कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Hārāvalī

हारावली Hārāvalī

282 verses · text only, tagging comes next

पादश्लोकावधिः

तलिनं तुच्छमित्याहुर्गृहाश्मा गृहकच्छपः ।खसंचारि पुरं सौधं रथ्या पांशुकली भवेत् ॥ १२२ ॥
3.122 · p. 402
अनुष्टुप्
एकनटः स्यात्कथको भण्डश्चाटुपटुः स्मृतः ।मक्षिका भम्भराली स्यात्पांशुरो दर्शकः स्मृतः ॥ १२३ ॥
3.123 · p. 402
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 क (wrong syllable)
देवोद्यानं तु वैभ्राजं दीपाली दीपशृङ्खला ।सुकुमारेऽपि सोमालं विषमे स्थपुटं विदुः ॥ १२४ ॥
3.124 · p. 402
अनुष्टुप्
द्रुणहः खड्गपिधानं सारिणी च प्रणालिका ।यज्ञस्थानं यज्ञवाटस्तृष्णा धनपिशाचिका ॥ १२५ ॥
3.125 · p. 402
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 पि (wrong syllable)
स्मृता बाल्वङ्गिरिर्वारुः स्फुटिरिर्वारुशुक्तिका ।नाटाम्रस्तिमिषः सेटुः कोमासिका तु जालिका ॥ १२६ ॥
3.126 · p. 402
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सि (wrong syllable)
पुञ्जातुकः फलेलाङ्कुस्तृणता धनुरिष्यते ।कैरातद्रोर्ग्रहक्षामाः सिङ्घाणं काचभाजनम् ॥ १२७ ॥
3.127 · p. 402
अनुष्टुप्
दर्वटो दण्डवादी स्यात् स्तेनः शङ्कितवर्णकः ।प्रारब्धिः करिबन्धः स्यात्कष्टस्थानं तु वारकम् ॥ १२८ ॥
3.128 · p. 402
अनुष्टुप्
भोगावली बन्दिपाठः सेतुः पूरणपिण्डलौ ।देवद्रोणी देवयात्रा शूनाऽधोजिह्विका मता ॥ १२९ ॥
3.129 · p. 402
अनुष्टुप्
पालिः समुत्थितश्मश्रुर्मरूण्डोच्चललाटिका ।राका दृष्टरजाः कन्या पोटा स्त्री पुंसलक्षणा ॥ १३० ॥
3.130 · p. 402
अनुष्टुप्
महत्तरो ग्रामकूटो मर्मरोऽव्यक्तनिःस्वनः ।शिवालयः पितृवनं चिता काष्ठमठी चितिः ॥ १३१ ॥
3.131 · p. 402
अनुष्टुप्
कर्णवंशो भवेन्मञ्चः श्रीग्रहः शकुनिप्रपा ।ताम्बूलदो वागुलिकः सुरभिः फाल्गुनानुजः ॥ १३२ ॥
3.132 · p. 402
अनुष्टुप्
ताम्बूलरागो मसुरस्तरुवारिः कृपाणकः ।स्वागतं कुशलप्रश्नः सामीची वन्दना मता ॥ १३३ ॥
3.133 · p. 402
अनुष्टुप्
समुद्गः सम्पुटो ज्ञेयो हयस्कन्धो हयच्छटा ।पिण्डारो महिषीपाले मसूरे च गभोलिकः ॥ १३४ ॥
3.134 · p. 402
अनुष्टुप्
काहली तरुणी प्रोक्ता छुरा तु कथिता सुधा ।कापिल्लिका रोचनिका कालिकाऽवस्कराटिका ॥ १३५ ॥
3.135 · p. 402
अनुष्टुप्
कालिका क्षीरकीटः स्यात्खण्डपालस्तु खाण्डिकः ।पांशुरः पीठसर्पी स्यादुल्ललो रोमशः स्मृतः ॥ १३६ ॥
3.136 · p. 402
अनुष्टुप्
पूगपात्रे फरुवकं कबन्धो रुण्डमुच्यते ।तूलिका स्यान्नवतिका स्त्यानमालस्यमुच्यते ॥ १३७ ॥
3.137 · p. 403
अनुष्टुप्
