कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnapradīpa

शब्दरत्नप्रदीप Śabdaratnapradīpa

348 verses · text only, tagging comes next

प्रथमो मुक्तकः

शब्दरत्नप्रदीपः ।

प्रथमो मुक्तकः ।

शुद्धवर्णमनेकार्थं शब्दमौक्तिकमुत्तमम् ।कण्ठे कुर्वन्ति विद्वांसः श्रद्धधाना दिवानिशम् ॥ १ ॥
1.1 · p. 1
अनुष्टुप्
शब्दाम्भोधिर्यतोऽनन्तः कृतोऽप्यागमसंभवात् ।स्वानुवाचैकमानाय तस्मै वागात्मने नमः ॥ २ ॥
1.2 · p. 1
अनुष्टुप्
सरस्वत्याः प्रसादेन कविर्बध्नाति यत् पदम् ।प्रसिद्धमप्रसिद्धं वा तत् प्रमाणं च साधुभिः ॥ ३ ॥
1.3 · p. 1
अनुष्टुप्
शिवं भद्रं शिवः शम्भुः शिवा गौरी शिवाऽभया ।शिवः कीलः शिवा क्रोष्ट्री भवेदामलकी शिवा ॥ ४ ॥
1.4 · p. 1
अनुष्टुप्
गौरी शिवप्रिया प्रोक्ता गौरी गोरोचना मता ।गौरी स्यादप्रसूता स्त्री गौरी शुद्धोभयान्वया ॥ ५ ॥
1.5 · p. 1
अनुष्टुप्
हरिरिन्द्रो हरिर्भानुर्हरिर्विष्णुर्हरिर्मरुत् ।हरिः सिंहो हरिर्भेको हरिर्वाजी हरिः कपिः ॥ ६ ॥
1.6 · p. 1
अनुष्टुप्
हरिरंशुर्हरिर्भीरुर्हरिः सोमो हरिर्यमः ।हरिः शुको हरिः सर्पः स्वर्णवर्णो हरिः स्मृतः ॥ ७ ॥
1.7 · p. 1
अनुष्टुप्
मधुर्मद्यं मधु क्षौद्रं मधु पुष्परसं (?सो) मृदुः ।मधुर्दैत्यो मधुश्चैत्रो मधूकोऽपि मधुः स्मृतः ॥ ८ ॥
1.8 · p. 2
अनुष्टुप्
क्षुद्रा वेश्या नटी क्षुद्रा क्षुद्रोक्ता मधुमक्षिका ।असहिष्णुः स्मृतः क्षुद्रः क्षुद्रा स्यात् कण्टकारिका ॥ ९ ॥
1.9 · p. 2
अनुष्टुप्
वाहो युग्यं घनो वाहः प्रवाहो वाह उच्यते ।वाहो मानविशेषश्च वाहो बाहुरिति स्मृतः ॥ १० ॥
1.10 · p. 2
अनुष्टुप्
इष्टकादिचयो हारो हारो मुक्तागणः स्मृतः ।हारो मापविशेषश्च हारश्च क्षेत्रमुच्यते ॥ ११ ॥
1.11 · p. 2
अनुष्टुप्
आत्मा भावो मनो भावो भावः सत्ता भवोऽपि च ।भावः पूज्यतमो लोके पदार्थो भाव इष्यते ॥ १२ ॥
1.12 · p. 2
अनुष्टुप्
कुथा कन्था समाख्याता कुथः स्यात् करिकम्बलः ।कुथः कुशः कुथः कीटः प्रातःस्नायी द्विजः कुथः ॥ १३ ॥
1.13 · p. 2
अनुष्टुप्
कुशे काले तिले च्छागे कम्बले सलिलेऽम्बरे ।दौहित्रे खड्गपात्रेऽग्नौ कुतपाख्या प्रवर्त्तते ॥ १४ ॥
1.14 · p. 2
अनुष्टुप्
बाणे वाचि पशौ भूमौ दिशि रश्मौ जलेऽक्षणि ।स्वर्ग्गे मातरि वज्रेऽग्नौ मुखे सत्ये च गोध्वनिः ॥ १५ ॥
1.15 · p. 2
अनुष्टुप्
