All kośas › Śabdaratnapradīpa
शब्दरत्नप्रदीप Śabdaratnapradīpa
348 verses · text only, tagging comes next
द्वितीयो मुक्तकः
इति शब्दरत्नप्रदीपे श्लोकाधिकारः प्रथमो मुक्तकः ॥
द्वितीयो मुक्तकः ।
इतः प्रभृत्यनेकार्थाः शब्दाः श्लोकार्धगामिनः ।वेदितव्या बुधैः पश्चात् प्रत्यंह्रि कृतसंग्रहाः ॥ १ ॥
2.1 · p. 11
अनुष्टुप्
तटो वप्रः पिता वप्रो वप्रः प्राकार उच्यते ।सर्पो व्याडः शफो व्याडो व्याडो ज्ञेयश्चतुष्पदः ॥ २ ॥
2.2 · p. 11
अनुष्टुप्
अङ्गे दारेषु शय्यायां तल्पशब्दो विधीयते ।तारास्वग्नौ गृहस्थाने धिष्ण्यमाहुर्मनीषिणः ॥ ३ ॥
2.3 · p. 11
अनुष्टुप्
अभिख्येति समाख्याता कीर्त्तौ च कान्तौ च नाम्नि च ।रम्भा देवाङ्गना प्रोक्ता रम्भा स्यात् कदलीति च ॥ ४ ॥
2.4 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मोचा खल्येति विख्याता मोचापि कदली मता ।कक्षेति भवनान्तर्भूर्मे(? मे)खलागजरज्जुषु ॥ ५ ॥
2.5 · p. 11
अनुष्टुप्
स्यादाषाढे विशुद्धेऽग्नौ शुक्रेऽनुपहते शुचिः ।शक्रेऽपि वार्षिके मेघे मत्तनागे घनाघनः ॥ ६ ॥
2.6 · p. 11
अनुष्टुप्
संक्षेपे भक्तसित्के(क्थे) तुच्छधान्ये पुलाक-वाक् ।च(ब)ले मरुति मासार्द्धे पक्षोऽभिभवपार्श्वयोः ॥ ७ ॥
2.7 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वृक्षभेदे करीरः स्यात् घटे वंशाङ्कुरेऽपि च ।देहे दारेषु केदारे क्षेत्रं बुद्धैः(? द्धे) प्रकीर्त्त्यते ॥ ८ ॥
2.8 · p. 11
अनुष्टुप्
श्रेष्ठं कम्बलमल्पं च विद्यादेकाक्ष(ख्य)या बुधः ।निर्यूहो निर्गते पीडानिसर्ग्गद्वारभूमिषु ॥ ९ ॥
2.9 · p. 11
अनुष्टुप्
अविशब्दो रवौ मेघे पर्वतेऽपि निगद्यते ।मृगपर्वतमन्त्रेषु निकृष्टेऽपि च संवरः ॥ १० ॥
2.10 · p. 11
अनुष्टुप्
धुनो(?) धवे च दम्भे च गह्वरे गहनेऽपि च ।न्याये तुल्ये विधौ काले दण्डे वित्ते च कल्प-वाक् ॥ ११ ॥
2.11 · p. 12
अनुष्टुप्
आत्मेति ब्रह्म-धी-देह-मनो-यज्ञ-धृतिष्वपि ।पर्याप्तौ शिक्षिते पुण्ये क्षेमे च कुशलध्वनिः ॥ १२ ॥
2.12 · p. 12
अनुष्टुप्
प्रत्ययः शपथे छिद्रे विश्वासास्तित्वहेतुषु ।पदं स्थाने परित्राणे क्रमे वस्तुप्रतिष्ठयोः ॥ १३ ॥
2.13 · p. 12
अनुष्टुप्
दोषे व्यपगमे दण्डे स्यादत्यय इति श्रुतिः ।स्वभावे तेजसि स्थाने धामशब्दो निगद्यते ॥ १४ ॥
