All kośas › Śabdaratnapradīpa
शब्दरत्नप्रदीप Śabdaratnapradīpa
348 verses · text only, tagging comes next
तृतीयो मुक्तकः
इति शब्दरत्नप्रदीपेऽर्द्धश्लोकाधिकारो द्वितीयो मुक्तकः ॥
तृतीयो मुक्तकः ।
इतः प्रभृत्यनेकार्था ज्ञेयाः प्रत्यंह्रि सूरिभिः ।राजा चन्द्रो नृपो राजा पयः क्षीरं पयो जलम् ॥ १ ॥
3.1 · p. 20
अनुष्टुप्
मित्रो भानुः सुहृन् मित्रं दरं छिद्रं दरं भयम् ।ओघः पूरोऽथ वेगश्च वनं काननम्बु च ॥ २ ॥
3.2 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
इला भूमिर्मता गौश्च संज्ञा चित्तं च नाम च ।शैलोऽद्रिरंशुमानद्रिर्भा भानुर्भानुरर्यमा ॥ ३ ॥
3.3 · p. 20
अनुष्टुप्
श्रीकण्ठः स्थावरः स्थाणुः हय(?र)च्छागाच्युता अजाः ।गोविन्दो हरिगोसंख्ये शिवः कृष्णो वृषाकपिः ॥ ४ ॥
3.4 · p. 20
अनुष्टुप्
शरीरोत्सेधयोः कायः सन्धावधिप्रतिज्ञयोः ।तेजः पुरीषयोर्वर्चो वसतिः स्थाननक्तयोः ॥ ५ ॥
3.5 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
सरीत्समुद्रयोः सिन्धुः शालः प्राकारवृक्षयोः ।चातकापत्ययोः स्तोकः पापव्यसनयोरघः ॥ ६ ॥
3.6 · p. 20
अनुष्टुप्
पिपासालोभयोस्तृष्णा भुवनं तोयलोकयोः ।मद्याश्वमेधयोः काश्यो वाडवो ह्यग्निविप्रयोः ॥ ७ ॥
3.7 · p. 20
अनुष्टुप्
निस्त्रिंशौ खड्गपापिष्ठौ भृङ्गबाणौ शिलीमुखौ ।मानमण्डने निष्कौ स्तो बाष्प उष्मा तथाश्रु च ॥ ८ ॥
3.8 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ने (wrong syllable)
वृक्षजातिगजौ पीलू प्रदरौ रोगमार्गणौ ।सूकरोष्ट्रौ च करभौ हावौ क्रन्दनविभ्रमौ ॥ ९ ॥
3.9 · p. 20
अनुष्टुप्
अरिष्टपिष्ठकौ कल्कौ वृषौ दानववैरिणौ ।पङ्गुपद्मारुणौ शोणावम्बरौ व्योमवाससी ॥ ११ ॥
3.11 · p. 21
अनुष्टुप्
उदानाख्यौ मरुद्बन्धौ निस्रंसौ वटदुग्धिलौ ।ध्वाङ्क्षः काको बको ध्वाङ्क्षो नगः शैलो नगो द्रुमः ॥ १२ ॥
3.12 · p. 21
अनुष्टुप्
खटो ह्रस्वः खटः क्रूरः क्षितिः पृथ्वी क्षितिः क्षयः ।क्षयं गेहं क्षयो ह्रासः श्रमः खेदः श्रमः क्रिया ॥ १३ ॥
3.13 · p. 21
अनुष्टुप्
कण्ठो विधिर्गलः कण्ठः प्रहिः कूपः प्रहिः सरः ।उन्दुरे सूकरे कोलः कलिः कलहकालयोः ॥ १४ ॥
3.14 · p. 21
अनुष्टुप्
शशाङ्कस्वर्णयोश्चन्द्रः किरिः सूकरलोहयोः ।बर्हिर्दर्भो जलं बर्हिर्लाङ्गलं हलमम्बु च ॥ १५ ॥
3.15 · p. 21
अनुष्टुप्
निमित्तहृदये हेतू हीरौ वज्रमहेश्वरौ ।काश्मीरकशुकौ कीरौ वीरौ विक्रमबान्धवौ ॥ १६ ॥
