कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kriyānighaṇṭu

क्रियानिघण्टु Kriyānighaṇṭu

116 verses · 892 words tagged · 151 marked doubtful (dashed)

Part 1

श्रीरस्तु

अविज्ञातकविसन्दृब्धः क्रियानिघण्टुः

भवत्यर्थे भवत्यस्ति जायते विद्यते तथा ।सम्पद्यते निष्पतति निष्पद्यत उदञ्चति ॥ १ ॥
1 · p. 1
अनुष्टुप्
उत्पद्यतेऽप्युदयत उदेत्युदयतीति च ।अङ्कूरत्यङ्कुरति चोद्भिद्यते कन्दलत्यपि ॥ २ ॥
2 · p. 1
अनुष्टुप्
राजते द्योतते राजत्यपि दीव्यति दीव्यते ।चकास्ति कसति भ्राजते च स्फुरति रोचते ॥ ४ ॥
4 · p. 1
अनुष्टुप्
व्याहरत्यभिधत्तेऽभिदधातीरयतीत्यपि ।उच्चारयत्यामनति कथयत्याह जल्पति ॥ ६ ॥
6 · p. 2
अनुष्टुप्
ईट्टे वर्णयति स्तौति स्तुते नौति प्रशंसति ।वन्दते श्लाघते चापि कीर्तययत्यभिनन्दति ॥ ७ ॥
7 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 र्तय (syllable split)
उपश्लोकयतीत्यर्थे पणायति पनायति ।व्याख्याति विवृणोति व्याकुरुतेऽर्थापयत्यपि ॥ ८ ॥
8 · p. 2
अनुष्टुप्
विवृणीते विवृणुते व्याचष्टे व्याकरोति च ।प्रबध्नाति प्रणयति प्रयुङ्क्ते व्याकरोति च ॥ ९ ॥
9 · p. 2
अनुष्टुप्
पूजयत्यर्चयति सत्करोत्याद्रियतेऽञ्चति ।सम्भावयत्यर्चति सत्कुरुते मानयत्यपि ॥ १० ॥
10 · p. 2
अनुष्टुप्
सभाजयत्युपचरत्यन्वास्ते महयत्यपि ।आराधयत्यनुसरत्याराध्यत्यभिराध्यति ॥ ११ ॥
11 · p. 2
अनुष्टुप्
शुश्रूषते परिचरत्युपास्ते वरिवस्यति ।पुरस्करोति च पुरस्कुरुते बहु मन्यते ॥ १२ ॥
12 · p. 2
अनुष्टुप्
बहूकरोति च बहु मनुते चार्हयत्यपि ।नमस्करोति कुरुते जुषते च नमस्यति ॥ १३ ॥
13 · p. 2
अनुष्टुप्
अवति त्रायते पाति पालयत्यपि रक्षति ।शास्ति गोपायति भुनक्त्यभिगोपायतीति च ॥ १५ ॥
15 · p. 3
अनुष्टुप्
प्रीयते मोदते हृष्यत्यानन्दति च नन्दति ।निर्वृणोति च निर्वाति सुख्यत्यवति तुष्यति ॥ १६ ॥
16 · p. 3
अनुष्टुप्
सुखयत्याह्लादयति प्रीणीते प्रीणयति सुखाकुरुते ।आनन्दयति धिनोत्यामोदयति च हर्षयति च तोषयति ॥ १७ ॥
17 · p. 3
गीतिः
दूयते व्यथते दुःख्यत्यपि शोचति सीदति ।खिद्यते क्लिश्यति श्राम्यत्यन्तस्तपति ताम्यति ॥ १८ ॥
18 · p. 3
अनुष्टुप्
ग्लायति म्लायति प्लुष्यत्यपि स्विद्यति शुष्यति ॥ १९ ॥
19 · p. 3
क्लिश्नाति क्लेशयति व्यथयति दुःखाकरोति शोचयति ।विह्वलयति च दुनोति व्याकुलयति विमनयति विषादयति ॥ २० ॥
20 · p. 3
गीतिः