श्रियां यशसि सौभाग्ये योनौ कान्तौ महिम्नि च ।सूर्ये संज्ञाविशेषेऽपि मृगाङ्केऽपि भगः स्मृतः ॥ १६ ॥
1.16 · p. 2
अनुष्टुप्
पर्जन्ये राज्ञि गीर्व्वाणे व्यवहर्त्तरि भर्तरि ।मूर्खे बाले जिगीषौ च देवोक्तिर्नरि कुष्टि(?न्ति)नि ॥ १७ ॥
1.17 · p. 2
अनुष्टुप्
तूर्यास्येऽसिफले पद्मे कुञ्जराग्रकरे दिवि ।द्वीपे तीर्थे निमित्ते च विशिष्टे पुष्करध्वनिः ॥ १८ ॥
1.18 · p. 2
अनुष्टुप्
मूर्ध्नि चित्ते जले काये मुखे ब्रह्मणि मारुते ।कामे काले सुवर्णे च कः शब्दो द्रविणे ध्वनौ ॥ १९ ॥
1.19 · p. 3
अनुष्टुप्
जीवे राज्ञि रवौ धर्मे तपस्विनि तुरंगमे ।सिते पक्षिविशेषे च हंसशब्दो हरेऽपि च ॥ २० ॥
1.20 · p. 3
अनुष्टुप्
रसो जलं रसो हर्षो रसः शृङ्गारपूर्व्वकः ।रसः पुष्पादिनिर्यासः पारदोऽपि रसो विषम् ॥ २१ ॥
1.21 · p. 3
अनुष्टुप्
क्षीरे पुष्परसे तोये मण्डे मद्ये घृतेऽसृजि ।सप्तस्वर्थेषु कीलालं कथयन्ति मनीषिणः ॥ २२ ॥
1.22 · p. 3
अनुष्टुप्
तिलपिष्टे मले मांसे कम्बले कोमलेऽस्थनि ।वत्से क्षीबे बले प्राज्ञाः पललं परिचक्षते ॥ २३ ॥
1.23 · p. 3
अनुष्टुप्
हये पुच्छे ध्वजे पुण्डे शैले पुंसि गुणाधिके ।वित्ते धामनि भूषायां ललामेत्युत्तमे स्मृतम् ॥ २४ ॥
1.24 · p. 3
अनुष्टुप्
वसुः सूर्यो वसुर्वह्निर्वस्वर्च्चिर्वसवोंऽसवः ।वसु रत्नं वसु द्रव्यं वसवोऽष्टौ धरादयः ॥ २५ ॥
1.25 · p. 3
अनुष्टुप्
अक्षराणि स्मृता वर्णा वर्णाः श्वेतादयो गुणाः ।वर्णा नाट्यामुखे गाथा वर्णा ज्ञेया द्विजादयः ॥ २६ ॥
1.26 · p. 3
अनुष्टुप्
शुक्लो वर्णोऽर्जुनो नाम पाण्डवोऽप्यर्ज्जुनः स्मृतः ।अर्जुनस्तृणजातिः स्यादर्जुनः ककुभो द्रुमः ॥ २७ ॥
1.27 · p. 3
अनुष्टुप्
व्रणस्यावरणं पट्टः पट्टो भूर्जाहिताक्षरः ।वीरदीक्षापटः पट्टः पट्टः स्यादधिवासनम् ॥ २८ ॥
1.28 · p. 4
अनुष्टुप्
बलिः पूजोपहारः स्याद् बलिर्दानवपुंगवः ।बलिः स्त्रीमध्यभागोर्मिर्बलिश्चर्म जराकृतम् ॥ २९ ॥
1.29 · p. 4
अनुष्टुप्
रन्ध्रे वस्त्रे तथा मध्ये व्यवधानेऽन्तरात्मनि ।बहिर्योगेऽवकाशे च विशेषे व्यसनेऽन्तरम् ॥ ३० ॥
1.30 · p. 4
अनुष्टुप्
अरिष्टं गृहमित्युक्तं अरिष्टो वृषभासुरः ।काकनिम्बावरिष्टौ चारिष्टं क्षेममिहेरितम् ॥ ३१ ॥
1.31 · p. 4
अनुष्टुप्
इन्द्रियं कम्बलं ज्ञेयं कम्बलो रोमजः पटः ।कम्बलश्च गवां सास्ना कम्बलं कमलं स्मृतम् ॥ ३२ ॥