3.16 · p. 21
अनुष्टुप्
कौशिकौ वासवोलूकौ सायकावसिमार्ग्गणौ ।मार्ग्गणौ याचको बाणो मार्ग्गणं मृगमांसता (?) ॥ १७ ॥
3.17 · p. 21
अनुष्टुप्
ध्वान्ताचलौ मतावन्धौ मयूराग्नी शिखण्डिनौ ।कमरः कोमले काम्ये समरो युद्धसंघयोः ॥ १८ ॥
3.18 · p. 21
अनुष्टुप्
उत्सङ्गे सूकरे क्रोडो वत्सः स्व(? त)र्णकपुत्रयोः ।कान्त्यनातपयोश्छाया दया हिंसानुकम्पयोः ॥ १९ ॥
3.19 · p. 22
अनुष्टुप्
द्रुमो वृक्षे पुराणेऽन्ने ध्रुवो निश्चितनित्ययोः ।संघाते पूरणे पूरः सूरः सूर्यनरेन्द्रयोः ॥ २० ॥
3.20 · p. 22
अनुष्टुप्
धीरौ सात्त्विकधीमन्तौ वरौ श्रेष्ठहुताशनौ ।पतङ्गौ शलभादित्यावर्कौ स्फाटिकभास्करौ ॥ २१ ॥
3.21 · p. 22
अनुष्टुप्
गुह्यं कार्ये च कौपीने संज्ञे स्तो नामचेतने ।मधुरौ च प्रियस्वादू शम्भू ब्रह्ममहेश्वरौ ॥ २२ ॥
3.22 · p. 22
अनुष्टुप्
कार्यरिद्धौ तथा कृत्यौ बभ्रू नकुलपिङ्गलौ ।स्पष्टप्राज्ञौ स्मृतौ व्यक्तौ दीप्तिः स्वेच्छा तथा रुचिः ॥ २३ ॥
3.23 · p. 22
अनुष्टुप्
नित्यं स्वं च निजं प्रोक्तं बलदीप्तौ तथौजसी ।हायनं वर्षमोजश्च हेती शस्त्रार्च्चिषी मते ॥ २४ ॥
3.24 · p. 22
अनुष्टुप्
आशासंज्ञे ककुप्तृष्णे स्तनमेघौ पयोधरौ ।अभिरूपं बुधे कान्ते जामिः स्वसृकुलस्त्रियोः ॥ २५ ॥
3.25 · p. 22
अनुष्टुप्
उदयाधिगमौ प्राप्ती वह्निसूर्यौ विभावसू ।वृजिनं मलिने पापे प्रज्ञानं बुद्धिचिह्नयोः ॥ २६ ॥
3.26 · p. 22
अनुष्टुप्
असन्मायाविनौ लीकौ वीर्योद्यमौ पराक्रमौ ।वराके मूषके दीनः प्लवकः कपिभेकयोः ॥ २७ ॥
3.27 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्य (wrong syllable)
यज्ञः पूजा च दानं च दृष्टिभी(?री)क्षौ तथा मते ।चीवरं वल्कले वस्त्रे कृष्णं काले तथोदरे (?) ॥ २८ ॥
3.28 · p. 22
अनुष्टुप्
श्रोत्रश्च श्रवणे कर्णे तातस्तु पितृपुत्रयोः ।कुट्टिमे शफरे मत्स्यो रूपं मूर्तौ विदुर्विधौ ॥ २९ ॥
3.29 · p. 23
अनुष्टुप्
अवटौ कालगर्तौ च निमित्ते हेतुलक्षणे ।हिते शक्ते समर्थः स्यात् प्रशान्त(?न्ता)कठिनौ मृदू ॥ ३० ॥
3.30 · p. 23
अनुष्टुप्
स्थूलौ जडबृहन्तौ [च] विप्राश्च दशना द्विजाः ।असदप्रियावलीकौ सहायप्रणिधी मतौ ॥ ३१ ॥
3.31 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प्रि (wrong syllable)
रचितोऽयमनेकार्थौ यथास्मृति [च] युक्तके तृतीयेऽपि ।उपजयतां सौभाग्यं पठतां श्रद्धावतामनिशम् ॥ ३२ ॥
3.32 · p. 23
आर्याmetre not read in every line