कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Hārāvalī

हारावली Hārāvalī

282 verses · text only, tagging comes next

अर्धश्लोकावधिः

इति श्लोकावधिः ।

व्याधो मृगवधाजीवो निषादः पुल्कसः प्लवः ।बालवायजमिच्छन्ति वैदूर्यमणिमुत्तयाः ॥ २७ ॥
2.27 · p. 398
अनुष्टुप्
कालग्रन्थिः समाः संवन्मासमानो युगांसकः ।मासो वर्षांशकः श्रामो वर्षाङ्गः स्यादहर्गणः ॥ २८ ॥
2.28 · p. 398
अनुष्टुप्
मदयोगविधानं तु व्यस्तारं करिणां विदुः ।पृष्ठवंशस्य यन्मांसं तल्पनं तत्प्रचक्षते ॥ २९ ॥
2.29 · p. 398
अनुष्टुप्
कर्णवेधनिका प्रोक्ता नालिकेति विषाणिनाम् ।प्रवेष्टमन्तःस्वेदानां दन्तमांसं विदुर्बुधाः ॥ ३० ॥
2.30 · p. 398
अनुष्टुप्
कुमारचर्या गर्भिण्याः परिचर्याऽभिधीयते ।नवोढा वस्त्रमानन्दपटमिच्छन्ति सूरयः ॥ ३१ ॥
2.31 · p. 398
अनुष्टुप्
कर्णीसुतो मूलदेवो मूलभद्रः कुलाङ्कुरः ।ज्येष्ठामूलीयमिच्छन्ति मासमाषाढपूर्वजम् ॥ ३२ ॥
2.32 · p. 398
अनुष्टुप्
नित्यकर्मसमाचारनिष्ठुरत्वे कदुङ्कता ।वैरानुबन्धो धीमद्भिरुपनाहोऽभिधीयते ॥ ३३ ॥
2.33 · p. 398
अनुष्टुप्
स्यात्पालिका कुन्तलिका दध्यादिच्छेदनी तु या ।वैशाखो दधिचारः स्यात्तक्राटः करघर्षणः ॥ ३४ ॥
2.34 · p. 398
अनुष्टुप्
स्यादाषाढभवो भौमो नवार्चिर्गगनोल्मुकः ।पञ्चार्चिश्च श्रविष्ठाजो ज्ञ एकाङ्गः प्रहर्षणः ॥ ३५ ॥
2.35 · p. 398
अनुष्टुप्
दीदिविर्द्वादशार्चिः स्याज्जीवः प्राक्फल्गुनीभवः ।काव्यो दैत्यपुरोधाः स्यात्षोडशार्चिर्मघाभवः ॥ ३६ ॥
2.36 · p. 398
अनुष्टुप्
उपप्लवोऽकचः केतुराश्लेषाभव आहिकः ।ज्योतीरथो ग्रहाधारो ध्रुव उत्तानपादजः ॥ ३७ ॥
2.37 · p. 398
अनुष्टुप्
स्वर्भानुं ग्रहकक्कोलं विदुरभ्रपिशाचकम् ।वनीयको याचनको वसुकीटो मुखम्पचः ॥ ३८ ॥
2.38 · p. 398
अनुष्टुप्
जायमानविषाणाग्रे कटाहो महिषीशिशौ ।छेदो हस्तेन सस्यानां कटभङ्ग उदाहृतः ॥ ३९ ॥
2.39 · p. 398
अनुष्टुप्
जलत्रा जङ्गमकुटी कावारी मूर्द्धकर्परी ।उष्णवारणमुत्कूटश्चक्राङ्गं च पुटोटजम् ॥ ४० ॥
2.40 · p. 399
अनुष्टुप्
मुनीनां च चिताकुट्यां पर्णोटजसहोटजौ ।कारोत्तरश्च वीनाही प्रहिरन्धुर्जलाम्बिका ॥ ४१ ॥
2.41 · p. 399
अनुष्टुप्
जलकूपी जलाष्ठीली तलकं पुष्करिण्यपि ।आसन्नास्तमयः कश्चिदुपधूपित इष्यते ॥ ४२ ॥
2.42 · p. 399
अनुष्टुप्