1.32 · p. 4
अनुष्टुप्
मण्डलं वर्तुलं प्रोक्तं संघातो मण्डलं स्मृतम् ।मण्डलं भूमिभागश्च मण्डलं सु(?स)रमासुतः ॥ ३३ ॥
1.33 · p. 4
अनुष्टुप्
कुन्तलः केशपर्यायः कुन्तलो देशवाचकः ।कुन्तलः सूत्रधारश्च कुन्तहस्तश्च कुन्तलः ॥ ३४ ॥
1.34 · p. 4
अनुष्टुप्
मणिर्लिङ्गाग्रिमो भागो मणिः प्रोक्तो भगध्वजः ।मणिः कूपमुखोत्सेधः पद्मरागादिको मणिः ॥ ३५ ॥
1.35 · p. 4
अनुष्टुप्
तन्त्रं शास्त्रं कुलं तन्त्रं तन्त्रं सिद्धौषधिक्रिया ।तन्त्रं सुखं बलं तन्त्रं तन्त्रं वप(?य)नसाधनम् ॥ ३६ ॥
1.36 · p. 4
अनुष्टुप्
नेत्रं वस्त्रविशेषः स्यात् नेत्रं चक्षुरुदाहृतम् ।परावर्त्तगुणो नेत्रं नेत्रः कस्तूरिकामृगः ॥ ३७ ॥
1.37 · p. 4
अनुष्टुप्
वातादिप्रकृतिर्धातुर्धातुः शैलोद्भवः स्मृतः ।क्रियाभावः स्मृतो धातुर्धातुर्देहरसादिकः ॥ ३८ ॥
1.38 · p. 5
अनुष्टुप्
काण्डो बाणस्तुला काण्डः काण्डः संपात इष्यते ।काण्डः कालो बलं काण्डं काण्डं मूलं तरोरपि ॥ ३९ ॥
1.39 · p. 5
अनुष्टुप्
सुधा प्रासादभाग्द्रव्यं सुधा विद्युत् सुधामृतम् ।सुधेह भोजनं ज्ञेयं सुधा धात्री सुधा स्नुही ॥ ४० ॥
1.40 · p. 5
अनुष्टुप्
वेला कालविशेषः स्यात् वेला सिन्धुजलोद्धतिः ।वेला सेवाङ्गुलिच्छेदो वेला द्रोण्यान्तरावनिः ॥ ४१ ॥
1.41 · p. 5
अनुष्टुप्
उत्सवे च प्रकोष्ठे च मुहूर्त्ते नियमे तथा ।क्षणशब्दो व्यवस्थायां समयेऽपि निगद्यते ॥ ४२ ॥
1.42 · p. 5
अनुष्टुप्
भ्रूणो भीरुर्द्विजो भ्रूणो भ्रूणो गर्भाशयाश्रयः ।भ्रूणोऽन्त्यजः शिशुर्भ्रूणो भ्रूणो विकल उच्यते ॥ ४३ ॥
1.43 · p. 5
अनुष्टुप्
श्रेष्ठ इन्द्र इति ख्यातो देवराडिन्द्र उच्यते ।शब्दादिविषयाः पञ्च प्रसिद्धा इन्द्रसंज्ञया ॥ ४४ ॥
1.44 · p. 5
अनुष्टुप्
अहिर्दैत्यविशेषः स्यात् सूर्योऽहिरहिरध्वगः ।भुजंगोऽहिः समाख्यातः सिंहिकासूनुरप्यहिः ॥ ४५ ॥
1.45 · p. 5
अनुष्टुप्
व्यालोऽहिः श्वापदो व्यालो व्यालः स्याद्व्याकुलः करी ।प्रमादवान्नरो व्यालो सिंहो व्याल उदाहृतः ॥ ४६ ॥
1.46 · p. 5
अनुष्टुप्
पयस्विन्यर्जुनी धेनुर्धेनुः कुञ्जरकामिनी ।असिपुत्री स्मृता धेनुर्धेनुर्वृत्तिः शुभंकरी ॥ ४७ ॥
1.47 · p. 5
अनुष्टुप्
धर्म्मो वृषो वृषः श्रेष्ठो वृषो गौर्मूषिको वृषः ।वृषो बलं वृषः कामो वृषलो वृष उच्यते ॥ ४८ ॥
1.48 · p. 5
अनुष्टुप्
