कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnapradīpa

शब्दरत्नप्रदीप Śabdaratnapradīpa

348 verses · text only, tagging comes next

चतुर्थो मुक्तक्तः

इति शब्द[रत्न]प्रदीपे [पादाधिकारः] तृतीयो मुक्तकः ॥

चतुर्थो मुक्तकः ।

यो जयेद्राजसूयेन मण्डलस्येश्वरश्च यः ।पृथ्वीं प्रशास्ति यस्याज्ञा स सम्राडभिधीयते ॥ १ ॥
4.1 · p. 24
अनुष्टुप्
सबुद्धिः सचिवो राज्ञस्तन्मन्त्रं निश्चिनोति यः ।नियुक्तः कर्म्मणि प्राज्ञः स कर्मसचिवो मतः ॥ २ ॥
4.2 · p. 24
अनुष्टुप्
यो राजरक्षवर्ग्गः स्यात् सोऽनीकस्थो निगद्यते ।अन्तःपुरे येऽधिकृतास्तेऽन्तर्वेश्मिकसंज्ञकाः ॥ ३ ॥
4.3 · p. 24
अनुष्टुप्
यथार्थयुक्तस्तु चरः प्रणिधिः प्रणिगद्यते ।एष ग्रामाधिकृत्यश्च स्थायुष(?कः) पुरुषो मतः ॥ ४ ॥
4.4 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 यु (wrong syllable)
षण्ढो वर्षधरः प्रोक्तो द्यूताध्यक्षश्च सारिकः ।विषयानन्तरं शत्रुर्मित्रं च तदनन्तरम् ॥ ५ ॥
4.5 · p. 24
अनुष्टुप्
यो लक्ष्याच्युतबाणः स्यात् सोऽपराद्धेषुर्भण्यते ।कलिविन्यसनं व्यूहो वाज[जः] पक्षो भवेदिषोः ॥ ६ ॥
4.6 · p. 24
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 षु (wrong syllable)
प्रत्यासारं विदुः प्राज्ञाश्चमूजघनमाहवे ।प्रत्यरि सेनागमनं जानीयादभिषेणक(?न)म् ॥ ७ ॥
4.7 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 त्य (wrong syllable)
तुरङ्गरथपत्तीभं सेनाङ्गमभिधीयते ।स्यात् प्रतिसर आरण्यः प्रतिरोधः समापनम् ॥ ८ ॥
4.8 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ति (wrong syllable)
वृत्ते वर्त्स्यति वा युद्धे पानं स्याद्वीरपानकम् ।चापध्वनिश्च विस्फारः कबन्धमशिरो वपुः ॥ ९ ॥
4.9 · p. 24
अनुष्टुप्
निबन्धनं मेखलाद्यमङ्गस्य ग्रहणं स(?द)मः ।वरूथो रथगुप्तिश्च गुल्मं सज्जनमिष्यते ॥ १० ॥
4.10 · p. 24
अनुष्टुप्
पुरुषो रिपुयुक्तो यः उ(?अ)पसय्यः(?र्प्पः) स भण्यते ।तदभिभयमाख्यातं सबलाद्भयमेव यत् ॥ ११ ॥
4.11 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 भि (wrong syllable)
विषलिप्तफलो बाणो यः स दिग्ध इति स्मृतः ।दुरापेऽपि च कृत्ये यः स्यादनवस्थितक्रियः ॥ १२ ॥
4.12 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
महोत्साहः स विज्ञेयः पुरुषः कृतनिश्चयः ।वृंहितं स्तनितं प्रोक्तमालानं बन्धनं मतम् ॥ १३ ॥
4.13 · p. 25
अनुष्टुप्
मदो दानं गजेन्द्राणां वमथुः करिसीकरः ।दन्तान्तप्रतिमानं च सृणिरुक्तस्तदङ्कुशम् ॥ १४ ॥
4.14 · p. 25
अनुष्टुप्