तत्क्षणादित्यमुक्तां तु वदन्त्यङ्गारिणीं दिशम् ।अङ्गारितं पलाशानां कलिकानिर्गमो भवेत् ॥ ४३ ॥
2.43 · p. 399
अनुष्टुप्
गान्धारं रक्तचूर्णं तु सिन्दूरं रक्तवालुकम् ।कुसृत्या विभवान्वेषी पार्श्विकः सन्धिजीवकः ॥ ४४ ॥
2.44 · p. 399
अनुष्टुप्
अधश्चरो भवेच्चौरः कुसुमालः कुजम्भलः ।प्रोक्तः करिकुसुम्भस्तु नागकेसरचूर्णके ॥ ४५ ॥
2.45 · p. 399
अनुष्टुप्
बर्बरं बर्बरीकं च बर्बरीत्यपि चेष्यते ।अभावात्स्त्रीपरित्यागस्तुरगब्रह्मचर्यकम् ॥ ४६ ॥
2.46 · p. 399
अनुष्टुप्
यमिनां यद्रतं गोप्यं तत्खञ्जनतरं विदुः ।स्यादाचामनकः प्रोण्ठः कटकोलः पतद्ग्रहः ॥ ४७ ॥
2.47 · p. 399
अनुष्टुप्
मेला मन्दा मसिमणिर्मसिधानी मसिप्रसूः ।बालोपरीतं तु विदुः पञ्चावटमुरस्कटम् ॥ ४८ ॥
2.48 · p. 399
अनुष्टुप्
नारीणां मण्डलीनृत्यं बुधा हल्लीषकं विदुः ।मारीचो याजकगजो राजहस्ती मदोत्कटः ॥ ४९ ॥
2.49 · p. 399
अनुष्टुप्
अलङ्कारसुवर्णं यत्तच्छृङ्गीकनकं मतम् ।रतिलक्षं निधुवनं संयोजनमिति स्मृतम् ॥ ५० ॥
2.50 · p. 399
अनुष्टुप्
जीमूतकुटकुट्टीरकुट्टाराः कन्दराकरः ।उद्देशो गण्डकूपस्तु पर्वतस्याभिधीयते ॥ ५१ ॥
2.51 · p. 399
अनुष्टुप्
वासिता धेनुका चैव वशा च करिणी मता ।ब्रह्माग्रभूः क्रतुपशुः सिंहविक्रान्तवाजिनौ ॥ ५२ ॥
2.52 · p. 399
अनुष्टुप्
समुद्रगा निर्झरिणी तलोदा जवालिनी शैवलिनी तरङ्गिणी ।विपाठकादम्बकपत्रवाहाः पत्री खगो वीरतरोऽस्त्रकण्टकः ॥ ५३ ॥
2.53 · p. 399
upajati mixed
वर्णदूतः स्वस्तिमुखो लेखो वाचिकहारकः ।लेखो निबध्यते येन तत्र काचनकाऽभिधा ॥ ५४ ॥
2.54 · p. 399
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्व (wrong syllable)
क्षाराछं माणिमन्थं च विदुः सिन्धूपलं बुधाः ।पिशितं पललं मांसं क्रव्यमामिषमुद्घसम् ॥ ५५ ॥
2.55 · p. 399
अनुष्टुप्
पारावारमहाकच्छौ महीप्राचीरदारदौ ।जिह्वादरः कीकशास्यश्चञ्चुमत्तरुशायिनौ ॥ ५६ ॥
2.56 · p. 399
अनुष्टुप्
इन्द्रक्रीडासरः प्राज्ञैर्नन्दीसर इति स्मृतम् ।धूमोर्णापतिरुद्दिष्टो यमो महिषवाहनः ॥ ५७ ॥
2.57 · p. 399
अनुष्टुप्
पयोघनो मेघकफो घनोपलो मेघास्थिबीजोदकतोयडिम्भाः ।शम्पाऽचिराभा चपला छटाभा ह्रादिन्यधीरा घनवल्लिका च ॥ ५८ ॥
2.58 · p. 399
upajati mixed
पादालिन्दी तरण्डा नौस्तरणिस्तारणिस्तरिः ।किलाटः शोषितक्षीरपिण्डः सूरिभिरिष्यते ॥ ५९ ॥
2.59 · p. 399
अनुष्टुप्