2.14 · p. 12
अनुष्टुप्
ज्ञाता(तौ) चात्मनि चात्मीये धने स्वाख्या प्रयुज्यते ।कूटाख्यानृतयन्त्राभ्यां घने मायाधरेषु च ॥ १५ ॥
2.15 · p. 12
अनुष्टुप्
परिच्छेदे प्रमाणेऽल्पे मात्राख्या परिकीर्त्त्यते ।इडाशब्दश्च पानीये भूमौ वा व्यसने मतः ॥ १६ ॥
2.16 · p. 12
अनुष्टुप्
साधु-सत्ता-प्रशस्येषु त्रिष्वेव सदिति ध्वनिः ।प्रधाने राज्यलिङ्गे च ककुदाख्या प्रवर्तते ॥ १७ ॥
2.17 · p. 12
अनुष्टुप्
मानमण्डनयोर्निष्को निष्को दीनाररुक्मयोः ।युग्मे(ग्य)संयोगयोरङ्कः स्यादङ्को लेख्यलक्ष्मणोः ।विशिरस्के नरे नीरे कबन्धाख्या खलेऽपि च ॥ १८ ॥
2.18 · p. 12
अनुष्टुप्
मरौ वृक्षविशेषे च धन्वन्-शब्दश्च कार्मुके ।अक्षिलोम स्मृतं वर्त्म वर्त्म मार्गश्च कथ्यते ॥ १९ ॥
2.19 · p. 12
अनुष्टुप्
वर्ष्म गृहप्रमाणं स्याद् वर्ष्म देहश्च कथ्यते ।दायादः सहनः(जः) प्रोक्तो दायादस्तनयः स्मृतः ॥ २० ॥
2.20 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 गृ (wrong syllable)
विग्रहो वैर्यवस्कन्दो विग्रहो वपुरुच्यते ।प्रकोष्ठः कूर्प्परस्याधः प्रकोष्ठो द्वारकोष्ठकः ॥ २१ ॥
2.21 · p. 13
अनुष्टुप्
प्रोक्तं वितानमुल्लोचं वितानं शून्यमुच्यते ।सती दाक्षायणी देवी सच्चरित्राबला सती ॥ २२ ॥
2.22 · p. 13
अनुष्टुप्
वधूर्नारी वधूर्भार्या वधूः पुत्रवधूः स्मृता ।भक्षे कशिपुरित्युक्तिः प्रावारः कशिपुर्मतः ॥ २३ ॥
2.23 · p. 13
अनुष्टुप्
आडम्बरो गजारावस्तूर्यनादश्च भण्यते ।कपर्द्दो हरजूटौघः कपर्द्दः श्वेतकाकिणी ॥ २४ ॥
2.24 · p. 13
अनुष्टुप्
तूबरो निर्विषाणो गौर्निःस्मश्रुस्तूवरः पुमान् ।पापीयांसो नृशंसाः स्युर्नृशंसा वन्दिनो मताः ॥ २५ ॥
2.25 · p. 13
अनुष्टुप्
शारदस्तु शरत्कालः स्यादधृष्टश्च शारदः ।उपह्वरो रहःस्थानं समीपं स्यादुपह्वरः ॥ २६ ॥
2.26 · p. 13
अनुष्टुप्
कश्मलः स्यात् पिशाचश्च कश्मलो मोह उच्यते ।अवज्ञा कथ्यते रीढा रीढा गतिरपीक्षते(ष्य)ते ॥ २७ ॥
2.27 · p. 13
अनुष्टुप्
प्रस्वेदोऽपि निदाघः स्यात् निदाघो ग्रीष्म उच्यते ।केतुर्ग्रहविशेषः स्याद् ध्वजः केतुरुदाहृतः ॥ २८ ॥
2.28 · p. 13
अनुष्टुप्
वर्द्धनं छेदनं प्रोक्तं वर्द्धनं वृद्धिरिष्यते ।कशेरुकं जले कन्दे पृष्ठास्थि स्यात् कशेरुकम् ॥ २९ ॥