घातयत्याहते हन्ति निबर्हयति सूदते ।हिनस्त्युज्जासयति संहरते सूदयत्यपि ॥ २१ ॥
21 · p. 3
अनुष्टुप्
कदर्थयति मथ्नाति कर्शयत्यपि बाधते ।पिनष्ट्युपद्रवति च पीडयत्यपि शास्ति च ॥ २२ ॥
22 · p. 3
अनुष्टुप्
निगृह्णीते निगृह्णाति ताडयत्यपि विध्यति ।तनूकरोति तक्ष्णोति क्रशयत्यपि च द्यति ॥ २३ ॥
23 · p. 4
अनुष्टुप्
उपसर्पत्युपसरत्युपयात्युपगच्छति ।उपधावत्युपनयत्युपैत्युपतिष्ठते ॥ २६ ॥
26 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अपसर्पत्युपसरत्युपयात्यपगच्छति ।अपैति व्ययति व्येति विगच्छत्यपवर्तते ॥ २७ ॥
27 · p. 4
अनुष्टुप्
आगच्छत्याव्रजत्यायात्यापतत्यासरत्यपि ।निर्गच्छति च निर्याति निस्सरत्युत्पतत्यपि ॥ २८ ॥
28 · p. 4
अनुष्टुप्
उद्गच्छत्युद्व्रजत्युद्यात्युत्तिष्ठत्युच्चलत्यपि ।अभिगच्छत्यभिपतत्यभियात्यभिधावति ॥ २९ ॥
29 · p. 4
अनुष्टुप्
अभिप्रार्दयते चैवमभिषेणयतीति च ।अनुसर्पत्यनुपतत्यनूदेत्यनुवर्तते ॥ ३० ॥
30 · p. 4
अनुष्टुप्
अनुगच्छत्यनुसरत्यनुयात्यनुधावति ।अन्वेत्यनुद्रवत्यन्वागच्छत्यन्वयतीत्यपि ॥ ३१ ॥
31 · p. 4
अनुष्टुप्
विडम्बयत्यनुकरोत्युपमात्यनुकल्पते ।एतेऽनुविदधात्यर्थे तुलयत्यपि तादृशः ॥ ३२ ॥
32 · p. 5
अनुष्टुप्
ददाति ददते दत्ते दिशत्युपहरत्यपि ।विश्राणयत्यर्पयति वितरत्यावहत्यपि ॥ ३३ ॥
33 · p. 5
अनुष्टुप्
प्रयच्छति स्पर्शयति प्रतिपादयतीति च ।पात्रत्रा कुरुते तत्सात्कारोत्यतिसृजत्यपि ॥ ३४ ॥
34 · p. 5
अनुष्टुप्
दास्या संयच्छते कामी ददात्युपकरोति च ।आदत्ते प्रतिगृह्णाति प्रतिगृह्णीत इत्यपि ॥ ३५ ॥
35 · p. 5
अनुष्टुप्
जहाति विसृजत्युज्झत्यपि त्यजति मुञ्चति ।मुञ्चते वर्जयति च तथा परिहरत्यपि ॥ ३६ ॥
36 · p. 5
अनुष्टुप्
खेलति क्रीडति परिक्रीडते विहरत्यपि ।सङ्क्रीडते विभ्रमति विनोदयति दीव्यति ॥ ३७ ॥
37 · p. 5
अनुष्टुप्
रमतेऽनुक्रीडते प्रेङ्खति त्वङ्गति रिङ्गति ।विभ्राम्यति ललत्येवमथो नटति नृत्यति ॥ ३८ ॥
38 · p. 5
अनुष्टुप्
वीरायते धर्षयते धर्षयति प्रतिहन्ति प्रगल्भते ।विक्रामति परिक्रामत्यथ दृप्यति माद्यति ॥ ३९ ॥
39 · p. 5
अनुष्टुप्metre not read in every line
अथो जयत्यतिक्रामत्यतिशेतेऽतिरिच्यते ।अत्येत्यर्थे विजयते पराजयत इत्यपि ॥ ४० ॥
40 · p. 5
अनुष्टुप्
युध्यते योधयति च बाहुभ्यान्तु नियुध्यते ।कुप्यति क्रुध्यति द्वेष्टि रुष्यतीर्ष्यत्यसूयति ॥ ४१ ॥
41 · p. 6
अनुष्टुप्
सङ्घर्षयत्याह्वयति स्पर्धते स्पर्धयत्यपि ।सहते क्षमते क्षाम्यत्यपि शाम्यति मृष्यति ॥ ४२ ॥