शलिर्मूर्खः शलिर्भृङ्गः शलिः कीलः शलिर्गदः ।शलिः पर्व्वविशेषश्च शलिः कलिरुदाहृतः ॥ ४९ ॥
1.49 · p. 6
अनुष्टुप्
योगो ज्यातिर्विशेषश्च संयोगो योग इत्यपि ।योगश्चागामिलाभः स्यात् समाधिर्योग उच्यते ॥ ५० ॥
1.50 · p. 6
अनुष्टुप्
सीता लक्ष्मीरुमा सीता सीता सस्याधिदेवता ।सीता सीरध्वजापत्यं सीता मन्दाकिनी मता ॥ ५१ ॥
1.51 · p. 6
अनुष्टुप्
आदिमः क्षत्रियो नाभिर्नाभिश्चक्रस्य पिण्डिका ।कुटुम्बस्याग्रणीर्नाभिर्नाभिर्निम्नोदरा मता ॥ ५२ ॥
1.52 · p. 6
अनुष्टुप्
गोत्रं नामान्वयो गोत्रं गोत्रश्च धरणीधरः ।गोत्रा वसुंधरा प्रोक्ता गोत्रः सत्यवचः स्मृतः ॥ ५३ ॥
1.53 · p. 6
अनुष्टुप्
घनो मेघो घनं सान्द्रं कांस्यतालध्वनिर्घनः ।घनो मन्द्रो घनं नित्यं घनः स्याल्लोहमुद्गरः ॥ ५४ ॥
1.54 · p. 6
अनुष्टुप्
रामा स्त्री जामदग्निश्च रामो रामौ सितासितौ ।रामः पशुविशेषश्च रामो दशरथात्मजः ॥ ५५ ॥
1.55 · p. 6
अनुष्टुप्
वीतरागो जिनः प्रोक्तो जिनो नारायणस्तथा ।कन्दर्पः स्याज्जिनश्चैव जिनः सामान्यकेवली ॥ ५६ ॥
1.56 · p. 6
अनुष्टुप्
शुक्रं देहवतां बीजं शुक्रमक्षिरुजं विदुः ।ज्येष्ठमासः स्मृतः शुक्रः शुक्रो दैत्यपुरोहितः ॥ ५७ ॥
1.57 · p. 6
अनुष्टुप्
वीणादण्डः प्रवालः स्यात् प्रवालः पल्लवो नवः ।प्रवालो विद्रुमः प्रोक्तः प्रवालः प्रबलो मतः ॥ ५८ ॥
1.58 · p. 6
अनुष्टुप्
कोणोऽश्वो महिषः कोणः कोणः कोटिरिति स्मृतः ।कोणो गृहैकदेशः स्यात् कोणो वीणादिवादनम् ॥ ५९ ॥
1.59 · p. 7
अनुष्टुप्
तालः कालक्रियामानं तालं पातालमिष्यते ।वृक्षभेदः स्मृतस्तालः तालः करतलध्वनिः ॥ ६० ॥
1.60 · p. 7
अनुष्टुप्
काष्ठा दशा ककुभ् काष्ठा काष्ठा प्रोक्ता वसुंधरा ।काष्ठा कालविशेषः स्यात् काष्ठं दारु निगद्यते ॥ ६१ ॥
1.61 · p. 7
अनुष्टुप्
पलाशो राक्षसः ख्यातः पलाशश्छदनं स्मृतम् ।पलाशो हरितो वर्णः पलाशः पाश उच्यते ॥ ६२ ॥
1.62 · p. 7
अनुष्टुप्
सत्रं गृहं धनं सत्रं सत्रं दानमिहेरितम् ।सत्रं धाम वनं सत्रं सत्रं सच्चरितं मतम् ॥ ६३ ॥
1.63 · p. 7
अनुष्टुप्
कलासु कुशलः कल्पः कल्पो ज्ञेयो निरामयः ।कल्पं कालमिति प्रोक्तं कल्पं मद्यमिति स्मृतम् ॥ ६४ ॥
1.64 · p. 7
अनुष्टुप्
विष्टरो बर्हिषा(?षां) मुष्टिर्विष्टरं ज्ञेयमासनम् ।विष्टरो वृक्ष इत्युक्तो विष्टरः क्रतुरेव च ॥ ६५ ॥
1.65 · p. 7