बिन्दुजालं शरीरोत्थं पद्मं विज्ञाः प्रचक्षते ।आघोरणो नियन्ता स्यान् निषादी प्राजिता गजी(?) ॥ १५ ॥
4.15 · p. 25
अनुष्टुप्
आजानेयः कुलीनोऽश्वः पोतः प्रोक्तः किशोरकः ।काम्बोजश्चैव बाल्हीकः साधुवाही विनीतकः ॥ १६ ॥
4.16 · p. 25
अनुष्टुप्
प्रोथं घोणान्तरं प्राहुर्द्धौरितं वलितं मतम् ।अश्वकाङ्गः स्मृतो वाजी मृगयायां विचक्षणः ॥ १७ ॥
4.17 · p. 25
अनुष्टुप्
चक्रं चापस्करं विन्द्यात् कूबरं युगमध्यगम् ।श्रेयमिष्टफलं दैवं तद्विपर्यासतोऽनयम् ॥ १८ ॥
4.18 · p. 25
अनुष्टुप्
इष्टार्थानर्थयोर्दूराद् दीर्घदर्श इति स्मृतः ।वेहद्वृषोपगा गौः स्यादुत्तमा नैचिकी मता ॥ १९ ॥
4.19 · p. 25
अनुष्टुप्
काल्याऽथ सर्ज्यप्रजने समाना च सवर्णिका ।दुह्यमानाप्यसंदाना सुव्रतेति निगद्यते ॥ २० ॥
4.20 · p. 25
अनुष्टुप्
दोहकाले पयोहीना संधिनीति विधीयते ।प्रौढो वत्सो वत्सतरः प्रष्ठौही गर्भिणी मता ॥ २१ ॥
4.21 · p. 25
अनुष्टुप्
विद्याद्दध्यघनं द्रप्सं घृतं सर्पिर्निशान्तरम् ।हैयङ्गवीनमित्युक्तं नवनीतं विचक्षणैः ॥ २२ ॥
4.22 · p. 25
अनुष्टुप्
समा गिरेः क्षितिः सानुरधःस्थानादुपत्यका ।परं तीरं विदुः पारमर्वागवारमावचुः ॥ २३ ॥
4.23 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
राजहंसा सिता रक्तैर्मलिनैर्मल्लिकाभिधाः ।विश्रुताश्चरणैर्हंसा धार्तराष्ट्राः सितेतरैः ॥ २४ ॥
4.24 · p. 26
अनुष्टुप्
मध्यं प्रकोष्ठमित्युक्तमरत्निमणिबन्धयोः ।कनिष्ठामणिबन्धान्तः करभः करपार्श्वगः ॥ २५ ॥
4.25 · p. 26
अनुष्टुप्
ज्येष्ठा कनिष्ठा निकटे तत्प्रदेशिन्यनामिका ।बाहोश्च प्रसृताङ्गुल्योरन्तरं व्याम उच्यते ॥ २६ ॥
4.26 · p. 26
अनुष्टुप्
प्रादेश-ताल-गोकर्ण-वितस्तय उदाहृताः ।तर्जन्यादिभिरङ्गुष्ठे वितताभिः क्रियापरे ॥ २७ ॥
4.27 · p. 26
अनुष्टुप्
प्रसारिताङ्गुलिः प्राज्ञैः करः प्रतलमुच्यते ।कृतमुष्टिः स रत्निः स्यादरत्निर्वितताङ्गुलिः ॥ २८ ॥
4.28 · p. 26
अनुष्टुप्
पुच्छं प्रकीर्णकं सिक्तं कल्यं मद्यं चिरोषितम् ।चतुर्विधं स्मृतं वस्त्रं त्वग्युक्तं कृमिरोमजम् ॥ २९ ॥
4.29 · p. 26
अनुष्टुप्
महाधनाख्यमित्युक्तं बहुमूल्यं विचक्षणैः ।पौष्पं मधु मकरन्दं गुल्मस्थं स्तबकं बुधैः ॥ ३० ॥
4.30 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
बन्धनं वृन्तमिच्छन्ति विटपं तरुविस्तरम् ।संभाविताऽस्मिका(?ता) दर्पादाहोपुरुषिका मता ॥ ३१ ॥
4.31 · p. 26
अनुष्टुप्
फलं सुस्वादु पक्वं स्यात् प्रपदं(?) पुष्टमुच्यते ।जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते ॥ ३२ ॥
4.32 · p. 26
अनुष्टुप्
वाक्यं पदसमूहः स्यादाहोसाध्यमकारणम् ।लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् ॥ ३३ ॥