2.29 · p. 13
अनुष्टुप्
निवातमाश्रयं विद्यादभिन्नः कवचस्तथा ।कीनाशश्च कदर्यः स्यात् कीनाशौ यमकार्षकौ ॥ ३० ॥
2.30 · p. 13
अनुष्टुप्
नागो वृक्षविशेषः स्याद् नागौ वारणपन्नगौ ।कुलं संघः कुलं गोत्रं शरीरं कुलमुच्यते ॥ ३१ ॥
2.31 · p. 14
अनुष्टुप्
पूगं पूगीफलं ज्ञेयं तथा पूगं कदम्बकम् ।ज्ञेयाः सुमनसो देवाः कुसुमानि च सज्जनाः ॥ ३२ ॥
2.32 · p. 14
अनुष्टुप्
कुसुमं पुष्पमित्याहुः स्त्रीरजश्च तदाख्यया ।धवः पतिर्धवो भीरुर्वृक्षजातिर्धवो मतः ॥ ३३ ॥
2.33 · p. 14
अनुष्टुप्
त्र्यम्बकस्ताम्रधातुः स्यात् त्र्यम्बकश्च त्रिलोचनः ।सिफा सेफालिका प्रोक्ता सिफा शिखा सिफा जटा ॥ ३४ ॥
2.34 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 शि (wrong syllable)
पुण्यं सुविहितं कर्म्म पवित्रं पुण्यमुच्यते ।ब्रह्म वैज्ञानमित्युक्तं ब्रह्मा पौनर्भवो मतः ॥ ३५ ॥
2.35 · p. 14
अनुष्टुप्
खलो राशिः खलो नीचः खलः पिण्याक उच्यते ।शाला श्लाघा शिला शाला शाला शाखा च वेश्मनः ॥ ३६ ॥
2.36 · p. 14
अनुष्टुप्
माल्यो मान्यः स्थिरो माल्यो माला माल्यमुदाहृतम् ।राढा देशविशेषः स्यात् शोभा राढाभिधीयते ॥ ३७ ॥
2.37 · p. 14
अनुष्टुप्
पलं मांसं पलं मानं पलो मूर्खः पला तुला ।आलिः सहचरी ज्ञेया पङ्क्तिरालिः प्रकीर्त्तिता ॥ ३८ ॥
2.38 · p. 14
अनुष्टुप्
दलमर्द्धं दलं पर्णं दलं हस्त्यादि साधनम् ।आजिः स्यात् समभूभागः संग्रामोऽप्याजिरुच्यते ॥ ३९ ॥
2.39 · p. 14
अनुष्टुप्
प्रतिज्ञा संगरो ज्ञेयः संग्रामः संगरो मतः ।उलूकः पुरुहूतः स्यात् पुरुहूतः पुरंदरः ॥ ४० ॥
2.40 · p. 14
अनुष्टुप्
अमृतं वारि विज्ञेयं देवभोज्यं तथामृतम् ।कुन्त्या भूमिः समाख्याता कुन्त्या कुन्तकदम्बकम् ॥ ४१ ॥
2.41 · p. 14
अनुष्टुप्
अन्तकेऽजगरे कुन्ते मृत्युः स्यान्मरणेऽपि च ।संपा विद्युत् पतिः संपा संपा शङ्खध्वनिर्मतः ॥ ४२ ॥
2.42 · p. 14
अनुष्टुप्
पिण्डेऽथ कितवे द्यूते दुरोदर इति श्रुतिः ।दीप्तौ दृष्टौ च तारासु ज्योतिःशब्दोऽभिधीयते ॥ ४३ ॥
2.43 · p. 15
अनुष्टुप्
रोगार्त्तभाग्यमूढाल्पा मन्दाः प्रोक्ता विचक्षणैः ।शास्त्रं प्रमाणमिच्छन्ति स्थितिहेतुं च कोविदाः ॥ ४४ ॥
2.44 · p. 15
अनुष्टुप्
