कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वेद

vedaपुं · masc.

In 19 kośas: 24 synonym verses, 1 as a nānārtha head word, 50 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.249 · p. 15
स्वाध्यायः श्रुतिराम्नायश्छन्दो वेदस्त्रयी पुनः ।ऋग्यजुःसामवेदाः स्युरथर्वा तु तदुद्धृतिः ॥ २४९ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.253 · p. 15
षडङ्गा वेदाश्चत्वारो मीमांसान्वीक्षिकी तथा ।धर्मशास्त्रं पुराणं च विद्या एताश्चतुर्दश ॥ २५३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शब्दादिवर्गः Amarakośa 1.6.5
श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.9 · p. 2
वेदः श्रुतिस्तथाम्नायः स्वाध्यायश्छन्द आगमः ।वेदान्तश्च रहस्यं च बुधैरुपनिषन्मता ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चमोपदेशः Bālaprabodhikā 5.80 · p. 73
गद्यपद्यमयी चम्पूः सरणी पद्यमात्रिका ।शृङ्गाराद्यधिकं काव्यं समासान्तन्तु दण्डकम् ।ऋग्यजुः सामयजुषि वेदास्ते तु त्रयस्त्रयी ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चमोपदेशः Bālaprabodhikā 5.81 · p. 73
अथर्वणेति वेदे तु पुरोहितमितीर्यते ।वेदाश्चत्वार एवन्तच्छन्दो ब्रह्मविनिर्मितम् ॥ ८१ ॥
अनुष्टुप्
genderपुंmasc.
एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa · अज्ञात त्रिसंख्यावाचकाः शब्दाः Ekādisaṃkhyāsaṃjñākoṣa 3.6 · p. 200
त्रिफला त्रिशूल-पुरुषाः पलाशदल-कालिदासकाव्यानि ।वेदावस्था कम्बु-ग्रीवारेखा त्रिकूटकूटानि ॥ ६ ॥
गीतिः
genderपुंmasc.
एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa · अज्ञात चतुःसंख्यावाचकाः शब्दाः- Ekādisaṃkhyāsaṃjñākoṣa 4.9 · p. 200
ब्रह्ममुख-वेद-हरिभुज-सुरगजरद-वर्ण-चतुरिकास्तम्भाः ।सङ्घ-समुद्राशमघात(?)-गोस्तना-ऽऽश्रम-कषाय-दिशः ॥ ९ ॥
आर्या
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.22 · p. 2
चतस्रश्चतुरो वेदा सागराब्धिकृताश्चतुः ।समुद्राम्भोनिधियुगा श्रुतिनीररगीश्वराः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.495 · p. 187
त्रिपञ्चा एवमेकद्वाः षट्सप्ता अपि पञ्चषाः ।भूचन्द्रभुजनेत्राग्निगुणवेदयुगा अपि ॥ ४९५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.32 · p. 442
तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता ।श्रुतिस्त्रयी स्त्रियां वेद आम्नाय ऋषिरित्यपि ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.67 · p. 60
ओंकारो वेदादिः प्रणवो वेदस्त्वृषिर्निगमः ।आम्नाय-स्वाध्यायागमाः श्रुतिः[39a] छन्दः ॥ ६७ ॥
