः खड्गी ।कृतहस्तः कृतपुङ्खः शिक्षितहस्तश्च सुप्रयोगशरः ॥ १३६६ ॥
3.3.1366 · p. 166
उद्गीतिःmetre not read in every line
प्रहित इषौ तु निरस्तो विषदिग्धे दिग्धलिप्तकौ विशिखे ।शाक्तीकः शक्तिधरो याष्टीको यष्टिहेतिकश्च समौ ॥ १३६७ ॥
3.3.1367 · p. 166
गीतिः
चर्मिणि फलकी पारश्वधिकः परशुभृति कौन्तिकः प्रासी ।अथ रथिनि रथिनरथिकौ केतनभृति वैजयन्तिकः कवची ॥ १३६८ ॥
3.3.1368 · p. 166
गीतिः
दंसितकवचितवर्मितसज्जितसंनद्धबद्धवर्माणः ।काण्डपृष्ठस्त्वायुधिक आयुधीयश्च शस्त्रभृत् ॥ १३६९ ॥
3.3.1369 · p. 166
metre not recognised
शत्रूणां तापयितरि द्विषंतपपरंतपौ ।क्षिप्नुर्निराकरिष्णुः स्यादन्यत्रानभिगन्तरि ॥ १३७० ॥
3.3.1370 · p. 166
अनुष्टुप्
अभ्यमित्र्याभ्यमित्रीणाभ्यमित्रीया इति त्रयः ।स्यादूर्जस्वल ऊर्जस्वी तरस्वी बलवान् बली ॥ १३७१ ॥
3.3.1371 · p. 166
अनुष्टुप्
अभिषेणयिता सैन्यैः सपत्नेष्वभियातरि ।जिष्णुजित्वारजेतारो जयी जैत्रः समा इमे ॥ १३७२ ॥
3.3.1372 · p. 166
अनुष्टुप्
शूरस्तु वीरविक्रान्तौ जितकाशी जिताहवः ।घातकनृशंसहिंस्रव्यापादकशरारुघातुकक्रूराः ॥ १३७३ ॥
3.3.1373 · p. 166
अनुष्टुप्metre not read in every line
निस्त्रिंशोऽप्यथ साधुः संग्रामे सांयुगीनः स्यात् ।सपत्राकृतनिष्पत्राकृतौ तु भृशवेधिते ॥ १३७४ ॥
3.3.1374 · p. 166
अनुष्टुप्metre not read in every line
शस्त्रक्षते तु प्रहृतः स्यात् त्रिष्वनुचरादयः ।युद्धायोधनजन्यप्रविदारणसांपरायिकमृधानि ॥ १३७५ ॥
3.3.1375 · p. 167
अनुष्टुप्metre not read in every line
कदनप्रथनक्रन्दनसंख्यसमीकानि संविदाजियुधः ।संयत्समितौ समितिः समररणानीकमस्त्रियां त्रितयम् ॥ १३७६ ॥
3.3.1376 · p. 167
गीतिः
पुंस्यभिमर्दः कलहः संग्रामो विग्रहः समाघातः ।अभिसंपातः संगर आहव आक्रन्द आस्कन्दः ॥ १३७७ ॥
3.3.1377 · p. 167
metre not recognised
अभ्यागमः संप्रहारः संस्फोटः संयुगः कलिः ।महाभीतिकरी वीराशंसनं समरक्षितिः ॥ १३७८ ॥
3.3.1378 · p. 167
अनुष्टुप्
द्वन्द्वं तु बाहुयुद्धं स्यान्नियुद्धमथ पौरुषम् ।तेजः पराक्रमः प्राणो विक्रमः शक्तिरित्यपि ॥ १३७९ ॥
3.3.1379 · p. 167
अनुष्टुप्
आहोपुरुषिका सा या स्मयात् संभवनात्मनि ।अहं पूर्वंमहं पूर्वमित्यहंपूर्विकेत्यसौ ॥ १३८० ॥
3.3.1380 · p. 167
अनुष्टुप्
याहंकृतिः परस्परमहमहमिकेति सैव स्यात् ।ऊर्जः शुष्म सहो बलमोजो द्रविणं तरस्तेजः ॥ १३८१ ॥
3.3.1381 · p. 167
उपगीतिःmetre not read in every line
सत्त्वं च प्राण ऊष्मा च शक्तिश्चाथ समार्थकाः ।सर्वाभिसारः सर्वौघः सर्वसंनाह इत्यमी ॥ १३८२ ॥
3.3.1382 · p. 167
अनुष्टुप्
राज्ञां लोहाभिसारोऽस्त्रभृतां नीराजनक्रमः ।स्युः प्रचक्रं प्रसरणमासारश्चलितार्थके ॥ १३८३ ॥
3.3.1383 · p. 167
अनुष्टुप्
संदावो द्रावविद्रावप्रद्रावद्रवविद्रवाः ।अपक्रमो विनाशः स्यादपयानं पलायनम् ॥ १३८४ ॥
3.3.1384 · p. 167
अनुष्टुप्
योधानां क्रन्दनं घोषः पटहाडम्बरौ समौ ।पांसुः क्षोदः स्त्रियां धूली रेणुः स्त्रीपुंसयो रजः ॥ १३८५ ॥
3.3.1385 · p. 168
अनुष्टुप्