42 · p. 6
अनुष्टुप्
पश्यति निर्वर्णयति प्रत्यक्षयतीक्षतेऽपरोक्षयति ।निध्यायति लोचयति च साक्षात्कुरुते निशामयति ॥ ४४ ॥
44 · p. 6
आर्या
लोकते लक्षयति चाप्यथ जानाति बुध्यते ।वेदोपलभतेऽवैति प्रत्येति प्रतिपद्यते ॥ ४५ ॥
45 · p. 6
अनुष्टुप्
गृह्णाति मन्यते चाथ सन्दिग्धे विचिकित्सति ।डोलायते च संशेते शङ्कते विमृशत्यतः ॥ ४७ ॥
47 · p. 6
अनुष्टुप्
ऊहते तर्कयत्यध्याहरत्यालोचयत्यपि ।मीमांसते विविङ्क्ते च विचारयति चाप्यथ ॥ ४८ ॥
48 · p. 6
अनुष्टुप्
निर्धारयति निगमयति निश्चिनुते निश्चिनोति निर्णयते ।निर्णयति निरूपयति च निर्लोडयते परिच्छिनत्यपि च ॥ ४९ ॥
49 · p. 6
गीतिः
निमिषति मुकुलीभवति स्फुटति च सङ्कुचति कुड्मलीभवति ।उन्मीलत्युन्मिषति ह्युच्छ्वसिति निमीलयति मिषति हसति ॥ ५० ॥
50 · p. 7
गीतिः
उद्भिद्यते विकसति स्फुटीभवति दीर्यते ।करोति कुरुते निर्मात्याचरत्यनुतिष्ठति ॥ ५१ ॥
51 · p. 7
अनुष्टुप्
निर्मिमीते विधत्ते विदधाति रचयत्यपि ।कल्पयत्याकलयति तनोति तनुतेऽपि च ॥ ५२ ॥
52 · p. 7
अनुष्टुप्
वैरायते विरुन्धे विरुणद्धि कलहायते ।द्वेष्टि द्विष्टे विगृह्णाति विराध्यत्यपराध्यति ॥ ५३ ॥
53 · p. 7
अनुष्टुप्
जिघांसति विगृह्णीते द्रुह्यत्यपकरोति च ।अपिधत्ते चावृणुते स्थगयत्यपि चोर्णुते ॥ ५४ ॥
54 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable)
तिरस्करोति च तिरोधापयत्यपनिह्नुते ।व्यवधत्ते व्यवदधात्यपवारयतीति च ॥ ५५ ॥
55 · p. 7
अनुष्टुप्
ऊर्णोत्युर्णौति धुडयत्यन्तर्धापयतीति च ।अन्तर्धत्ते तिरोधत्ते लीयतेऽन्तर्दधाति च ॥ ५६ ॥
56 · p. 7
अनुष्टुप्
मुष्णाति चोरयति च हरत्यपहरत्यपि ।बलाद्गृह्णात्याच्छिनत्ति लुण्टयत्यथ घुष्यति ॥ ५७ ॥
57 · p. 7
अनुष्टुप्
रणति क्वणति क्रुञ्चत्यपि स्तनति गर्जति ।रसति क्रोशति रटत्यथाक्रन्दति रोदिति ॥ ५६ ॥
56 · p. 8
अनुष्टुप्
बाष्पायते विलपति परिदेवयतीति च ।वेपते कम्पते चञ्चत्यपि लोलति वल्गति ॥ ६० ॥
60 · p. 8
अनुष्टुप्
डोलायते च चलति वलते वलतीति च ।धुनोति धुनुते धूनोत्यालोलयति धूनुते ॥ ६१ ॥
61 · p. 8
अनुष्टुप्
धुनाति कम्पयत्येवं धुवति व्यग्रयत्यपि ।चलयत्याकुलयति श्रन्थादिश्चालयत्यपि ॥ ६२ ॥
62 · p. 8
अनुष्टुप्
श्लिष्यत्यालिङ्गति परिष्वजतेऽप्युपगूहति ।आलिङ्गते चापि परिरभते वेष्टयत्यपि ॥ ६३ ॥
63 · p. 8
अनुष्टुप्
निदधाति निधत्ते निक्षिपते निक्षिपत्यपि ।निवेशयति विन्यस्यत्यपि न्यस्यति चाप्यथ ॥ ६४ ॥