metre not recognised
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.66 · p. 61
जटादयः पदावृत्तिभेदा अन्तः पुनः श्रुतेः ।स्त्रियामुपनिषद्वेदो रहस्यं तत्र चान्तिमे [39b] ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
लोकते लक्षयति चाप्यथ जानाति बुध्यते ।वेदोपलभतेऽवैति प्रत्येति प्रतिपद्यते ॥ ४५ ॥
अनुष्टुप्
genderक्रियाverb
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.170 · p. 26
अङ्गषट्कं तथा वेदा मीमांसान्वीक्षिकी तथा ।पुराणं धर्मशास्त्रं च विद्याश्चैताश्चतुर्दश ॥ १७० ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.18 · p. 4
वेदो वेदाः श्रुतिः प्रज्ञापौरुषेया त्रयी हविः ।ऋग्वेदे तु ऋगित्युक्ता ऋचा चापि ऋजा ऋजी ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त शब्दमरीचिः Pañcatattvaprakāśa 6.2.361 · p. 25
सुप्तिङन्तं पदं वाक्यं वचनं भाषितं वचः ।प्रणवादिः श्रुतिर्वेद आम्नायः कण्डिका तनुः ॥ ३६१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.359 · p. 47
वेदानां पञ्चनामानि स्वाध्यायश्च श्रुतिस्तथा ।आम्नायो नाम विख्यातं छन्दो वेदस्त्रयी पुनः ॥ ३५९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.365 · p. 47
मन्वन्तराणि यत्र स्युः पुराणं पञ्चलक्षणम् ।षडङ्गसहिता वेदाः मीमांसाऽऽन्विक्षिकी तथा ॥ ३६५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.352 · p. 25
वेद आम्नायनिगमौ छन्दो ब्रह्म श्रुतिः स्त्रियाम् ।अथ वेदविधिर्यः स्यात् त्रयीधर्मस्तु स स्मृतः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.15 · p. 3
ओंकारः प्रणवो ब्रह्मच्छन्दसी तु श्रुतिस्त्रयी ।निगमो वेद आम्नाय आगमानुश्रवावपि ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.87 · p. 12
विधिहृदयमनङ्गो मृत्युरुर्वी नभस्वां-स्तपनशशिमयूखा जातवेदाश्च वेदाः ।अमृतमचिररोचिर्दक्षकन्ये जलं चत्रिदशपुरवधूनां जन्मनः कारणानि ॥ ८७ ॥
मालिनी
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.26 · p. 85
पाठे बिन्दुर्ब्रह्मबिन्दुर्ब्रह्मांजलिरिहांजलिः ।ऋक् स्त्री साम यजुश्चेति वेदास्ते तु त्रयस्त्रयी ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.27 · p. 85
आथर्वणं पौरोहितं वेदाश्चत्वार एव ते ।छन्दो ब्रह्म श्रुतिर्वेदोऽप्यथ विद्याश्चतुर्दश ॥ २७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रो (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश दान्ताः Śabdaratnāvalī 7.18.7 · p. 229