4.33 · p. 26
अनुष्टुप्
नितान्तं मधुरं सान्त्वं परुषं निष्ठुरं वचः ।असद्भाष्यं बहुभाष्यमसंबद्धं निरर्थकम् ॥ ३४ ॥
4.34 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 हु (wrong syllable)
कल्या कल्याणवाचोक्ता सत्यकल्पा प्रियाप्रिया ।पूर्वापरोक्तमक्लिष्टं हृद्गतं स्वगतं मतम् ॥ ३५ ॥
4.35 · p. 27
अनुष्टुप्
स्पष्टं चित्रपदं नाम ग्राम्यमश्लीलमुच्यते ।काञ्चनं रजतं प्रोक्तं हिरण्याख्ये कृताकृते ॥ ३६ ॥
4.36 · p. 27
अनुष्टुप्
आहते च स्मृते रूप्ये ततोऽन्यत् कुप्यमुच्यते ।भूषणं कनकं शृङ्गी गवाद्यं पादबन्धनम् ॥ ३७ ॥
4.37 · p. 27
अनुष्टुप्
वेश्यावासोऽपि वेशः स्यादातोद्यं मुरजादिकम् ।अर्थप्रयोगमाचार्याः कुशीदं परिचक्षते ॥ ३८ ॥
4.38 · p. 27
अनुष्टुप्
वार्द्धुषिक्यं च तद्वृत्तिस्तत्क्रिया च विकूणिका ।स्यातां ग्राहकदातारवधमर्णोत्तमर्णकौ ॥ ३९ ॥
4.39 · p. 27
अनुष्टुप्
कुमुदः प्रतिभः श्वेतो बभ्रुः कनकपिङ्गलौ ।रक्तश्यामः स्मृतो धूम्रः पिशङ्गो रोचनाप्रभः ॥ ४० ॥
4.40 · p. 27
अनुष्टुप्
मेचकः शिखिकण्ठाभो हरित् श्यामोऽसितासितिः ।आरक्तः पाटलो वर्णः शोणः कोकनदारुणः ॥ ४१ ॥
4.41 · p. 27
अनुष्टुप्
आसारो वेगवान् वर्षः प्रावृडम्भोधरागमः ।शीकरः पवनास्ताम्बु मेघाग्निः स्यादिरम्मदः ॥ ४२ ॥
4.42 · p. 27
अनुष्टुप्
वृष्ट्या संभूतशस्यो यः स देशो देवमातृकः ।नद्यम्बुवृद्धशस्यो यः स नदीमातृको मतः ॥ ४३ ॥
4.43 · p. 27
अनुष्टुप्
वरपूर्वा तु या नारी सोच्यते दिधिषूरिति ।सोऽग्रेदिधिषुराख्यातः पुरुषस्तत्पुरन्ध्रिकः ॥ ४४ ॥
4.44 · p. 27
अनुष्टुप्
खगा मृगाः स्मृताश्छेकाः सर्वदैव गृहे रताः ।यदुष्ट्रिकादिकं भाण्डं तदेवाऽऽवपनं मतम् ॥ ४५ ॥
4.45 · p. 27
अनुष्टुप्
रजतादिकृतं तत् स्यात् भृङ्गारं जलदायकम् ।अवकेशी फलैर्वन्ध्यः सर्वलोहं च तैजसम् ॥ ४६ ॥
4.46 · p. 27
अनुष्टुप्
व्याख्याता भैक्षदाता च प्राज्ञैश्च विकुलाविति ।स्थानं मूलादधिष्ठानात् शाखानगरमुच्यते ॥ ४७ ॥
4.47 · p. 27
अनुष्टुप्
संसप्तकाश्च समये संग्रामादनिवर्त्तिनः ।पद्याऽतः पथसंबन्धो गव्यूतिः क्रोशकद्वयम् ॥ ४८ ॥
4.48 · p. 27
अनुष्टुप्
आगन्तुवर्तमानाभ्यां सहाहोभ्यां च पक्षिणी ।श्रुतिविद्भिः स्मृता रात्रिः पुण्या हवनकर्मणि ॥ ४९ ॥
4.49 · p. 28
अनुष्टुप्
चिररात्रमिति ख्यातं चिरकालं च सूरिभिः ।गणरात्रं तथा रात्रिर्बहुशश्चाभिवासिता ॥ ५० ॥
4.50 · p. 28
अनुष्टुप्
तत् शललीकमाख्यातं प्रच्छन्नं शललैरपि ।अन्तर्गतास्थिकं कुड्यमेडूकं कवयो विदुः ॥ ५१ ॥
4.51 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ल (wrong syllable)