भाजनं कमठं प्रोक्तं पुण्यश्लोको नलो मतः ।गौरवे प्रतिपत्तिः स्याद्धारिः पथिकसंहतिः ॥ १३८ ॥
3.138 · p. 403
अनुष्टुप्
यामकिन्यपि यामिस्त्री हाफिका चोपपुष्पिका ।वातपुत्रे विटधरौ निर्माल्यं निर्मलं मतम् ॥ १३९ ॥
3.139 · p. 403
अनुष्टुप्
इन्द्रासने मता गुञ्जा गुलुञ्चो गुछको मतः ।भोगावासो वासगृहं मेठो हस्तिपकः स्मृतः ॥ १४० ॥
3.140 · p. 403
अनुष्टुप्
मायुः पलाग्निः पललं ज्वरः स्यादजीर्णमन्त्रं धमिरामयश्च ।तृप्तिश्च मौहित्यमुदिन्तका स्यात्क्षुत्क्षारिका भोगपिशाचिका च ॥ १४१ ॥
3.141 · p. 403
उपजातिः
भोगो जलवरण्टः स्यात्कणा कुम्भीरमक्षिका ।वहलं बार्बटः पोतस्तरालुश्चाहिपुत्रकः ॥ १४२ ॥
3.142 · p. 403
अनुष्टुप्
काहलस्तु महानादो मार्दङ्गं पत्तनं विदुः ।स्यादरित्रं तरिरथः पात्रपालस्तुलाघटः ॥ १४३ ॥
3.143 · p. 403
अनुष्टुप्
काकिनी पणतुर्यांशे ज्वलदङ्गार उल्मुकम् ।अयानं च स्वभावः स्यान्मञ्जिका वारसुन्दरी ॥ १४४ ॥
3.144 · p. 403
अनुष्टुप्
नीलमणिर्मसारः स्याद् गुञ्जा पाठहिका मता ।भार्या पाणिगृहीती च दुकूलं क्षौममुच्यते ॥ १४५ ॥
3.145 · p. 403
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
ग्रन्थस्य निर्मितौ शय्या वधूटी वधुटी जनी ।बन्दिचोरो माचलः स्यात्कुम्भिलः संधिहारकः ॥ १४६ ॥
3.146 · p. 403
अनुष्टुप्
अभ्रमुस्त्वभ्रनागस्य कुमुदस्य तु पिङ्गला ।अङ्गना वामनस्य स्यादञ्जनस्याञ्जनावती ॥ १४७ ॥
3.147 · p. 403
अनुष्टुप्
कपिला पुण्डरीकस्यानुपमा सुप्रतीकस्य ।शेषस्य ताम्रकर्णी च शुभ्रदन्ती सार्वभौमस्य ॥ १४८ ॥
3.148 · p. 403
metre not recognised
सेवा चाटूक्तिरालोको मठो गन्त्रीरथः स्मृतः ।चिपिटो धान्यचमसः खाजिको लाज उत्तुषः ॥ १४९ ॥
3.149 · p. 403
अनुष्टुप्
अभ्यासो गुणनीयः स्यान्माढिः पत्रशिरा मता ।भौतो देवलकः ख्यातः खेटकं वसुनन्दके ॥ १५० ॥
3.150 · p. 403
अनुष्टुप्
पुरन्दरा तु सुरला कावेरी चार्धजाह्नवी ।कौमुदः कार्त्तिको मासः सौभिकस्त्विन्द्रजालिकः ॥ १५१ ॥
3.151 · p. 403
अनुष्टुप्
प्रहेलकं वाचनकं वीक्षापन्नः सविस्मयः ।कुटलं पटलं नीव्रं वीथी गृहतटी मता ॥ १५२ ॥
3.152 · p. 403
अनुष्टुप्
सर्ववेशी नटः प्रोक्तो मन्दाक्षे तु नटान्तिका ।मृत्फली कुठिकः प्रोक्तः शालूरो वृष्टिभूः प्लवः ॥ १५३ ॥
3.153 · p. 403
अनुष्टुप्
स्वेदः सिप्रस्तनुरसस्त्वक्पुष्पं तु त्वगंकुरः ।नवोढा नववरिका दिक्करी नवयौवना ॥ १५४ ॥
3.154 · p. 403
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)
सौवर्चले च रुचकं हिङ्गुले रक्तपारदम् ।रक्तोपलं गैरिके च पारदे सूतकं विदुः ॥ १५५ ॥
3.155 · p. 403
अनुष्टुप्
साशूकः कम्बलः ख्यात ईर्मा त्वक्कण्डुरो व्रणः ।कपटः पारिहार्यः स्यादीर्ष्यालुः कुहनः स्मृतः ॥ १५६ ॥
