कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Hārāvalī

हारावली Hārāvalī

282 verses · text only, tagging comes next

नानावधिः

इति पादावधिः ॥

अथ नानार्थः ॥

प्राक् शालावृकशब्दादर्धैः पादैरतः परं शब्दाः ।नानार्था अपि शब्दैर्गजशब्दात्प्रभृति विज्ञेयाः ॥ २२५ ॥
4.225 · p. 407
metre not recognised
क्षीरदारो गुडक्षोदे गुडे मधुनि चेष्यते ।कृपीटपानमिच्छन्ति के निपाते च वारिधौ ॥ २२६ ॥
4.226 · p. 407
अनुष्टुप्
रसाला रसनायां स्यान्मथिते दध्नि पाणिना ।पाञ्चलोहे श्रुतिकठः प्रायश्चित्ते सरीसृपे ॥ २२७ ॥
4.227 · p. 407
अनुष्टुप्
विटोऽद्रौ लवणे षिड्गे मूषिके खदिरेऽपि च ।वितण्डा करवीर्यां च दर्वीवादप्रभेदयोः ॥ २२८ ॥
4.228 · p. 407
अनुष्टुप्
कारण्डवे करण्डः स्यान्मधुकोषे दलाढके ।खटः श्लेष्मण्यन्धकूपे प्रहारान्तरटङ्कयोः ॥ २२९ ॥
4.229 · p. 407
अनुष्टुप्
पिच्छा पूगच्छटकोषे चोलिका फणिलालयोः ।पिच्छलाः स्फोटिकावात्यारामावाताखुपांशवः ॥ २३० ॥
4.230 · p. 407
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ट (wrong syllable)
धराङ्कुरो वायुफले नासीरे शीकरेऽपि च ।कोट्टारो नागरे कूपे पुष्करिण्यां च पाटके ॥ २३१ ॥
4.231 · p. 407
अनुष्टुप्
नागाञ्जना नागयष्टिः करिसुन्दरिका क्वचित् ।पूत्यण्डः पूतिकीटे च गन्धकीटे च दृश्यते ॥ २३२ ॥
4.232 · p. 407
अनुष्टुप्
कटुकायां कञ्चटके कथिता शकुलादनी ।क्रौञ्चादनस्तु घेञ्चुल्यां चिञ्चटकमृणालयोः ॥ २३३ ॥
4.233 · p. 407
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable); pāda 4, syllable 2 ञ्च (wrong syllable)
सन्तानिका क्षीररसे तथा मर्कटजालके ।खड्गधेनुफले फेने पराञ्जस्तैलयन्त्रके ॥ २३४ ॥
4.234 · p. 407
अनुष्टुप्
भालाङ्को लोहिते दृष्टः करपत्रे च कच्छपे ।संकरोऽग्निचिटत्कारे सम्मार्जन्यपसारिते ॥ २३५ ॥
4.235 · p. 407
अनुष्टुप्
गोधा कलम्बिकादन्तिवधूषु च कटंभरा ।पङ्कारः शैवले सेतौ सोपाने जलकुब्जके ॥ २३६ ॥
4.236 · p. 407
अनुष्टुप्
पृष्ठशृङ्गीति शब्दोऽयं दंशभीरौ पृथूदरे ।मेघपुष्पं तु नादेये पिण्डाभ्रे सलिले विदुः ॥ २३७ ॥
4.237 · p. 407
अनुष्टुप्
पित्तज्वरे कुलालस्य पवने कूटपालकः ।स्तनवृन्ते पिप्पलकं तथा सीवनसूत्रके ॥ २३८ ॥
4.238 · p. 407
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)
पाटलिकोऽन्यमर्मज्ञे छात्रे स्यात्कालदेशिनि ।जिह्वापो वृषदंशे च स्यादिन्द्रमहकर्मणि ॥ २३९ ॥
4.239 · p. 407
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 लि (wrong syllable)
लाभे कामगुणे रूपे आमिषाख्या तु भोजने ।छायापथे तु दूर्वायां हरितालीध्वनिर्मतः ॥ २४० ॥
4.240 · p. 408
अनुष्टुप्
मालुधानश्चित्रसर्पे महापद्मेऽपि दृश्यते ।उन्मत्ते क्षपणेऽनर्थकरे कार्यपुटध्वनिः ॥ २४१ ॥
4.241 · p. 408
अनुष्टुप्
सांघाटिकां विदुर्युग्मे कुट्टन्यां जलकण्टके ।शराहते च सर्पे च प्रचालकं प्रचक्षते ॥ २४२ ॥
4.242 · p. 408
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
चन्द्रिकायामब्जधूलौ रक्ताङ्गे हरिचन्दनम् ।स्त्रीरत्ने च हरिद्रायां लाक्षायां वरवर्णिनी ॥ २४३ ॥
4.243 · p. 408
अनुष्टुप्
कृकलासे चित्रकोले तृणगोधाध्वनिं विदुः ।डिम्भं भये च कलले फुप्फुसे च प्रचक्षते ॥ २४४ ॥
4.244 · p. 408
अनुष्टुप्
धुन्धुमारः शक्रगोपे गृहधूमे गृहालिके ।तिक्तपर्वा हिलमोचीगुडूचीमधुयष्टिषु ॥ २४५ ॥
4.245 · p. 408
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ल (wrong syllable)
जलबिल्वः कर्कटके पञ्चाङ्गे जलवल्कले ।चोलकी नागरङ्गे च करीरे किष्कुपर्वणि ॥ २४६ ॥
4.246 · p. 408
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
कुलालचक्रे वहने दण्डारः शरयन्त्रके ।दिग्जये वरयात्रायां दण्डयात्रां विदुर्बुधाः ॥ २४७ ॥
4.247 · p. 408
अनुष्टुप्
उष्ट्रे दासीसुते चैव दासेरक इति स्मृतः ।जलगुल्मो जलावर्ते कच्छपे जलचत्वरे ॥ २४८ ॥
4.248 · p. 408
अनुष्टुप्
काहलावेणुवीणादिध्वनिं नानाध्वनिं विदुः ।घोङ्घे कारुण्डिकायां च जाहकध्वनिरिष्यते ॥ २४९ ॥
4.249 · p. 408
अनुष्टुप्
विद्यादुत्कलिकाशब्दमुत्कण्ठावीचिवाचकम् ।दृष्टिविषे सूचके च द्विजिह्वः परिकीर्तितः ॥ २५० ॥
4.250 · p. 408
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 वि (wrong syllable)
मदमत्ताविदग्धस्त्रीनर्तकीषु च वाणिनी ।रोमावलीमेघमालाकरटीषु च कालिका ॥ २५१ ॥
4.251 · p. 408
अनुष्टुप्
मञ्जुलो मधुरे कुञ्जे जलरङ्गे जलाञ्चले ।अनुकम्पस्तरस्वी स्यात्तपस्वी च धृतव्रतः ॥ २५२ ॥
4.252 · p. 408
अनुष्टुप्