64 · p. 8
अनुष्टुप्
पाणौ गृह्णाति गृह्णीते विवहत्युपयच्छते ।परिगृह्णाति च परिणयत्यथ निषीदति ॥ ६५ ॥
65 · p. 8
अनुष्टुप्
तिष्ठत्यास्ते निविशते वसत्युपविशत्यपि ।वितिष्ठते तदध्यास्तेऽधितिष्ठत्युपतिष्ठते ॥ ६६ ॥
66 · p. 8
अनुष्टुप्
वर्तते ध्रियते प्राणित्यपि श्वसिति जीवति ।नुदति प्रेरयति विक्षिपति क्षिपतेऽस्यति ॥ ६७ ॥
67 · p. 9
अनुष्टुप्
प्रहिणोति व्यादिशति नियुङ्क्ते चोदयत्यपि ।प्रेषयत्यपि युङ्क्ते विसृजति प्रेष्यतीति च ॥ ६८ ॥
68 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व्या (wrong syllable)
बिभर्ति बिभृते धत्ते वहते धारयत्यपि ।दधाति वहतीत्यर्थे धरत्युद्वहतीत्यपि ॥ ६९ ॥
69 · p. 9
अनुष्टुप्
तिरस्करोत्यभिभवत्यवजानाति निन्दति ।धिक्करोति न्यक्कुरुते विगायत्यवगायति ॥ ७० ॥
70 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्य (wrong syllable)
जुगुप्सतेऽवमनुते गर्हयत्यवमन्यते ।बहिष्करोति परिभवत्याक्षिपति चाजति ॥ ७१ ॥
71 · p. 9
अनुष्टुप्
अवधीरयत्येवमवमानयतीति च ।वाञ्छतीच्छत्यभिलषत्यभिलष्यत्यपेक्षते ॥ ७२ ॥
72 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
काङ्क्षत्याद्रियते चाभिप्रैति स्पृहयतीहते ।आशास्तेऽर्थयते वष्टि लिप्सतेऽभीप्सतीति च ॥ ७३ ॥
73 · p. 9
अनुष्टुप्
काङ्क्षते चाभिसन्धत्तेऽनुरुन्धे चानुरुध्यते ।याचते याचतीत्यर्थे नाथत्यर्थयतेऽर्दति ॥ ७४ ॥
74 · p. 9
अनुष्टुप्
अपोऽवगाहते चोपस्पृशति स्नाति मज्जति ।तिम्यत्यार्द्रीभवत्यर्थे स्तिम्यतीत्यप्यथोक्षति ॥ ७५ ॥
75 · p. 9
अनुष्टुप्
स्नपयत्याप्लावयति मज्जयत्यपि सिञ्चति ।शक्नोति पारयति पर्याप्नोति प्रभवत्यपि ॥ ७६ ॥
76 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्ला (wrong syllable)
ईष्टे प्रगल्भते चाथ पचते पचतीति च ।प्रवर्तते प्रक्रमते प्रस्तौत्यारभतेऽपि च ॥ ७७ ॥
77 · p. 10
अनुष्टुप्
उपक्रमत उद्युङ्क्ते चार्हत्युत्सहतेऽपि च ।ईहते चेष्टते चैव यतते च प्रयस्यति ॥ ७८ ॥
78 · p. 10
अनुष्टुप्
भुङ्क्तेऽभ्यवहरत्यश्नात्याचामात्यत्ति खादति ।रसयत्यास्वादयति भक्षयत्यपि चर्वति ॥ ७९ ॥
79 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्वा (wrong syllable)
ग्रसते ग्रसतीत्यर्थे जक्षति प्रत्यवस्यति ।लेढि लीढेऽथ पिबति धयत्यास्वादतेऽपि च ॥ ८० ॥
80 · p. 10
अनुष्टुप्
अथो गिरत्युद्गिरति निगिरत्युद्वमत्यपि ॥ ८१ ॥