3.156 · p. 403
अनुष्टुप्
ऋणमोक्षे विगणनं लग्नके ऋणमार्गणः ।भिक्षाशित्वं तु पैशून्यं मण्डः पिच्छान्धसस्तथा ॥ १५७ ॥
3.157 · p. 403
अनुष्टुप्
वायुकेतुः क्षितिकणः स्यादास्फाले झलज्झला ।नष्टाप्तिसूत्रे लोत्प्रं स्याद्याप्ययानं शिबीरथः ॥ १५८ ॥
3.158 · p. 403
अनुष्टुप्
मल्लयात्रा माल्लवी स्यान्निर्भर्त्सनमलक्तकः ।कौशलिका प्राभृतकमट्टकं लासकं विदुः ॥ १५९ ॥
3.159 · p. 404
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 2 श (wrong syllable)
स्वदोषाच्छादनं मक्षश्वुल्ली स्यान्मलकारिका ।वाताश्वो भूमिपक्षः स्याद्वारुर्विजयकुञ्जरः ॥ १६० ॥
3.160 · p. 404
अनुष्टुप्
प्रभाते गोसगोसर्गा वञ्चनी लेपकामिनी ।उत्कण्ठो गण्डकुसुमं सिद्धः सौमेऽधिको मतः ॥ १६१ ॥
3.161 · p. 404
अनुष्टुप्
वृषाकपिः शिखी शुष्मा भस्म प्रार्घटमर्घटम् ।उष्ट्रवाही रथोऽध्युष्टो गन्त्री लघ्वी द्विवेशरा ॥ १६२ ॥
3.162 · p. 404
अनुष्टुप्
कृकणः कृमिरुद्दिष्टः शकृत्कीटेऽन्यकारुका ।भारवाहो भारिकः स्यात्स्कन्धचापो विहङ्गिका ॥ १६३ ॥
3.163 · p. 404
अनुष्टुप्
उन्नतोऽजगरः प्रोक्तो द्विमुखाहिरहीरणिः ।पुरोटिः पुरसंस्कारे हट्टी पुरतटी मता ॥ १६४ ॥
3.164 · p. 404
अनुष्टुप्
मृणालिनी पुटकिनी स्थासको बुद्बुदो भवेत् ।कलाची तु प्रकोष्ठः स्याद्धस्तपुच्छस्तु कन्युषम् ॥ १६५ ॥
3.165 · p. 404
अनुष्टुप्
उत्साहः सूत्रतन्तुः स्यात्पिण्डीरो नीरसः स्मृतः ।हरिणहृदयो भीरुः सन्देशोक्तिस्तु वाचकम् ॥ १६६ ॥
3.166 · p. 404
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ण (wrong syllable)
शालाजिरो वर्धमानं कुसीदं तु कलाम्बिका ।चर्वा तलप्रहारः स्यात्कर्करं मुद्गरं विदुः ॥ १६७ ॥
3.167 · p. 404
अनुष्टुप्
गोष्ठागारेऽपि गञ्जः स्याच्चिन्तावेश्मनि दार्वटम् ।मानग्रंथिर्भवेन्मन्तुर्निष्कुटो गृहवाटिका ॥ १६८ ॥
3.168 · p. 404
अनुष्टुप्
शैलस्य कटके दन्तस्तद्दिनं प्रतिवासरे ।सूत्रमेव सूत्रतन्तुः कृशराऽपि तिलौदने ॥ १६९ ॥
3.169 · p. 404
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
स्यादासवेऽपि कुरसः सरकं मद्यभाजने ।निश्चुक्कणं दन्तशाणं गोग्रन्थिः शुष्कगोमये ॥ १७० ॥
3.170 · p. 404
अनुष्टुप्
अष्टापदं नयपीठी नयस्तु जतुपुत्रकः ।बिन्दुतन्त्रो भवेदक्षः पाञ्चाली शालिशृङ्खला ॥ १७१ ॥
3.171 · p. 404
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable)
प्रस्तारतलिनं शय्या रोमगुच्छः प्रकीर्णकम् ।शिवा लोपाशिका ज्ञेया सरमा तुम्बरी शुनी ॥ १७२ ॥
3.172 · p. 404
अनुष्टुप्
पादाङ्गदो हंसकः स्यात्प्रतिकर्म प्रसाधनम् ।कर्णपाली तु कर्णान्दूरङ्गुलीयकमूर्मिका ॥ १७३ ॥