हरिणः पाण्डुरो वर्णः कुरङ्गो हरिणो मतः ।करटः कातरो ज्ञेयः करटो ध्वाङ्क्ष उच्यते ॥ ४५ ॥
2.45 · p. 15
अनुष्टुप्
कङ्करेटुः स्मृतो गृध्रः कङ्करेटुरमर्षणः ।प्राध्वं बन्धनमिच्छन्ति प्राध्वं प्रध्वं सूरयः ॥ ४६ ॥
2.46 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मणिः कोलिंजरो ज्ञेयो मणिको मणिरेव च ।विषं पानीयमित्युक्तं विषमन्तकरो रसः ॥ ४८ ॥
2.48 · p. 15
अनुष्टुप्
वाजमन्नं गरुद्वाजो वाजं पीयूषमिष्यते ।व्रजो गोष्ठो व्रजो मार्ग्गो व्रजः संघो व्रजो गणः ॥ ४९ ॥
2.49 · p. 15
अनुष्टुप्
वीर्यं शक्रं बलं वीर्यं वीर्यं बीजमुदाहृतम् ।नक्षत्रस्य मघा नाम कुन्दस्य कलिका मघा ॥ ५० ॥
2.50 · p. 15
अनुष्टुप्
द्विजिह्वः सूचको ज्ञेयो द्विजिह्वस्तु भुजंगमः ।विज्ञेयं शयनं शय्या शय्या पुस्तकसंचयः ॥ ५१ ॥
2.51 · p. 15
अनुष्टुप्
तरसं मांसमाख्यातं तरसं बलमुच्यते ।वारुणी मदिरा ज्ञेया पश्चिमा दिक् [च] वारुणी ॥ ५२ ॥
2.52 · p. 15
अनुष्टुप्
मन्दुरा वाजिशाला स्यादावासोर्णं च मन्दुरा ।सूनृतः शिक्षितो मर्त्त्यः सूनृतः सत्यवाक् स्मृतः ॥ ५३ ॥
2.53 · p. 15
अनुष्टुप्
कीकसो वानरोऽभि(पि) स्यात् कीर्त्त्यते चास्थि कीकसम् ।रोमन्थः स्यात् पशूद्गारो रोमन्थः कीटवर्त्तनम् ॥ ५४ ॥
2.54 · p. 15
अनुष्टुप्
हरिद्रा रजनी प्रोक्ता रजनी च विभावरी ।परिघः परिघातः स्यात् परिघो दण्ड इष्यते ॥ ५५ ॥
2.55 · p. 16
अनुष्टुप्
धरा पृथ्वी धरा धारा धरः शैलो धरा धृतिः ।क्रतौ क्रोधे तथा दैन्ये मन्युशब्दः प्रचक्ष्यते ॥ ५६ ॥
2.56 · p. 16
अनुष्टुप्
सरलो देवदारुश्च सरलः सरलो मतः ।बहुलाः कृत्तिका ज्ञेया गावश्च बहुला मताः ॥ ५७ ॥
2.57 · p. 16
अनुष्टुप्
मूलः पुद्गलकः कन्दः कन्दो वारिज उच्यते ।मानदण्डनयोर्निष्को निष्को दीनाररुक्मयोः ॥ ५८ ॥
2.58 · p. 16
अनुष्टुप्
करो हस्तः करो रश्मिः करः कर्षकशोधनम् ।द्वन्द्वे दुन्दुभिरक्षेषु दुन्दुभिः स्यात् तथानकः(के) ॥ ५९ ॥
2.59 · p. 16
अनुष्टुप्
ख्यातं विपिनमुद्यानमुद्यानं गमनं मतम् ।उपर्यभ्यधिके प्रस्थे विदुरग्रं विपश्चितः ॥ ६० ॥
2.60 · p. 16
अनुष्टुप्
निवृत्तावभिधेयेऽर्थो धने चोक्तः प्रयोजने ।वर्द्धनी वार्घटी(?वा घटी) प्रोक्ता वर्द्धनी तृणकूर्चिका ॥ ६१ ॥