81 · p. 10
भूषयति परिष्कुरुतेऽलङ्कुरुतेऽलङ्करोति मण्डयति ।अपि वा परिष्करोत्यप्याकल्पयति प्रसाधयति ॥ ८२ ॥
82 · p. 10
आर्या
सौति सूते च जनयत्युत्पादयति सूयते ।त्रपते लज्जते जिह्रेत्यपि सङ्कुचतीति च ॥ ८३ ॥
83 · p. 10
अनुष्टुप्
सङ्गच्छते युज्यते सम्पद्यते चोपपद्यते ।सन्तिष्ठते समाप्नोति पर्याप्नोति च पूर्यते ॥ ८४ ॥
84 · p. 10
अनुष्टुप्
छिनत्ति कृन्तति लुनात्यपि खण्डयति द्यति ।अथ व्यापद्यते प्रैति म्रियते च प्रमीयते ॥ ८५ ॥
85 · p. 10
अनुष्टुप्
सम्मन्यतेऽनुजानीतेऽनुजानात्यनुमन्यते ।उररीकुरुते चाङ्गीकरोत्यभ्युपगच्छति ॥ ८६ ॥
86 · p. 10
अनुष्टुप्
शृणोति संशृणुत इत्यर्थे निशमयत्यपि ।आकर्णयत्यपि ततोऽवधत्ते धारयत्यपि ॥ ८७ ॥
87 · p. 11
अनुष्टुप्
अध्येति स्मरति ध्यायत्यपि चिन्तयतीति च ।प्रमाद्यति प्रस्मरति विस्मरत्यपि मुह्यति ॥ ८८ ॥
88 · p. 11
अनुष्टुप्
अधीते शीलयत्यभ्यस्यति शीलति शिक्षते ।अमी परिचिनोत्यर्थे घटतेऽपि च सिद्ध्यति ॥ ८९ ॥
89 · p. 11
अनुष्टुप्
पुष्णाति पोषयत्यर्थे वर्धयत्येधयत्यपि ।पवते पावयत्यर्थे पुनीते च पुनाति च ॥ ९० ॥
90 · p. 11
अनुष्टुप्
मार्ष्टि मार्जयते शुद्धीकुरुते शोधयत्यपि ।मार्जति क्षालयत्यर्थे निर्णेनेक्ति च धावति ॥ ९१ ॥
91 · p. 11
अनुष्टुप्
वृणोति वरयत्यर्थे वृणीते वृणुते वरम् ।क्रीणाति पणते विक्रीणीते व्यवहरत्यपि ॥ ९२ ॥
92 · p. 11
अनुष्टुप्
मिमीते माति संख्याति मिनोति गणयत्यपि ।सज्जत्यासञ्जयत्यर्थे सन्नह्यति तु सज्जते ॥ ९३ ॥
93 · p. 11
अनुष्टुप्
स्रंसते च्यवते भ्रश्यत्यपि ध्वंसत इत्यपि ।गलत्यथो मृगयते मार्गते मार्गयत्यपि ॥ ९४ ॥
94 · p. 11
अनुष्टुप्
विचिनोत्यन्विष्यति चान्विच्छत्यनुसरत्यपि ।विनयत्यनुशास्त्यध्यापयत्यभ्यासयत्यपि ॥ ९५ ॥
95 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्वि (wrong syllable)
शास्ति शिक्षयतीत्यर्थे लगत्यर्थे तु लीयते ।नयति प्रापयति सङ्गमयत्यर्पयत्यपि ॥ ९६ ॥
96 · p. 11
अनुष्टुप्
स्रवति द्रवति श्चोतत्यपि क्षरति वर्षति ।स्यन्दते स्कन्दति नदी वहति प्रवहत्यपि ॥ ९७ ॥
97 · p. 12
अनुष्टुप्
चर्चयत्यङ्गरागार्थे रूषयत्यपि लिम्पति ॥ ९८ ॥
98 · p. 12
न्यञ्चत्यधोयाति पतत्यधोगच्छति मज्जति ।अथ निर्भर्त्सयति हुङ्कुरुते तर्जयत्यपि ॥ ९९ ॥
99 · p. 12
अनुष्टुप्
भस्मीकरोति दहति प्लवते तु तरत्यपि ।निषेधति निरुन्धे निरुणद्धि प्रतिषेधति ॥ १०० ॥
100 · p. 12