3.173 · p. 404
अनुष्टुप्
खातभूः प्रतिकूपः स्याल्लम्भा स्याद्वाटशृङ्खला ।कन्धरा तोरणं कण्ठी सूत्राली गलमेखला ॥ १७४ ॥
3.174 · p. 404
अनुष्टुप्
शासनं धर्मकीलः स्यात्सुकृतं शुद्रशासनम् ।पट्टोलिका क्लृप्तकीला सिन्दुरं रक्तशासनम् ॥ १७५ ॥
3.175 · p. 404
अनुष्टुप्
रासस्तु गोदुहां क्रीडा गीतिः पारावती तथा ।वेर्णुर्यवफलो वंशो नवीने नवकालिका ॥ १७६ ॥
3.176 · p. 404
अनुष्टुप्
मुखघण्टा हुलहुली तलाची नलपट्टिका ।नीपो धराकदम्बः स्याद्वीरभद्रस्तु वीरणम् ॥ १७७ ॥
3.177 · p. 404
अनुष्टुप्
खड्गटस्तु बृहत्काशं कोशाङ्कमित्कटं विदुः ।गण्डीरस्तु समण्ठः स्याद्ध्रीबेरं वारिवालकम् ॥ १७८ ॥
3.178 · p. 405
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्क (wrong syllable)
सितोत्पलं गन्धसोमं हरिमन्थोऽतिमुक्तकः ।कर्कारुकस्तु कालिङ्गः शृङ्गाटो जलकण्टकः ॥ १७९ ॥
3.179 · p. 405
अनुष्टुप्
हिलमोची जलब्रह्मी वायसी काकमाचिका ।पुन्नागः केसरश्चैव चाम्पेयो नागकेसरः ॥ १८० ॥
3.180 · p. 405
अनुष्टुप्
स्याद्दोलिका च हिन्दोला ल्यावणं लवणं मतम् ।सुखाशो राजतिमिषः कदुको राजसर्षपः ॥ १८१ ॥
3.181 · p. 405
अनुष्टुप्
सितमाषो राजमाषो मसूरो व्रीहिकाञ्चनः ।मधुक्षीरस्तु खर्जूरः सालः शङ्कुतरुर्मतः ॥ १८२ ॥
3.182 · p. 405
अनुष्टुप्
मुस्तो राजकशेरुः स्याद्रौहिणश्चन्दनद्रुमः ।काकमद्गुर्जलरङ्कः कोयष्टिर्जलकुक्कुभः ॥ १८३ ॥
3.183 · p. 405
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
वर्त्तिका विष्णुलिङ्गी स्याद्वनाखुः शशकः स्मृतः ।ताम्रकृमिरिन्द्रगोपो गृहगोधा गृहालिका ॥ १८४ ॥
3.184 · p. 405
अनुष्टुप्metre not read in every line
दिवान्धो हरिनेत्रः स्याद्गोनन्दी लक्ष्मणा मता ।कुरङ्कुरः पुष्कराह्वो वादुलिस्तरुतूलिका ॥ १८५ ॥
3.185 · p. 405
अनुष्टुप्
कोलपुच्छस्तु कङ्कः स्याद्गर्गाटो योगनाविकः ।ग्राम्यमद्गुरिका शृङ्गी राजशृङ्गस्तु मद्गुरः ॥ १८६ ॥
3.186 · p. 405
अनुष्टुप्
पङ्कग्राहस्तु प्रकरः शफरः श्वेतकोलकः ।चिङ्गटस्तु महाशल्कः पोताधानं जलाण्डकम् ॥ १८७ ॥
3.187 · p. 405
अनुष्टुप्
फलकी तु चित्रफली मत्स्यराजस्तु रोहितः ।काकोचिकस्तु काकोची वकाची वकचिञ्चिका ॥ १८८ ॥
3.188 · p. 405
अनुष्टुप्metre not read in every line
कवयी क्रकचपृष्ठी खलेशस्तु खलेशयः ।इल्लिशो राजशफर इञ्चाको जलवृश्चिकः ॥ १८९ ॥
3.189 · p. 405
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 च (wrong syllable)
दण्डपालोऽर्धशफरः कङ्कत्रोटो जलव्यथः ।लघुगर्गस्त्रिकण्टः स्यात्सिताङ्को वालुकागडः ॥ १९० ॥
3.190 · p. 405
अनुष्टुप्
