All kośas › Śabdaratnapradīpa
शब्दरत्नप्रदीप Śabdaratnapradīpa
348 verses · text only, tagging comes next
पञ्चमो मुक्तकः
इति शब्दरत्नप्रदीपे चतुर्थो मुक्तकः समाप्तः ॥
पञ्चमो मुक्तकः ।
स्थानान्तरप्रधानत्वाद् व्यामिश्रा भवतोऽपि च ।साम्प्रतं पृथगुच्यन्तेऽनेकार्थवाचकाव्ययाः ॥ १ ॥
5.1 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्थ (wrong syllable)
समुच्चये विकल्पोक्तौ व्यभिचारे व्यवस्थितौ ।औपच्येऽतिशये हेतौ चकारोऽन्वाचयादिषु ॥ २ ॥
5.2 · p. 31
अनुष्टुप्
व्यवच्छेदे विवक्षायां विकल्पौपम्यहेतुषु ।पक्षान्तरविनिर्णीतौ वा-शब्दः स्यात्समुच्चये ॥ ३ ॥
5.3 · p. 31
अनुष्टुप्
हि स्फुटे हा विषादोक्तौ हन्त निर्दिष्टबोधने ।हासोपहाससंवित्तिभावसंबोधनादिषु ॥ ४ ॥
5.4 · p. 31
अनुष्टुप्
अहो साकल्यसाहित्यवृत्तिमात्रेषु दृश्यते ।परं वा निश्चयेत्यर्थ-व्यवच्छेदकृतार्थयोः ॥ ५ ॥
5.5 · p. 31
अनुष्टुप्
पश्चात्सत्यवितर्केषु न परेति विनिश्चये ।हर्षविस्मयखेदेषु बत-शब्दो निबध्यते ॥ ६ ॥
5.6 · p. 31
अनुष्टुप्
किल संख्याक्तौपम्यपूर्वसूचनहेतुषु ।असंबुद्धौ निषेधे च वाक्यस्मरणयोरपि ॥ ७ ॥
5.7 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ख्या (syllables merged)
अतिरक्तौ विषादे च न संबुद्धिनिषेधयोः ।आमित्येवमतीते स्म मा स्म चेति निगद्यते ॥ ८ ॥
5.8 · p. 31
अनुष्टुप्
इतीव संभावनौपम्यपादपूरणहेतुषु ।नु वितर्के द्रुतेऽ? किमुत प्रश्नवितर्कयोः ॥ ९ ॥
5.9 · p. 31
metre not recognisednearly अनुष्टुप्
उपहासे विषादे हि स्फुटानन्तरयोरुत ।मिथोऽन्योन्यं ततश्चातः पुनः स्याच्च विनिश्चये ॥ १० ॥
5.10 · p. 31
अनुष्टुप्
अन्तरेणान्तारा-शब्दौ व्यतिरेकोदितौ(?) विना ।सुष्ठु प्रायः प्रगे प्रातः पुनरत्यर्थतथ्ययोः ॥ ११ ॥
5.11 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्ता (wrong syllable)
अहर्मात्रणकाः(?) प्रोक्ता वैतथ्याद्यावृता मुधा ।अयीत्यामन्त्रणौत्सुक्ययुक्तिसंभावनादिषु ॥ १२ ॥
5.12 · p. 31
अनुष्टुप्
अहो संभावनालापसंभ्रमामन्त्रणेषु च ।अरे अनादराख्यायां स्थाने युक्तमितीष्यते ॥ १३ ॥
5.13 · p. 32
अनुष्टुप्
संभावने वितर्के च ए हे हाऽऽमन्त्रणे ह्ययम् ।नु संबुद्धौ(?)न्योन्यं नीवेद्यदि(?) समुच्चये ॥ १४ ॥
5.14 · p. 32
अनुष्टुप्metre not read in every line
स्वीकारे ऊररी ऊरी उरी बोधनिषेधयोः ।वायुश्च जवितो मङ्क्षु वै स्फुटार्थस्य सम्मतः ॥ १५ ॥
5.15 · p. 32
अनुष्टुप्
आहोस्विदथवेत्यर्थे आनन्तर्ये तथा अहो ।आश्चर्यपदसंबुद्धिसंभावेषु निगद्यते ॥ १६ ॥
5.16 · p. 32
अनुष्टुप्
एवावधारणे जातु कदाचित् खलु निश्चये ।मा निषेधे अभावे च दिष्ट्यानन्दे मृषाऽनृते ॥ १७ ॥
5.17 · p. 32
अनुष्टुप्
अतन्द्रातादि(?)शीघ्रार्थे ह्यञ्जसा सहसा द्रुतम् ।अथाऽऽनन्तर्यमाङ्गल्ये प्रश्नधिक्कारयुक्तिषु ॥ १८ ॥
5.18 · p. 32
अनुष्टुप्
संबुद्धौ च निषेधे च एव स्यादवधारणे ।प्राक् पूर्वं देशकालादौ प्रत्यक् प्रत्यक्षदर्शने ॥ १९ ॥
5.19 · p. 32
अनुष्टुप्
ईषदर्थे मनाक् सम्यग् निश्चये कं सुखाम्बुयोः ।अलं भूषणपर्याप्तिवारणेषु निगद्यते ॥ २० ॥
5.20 · p. 32
अनुष्टुप्