2.61 · p. 16
अनुष्टुप्
कुङ्कुमं रुधिरं प्रोक्तं रुधिरं क्षतजं मतम् ।नन्दनः स्वसमः पुत्रो नन्दनं शक्रकाननम् ॥ ६२ ॥
2.62 · p. 16
अनुष्टुप्
मानसं चित्तमित्युक्तं मानसं त्रैदिवं सरः ।धावनं शोधनं प्रोक्तं धावनं शीघ्रवर्त्तनम् ॥ ६३ ॥
2.63 · p. 16
अनुष्टुप्
स्यन्दनाख्या द्रुमस्रावे स्यन्दनो रथ उच्यते ।तुरायणमसंगोक्तिः क्रियाहीनस्तुरायणः ॥ ६४ ॥
2.64 · p. 16
अनुष्टुप्
परायणं रिपुस्थानं तत्परश्च परायणः ।करिपृष्ठे कुले वेणौ वंशाख्या कविभिर्मता ॥ ६५ ॥
2.65 · p. 17
अनुष्टुप्
जटाजूटे शिखण्डोक्तिः कलापे च शिखण्डिनः ।शिष्टभाजनदेहेषु पात्रशब्दः प्रचक्ष्यते ॥ ६६ ॥
2.66 · p. 17
अनुष्टुप्
पादत्राणे दले पक्षे लेख्यवस्तुनि पत्र-वाक् ।द्रव्येऽसिपरिधानेऽपि क्रियापानेऽपि कोश-वाक् ॥ ६७ ॥
2.67 · p. 17
अनुष्टुप्
हंसेऽग्नौ गरुडे चन्द्रे द्विजराज इति ध्वनिः ।कैवर्त्तेऽपि च कैवर्त्तः कैवर्त्तः सलिलेचरः ॥ ६८ ॥
2.68 · p. 17
अनुष्टुप्
पिप्पलाख्या जलास्वच्छवस्त्रकर्त्तनवस्तुषु ।चन्द्रमाश्चन्दनो ज्ञेयश्चन्दनं मलयोद्भवम् ॥ ६९ ॥
2.69 · p. 17
अनुष्टुप्
सकला व्रीहयः सस्यं विज्ञेयाः सस्यमिक्षवः ।दृषद्यरण्यसस्ये च कुरुविन्द इति श्रुतिः ॥ ७० ॥
2.70 · p. 17
अनुष्टुप्
करवीरश्च मारः स्यादङ्गुष्ठः करवीरकः ।करिणां बन्धनस्थानं वारि वारि जलं मतम् ॥ ७१ ॥
2.71 · p. 17
अनुष्टुप्
प्रचू(चु)रं भूरि विज्ञेयं भूरि काञ्चनमेव च ।सूदः स्यात्सूपकारश्च सूदो ज्ञेयः कुरंटकः ॥ ७२ ॥
2.72 · p. 17
अनुष्टुप्
भषको दुर्जनो ज्ञेयो भषकः सरमासुतः ।सूतो भास्कर इत्युक्तः सूतः सारथिरुच्यते ॥ ७३ ॥
2.73 · p. 17
अनुष्टुप्
प्रतिरोधकस्तु चौरो दुर्ज्जनः प्रतिरोधकः ।सौवीरोऽश्म(श्व)विशेषः स्यात् सौवीरं काञ्जिकं मतम् ॥ ७४ ॥
2.74 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ध (wrong syllable)
दौर्मनस्यं घृणा प्रोक्ता घृणा च करुणा मता ।भङ्गः पलायनं वीचिर्भङ्गो भङ्गश्च भञ्जनम् ॥ ७५ ॥
2.75 · p. 18
अनुष्टुप्
तीक्ष्णं तीव्रं समाख्यातं तीक्ष्णं लोहमुशन्ति च ।मार्ग्गणो याचको ज्ञेयो मार्ग्गणो बाण उच्यते ॥ ७६ ॥
2.76 · p. 18
अनुष्टुप्
भृङ्गः शिलीमुखः ख्यातो नाराचोऽपि शिलीमुखः ।भूशुण्डी सूकरः प्रोक्तो भूशुण्डी च कृषीवलः ॥ ७७ ॥
