द्रुमभिद्
drumabhidIn 3 kośas: 0 synonym verses, 3 as a meaning of another word.
द्रुमभिद् as a meaning in nānārtha verses
- कोषकल्पतरु वरणजीर्णे वाच्यसमं पुराणमयुगे स्यात्पञ्चलक्ष्मण्यपि ग्रन्थे भोगिकनायके क्षुरिणि ना ग्रामाधिपे ग्रामणीः । श्रेष्ठे च त्रितये स्त्रियां तु गदिता नील्यां च वारस्त्रियां ग्राम्यायां च घृणौ तु[284a] पुंसि किरणो विक्षेपणे त्वन्तिमे । द्रुमभित्सेतुशालेषु वरणो नान्तिमे वृतौ । गुणिन्यृजौ च प्रगुणो रवणः शब्दने खरे ॥ ४८ ॥ Koṣakalpataru 6.15.48
- परमानन्दीयनाममाला पिण्डारपिण्डारो महिषीपाले याचके द्रमभिद्यथ । पिचुलो झाबुके नीरवायसे निचुलेऽपि च ॥ ३१२ ॥ Paramānandīyanāmamālā 5.19.312
- शब्दरत्नावली जम्बुमालिन्अमेरुद्रुमभिदो(?)र्ना जम्बुमाली निगद्यते । स्यात्क्लीबं दन्तशुद्धौ ना खदिरे दन्तधावनः ॥ केतुग्रहे हुताशे च स्यात्पुमान् धूमकेतनः । शिवे सुते च पक्षान्ते मित्रे ना नन्दिवर्द्धनः ॥ दाने च प्रतिपत्तौ च बोधने प्रतिपादनम् । भुजङ्गे च मयूरे च प्रचलाकी भवेत्पुमान् ॥ धनदे भास्करे विष्णौ विधौ च पद्मलाञ्छनः । वाग्देवतायां तारायां पद्मायां पद्मलाञ्छना ॥ कालीयके हरिद्रायां न द्वयोः पीतचन्दनम् । भीमे षेष्ठे च महिष पृष्ठशृङ्गी भवेत्पुमान् ॥ देवदारुणि कालीये न द्वयोर्वरचन्दनम् । स्त्रीरत्नरोचनालाक्षाहरिद्राफलिनीषु च ॥ साध्व्यां गौरीसरस्वत्योः पद्यायां वरवर्णिनी । वासुदेवे मधुकरे स्यात्पुंसि मधुसूदनः ॥ Śabdaratnāvalī 7.20.134