वेदः स्यात्केशवश्रुत्योः शादः कर्दमशष्पयोः ॥

वेद as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् श्रुतिसिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः ॥ ७३ ॥ Amarakośa 3.3.73
  • नामलिङ्गानुशासनम् ब्रह्मन्वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः ॥ ११४ ॥ Amarakośa 3.3.114
  • नामलिङ्गानुशासनम् निगमवणिक्पथः पुरं वेदो निगमो नागरो वणिक् । नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु ॥ १४० ॥ Amarakośa 3.3.140
  • हलायुधकोशः (अभिधानरत्नमाला) ब्रह्मन्वेदाध्यात्मब्राह्मणहिरण्यगर्भेषु कथ्यते ब्रह्म । प्रकृतिगुणे सत्तायां स्थामनि भूते च सत्त्वं स्यात् ॥ ८६८ ॥ Abhidhānaratnamālā (Halāyudha) 5.868
  • धरणिकोश श्रुतिश्रुतिर्वेदे च कर्णे च श्रोत्रकर्मणि च श्रुतिः । स्मृतिरिच्छा स्मृतिर्बुद्धिर्वेदाद्या बोधिका स्मृतिः ॥ Dharaṇikośa 15.2.12
  • धरणिकोश प्रवचनप्रवचनं च वेदे स्यात्प्रकृष्टवचनेऽपि च । निधुवनं सुरतं स्यात्कम्पनं च प्रकीर्तितम् ॥ Dharaṇikośa 19.2.73
  • धरणिकोश ब्रह्मन्ब्रह्म तत्त्वं तु ब्रह्मा च ब्रह्माणौ विप्रवेधसौ । वेदेऽपि च स्मृतं ब्रह्म ब्रह्मा योगो रवीन्दुजः ॥ Dharaṇikośa 19.3.7
  • धरणिकोश निगमपरमं स्यादनुज्ञानं चाव्ययं परमः परे । निगमः कथितो वेदे नगरे च वणिक्पथे ॥ Dharaṇikośa 24.2.12
  • धरणिकोश शिवशिवं भद्रं शिवः शम्भुः शिवो मुक्तिः… । शिवः कीलः शिवो वेदो ग्रहयोगः शिवः स्मृतः ॥ Dharaṇikośa 28.3.1
  • धरणिकोश ऋषिविट् च व्याप्तिस्तथा विष्ठा त्विट् च शोभा [102] तथा प्रभा । ऋषिर्वेदे मुनौ रश्मौ शुषिः शोषः शुषिर्बिलम् ॥ Dharaṇikośa 30.1.1
  • धरणिकोश छन्दस्ओजो बलमवष्टम्भ ओजो रश्मिप्रकाशयोः । छन्दः पद्ये च वेदे च छन्दश्छन्दानुवर्तनम् ॥ Dharaṇikośa 31.2.7
  • कोषकल्पतरु ज्ञानविमृशति तु विचारयति स्यादिह मीमांसते च विन्ते वा । दीदांसते च दीदां- सति च भवेदार्जवे तद्वत् । जानाति वेत्ति मनुतेऽवति मन्यते च स्याद्बुध्यते ज्ञपयतीह च वेणते च । बोधत्यवैति कलयत्यवगच्छति स्या- ज्ज्ञाने तथा भवति वेद च वेणतीति ॥ ३ ॥ Koṣakalpataru 3.5.3
  • कोषकल्पतरु श्रुतिश्रुतिस्तु वेदे निनदे ग्रहे च श्रोत्रे च वार्तासु च संप्रदिष्टा । रतिः स्मरस्त्रीसुरतानुरागे- ष्वथानुभूतार्थमतिः स्मृतिः स्यात् ॥ ५० ॥ Koṣakalpataru 6.16.50
  • कोषकल्पतरु शाखिन्शाखी तरौ वेदतुरुष्कलोके खड्गी तु खड्गान्वितशृङ्गिणि स्यात् । नागद्रुमादावपि गण्डके स्यात् स्युः सादिनोऽश्वेभरथाधिरोहाः ॥ ७५ ॥ Koṣakalpataru 6.21.75