अनुष्टुप्
सभा समितिरित्युक्ता समितिः संयुगावनिः ।समितिः समयो ज्ञेया समितिः संगतिः स्मृता ॥ ६६ ॥
1.66 · p. 7
अनुष्टुप्
सितः शुक्लः सितो वृद्धः सितं रजतमुच्यते ।सायकोऽपि सितो ज्ञेयः सितो दैत्यपुरोहितः ॥ ६७ ॥
1.67 · p. 7
अनुष्टुप्
चित्रकं तिलकं प्रोक्तं चित्रकः श्वापदो मतः ।चित्रको मूलजातिश्च चित्रको व्यन्तरो मतः ॥ ६८ ॥
1.68 · p. 7
अनुष्टुप्
धातकी प्रोच्यते धात्री धात्री चामलकी मता ।धात्री वसुंधरा ख्याता धात्री स्यात् स्तनदायिनी ॥ ६९ ॥
1.69 · p. 8
अनुष्टुप्
द्रोणः स्यात् कौरवाचार्ये(?र्यो) द्रोणः काक इतीरितः ।द्रोणो गिरिविशेषः स्याद् द्रोणः स्याच्चतुराढकः ॥ ७० ॥
1.70 · p. 8
अनुष्टुप्
जयन्ती नगरी प्रोक्ता जयन्ती चेटकानुजा ।जयन्त्यौषधभेदः स्यात् जयन्ती शक्रसंभवा ॥ ७१ ॥
1.71 · p. 8
अनुष्टुप्
रोहितः शक्रकोदण्डो रोहितो मत्स्यपुंगवः ।रोहितो लोहितो वर्णो मृगजातिश्च रोहितः ॥ ७२ ॥
1.72 · p. 8
अनुष्टुप्
बलो हली बलं सैन्यं बलं सत्त्वं बलौषधी ।रत्नयोनिर्बलो दैत्यो बला लक्ष्मीर्बला मही ॥ ७३ ॥
1.73 · p. 8
अनुष्टुप्
प्रतिग्रहो द्विजग्राह्यः सैन्यपृष्ठं प्रतिग्रहः ।प्रतिग्रहोऽनुबन्धः स्यात् प्रतिग्राहः प्रतिग्रहः ॥ ७४ ॥
1.74 · p. 8
अनुष्टुप्
कुमातृकं कदम्बः स्यात् कदम्बो विशिखो मतः ।कदम्बो वृक्षभेदश्च कदम्बो निर्गुणः पुमान् ॥ ७५ ॥
1.75 · p. 8
अनुष्टुप्
प्रियको बीजसारो द्रुः प्रियको द्वीपिचित्रकः ।प्रियकः प्रियतोयः स्यात् प्रियको मुक्तकव्रती ॥ ७६ ॥
1.76 · p. 8
अनुष्टुप्
अक्षो बिभीतको वृक्षः पाशकोऽक्षोऽक्षमिन्द्रियम् ।अक्षो रावणिरित्युक्तः कुल्यमक्षं च निम्नगम् ॥ ७७ ॥
1.77 · p. 8
अनुष्टुप्
चक्रः पक्षिविशेषश्च चक्रं व्यावर्तनं मतम् ।चक्रं राष्ट्रं च संघश्च रथाङ्गं चक्रमायुधम् ॥ ७८ ॥
1.78 · p. 8
अनुष्टुप्
सत्यसंधः खरो ज्ञेयः खरोऽपि परुषो मतः ।खरो रासभ इत्युक्तो व्यवहारपटुः खरः ॥ ७९ ॥
1.79 · p. 8
अनुष्टुप्
जातिः स्यात् सहजाख्यानं मालती जातिरुच्यते ।गोत्रादि जन्म जातिश्च जातिश्चुल्लीति कथ्यते ॥ ८० ॥
1.80 · p. 9
अनुष्टुप्
गोविषाणं फणो ज्ञेयो भुजंगमफणः फणः ।फणा जटा फणा कृष्णा फणा मन्थानकुण्डली ॥ ८१ ॥
1.81 · p. 9
अनुष्टुप्
तिलको वृक्षभेदः स्यात् तिलको बिन्दुचित्रकम् ।तिलकं क्लोमसंज्ञं स्यात् प्रधानं तिलकं मतम् ॥ ८२ ॥