पञ्चरागिकवस्त्रेण निर्मिताः पुत्रिकास्तु याः ।पञ्चालिका इति प्रोक्ता बालक्रीडनकाश्च ताः ॥ ५२ ॥
4.52 · p. 28
अनुष्टुप्
सपरिच्छदकन्यायाः प्रदाता कूकदो मतः ।सोपप्लवस्थितो भानुरुपरक्तोऽथवा शशी ॥ ५३ ॥
4.53 · p. 28
अनुष्टुप्
पोगण्ड इति विख्यातो देहेन विकलः पुमान् ।मासौ द्वौ चैत्रवैशाखौ तावेव मधुमाधवौ ॥ ५४ ॥
4.54 · p. 28
अनुष्टुप्
ज्येष्ठाषाढौ तथैव द्वौ प्रोक्तौ शुक्रशुची इति ।नभः श्रावण इत्युक्तो नभस्यस्तदनन्तरः ॥ ५५ ॥
4.55 · p. 28
अनुष्टुप्
इषोर्ज्जाविति विज्ञेयौ मासावाश्विनकार्तिकौ ।स्यातां सहःसहस्यौ द्वौ मार्गपौषौ यथाक्रमम् ॥ ५६ ॥
4.56 · p. 28
अनुष्टुप्
तपस्तु माघ इत्युक्तस्तपस्यः फाल्गुनो मतः ।एकसर्ग्गजनं विन्ध्यादेकायनमिति स्फुटम् ॥ ५७ ॥
4.57 · p. 28
अनुष्टुप्
अनेडमूक इत्युक्तः श्रोतुं वक्तुं च यः क्षमः ।समरात्रिदिनं कालं विषुवन्तमुशन्ति च ॥ ५८ ॥
4.58 · p. 28
अनुष्टुप्
वात्या वातसमूहः स्यादिल्वला मृगतारकाः ।राकानुमतिराचार्याः पौर्णमासीद्वयं विदुः ॥ ५९ ॥
4.59 · p. 28
अनुष्टुप्
राका संपूर्णचन्द्रा स्यात् कलोनाऽनुमतिः स्मृता ।शिनीवालप्रमाणोऽर्क्कसांनिध्ये यत्र चन्द्रमाः ॥ ६० ॥
4.60 · p. 28
अनुष्टुप्
दृश्यते सा त्वमावास्या शिनीवालीति भण्यते ।कुहे(?ह्वि)ति कोकिलाध्वाने कलामात्रं विधौ स्थितिः ॥ ६१ ॥
4.61 · p. 28
अनुष्टुप्
यत्रापि स्यादमावास्या नष्टचन्द्रा कुहूरिति ।ऋचो यजूंषि सामानि कर्मविद्या त्रयी मता ॥ ६२ ॥
4.62 · p. 29
अनुष्टुप्
आन्वीक्षिकी तर्कविद्या वार्त्ता कृष्यादि कर्मभाक् ।समग्रमर्थशास्त्राणि दण्डनीतिरितीष्यते ॥ ६३ ॥
4.63 · p. 29
अनुष्टुप्
मन्वादिधर्मशास्त्राणि स्मृतयः स्मरणादपि ।ऋग्यजुषोरधीती यः स होताऽध्वर्युरिष्यते ॥ ६४ ॥
4.64 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 जु (wrong syllable)
सान्नाय्यं हविरेव स्यादुद्गाता सामतो मतः ।आषाढो व्रतिनां दण्डः सोमपीथीति सोमपः ॥ ६५ ॥
4.65 · p. 29
अनुष्टुप्
स्वसंस्काराद्द्विजो भ्रष्टो व्रात्य इत्यभिधीयते ।त्यक्ताग्निर्वीरहा प्रोक्तो दीक्षितो मखसोमपः ॥ ६६ ॥
4.66 · p. 29
अनुष्टुप्
यजमानः स्मृतो यष्टा हुताग्नौ च वषट्कृतम् ।इष्टापूर्तं ध्रुवं दानमन्यत् पूर्वमुदाहृतम् ॥ ६७ ॥
4.67 · p. 29
अनुष्टुप्
ब्रह्मस्वाध्यायसंवृत्तिर्ब्रह्मचर्यं समिष्यते ।अभिमन्त्र्य हुतं सम्यग् विन्द्यादुपाकृतं पशुम् ॥ ६८ ॥
4.68 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दु (wrong syllable)
अन्वाहार्यं विदुः श्राद्धं मासिकं विधिकोविदाः ।दर्शस्त्वसितपक्षान्ते सदस्या विधिदर्शिनः ॥ ६९ ॥
4.69 · p. 29