आ स्मृतौ संभ्रमे मोहे कामं स्यादतिशायिनि ।धिक् तिरस्करणे कच्चित् साधुप्रश्नप्रवृत्तिषु ॥ २१ ॥
5.21 · p. 32
अनुष्टुप्
अन्वगित्यनुगत्यर्थे समाप्ताविति भण्यते ।प्रश्ने विशेषयोगे च स्वित् संशयविकल्पयोः ॥ २२ ॥
5.22 · p. 32
अनुष्टुप्
युगपदेककालार्थं सातत्यादेश्चिदिष्यते ।समन्ताद्-विष्वगित्युक्तिर्विभागे पृथगुच्यते ॥ २३ ॥
5.23 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
इ प्रहासे इ संबन्धे नु आमन्त्रणतथ्ययोः ।पितृप्रीतौ तथा स्वाहा तर्पणे जातवेदसः ॥ २४ ॥
5.24 · p. 32
अनुष्टुप्
सहार्थं समया ज्ञेया हंहोऽनिर्दिष्टबोधने ।संसुखे सत् प्रतिष्ठायां तूष्णीमध्यव्यति(?)क्रमे ॥ २५ ॥
5.25 · p. 32
अनुष्टुप्
प्राहुर्नक्तं रजन्यर्थे दिनार्थे च दिवा दिनम् ।संज्ञायां नामसत्तायामस्ति साध्येऽभिधीयते ॥ २६ ॥
5.26 · p. 33
अनुष्टुप्
उत्सारणे फडित्याहुर्वषट् वौषट् तु तर्प्पणे ।अभि सामीप्यदूरोर्द्ध्वदेशेषु परिकीर्त्त्यते ॥ २७ ॥
5.27 · p. 33
अनुष्टुप्
सामीप्ये समया-शब्दः सामीप्ये निकषोच्यते ।नानाऽनेकप्रकारार्थे तत्क्षणात्सपदि स्मृतः ॥ २८ ॥
5.28 · p. 33
अनुष्टुप्
चिराच्चिरेण कालस्य प्रकर्षोक्तौ चिराय-वाक् ।दूराद्दूरेण दूरं च अविकृष्टं च देशकम् ॥ २९ ॥
5.29 · p. 33
अनुष्टुप्
लघु-शब्दोऽपि शीघ्रार्थे दूरोराप्तव्ययान्तिके(?) ।अङ्गेत्यामन्त्रणे हाहा क्रोधकृत्यनिवारणे ॥ ३० ॥
5.30 · p. 33
अनुष्टुप्
विकल्पेऽहह हाहेति नं(?) प्रतीते च वर्जने ।प्रदोषे सायमित्याहुर्बाढमत्यर्थयुक्तयोः ॥ ३१ ॥
5.31 · p. 33
अनुष्टुप्
समं साकं सहार्थे च कल्यं(?) श्वरमनुद्धते ।पश्चान्न वरे सत्ये च ध्रुवं कृत्ये च निश्चये ॥ ३२ ॥
5.32 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रे (wrong syllable)
अभिन्नेषु पुनर्भूयो मध्येऽतः प्रणतो मतः ।पूजायामति-सु प्रोक्तौ नीचैर्निम्नः शनैर्मनाक् ॥ ३३ ॥
5.33 · p. 33
अनुष्टुप्
प्रकटीकरणे प्रादुराविर्विश्वसितेऽनिशम् ।बहिर्बाह्ये अधोऽधस्तात् परोऽग्रमिङ्गिते द्रुते ॥ ३४ ॥
5.34 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग्र (wrong syllable)
तिरश्चीने तरीत्युक्तस्तरी सत्यार्थकीर्तने ।आहि त्वरायामाहीति आक्षेपे आहि कीर्त्यते ॥ ३५ ॥
5.35 · p. 33
अनुष्टुप्
बाहुल्यार्थे स्मृतः प्रायः उच्चैरत्यर्थतुङ्गयोः ।ह्योऽतीते मते काले ह्यनागते श्वो निगद्यते ॥ ३६ ॥
5.36 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ते (wrong syllable)
प्रश्ने तर्के च किं प्रोक्तो वरमिष्टप्रशंसने ।अमाशब्दः सहार्थः स्यान् विषेधे वाभिधीयते ॥ ३७ ॥
5.37 · p. 33
अनुष्टुप्
प्रहासाग्रनयोरोभिः (?) प्रतिपत्तावहा तथा ।एकत्वेऽर्थे सकृद्विद्यादुत्कर्षे निश्चये परम् ॥ ३८ ॥
5.38 · p. 33
अनुष्टुप्
पूर्वकाले पुरा प्राहुः प्राचुर्ये रभसा बलात् ।नित्यं प्रतिदिनं ज्ञेयं सर्वत्रार्थे परि-ध्वनिः ॥ ३९ ॥
5.39 · p. 34
अनुष्टुप्
ततो(?)च ज्योतिके द्योते यम्यैवसगुच्यते(?) ।तथैत्थं स्वयं स्वार्थे हि यस्मादिति विस्मये ।कौत्स्ये (च) मृदुरातीक्ष्णे योऽयं कुष्ठी विधीयताम् ॥ ४० ॥
5.40 · p. 34
metre not recognisednearly अनुष्टुप्