कालायसमयस्तीक्ष्णं गिरिसारं च शस्तकम् ।हय्यङ्गवीनं रसजं मन्थजं च कलम्बुटम् ॥ ६० ॥
2.60 · p. 399
अनुष्टुप्
एकशफाङ्घ्रिकं बन्धमाहुर्दामाञ्चलं बुधाः ।वेत्ता स्त्रीपुंसयोश्चिह्नं सामुद्रिक उदाहृतः ॥ ६१ ॥
2.61 · p. 399
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 श (wrong syllable)
तिन्तिलिकाऽस्थिभिर्द्यूतक्रीडायां चुञ्चुलिर्भवेत् ।वक्रा ललाटगास्तिस्त्रो भस्मरेखास्त्रिपुण्ड्रकम् ॥ ६२ ॥
2.62 · p. 399
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 लि (wrong syllable)
हाला कामालिका मण्डा धीरा स्यान्मदनी च माध्वी च ।आहुश्चषकं तु पानपात्रं पारीमप्यनुतर्षणं कवीन्द्राः ॥ ६३ ॥
2.63 · p. 399
metre not recognised
कुशुम्भः करकश्चैत्यमुखः कमण्डलुः स्मृतः ।असहायो नर्तकस्तु तालावचर इष्यते ॥ ६४ ॥
2.64 · p. 400
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
कथितः कौमुदीवृक्षो दीपवृक्षः शिखातरुः ।कोजागरे तथा सद्भिः कौमुदीचार इष्यते ॥ ६५ ॥
2.65 · p. 400
अनुष्टुप्
समुद्रगृहमित्याहुर्जलमन्त्रनिकेतनम् ।प्रेतादिभिर्गृहीतो यः स आविष्टो भ्रमन्बहिः ॥ ६६ ॥
2.66 · p. 400
अनुष्टुप्
हिममिन्द्राग्निधूमश्च खबाष्पो रजनीजलम् ।ये शिवायतनोत्सृष्टास्ते सन्ध्याबलयो वृषाः ॥ ६७ ॥
2.67 · p. 400
अनुष्टुप्
विषाक्तास्त्रहतस्याहुः पशोर्मांसं तु गृञ्जनम् ।धूमिका धूममहिषी हिमझण्टिः कुहेलिका ॥ ६८ ॥
2.68 · p. 400
अनुष्टुप्
पोताच्छादनमाहुरक्तस्तुवरकमथवस्त्रकुट्टिमं कवयः ।तन्त्रविमुक्तं वासो निष्प्रवणिं निष्प्रवाणिं च ॥ ६९ ॥
2.69 · p. 400
metre not recognised
महाघोषं क्रयारोहं हट्टं पण्याजिरं विदुः ।बहुमानुषसंकीर्णं निर्घटं च कराङ्गणम् ॥ ७० ॥
2.70 · p. 400
अनुष्टुप्
शालभञ्जी दारुगर्भा कुरण्टी दारुपुत्रिका ।कादम्बिनी नवो मेघः काली स्यात्कालिकाऽपि च ॥ ७१ ॥
2.71 · p. 400
अनुष्टुप्
क्रोशध्वनिः क्रोशतालो ढक्का विजयमर्दलः ।स्यात्प्रतिपत्तिः पटहो लम्पापटह इत्यपि ॥ ७२ ॥
2.72 · p. 400
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 2 त्प्र (wrong syllable)
कुकूलं कायवलनं तनुत्रं दंशनं विदुः ।शिरस्त्रं शीर्षरक्षं च शीर्षण्यं शीर्षकं च तत् ॥ ७३ ॥
2.73 · p. 400
अनुष्टुप्
स्याज्जालिका लोहमयी जालप्रायाऽङ्गरक्षिणी ।पन्नद्ध्री पादविरजाः कोशी पादरथी भवेत् ॥ ७४ ॥
2.74 · p. 400
अनुष्टुप्