अनुष्टुप्
सम्भ्राम्यति क्षुभ्यति सम्भ्रमत्यपि च वेपते ।बिभेति त्रसति त्रस्यत्यारोहत्यधिरोहति ॥ १०१ ॥
101 · p. 12
अनुष्टुप्
अवरोहत्यवपतत्यन्तर्विशति गाहते ।रज्यते रज्यति स्निह्यत्यनुयुङ्क्ते तु पृच्छति ॥ १०२ ॥
102 · p. 12
अनुष्टुप्
प्रतिवक्त्युत्तरयति वाति वीजयतीत्यपि ।लिखत्यालिखतीत्यस्मिन्नर्थे कृषति कर्षति ॥ १०३ ॥
103 · p. 12
अनुष्टुप्
बध्नाति नह्यति च सन्ददात्याकलयत्यपि ।समाधत्तेऽनुनयति सान्त्वयत्युपयच्छति ॥ १०५ ॥
105 · p. 12
अनुष्टुप्
खनति क्रमते स्नौति पठत्यपि लुठत्यपि ।ज्वलति श्लथयत्यर्थे स्रंसयत्यथ हेषते ॥ १०६ ॥
106 · p. 13
अनुष्टुप्
कर्षयत्यास्फालयति सङ्घट्टयति सीव्यति ।वयति व्यञ्चते दोग्धि जुहोति जुषते तथा ॥ १०७ ॥
107 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्फा (wrong syllable)
क्रीणाति जानाति पुनाति पुष्णा-त्यश्नाति मुष्णाति लुनाति चैवम् ।क्लिश्नाति बध्नाति गृणाति मथ्ना-त्यतश्च गृह्णाति तथा वृणीते ॥ १०८ ॥
108 · p. 13
उपजातिः
क्रीणीते जानीते गृह्णीतेऽपि च पुनीते च ।विधुनीते चेति श्नाविकरणभेदा इमे ख्याताः ॥ १०९ ॥
109 · p. 13
metre not recognised
रुणद्धि रुन्धे च भिनत्ति भिन्ते,युनक्ति युङ्क्ते च भुनक्ति भुङ्क्ते ।व्यनक्त्युनत्त्येव च विद्विनक्ति,पिनष्टि रिङ्क्ते च हिनस्त्यपीन्धे ॥ ११० ॥
110 · p. 13
उपेन्द्रवज्रा
जुहोति जिह्रेति जहाति दत्ते,ददाति धत्ते च तथा जिहीते ।तथा बिभेतीत्यपि वा मिमीते,बिभिर्ति जागर्ति चकास्ति शास्ति ॥ १११ ॥
111 · p. 13
उपेन्द्रवज्रा
दधीतेऽपि च वेवीते दरिद्राति च जक्षति ।एते ह्यभ्यस्तसंज्ञाः स्युः झोऽन्तादेशविवर्जिताः ॥ ११२ ॥
112 · p. 13
अनुष्टुप्
सुनोति सुनुते संशृणुते च विचिनोति च ।चिनुते वृणुते चैव शृणोति च वृणोति च ॥ ११३ ॥
113 · p. 14
अनुष्टुप्
धूनुते प्रहिणोतीति धुनुते च धुनोति च ।स्पृणोति च दुनोतीति मिनोति मिनुते तथा ॥ ११४ ॥
114 · p. 14
अनुष्टुप्
धूनोत्याप्नोति शक्नोति तक्ष्णोति च हिनोति च ।सुनोत्याद्या इमे तु श्नुविकरण्यभिधाः स्मृताः ॥ ११५ ॥
115 · p. 14
अनुष्टुप्
शमनं ध्वननं मज्जनविकलम्जृम्भणदम्भनरोदनहसनम् ।कुटिलोत्सुकते भ्रमणं यतनम्क्षरणं जरणं शकनं ग्लानिः ।वृद्धिक्षयभयजीवितमरणम्लज्जासत्तास्थितिजागरणम् ।शयनक्रीडारुचिदीप्त्यर्थम्धातुगणं तमकर्मकमाहुः ।
116 · p. 14
metre not recognisednearly तोटकम्: pāda 2, syllable 10 ग्ला (syllables merged)