अनुष्टुप्
दिव्यः स्यादिति सत्रस्य शेषं प्राज्ञैरुदाहृतम् ।सिद्धश्चाष्टगुणैर्युक्तस्त्रिवर्ग्गो धर्मपूर्वकः ॥ ७० ॥
4.70 · p. 29
अनुष्टुप्
प्राचीनावीती विख्यातः सत्यपाणौ समुद्धृते ।हव्यं दैवे विधातव्यं पैत्रे कव्यमिति स्मृतम् ॥ ७१ ॥
4.71 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ती (wrong syllable)
योषिन्मुख्या वरारोहा वीरा स्यात् पतिपुत्रिणी ।प्रसाधनज्ञा स्ववशा सैरन्ध्रीति निगद्यते ॥ ७२ ॥
4.72 · p. 29
अनुष्टुप्
कात्यायन्यर्द्धवृद्धा च सा राजवरवर्णिनी ।मध्यस्थानं भ्रुवोः कूर्चस्तारकाऽक्षिकनीनिका ॥ ७३ ॥
4.73 · p. 29
अनुष्टुप्
स्त्रीणां पूर्वकटीभागं जघनं कोविदा विदुः ।नितम्बमपरं भागं गुल्फं पादस्य पूर्वतः ॥ ७४ ॥
4.74 · p. 29
अनुष्टुप्
मुखान्तरालमास्यं स्यात् पूर्वे संधिश्च लक्षणे ।दृष्टे यत्र प्रसीदन्ति नयनानि मनांसि च ॥ ७५ ॥
4.75 · p. 30
अनुष्टुप्
प्रासादः स तु विज्ञेयः सौधः स्यात् सुधया सितः ।मन्त्रोद्धारविधानज्ञः क्रियाकाण्डविशारदः ॥ ७६ ॥
4.76 · p. 30
अनुष्टुप्
आचार्यः प्रोच्यते सम्यक् स्वाम्नायेन च आचरन् ।उपेत्याधीयते यस्माद् वाङ्मयं समुपागते ॥ ७७ ॥
4.77 · p. 30
अनुष्टुप्
उपाध्यायः स विज्ञेयो वृत्तिमात्रोपजीवकः ।उपमर्द्दाप्तिवैमल्याः तण्डुलाः पाकयुक्तितः ॥ ७८ ॥
4.78 · p. 30
अनुष्टुप्
प्रमाथितेन ते मन्दाः क्लिन्नत्वादोदनः स्मृतः ।मुद्गादिदलप्रस्विन्नाः स्वच्छाः स्वपस्निमाययोः(?) ॥ ७९ ॥
4.79 · p. 30
अनुष्टुप्metre not read in every line
प्राच्यादीनां दिशां देवाः पालनाद्विदिशामपि ।दिक्पाला इति विख्याताः शक्रवह्नियमादयः ॥ ८० ॥
4.80 · p. 30
अनुष्टुप्
पाञ्चजन्यं विदुः शङ्खं हरेश्चक्रं सुदर्शनम् ।कौमोदकी गदा शार्ङ्गं कार्मुकं नन्दकस्त्वसिः ॥ ८१ ॥
4.81 · p. 30
अनुष्टुप्
शिवस्य समिध्या(?) वारिस्वशब्दं स्थिरमेव च ।शिवगङ्गेति विज्ञेया दुष्प्रापा दुष्कृतात्मना ॥ ८२ ॥
4.82 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मि (wrong syllable)
नाम गोत्रं च मन्त्रं च या अभिव्यापकाः स्वयम् ।सुनृणां काव्यपिण्डस्य विज्ञेयाश्चित्रधेनवः ॥ ८३ ॥
4.83 · p. 30
अनुष्टुप्
उत्पत्तिः प्रलयो वंशा मन्वन्तर-विनिर्णयः ।वंशानुचरितं यत्र तत् पुराणमिति स्मृतम् ॥ ८४ ॥
4.84 · p. 30
अनुष्टुप्
नाम्ना येऽणादयः सिद्धाः समासविधिनापि ये ।शब्दास्ते वाक्यतो धातोर्बोद्धव्याः कविपुंगवैः ॥ ८५ ॥
4.85 · p. 30
अनुष्टुप्
मुक्तक एव चतुर्थो गुणभोग्यः संनिवेशतः शब्दैः ।वाक्यविबोध्यैर्नित्यं नितरां सुश्रूग्रते लक्ष्मीः ॥ ८६ ॥
4.86 · p. 30
आर्याmetre not read in every line