2.77 · p. 18
अनुष्टुप्
मृणालं बिसिनीमूलं मृणालं च जटौपली ।काव्यास्तु पितरो ज्ञेयाः काव्यं ग्रन्थनिबन्धनम् ॥ ७८ ॥
2.78 · p. 18
अनुष्टुप्
ह्रस्वदीर्घप्लुते ध्वानः कृतपित्तव्यथास्वपि ।रुक्मं हेम विजानीयाद् रुक्मं रजतमुच्यते ॥ ७९ ॥
2.79 · p. 18
अनुष्टुप्
उत्पलं नलिनं प्रोक्तमुत्पलं कुष्ठमौषधिः ।वासुरा वसती ज्ञेया वासुरा वलभी मता ॥ ८० ॥
2.80 · p. 18
अनुष्टुप्
रजतं कलधौतं स्यात् कलधौतं च काञ्चनम् ।वर्णः कृष्णोऽच्युतः कृष्णः प्रोक्ता कृष्णा च पिप्पली ॥ ८१ ॥
2.81 · p. 18
अनुष्टुप्
समवाये यमे देवे संयद्वर इति श्रुतिः ।शर्व्वरश्चन्द्रमा ज्ञेयः शर्व्वरः शवरो मतः ॥ ८२ ॥
2.82 · p. 18
अनुष्टुप्
महिला रमणी ज्ञेया रमणी वेदिका मता ।प्रधानं प्रकृतिः सांख्ये प्रधानं विदुरुत्तमम् ॥ ८३ ॥
2.83 · p. 18
अनुष्टुप्
वक्त्रमप्यरविन्दं स्यादरविन्दं सरोरुहम् ।शृगालो जम्बुको भीरुः शृगालो वरुणोऽपि च ॥ ८४ ॥
2.84 · p. 18
अनुष्टुप्
त्रिदशा मरुतः प्रोक्ता मरुतोऽपि समीरणः ।मायाशब्दो बुधैरिष्टः स्थलसत्त्वविशेषयोः ॥ ८५ ॥
2.85 · p. 18
अनुष्टुप्
कुण्डलं मण्डलं ज्ञेयं कुण्डलं कर्णभूषणम् ।प्रतिबन्धः कुलाधारः प्रतिबन्धः खलक्रिया ॥ ८६ ॥
2.86 · p. 18
अनुष्टुप्
किषिर्गोत्रविशेषः स्यात् किषिः कालः किषिः कपिः ।कुशिर्लोणक इत्युक्तः कुशिर्वैखानसो मुनिः ॥ ८७ ॥
2.87 · p. 18
अनुष्टुप्
वर्त्तिर्दीपशिखासूत्रं वर्त्तिर्नेत्राञ्जनोदिता ।धूम्राटश्च कलिड्गः स्यात् कलिङ्गो देशवाचकः ॥ ८८ ॥
2.88 · p. 19
अनुष्टुप्
शैले तृणविशेषेऽर्क्के नृषु गर्त्तुरिति ध्वनिः ।शेलुस्तृणविशेषश्च शेलुः श्लेष्मातको मतः ॥ ८९ ॥
2.89 · p. 19
अनुष्टुप्
शैलः पर्वत आख्यातः शैलः शिलासमुद्भवः ।वाल्मीकश्च सीमिकः स्याद् वाल्मीको वाग्विशारदः ॥ ९० ॥
2.90 · p. 19
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 शि (wrong syllable); pāda 3, syllable 4 श्च (wrong syllable)
समाजः कुञ्जरो ज्ञेयः समाजः समयो मतः ।प्राजिकः पक्षजातिः स्यात् प्राजिका नीलमक्षिका ॥ ९१ ॥
2.91 · p. 19
अनुष्टुप्
सारसो लक्ष्मणः प्रोक्तो लक्ष्मणो राघवानुजः ।लक्ष्मणा औषधी प्रोक्ता कथयन्ति मनीषिणः ॥ ९२ ॥
2.92 · p. 19
अनुष्टुप्