कनकपलः कुरुबिस्तः करिकवलो विधानं स्यात् ।ब्राह्मी तु पङ्कगडकः शकुलो दण्डपालकः ॥ १९१ ॥
3.191 · p. 405
अनुष्टुप्metre not read in every line
निचोलकं निचुलकं मन्दामणिरलिञ्जरः ।वेदिः स्थण्डिलसितकं पन्याटो निष्कुटः स्मृतः ॥ १९२ ॥
3.192 · p. 405
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ण्डि (wrong syllable)
लोपासिका खिङ्खिरी स्यात्पल्याटो निष्कुटः स्मृतः ।अङ्केष्वेवाङ्कमङ्गानि स्मृतमुत्तानमुत्कटम् ॥ १९३ ॥
3.193 · p. 405
अनुष्टुप्
स्यान्मार्जिता रसाला च बुक्कारः सिंहनादकः ।कर्णगूथं कर्णमलं सिंहाणं नासिकामलम् ॥ १९४ ॥
3.194 · p. 405
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
दन्तमलं पुष्पिका स्यात्कुलकं रसनामलम् ।कारन्धमी धातुवादी दरिद्रो दुर्विधः स्मृतः ॥ १९५ ॥
3.195 · p. 405
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
स्यान्मन्त्रगण्डको विद्यापक्षद्वारं खडक्किका ।आर्द्रवस्त्रं जलार्द्रः स्याद्दोषश्चादीनवो मतः ॥ १९६ ॥
3.196 · p. 406
अनुष्टुप्
योजनं मार्गधेनुः स्यान्नल्वः किष्कुचतुःशतम् ।चोलको बाणवारः स्यात्कूर्पासस्त्वधचोलकः ॥ १९७ ॥
3.197 · p. 406
अनुष्टुप्
नागोदरमुरस्त्राणं जङ्गात्राणं तु मङ्क्षणम् ।स्यात्प्रासादो देवकुलं तत्तु चैत्यं विना मुखम् ॥ १९८ ॥
3.198 · p. 406
अनुष्टुप्
तृणपूली तु चञ्चा स्याद्यथार्थं तु यथातथम् ।आघातनं वधस्थानं कारा बन्धनवेश्मनि ॥ १९९ ॥
3.199 · p. 406
अनुष्टुप्
स्कन्धाग्निः स्थूलकाष्ठाग्निस्तृणाग्निस्तु भवेत्समः ।इङ्गलस्तु करीषाग्निर्ज्वराग्निस्त्वाधिमन्यवः ॥ २०० ॥
3.200 · p. 406
अनुष्टुप्
श्वशुरः स्वामिजनकः साधुधीर्वरवत्सला ।भगसार्थस्तथा विद्धो हेलावुकोऽश्वविक्रयी ॥ २०१ ॥
3.201 · p. 406
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वु (wrong syllable)
गृहवित्तो गृहपतिस्तुम्बीपुष्पं लताम्बुजम् ।लोहिका खरसोनिः स्यान्निलिम्पस्त्रिदशः स्मृतः ॥ २०२ ॥
3.202 · p. 406
अनुष्टुप्
गण्डूपदी भूलता स्यान्मण्डरी घुर्घुरी मता ।स्वच्छट्यङ्गुलिसंदेशो लङ्घनं चापतर्पणम् ॥ २०३ ॥
3.203 · p. 406
अनुष्टुप्
गजढक्का मदाम्नातः शृङ्गारो गजमण्डनम् ।प्रतिमो रणरङ्कः स्याद्वण्टकः कदरः शृणिः ॥ २०४ ॥
3.204 · p. 406
अनुष्टुप्
वीची जललता भृण्डिः फेणाग्रं बुद्बुदं विदुः ।जम्बालो जलकल्कः स्यादारणिः कुलदण्डकः ॥ २०५ ॥
3.205 · p. 406
अनुष्टुप्
विनाकृतं विरहितं गण्डूषो मुखपूरणे ।काष्ठमल्लः शवयानं कषायस्तुवरो रसः ॥ २०६ ॥
3.206 · p. 406
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
पर्वावधिः परग्रन्थिः पिञ्जोला पत्रकाहला ।गोहल्लं छगलं गोविट् परिघो द्वारकण्टकः ॥ २०७ ॥
