कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Hārāvalī

हारावली Hārāvalī

282 verses · text only, tagging comes next

श्लोकावधिः

अथ श्लोकावधिः ।भुजगपतिविमुक्तस्वच्छनिर्मोकवल्लीविलसितमनुकुर्वन्यस्य गङ्गाप्रवाहः ।शिरसि सरसभास्वन्मालतीदामलक्ष्मीं लपयति हिमगौरः सोऽस्तु वः साध्यसिद्ध्यै ॥ १ ॥
1.1 · p. 397
मालिनीmetre not read in every line
कल्पावसानसमये स्थितये कवीनां देहान्तरं किमपि या सृजति प्रसन्ना ।यस्याः प्रसादपरमाणुरपि प्रतिष्ठामभ्येति कामपि नमामि सरस्वतीं ताम् ॥ २ ॥
1.2 · p. 397
वसन्ततिलका
निर्मत्सराः सुकृतिनः खलु ये विविच्य कर्णे गुणस्य कणमप्यवतंसयन्ति ।येषां मनो न रमते परदोषवादे ते केचिदेव विरला भुवि संचरन्ति ॥ ३ ॥
1.3 · p. 397
वसन्ततिलका
मुक्ताभयाऽतिमधुरा मसृणाऽवदातच्छायाऽधिरागतरलाऽमलसद्गुणश्रीः ।साध्वी सतां भजतु कण्ठमसौ प्रियेव हारावली विरचिता पुरुषोत्तमेन ॥ ४ ॥
1.4 · p. 397
वसन्ततिलका
किं नैव सन्ति सुधियामभिधानकोशाः किन्तु प्रसिद्धविषयव्यवहारभाजः ।गोष्ठीषु वादपरमोहफलासु केषां हारावली न विदधाति विदग्धिमानम् ॥ ५ ॥
1.5 · p. 397
वसन्ततिलका
एकं तमेव गणयन्ति परं विदग्धा वाचां विदग्धिमनि मज्जति यस्य लोकः ।गोष्ठीषु यः परमशाब्दिकदुर्गमासु दुर्बोधशब्दगतसंशयमुच्छिनत्ति ॥ ६ ॥
1.6 · p. 397
वसन्ततिलका
आ व्याधशब्दतः श्लोकैरर्धैरा तलिनात्ततः ।शब्दाः पादैर्विबोद्धव्याः प्रागनेकार्थतस्ततः ॥ ७ ॥
1.7 · p. 397
अनुष्टुप्
विषमनयनशङ्कू चन्द्रमौलिर्भगाली वृषभपतिगणेशौ रेरिहाणो वृषाङ्कः ।त्रिपुरदहनशूलिस्थाणुखट्वाङ्गिहिण्डिप्रियतमशितिकण्ठा भर्ग्यकल्माषकण्ठौ ॥ ८ ॥
1.8 · p. 397
मालिनी
शतधामा चतुष्पाणिः पृश्निगर्भो गदाग्रजः ।गदी कौस्तुभवक्षाश्च पाञ्चजन्यधरोऽच्युतः ॥ ९ ॥
1.9 · p. 397
अनुष्टुप्
वैनतेयः पक्षिसिंहः शाल्मली हरिवाहनः ।अमृताहरणस्तार्क्ष्यो नागाशनखगेश्वरौ ॥ १० ॥
1.10 · p. 397
अनुष्टुप्
खगपतङ्गवियन्मणिभानवो हरिभगेननिदाघकराद्रयः ।किरणमालिविरोचनहेलयो दिनमणिस्तरणिश्च दिनप्रणीः ॥ ११ ॥
1.11 · p. 397
द्रुतविलम्बितम्
श्रुतश्रवोऽनुजः क्रोडो मन्दश्छायासुतः शनिः ।सप्तार्चिर्नीलवसनः पातङ्गिः क्रूरलोचनः ॥ १२ ॥
1.12 · p. 397
अनुष्टुप्
दाक्षायणीपतिबलक्षगुपक्षजन्मतुङ्गीशरात्रिमणिदर्शविपत्सुधाङ्गाः ।राजा समुद्रनवनीततमोनुदौ मा ग्लौरिन्दुरेनतिलको हरिरोहिणीशौ ॥ १३ ॥
1.13 · p. 397
वसन्ततिलका
महामृगः पुष्करिदीर्घमारुतौ विलोमजिह्वो जलकाङ्क्षिसिन्धुरौ ।द्विपायिसूर्यश्रुतिकुम्भिसामजा महामदः पेचकिपद्मिपीलवः ॥ १४ ॥
1.14 · p. 397
वंशस्थम्
दर्वीकरो विषधरः श्वसनाशनोऽहिश्चक्री फणाभरविषायुधदीर्घपृष्ठाः ।कुभीनसद्विरसनौ समकोलदंष्ट्रिगोकर्णकुण्डलिलतारसना विषास्यः ॥ १५ ॥
1.15 · p. 397
वसन्ततिलकाmetre not read in every line
मयाऽस्योपकृतं पूर्वमयं चोपकरिष्यति ।इति यः क्रियते संधिः प्रतीहारः स उच्यते ॥ १६ ॥
1.16 · p. 397
अनुष्टुप्
शेषमक्षरमादाय प्रतिश्लोकं क्रमेण यत् ।अन्योऽन्यं पठ्यते श्लोकः प्रतिमालेति सा मता ॥ १७ ॥
1.17 · p. 398
अनुष्टुप्
नभश्चरो वायुदारुर्वनदो गगनध्वजः ।व्योमधूमो जलमसिः खतमालः पयोधरः ॥ १८ ॥
1.18 · p. 398
अनुष्टुप्
हर्षादुत्सवकाले यदलंकाराम्बरादिकम् ।आकृष्य गृह्यते पूर्णपात्रं पूर्णानकं च तत् ॥ १९ ॥
1.19 · p. 398
अनुष्टुप्
सुरते कर्णदंशेषु यच्च देशीयभाषया ।दम्पत्योर्जल्पितं मन्दं मन्मनं तद्विदुर्बुधाः ॥ २० ॥
1.20 · p. 398
अनुष्टुप्
यद्दीयते तु देवेभ्यो मनोराज्यस्य सिद्धये ।उपयाचितकं दिव्यदोहदं तद्विदुर्बुधाः ॥ २१ ॥
1.21 · p. 398
अनुष्टुप्
नक्तं निर्गत्य यत्किंचिच्छुभाशुभकरं वचः ।श्रूयते तद्विदुर्धीरा दैवप्रश्नमुपश्रुतिम् ॥ २२ ॥
1.22 · p. 398
अनुष्टुप्
वृद्धसूत्रकमित्याहुरिन्द्रतूलं मनीषिणः ।ग्रीष्महासं वंशकफं वाततूलं मरुद्ध्वजम् ॥ २३ ॥
1.23 · p. 398
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वं (wrong syllable)
दशेन्धनो गृहमणिः स्नेहाशः कज्जलध्वजः ।जटाज्वालो दशाकर्षी कथितो बहुदृश्वभिः ॥ २४ ॥
1.24 · p. 398
अनुष्टुप्
गोमयच्छत्त्रिकामाहुर्दिलीरं च शिलीन्ध्रकम् ।उर्व्यङ्गं च वशारोहं गोलासमपरे विदुः ॥ २५ ॥
1.25 · p. 398
अनुष्टुप्
हिमवान् हेमकूटश्च निषधो मेरुरेव च ।चैत्रः कर्णी च शृङ्गी च सप्तैते वर्षपर्वताः ॥ २६ ॥
1.26 · p. 398
अनुष्टुप्