रुचकं लवणं क्षारं तीक्ष्णं जलरसं विदुः ।ज्योतिर्बीजं च खद्योतं ध्वान्तोन्मेषं तमोमणिः ॥ ७५ ॥
2.75 · p. 400
अनुष्टुप्
जलशूकरजलजिह्वौजलकण्टकवार्भटौ तथा नक्रे ।जलनकुलजलविडालौ नीराखुजलप्लवावुद्रे ॥ ७६ ॥
2.76 · p. 400
आर्या
शिशुमारो जलकपिश्चपलाङ्गोऽसिपुच्छकः ।ग्राहो जलकिराटश्च नक्रराजो जलाण्टकः ॥ ७७ ॥
2.77 · p. 400
अनुष्टुप्
मृतकान्तकश्च भीरुर्वृकधूर्तशयालुवञ्चकाभरुजः ।शालामृगोऽस्थिभक्षो ग्राममृगो मण्डलः कपिलः ॥ ७८ ॥
2.78 · p. 400
आर्या
उल्कामुखी शृगाली या दीप्तजिह्वेति सा मता ।स्कन्धवाहस्तु शङ्कश्च शृङ्गी गौरक्षधूर्तिलः ॥ ७९ ॥
2.79 · p. 400
अनुष्टुप्
हेरम्बः कासरश्चैव रक्ताक्षः सैरिभस्तथा ।रोमशो बहुरोमा स्यादुरणश्च पृथूदरः ॥ ८० ॥
2.80 · p. 400
अनुष्टुप्
इडिक्कस्तु बालवाह्यो वनच्छागोऽतिरोमशः ।वरणो धूम्रशुकः स्यादुष्ट्रः शृङ्खलकस्तथा ॥ ८१ ॥
2.81 · p. 400
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable); pāda 3, syllable 6 शु (wrong syllable)
चक्रमुखः सूचिरोमा वराहः स्थूलनासिकः ।कण्ठीरवस्तु पारीन्द्रः केसरी गजमाचलः ॥ ८२ ॥
2.82 · p. 400
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 मु (wrong syllable)
नेत्रपिण्डो वृषाहारो मेनादः कुन्दमः स्मृतः ।गन्धाखुर्गन्धनकुलश्चुञ्चुः पुंवृष उच्यते ॥ ८३ ॥
2.83 · p. 400
अनुष्टुप्
द्रोणोऽरिष्टो नालिजङ्घ आत्मघोषस्तु मौद्गलिः ।गोभण्डीरः पङ्ककीरो हापुत्री राजभट्टिका ॥ ८४ ॥
2.84 · p. 400
अनुष्टुप्
गङ्गाचिल्ली तु देवट्टी विश्वका जलकुक्कुटी ।विट्सारिका तु कुणपी गोराटी गोकिराटिका ॥ ८५ ॥
2.85 · p. 400
अनुष्टुप्
मृगेन्द्रचटको घातिपक्षी ग्राहकमारकौ ।कुलालं कुक्कुटं प्राहुः कुक्कुभं कुहकस्वरम् ॥ ८६ ॥
2.86 · p. 400
अनुष्टुप्
कर्कराक्षः कलाटीनः खञ्जलेखस्तु खञ्जनः ।प्रासादकुक्कुटो झल्लकण्ठो गृहकपोतकः ॥ ८७ ॥
2.87 · p. 400
अनुष्टुप्
ध्वाङ्क्षपुष्टः कलकण्ठो मधुकण्ठः कुहूमुखः ।झम्पाशी मत्स्यरङ्कः स्याज्जलमद्गुर्मणीचकः ॥ ८८ ॥
2.88 · p. 400
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
कलविङ्कश्चित्रपृष्ठो गृहनीडो वृषायणः ।वरण्डा चित्रपादा च चित्रनेत्रा च सारिका ॥ ८९ ॥
2.89 · p. 400
अनुष्टुप्
मयूरचटको दक्षः कृकवाकुर्निशाकरः ।शतपत्रः सितापाङ्गः प्रचलाकी च चन्द्रकी ॥ ९० ॥
2.90 · p. 401