  • कोषकल्पतरु निगमयमे प्रतिज्ञासु च यन्त्रणायां वेदे पुरे स्यान्निगमः कटे च । वणिक्पथे वाणिजके तथोक्तो- ऽथो[33b]नैगमो वाणिजनागरार्थः ॥ ८५ ॥ Koṣakalpataru 6.25.85
  • कोषकल्पतरु शिवशिवस्तु शंभौ नरि गुग्गुलौ च वेदे च योगान्तरके च कीले । स्यात्पुण्डरीकद्रुमवालुके च स्त्रियां तु झाटामलकौषधौ स्यात् ॥ ९५ ॥ Koṣakalpataru 6.29.95
  • कोषकल्पतरु ऋषिऋषिर्वसिष्ठादिषु दीधितौ च वेदे च ना बाणसुतारजन्योः । उषाथ कम्रे त्रिषु गुग्गुलौ ना झषस्तु वैसारिणि पुंसि दिष्टः ॥ ४४ ॥ Koṣakalpataru 6.30.44
  • कोषकल्पतरु छन्दस्विष्णौ बुधे ब्रह्मणि चाथ पापे- ऽपराध आगोऽथ पुरीषदीप्त्योः । रूपेऽपि वर्चोऽथ सुधांशुपुत्रे पुमांश्च वेदे त्वभिलाषके च ॥ ९९ ॥ Koṣakalpataru 6.31.99
  • नानार्थार्णवसंक्षेप श्रुतिश्रुतिस्तु वेदे श्रवणक्रियायां श्रोत्र एव च । गीतिधर्मविशेषे च शब्दे चाप्यभिधायके ॥ १०९ ॥ Nānārthārṇavasaṃkṣepa 2.1.109
  • नानार्थार्णवसंक्षेप ऋषिऋषिर्वेदे वसिष्ठादौ चक्षुरादीन्द्रियेषु च । ज्ञानवृद्धे क्षपणकेऽप्यृतुस्तु शिशिरादिषु ॥ १७ ॥ Nānārthārṇavasaṃkṣepa 2.2.17
  • नानार्थार्णवसंक्षेप ब्रह्मन्क्लीबं तु वेदे मन्त्रेऽन्ने खेऽध्यात्मात्मतपःसु च । मोक्षे जपे धने चाथ बलभद्रे व(ले?ली) पुमान् ॥ ८४६ ॥ Nānārthārṇavasaṃkṣepa 2.5.846
  • नानार्थार्णवसंक्षेप आम्नायआम्नायस्तु भवेद्वेदे सम्प्रदायान्ववाययोः । पाठाभ्यासे चागमस्तु शास्त्रेऽप्यागमनेऽपि च ॥ १२ ॥ Nānārthārṇavasaṃkṣepa 3.2.12
  • नानार्थार्णवसंक्षेप निगमवेदे च निश्चये मार्गे पदानामर्थशासके । ग्रन्थभेदेऽथ रभसो वणिज्यपि कटेऽपि च ॥ १०३ ॥ Nānārthārṇavasaṃkṣepa 3.2.103
  • नानार्थार्णवसंक्षेप स्वाध्यायस्वाध्यायस्तु भवेद्वेदे वेदस्य च जपे तथा । स्थासकस्त्वपि चर्चिक्ये बुद्बुदे हस्तिनामपि ॥ २४३ ॥ Nānārthārṇavasaṃkṣepa 3.2.243
  • नानार्थार्णवसंक्षेप अमृतधारोष्णदुग्धेऽप्यमृतो क्षीरमात्रे धनञ्जयः । एतेष्वर्थेषु जानीयात् क्लीबं वेदे तु पुंस्ययम् ॥ २ ॥ Nānārthārṇavasaṃkṣepa 4.2
  • नानार्थार्णवसंक्षेप प्रवचनकार्ये हेतौ प्रवचनं पुनर्व्याख्यानवेदयोः । प्रशस्तवचने च स्याच्छास्त्र इत्याह सज्जनः ॥ २६ ॥ Nānārthārṇavasaṃkṣepa 6.26
  • नानार्थार्णवसंक्षेप स्वाध्यायस्वाध्यायस्तु भवेद्वेदे वेदस्य च जपे तथा । स्थासकस्त्वपि चर्चिक्ये बुद्बुदे हस्तिनामपि ॥ २४३ ॥ Nānārthārṇavasaṃkṣepa 6.243
  • परमानन्दीयनाममाला ऋषिकक्षो भल्लूकवाच्यार्थे स्यादृषिर्मुनिवेदयोः । ऋतुर्वसन्ते स्त्रीपुष्पयृषभो वृषभे मतः ॥ ७८ ॥ Paramānandīyanāmamālā 5.4.78
