All kośas › Hārāvalī
हारावली Hārāvalī
282 verses · text only, tagging comes next
नानार्थः
इति नानार्थार्धश्लोकावधिः ॥
शालावृकौ कपिश्वानौ निष्ठुरः कठिनेऽत्रपे ।छर्दनोऽलम्बुषे निम्बे व्युष्टं कल्पे तथोषिते ॥ २५३ ॥
5.253 · p. 408
अनुष्टुप्
इक्षौ करीरे कोषाङ्गे व्रणचिह्ने घुणे किणः ।नर्मठं चञ्चुके पिङ्गे छेकः षडङ्घ्रिवक्रयोः ॥ २५४ ॥
5.254 · p. 408
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
धाराटश्चातके वाहे लञ्जः स्यात्पङ्गुकच्छयोः ।नर्मटः खर्परे सूर्ये गोकीलो मुशले हले ॥ २५५ ॥
5.255 · p. 408
अनुष्टुप्
भुण्डिरीर्वारुकूष्माण्डौ फाणिर्गुडकलम्बयोः ।तण्डकः खञ्जने फेने लट्वा शिन्यां खगान्तरे ॥ २५६ ॥
5.256 · p. 408
अनुष्टुप्
गजेऽपि नागमातङ्गौ विशेषस्तिलकेऽपि च ।निष्पारः शूर्पवातेऽपि सूत्रकण्ठो द्विजेऽपि च ॥ २५७ ॥
5.257 · p. 408
अनुष्टुप्
विदुष्यपि स्मृतो वेधाः पुरं देहेऽपि दृश्यते ।स्वरेऽपि कण्ठ आख्यातः शरत्संवत्सरेऽपि च ॥ २५८ ॥
5.258 · p. 408
अनुष्टुप्
लाक्षाऽपि जतुका प्रोक्ता लग्नाचार्येऽपि हिण्डिकः ।नौसेचनेऽपि वारुण्डः पादालिन्देऽपि पङ्किलः ॥ २५९ ॥
5.259 · p. 408
अनुष्टुप्
कचो गीष्पतिपुत्रेऽपि कुन्देऽपि भ्रमरो बटौ ।भाण्डं भूषणमात्रेऽपि रुधिरं कुङ्कुमेऽपि च ॥ २६० ॥
5.260 · p. 408
अनुष्टुप्
गोमेदकेऽपि गङ्गोलः कटाहो निरयोऽपि च ।मरीचेऽपि भवेत्कृष्णः शूनाङ्गे गुणिका भवेत् ॥ २६१ ॥
5.261 · p. 408
अनुष्टुप्
शस्त्र्यामपि खड्गधेनुर्निस्त्रिंशोऽकरुणेऽपि च ।स्कन्धावारेऽपि कटको बिन्दुस्तु विदुरेऽपि च ॥ २६२ ॥
5.262 · p. 408
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 पि (wrong syllable)
जलसूचिर्जलौकाऽपि वेश्यायामपि पिङ्गला ।अहिरप्युदावर्ते विशाखाऽपि खनित्रकः ॥ २६३ ॥
5.263 · p. 408
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
भ्रमरः कामुकेऽपि स्यादङ्गीकारेऽपि चाथकिम् ।महालयेऽपि तीर्थः स्याद्भोजनेऽपि तथाऽऽह्निकम् ॥ २६४ ॥
5.264 · p. 408
अनुष्टुप्
बलिश्चामरदण्डेऽपि पादपीठेऽपि पादपः ।गोदन्तो हरितालेऽपि वानीरश्चित्रकेऽपि च ॥ २६५ ॥
5.265 · p. 408
अनुष्टुप्
आधारेऽप्याश्रयः प्रोक्तो गजसङ्घेऽप्यवग्रहः ।कथिताऽऽप्ता जटायां च मार्गणेऽपि मृगः क्वचित् ॥ २६६ ॥
5.266 · p. 408
अनुष्टुप्
मूषिकाऽपि भवेद्धीना जटाटङ्को हरेऽपि च ।अश्रमकृतेऽपि फाण्टं मृद्भाण्डेऽप्युष्ट्रिका भवेत् ॥ २६७ ॥
5.267 · p. 408
अनुष्टुप्metre not read in every line
अङ्गसादेऽपि सदनं वनदावेऽपि झिञ्झिमः ।दन्तमांसेऽपि वेला स्याच्छुल्कं नारीधनेऽपि च ॥ २६८ ॥
5.268 · p. 408
अनुष्टुप्
निम्बेऽपि हिङ्गुनिर्यासो मेलानन्देऽपि वार्दलम् ।लेखन्यां कर्णिकाऽपि स्यात्कटिन्यामपि वर्णिका ॥ २६९ ॥
5.269 · p. 408
अनुष्टुप्
पटलेऽपि कासमर्दो दिष्टं दैवेऽपि कीर्तितम् ।दाडिमेऽपि च हिण्डीरं वंशो वेणौ कुलेऽपि च ॥ २७० ॥
5.270 · p. 408
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 पि (wrong syllable)
इति नानार्थः ।
{{काव्यादीनामनन्तत्वाच्छब्दादीनां विशेषतः ।क्व कदा केन किं दृष्टमिति को वेदितुं क्षमः ॥ २७१ ॥
5.271 · p. 409
अनुष्टुप्metre not read in every line
अतः शब्दः क्व दृष्टोऽयमर्थतश्चापि कीदृशः ।इति काव्यमलीकं स्यान्मात्सर्यमलिनात्मनाम् ॥ २७२ ॥
5.272 · p. 409
अनुष्टुप्
शब्दार्णव उत्पलिनी संसारावर्त इत्यपि ।कोषा वाचस्पतिव्याडिविक्रमादित्यनिर्मिताः ॥ २७३ ॥
5.273 · p. 409
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
आदाय सारमेतेषामन्येषां च विशेषतः ।हारावली निर्मितेयं मया द्वादशवत्सरैः ॥ २७४ ॥
5.274 · p. 409
अनुष्टुप्
उपास्य सर्वज्ञमननतमीशं भूत्वाऽतिथिः श्रीधृतिसिंहवाचाम् ।हारावली द्वादशमासमानैर्विनिर्मितेयं पुरुषोत्तमेन ॥ २७५ ॥
5.275 · p. 409
उपजातिःmetre not read in every linenearly उपजातिः: pāda 1, syllable 8 नन (syllable split)
नानाकाव्यपुराणनाटककथाकोषेतिहासस्मृति-ज्योतिःशास्त्रगजाश्वमानवभिषक्कोषान्प्रयत्नादियम् ।दृष्ट्वाऽन्यानि च शाब्दिकैः सह कृता हारावली यत्नतःकर्तव्योऽत्र न संशयः सुमनसः शब्दार्थलिङ्गेष्वपि ॥ २७६ ॥
5.276 · p. 409
शार्दूलविक्रीडितम्
सुधिया जनमेजयेन यत्नाद्धृतिसिंहेन समं निरूपितेयम् ।विदितो बहुदृश्वभिः कवीन्द्रैर्भुवि कोषानुमतः श्रमो मदीयः ॥ २७७ ॥
5.277 · p. 409
metre not recognised
हित्वा महाशाब्दिकताभिमानं मात्सर्यमन्यत्र मुहुर्निधाय ।हारावलीं यः प्रकरोति कण्ठे विदग्धगोष्ठीषु परं स भाति ॥ २७८ ॥
5.278 · p. 409
उपजातिः
इति श्रीमहामहोपाध्यायपुरुषोत्तमदेवप्रणीता हारावली पर्यवसिता ॥
5.27 · p. 409