3.207 · p. 406
अनुष्टुप्
कर्करं चूर्णखण्डे स्यात् कर्कसारं करम्भकम् ।स्पर्द्धायामपि संहर्षः कठोरं कर्करं विदुः ॥ २०८ ॥
3.208 · p. 406
अनुष्टुप्
बन्दीं करबकीमाहुरासन्दी लघुखाट्विका ।घटराजः स्मृतः कुम्भो गर्गरी कलशिर्मता ॥ २०९ ॥
3.209 · p. 406
अनुष्टुप्
विदुरजन्यमुत्पातं निर्घाते व्योममुद्गरः ।पर्यन्तिका गुणभ्रंशो गागेष्टी कटशर्करा ॥ २१० ॥
3.210 · p. 406
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
उल्का कुलुक्कगुञ्जा स्यात्कुलक्कस्तालमर्दलः ।सूत्रकोणे डमरुकं सूत्रवीणा च लाबुकी ॥ २११ ॥
3.211 · p. 406
अनुष्टुप्
मेलानन्दो मसिमणिर्लेखनी वर्णतूलिका ।धातूपलः कठिनिका मेला पत्राञ्जनं मसिः ॥ २१२ ॥
3.212 · p. 406
अनुष्टुप्
तर्कुटी सूत्रला तर्कुर्झल्लोलस्तर्कुलासकः ।वर्तुला तर्कुपीठी स्यात्पञ्जिका तूलनालिका ॥ २१३ ॥
3.213 · p. 406
अनुष्टुप्
निर्वेष्टनं नाडिचीरं दग्धेष्टका स्याज्झामकम् ।दोला प्रेङ्खा पुमान्प्रेङ्खा वारासनं वाः सदनम् ॥ २१४ ॥
3.214 · p. 406
metre not recognised
पिष्टवर्तिस्तु चमसश्चित्रापूपश्चरुव्रणः ।म्लेच्छितं परभाषायां लुण्टिका न्यायसारिणी ॥ २१५ ॥
3.215 · p. 406
अनुष्टुप्
शूकापूट्टस्तृणमणिश्छात्रगण्डः पदाद्यवित् ।कोशकारः काष्ठतन्तुर्घुणः स्यात्काष्ठलेखकः ॥ २१६ ॥
3.216 · p. 407
अनुष्टुप्
विषशृङ्गी भङ्गरोलो वरोलस्तृणषट्पदः ।तुदुमो रन्ध्रबभ्रुः स्याद्दीना लिङ्गालिका स्मृता ॥ २१७ ॥
3.217 · p. 407
अनुष्टुप्
विदारुः क्रकचपादो द्रुणश्चालिश्च वृश्चिकः ।पद्माक्षं पद्मबीजं च कर्णिका बीजमातृका ॥ २१८ ॥
3.218 · p. 407
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 च (wrong syllable)
रङ्गमाता भवेल्लाक्षा धीलटिर्दुहिता मता ।चाटलोलश्च दुल्लोलो जेङ्गटो दोहदः स्मृतः ॥ २१९ ॥
3.219 · p. 407
अनुष्टुप्
धौताञ्जली धौतबली वज्रकं दुग्धपाचनम् ।चित्रोक्तिः पुष्पशकटी चासेचनमतृप्तिकृत् ॥ २२० ॥
3.220 · p. 407
अनुष्टुप्
कालरात्रिर्भीमरथी अस्वाध्यायो निराकृतिः ।ब्रह्मवादः श्रुतादानं विश्वकद्रुरखेटिकः ॥ २२१ ॥
3.221 · p. 407
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्भी (wrong syllable)
हिंसालुकः खादुकः श्वा योगितोऽलर्क इष्यते ।द्रगडस्तूर्यगण्डः स्यादादर्शो मुकुरः स्मृतः ॥ २२२ ॥
3.222 · p. 407
अनुष्टुप्
राहूत्सृष्टो रसोनः स्याद्वङ्गरी कोलनासिका ।मयण्टस्तृणहर्म्यः स्यात्कुत्रङ्गो मञ्चमण्डपः ॥ २२३ ॥
3.223 · p. 407
अनुष्टुप्
स्रवद्रङ्गः पणग्रन्थिश्चितिका कटिशृङ्खला ।विशारदः प्रसिद्धे स्याच्छ्रीर्लक्ष्मीरिन्दिरा मता ॥ २२४ ॥
3.224 · p. 407
अनुष्टुप्