  • शब्दरत्नावली मुखप्रारम्भोपायवेदेषु तथा निःसरणेऽपि च । लेखो ना विबुधे लेख्ये लेखाश्रेण्यां लिपिष्वपि ॥ Śabdaratnāvalī 7.2.4
  • शब्दरत्नावली श्रुतिश्रुतिः स्त्री श्रवणे वार्ते वेदे श्रवणकर्मणि । शुक्तिः शङ्खे शङ्खनखमुक्तास्फोटनखीषु च ॥ Śabdaratnāvalī 7.16.60
  • शब्दरत्नावली छन्दस्अब्दः सम्वत्सरे मेघे युस्तके च पयोनिधौ ॥ अन्दूर्भूषणभेदे स्यान्निगडेऽपि भवेत् स्त्रियाम् । कन्दोऽस्त्री शस्यमूले स्याच्छूरणे जलदे पुमान् ॥ कुन्दो मुकुन्दे निधिभिद्भूमिष्वस्त्री तु माथ्यके । क्षोदः स्यात्पेषणे पुंसि सन्धाने च रजस्यपि ॥ गदो विष्णुभ्रातरि स्याद्व्याधौ ना चायुधे गदा । छदः पक्षे च पत्रे च ग्रन्थिपर्णे तमालके ॥ छन्दोऽभिप्रायवशयोर्वेदकिन्यामनीषयोः(?) । नन्दिर्ना नन्दिकेश्वरद्युताङ्गानन्दयोरपि ॥ नदी स्त्रियान्तु सरिति शोणादौ नदः पुमान् । नन्दाहलिञ्जरगोर्योस्तु तिथिभेदेऽपि च स्त्रियाम् ॥ पुमान्नरपतौ गोपभेदानन्दनिधिष्वपि ॥ Śabdaratnāvalī 7.18.2
  • शब्दरत्नावली ब्रह्मन्फलिन्यग्निशिखायान्तु फल्यां स्त्री तद्वति त्रिषु । फाल्गुणोऽर्जुनवृक्षे च गुडाकेशनदीजयोः ॥ मासभेदे पुमानेव पौर्णमास्यान्तु फाल्गुनी । ब्रह्मा प्रजापतौ ऋत्विग्योगभेदद्विजेषु ना ॥ ब्रह्म तत्त्वे च वेदे च तपस्यपि च न द्वयोः । वन्धनी वटिजीवातु नङिमाठनकर्मसु (?) ॥ बन्धनञ्च वधे बन्धे हिंसायाञ्च नपुंसकम् ॥ Śabdaratnāvalī 7.20.62
  • शब्दरत्नावली अथर्वन्अथर्वनो द्वयोर्वेदे भूमिदेवे च पुंस्यपि । अभिजनं कुले ख्यातौ जन्मभूमौ कुलध्वजे ॥ आयोधनं क्लीबलिङ्गं भवेद्युद्धे वधेऽपि च । भवेदाकलनं काङ्क्षा परिसंख्यानबन्धने ॥ आतञ्चनं प्रतीवायाप्यायनजीवनेष्वपि । आराधनं तोषणे स्यात्संप्राप्तो पचनेऽपि च ॥ आच्छादनं पिधाने स्याद्वस्त्रेऽपि वृतिमात्रके । आक्रन्दनं शोचने च तिरस्कारणे(?)पि च ॥ आवेशनं शिल्पिगृहे भूतावेशप्रवेशयोः ॥ Śabdaratnāvalī 7.20.104
  • शब्दरत्नावली प्रवचनभवेत्प्रवचनं वेदे प्रशस्तवचनेऽपि च । प्रतिपन्नो वाच्यलिङ्गे ज्ञाताङ्गीकृतयोरपि ॥ Śabdaratnāvalī 7.20.116
  • शब्दरत्नावली निगमनिगमो वाणिजे वेदे कटे पूर्यां वणिक्पथे । नियमश्च प्रतिज्ञायां मन्त्रणानिश्चयव्रते ॥ Śabdaratnāvalī 7.25.37
  • शब्दरत्नावली आम्नायअनयो व्यसने दैवे विपत्त्यशुभयोरपि ॥ अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः । अवध्यमवधार्हे स्यादनर्थकवचस्यपि ॥ अव्ययो ना हरौ शब्दभेदेऽस्त्री निर्व्यये त्रिषु । अहार्यः पुंसि शैले स्यादहर्त्तव्येऽभिधेयवत् ॥ अभिख्यानाम्नि शोभायां यशस्याख्यान इत्यपि । अभया स्त्री हरितक्यां वीरणेऽपि च न द्वयोः ॥ निर्भये वाच्यलिङ्गं स्यात्प्रसादेऽपि च कुत्रचित् । अगस्त्यो वङ्गसेनाख्यतरौ कुम्भोद्भवेऽपि च ॥ आशयः स्यादभिप्रायाधारयोः पनसेऽपि च । आत्रेयो ना मुनौ पुष्पवतीनद्योरपि स्त्रियाम् ॥ आम्नायः पुंसि वेदे स्यादुपदेशे कुलक्रमे । उदयस्तून्नतौ दीप्तौ मङ्गले पूर्वपर्वते ॥ उपायः स्यादुपपन्तौ सामभेदादिके पुमान् । ऊर्णायुः क्षणभङ्गे ना मेषे च मेषकम्बले ॥ Śabdaratnāvalī 7.26.38
  • शब्दरत्नावली मन्त्रमन्त्रो वेदगुह्यवाददेवादिसाधनेषु च । मात्रा विचे परिच्छेदे माने कर्णविभूषणे ॥ Śabdaratnāvalī 7.27.28
  • शब्दरत्नावली ऋषिऋषिर्वेदे वशिष्ठादौ दीधितौ मत्स्यरूपिणि । ऋक्षं कैतवनक्षत्रधनेष्वपि नपुंसकम् ॥ Śabdaratnāvalī 7.31.4
  • शब्दरत्नाकर श्रुतिशष्पकर्दमयोः शादो वेदश्रवणयोः श्रुतिः । श्लोकस्तु पद्ययशसोः शुण्डा मद्येभहस्तयोः ॥ २०१४ ॥ Śabdaratnākara 4.1.2014
  • शब्दरत्नाकर आम्नायआम्नायः संप्रदायेऽपि वेदाध्ययनयोरपि । आकार इङ्गिताकृत्योरागमः श्रुतिशास्त्रयोः ॥ २०४४ ॥ Śabdaratnākara 4.1.2044
  • शब्दरत्नाकर निगमनिगमो निर्णये वेदे पुरे मार्गे वणिक्पथे । कर्म भृत्युपभोगेषु निर्वेशो मूर्च्छनेऽपि च ॥ २१०९ ॥ Śabdaratnākara 4.1.2109
  • त्रिकाण्डशेष आम्नायवेदोपदेशावाम्नायौ हृषीके चेतसीन्द्रियम् । इज्या स्यात्सङ्गमे दाने यागेऽर्चायां गुरौ पुमान् ॥ ३०७ ॥ Trikāṇḍaśeṣa 3.3.307
  • त्रिकाण्डशेष ऋषिभल्लूके शोणके चक्षो नक्षत्रे पुंनपुंसकम् । ऋषिर्वेदेऽपि कक्षस्तु दोर्मूले शुष्ककानने ॥ ४३६ ॥ Trikāṇḍaśeṣa 3.3.436
  • वैजयन्ती ऋषिग्रीष्मोष्णबाष्पा ऊष्माण ऊर्जावुत्साहकार्तिकौ । ऋषिस्तु वेदे भृग्वादौ ज्ञानवृद्धे दिगंबरे ॥ ९ ॥ Vaijayantī 6.1.9
  • वैजयन्ती वेणुवेणू वेदसहस्रांशू गोष्ठाध्वनिवहा व्रजाः । वालौ पुच्छाश्वपुच्छौ च व्याजश्छद्मापदेशयोः ॥ ५४ ॥ Vaijayantī 6.1.54
  • वैजयन्ती श्रुतिशिखा ज्वालाकेकिमौल्योः शिफा शाखाग्रमौलिषु । शुण्डा करिकरे मद्ये श्रुतिर्वेदे श्रवस्यपि ॥ ४० ॥ Vaijayantī 6.2.40
  • वैजयन्ती ब्रह्मन्अर्केऽग्नौ क्ली तु वेदेऽन्नं स्वाध्यात्मात्मतपःसु च । बलं रूपेऽस्थनि स्थौल्ये शक्तिरेतश्चमूषु च ॥ ५४ ॥ Vaijayantī 6.5.54
  • वैजयन्ती आम्नायआम्नायोऽध्ययने वेदे संप्रदाये कुलेऽपि च । आकर्षः शारिफलको द्यूत आकृष्टिपाशकौ ॥ ३ ॥ Vaijayantī 7.1.3
  • वैजयन्ती निगमऊर्णाविकारे नमतो धूमे दिनकरेऽपि च । निगमो निश्चये वेदे पुरे पथि वणिक्पथे ॥ ३५ ॥ Vaijayantī 7.1.35
  • वैजयन्ती स्वाध्यायसिद्धान्ते शपथे काले स्वाध्यायो जपवेदयोः । सारसो विहगे चन्द्रे हिमारिः पावके रवौ ॥ ८३ ॥ Vaijayantī 7.1.83