अनुष्टुप्
किसलयमपि तरुरागं विदुर्लतायावकं प्रवालं च ।कण्टकसंघ्यास्तरुनखसिताग्रदलसूचिराङ्किलद्रुमराः ॥ ९१ ॥
2.91 · p. 401
गीतिः
द्रोणीदलः सूचिपुष्पो जम्बूलः क्रकचच्छन्दः ।मण्डा तिप्यफला धात्री वल्या पञ्चरसा शिवा ॥ ९२ ॥
2.92 · p. 401
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 च्छ (wrong syllable)
सहस्रवीर्या विरजा भार्गवी मण्डली रुहा ।प्रहर्षिणी निशाह्वा च लसा गन्धपलाशिका ॥ ९३ ॥
2.93 · p. 401
अनुष्टुप्
मृदुपुष्पः शूकतरुः शिरीषो विषनाशनः ।वराहकाली कथितः सूर्यावर्तस्तु शाब्दिकैः ॥ ९४ ॥
2.94 · p. 401
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शू (wrong syllable)
वज्रवल्ल्यस्थिसंहारो हस्तिशुण्डी वनालिका ।वनतिक्तस्त्रियां ग्रीष्मा तिरीटः पक्षसुन्दरः ॥ ९५ ॥
2.95 · p. 401
अनुष्टुप्
मधुपुष्पो मधूकश्च गुडपुष्पो मधुद्रुमः ।वृत्तपुष्पः प्रावृषेण्यो हारिद्रस्तु हलिप्रियः ॥ ९६ ॥
2.96 · p. 401
अनुष्टुप्
एला त्वचिसुगन्धा च पुटिका चर्मसंभवा ।कूष्माण्डकः पुष्यफलो घनवासश्च वेष्टकः ॥ ९७ ॥
2.97 · p. 401
अनुष्टुप्
वेषणः कासमर्द्दश्च पत्रोपस्कर इत्यपि ।ओको दशाली प्राचीरमोघोलिरवहालिका ॥ ९८ ॥
2.98 · p. 401
अनुष्टुप्
कल्यवर्तः प्रातराशः प्रातर्भोजनमिष्यते ।शृगालिका च डिम्भं च डमरं विद्रवोऽपि च ॥ ९९ ॥
2.99 · p. 401
अनुष्टुप्
स्कन्धफलः स्मुतुङ्गश्च नारिकेलः पुटोदकः ।गुडदारुर्मधुतृणमसिपत्रो महारसः ॥ १०० ॥
2.100 · p. 401
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 फ (wrong syllable)
राजालुको महाकन्दो मूलको दन्तिहस्तकः ।क्षुद्ररसा तिक्तगुञ्जा सरघा विद्धपर्कटी ॥ १०१ ॥
2.101 · p. 401
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
क्षुद्रपत्रा च चाङ्गेरी क्षुद्राम्ला चाम्ललोणिका ।प्राचीनामलकं रक्तं बदरामलकं तथा ॥ १०२ ॥
2.102 · p. 401
अनुष्टुप्
पिष्टसौरभमेकाङ्गं श्रीखण्डं मालयं विदुः ।मृगनाभिर्मृगमदो गन्धशेखरमित्यपि ॥ १०३ ॥
2.103 · p. 401
अनुष्टुप्
सिताभ्रं तरुसारं च वेरकं रसकेसरम् ।कालेयं वंशकं जोङ्गं कालीयं वरचन्दनम् ॥ १०४ ॥
2.104 · p. 401
अनुष्टुप्
तृणसारा मृत्युफला रम्भा च कदली भवेत् ।ऊर्ध्वसितः परारुः स्यात्तथा राजपटोलकः ॥ १०५ ॥
2.105 · p. 401
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 मृ (wrong syllable); pāda 3, syllable 3 सि (wrong syllable)