1.82 · p. 9
अनुष्टुप्
गन्धर्वो देवजातिः स्यात् गन्धर्वः स्यात् तुरंगमः ।गन्धर्वश्च स्मृतो गाता गन्धर्वो मृगपुंगवः ॥ ८३ ॥
1.83 · p. 9
अनुष्टुप्
शृङ्गं प्रधानमिच्छन्ति शृङ्गं च शिखरं विदुः ।शृङ्गं विषाणमित्याहुः शब्दकोशविचक्षणः[णाः] ॥ ८४ ॥
1.84 · p. 9
अनुष्टुप्
सारंगः कुञ्जरः ख्यातः सारंगश्चातको मतः ।सारंगः पर्वतो ज्ञेयः सारंगो हरिणः स्मृतः ॥ ८५ ॥
1.85 · p. 9
अनुष्टुप्
करणं कारणं विद्यात् करणानीन्द्रियानि च ।करणो जातिभेदश्च क्षेत्रं करणमिष्यते ॥ ८६ ॥
1.86 · p. 9
अनुष्टुप्
पुण्डरीकः स्मृतो व्याघ्रः पुण्डरीकः कमण्डलुः ।पुण्डरीकः सितो वर्णः पुण्डरीकं सरोरुहम् ॥ ८७ ॥
1.87 · p. 9
अनुष्टुप्
कमलं कमलं प्रोक्तं कमलं चन्द्रमा भवेत् ।कमलं क्रमयुग्मं च कमलं मस्तकं विदुः ॥ ८८ ॥
1.88 · p. 9
अनुष्टुप्
कमलं जलमाख्यातं कमलो हरिणः स्मृतः ।कमलो जलदः प्रोक्तः कमलं मुकुटं विदुः ॥ ८९ ॥
1.89 · p. 9
अनुष्टुप्
अपत्येऽथ पृथिव्यादौ कालेऽतीते राक्षसे ।प्रेते प्राणिनि कीनाशे भूतशब्दं प्रचक्षते ॥ ९० ॥
1.90 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सरभोऽष्टापदो ज्ञेयः स्वर्णमष्टापदः स्मृतः ।किलीतकोऽष्टापदः स्यात् कृमिजातिरुदाहृतः ॥ ९१ ॥
1.91 · p. 10
अनुष्टुप्
बालः केशो जलं बालं बालं काशतृणं तथा ।बालकं गन्धद्रव्यं च जटाजूटं च बालकम् ॥ ९२ ॥
1.92 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्ध (wrong syllable)
बालकः खेचरो व्याघ्रो बालकः पृथुकस्तथा ।बालः सर्पः शिशुर्बालो बालो वेग उदाहृतः ॥ ९३ ॥
1.93 · p. 10
अनुष्टुप्
श्यामा रात्रिस्त्रिवृत् श्यामा श्यामा स्त्री मुग्धयौवना ।श्यामा प्रियंगुराख्याता श्यामा स्याद्वृद्धदारिका ॥ ९४ ॥
1.94 · p. 10
अनुष्टुप्
शुभा सुधा शुभा हत्या भगक्षीरी शुभा मता ।शुभं श्रेयः शुभा शोभा शुभा प्रोक्ता हरीतकी ॥ ९५ ॥
1.95 · p. 10
अनुष्टुप्
कान्तारं काननं प्रोक्तं कान्तारः पाकशासनः ।इक्षुभेदश्च कान्तारः कान्तारो दुर्भरोदरः ॥ ९६ ॥
1.96 · p. 10
अनुष्टुप्
खर्जूरं फलभेदश्च खर्जूरं रजतं मतम् ।खर्जूरः क्षुद्रजातिः स्यात् खर्जूरस्तृणगोधिका ॥ ९७ ॥
1.97 · p. 10
अनुष्टुप्
गुरुः पिता गुरुर्ज्येष्ठो गुरुर्देवपुरोहितः ।दुर्वाहोऽपि गुरुः प्रोक्तो गुरुः शिष्याभिषेकदः ॥ ९८ ॥
1.98 · p. 10
अनुष्टुप्