कुङ्कुमं पीतकावेरं घुसृणं कुसुमात्मकम् ।अरको जलकेशश्च कावारं शैवलं विदुः ॥ १०६ ॥
2.106 · p. 401
अनुष्टुप्
उन्मत्तकाहलापुष्पौ बृहत्पाटलिघाण्टिकौ ।किंशुकः करकः पर्णी लाक्षावृक्षः सुभीरवः ॥ १०७ ॥
2.107 · p. 401
अनुष्टुप्
अमण्डपञ्चाङ्गुलवर्धमाना गन्धर्वहस्तस्त्रिपुटीफलश्च ।रेणुः सतीलस्तृणकेतुमृत्युबीजौ किलाटी च ततः सुपर्वा ॥ १०८ ॥
2.108 · p. 401
उपजातिः
कचमालो मरुद्वाहो धूमो मम्भः शिखिध्वजः ।शाखानगरमाहुस्तद्यदभ्यर्णं पुरान्तरम् ॥ १०९ ॥
2.109 · p. 401
अनुष्टुप्
आहुर्जलकरङ्कं च जलजं सूचिकामुखम् ।उपजिह्विकोत्पादिका च वटिरुद्देहिका दिवी ॥ ११० ॥
2.110 · p. 401
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शुल्बमौदुम्बरं रक्तं म्लेच्छास्यं ताम्रकं विदुः ।दुर्नामा दीर्घकोषी स्यात्पङ्कशुक्तिः सितालिका ॥ १११ ॥
2.111 · p. 401
अनुष्टुप्
आकाशमूली कुतृणं कुम्भिका जलवल्कलम् ।शम्बूको जलडिम्बः स्याद् दुश्चरः पङ्कमण्डुकः ॥ ११२ ॥
2.112 · p. 401
अनुष्टुप्
आटीलकं तर्णकानां स्थलीषु क्रीडनं मतम् ।यष्टिः शब्दवती धीरैः खेखीरक इति स्मृता ॥ ११३ ॥
2.113 · p. 401
अनुष्टुप्
लेखात्रयाङ्कितं भालं त्रिपताकं विदुर्बुधाः ।अर्धचन्द्रं कर्करेटं विदुरङ्गुलितोरणम् ॥ ११४ ॥
2.114 · p. 401
अनुष्टुप्
सिद्धजलं च गृहाम्लमवन्तिसोमं तुषोदकं शुक्तम् ।नग्नाटकनिर्ग्रन्थकभदन्तदिगम्बरका नग्ने ॥ ११५ ॥
2.115 · p. 402
metre not recognised
करपात्रं जलक्रीडा व्यात्युक्षी करपत्रिका ।शराणां पत्ररचना पत्रणा परिकीर्तिता ॥ ११६ ॥
2.116 · p. 402
अनुष्टुप्
पञ्चभद्रा हयास्ते ये पञ्चस्वङ्गेषु पुष्पिताः ।यश्चारको मुद्गभुजां स स्याद्वल्लभपालकः ॥ ११७ ॥
2.117 · p. 402
अनुष्टुप्
निगालस्थो य आवर्त्तः स हि देवमणिः स्मृतः ।तथा वक्षसि वाहस्य श्रीवृक्षक उदाहृतः ॥ ११८ ॥
2.118 · p. 402
अनुष्टुप्
बन्धः पलाशपत्राणां शीर्षे पत्रपिशाचिका ।सुवसन्तकशब्देन उच्यते मदनोत्सवः ॥ ११९ ॥
2.119 · p. 402
अनुष्टुप्
कर्वटं द्विशतग्राममध्ये ग्रामं मनोहरम् ।तथा चतुःशतग्राममध्ये द्रोणमुखं विदुः ॥ १२० ॥
2.120 · p. 402
अनुष्टुप्
यद्यात्रामङ्गलं साम तदप्रतिरथं विदुः ।शाला प्रासादशिखरे चन्द्रशालेति कीर्तिता ॥ १२१ ॥
2.121 · p. 402
अनुष्टुप्
इत्यर्धश्लोकावधिः ।
2.96 · p. 402