कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

नानार्थवर्गप्रकाशः · नान्ताः (2/2)

ललाम स्याद्ध्वजे शृङ्गे प्रभावे च तुरङ्गमे ।प्रधाने लाञ्छने पुण्ड्रे वालधौ भूषणेऽपि च ।लाङ्गली रेवती कान्ते नारिकेलद्रुमे पुमान् ।…वञ्चकव्याघ्रगन्धमार्जारकेषु च ।वर्द्धमानः पशुविष्णुशरावैरण्डसूरिषु ।विस्मापनः स्मरे पूर्यां गन्धर्वे कुहनेऽपि च ॥विसर्जनं परित्यागदानसंप्रेरणेषु च ।विरोचनोऽग्निसूर्येन्दुप्रह्लादतनयेषु च ॥विहेठनं मर्दने स्याद् हिंसायाञ्च विडम्बने ॥
7.20.121 · p. 245
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 शु (wrong syllable)
भवेद्विहननं विघ्ने तूलपिञ्जलहिंसयोः ।विषयित्पिन्द्रिये क्लीबं विषयासङ्गतेऽन्यवत् ॥
7.20.122 · p. 245
अनुष्टुप्
पुमान्नरपतौ कामदेवे वैषयिकेऽपि च ।विश्वक्सेनो वासुदेवे गन्धफल्यामपि स्त्रियाम् ॥विलेपनी यवाग्वान्तु सुरेशवरयोषिति ।विलासी तु स्मरे कृष्णे हरे भुजगभोगिनोः ॥
7.20.123 · p. 245
अनुष्टुप्
विश्वप्सा पुंसि मिहिरे वीतिहात्रे सुधाकरे ।वृक्षादनी स्त्री वृन्दायां विदरीकन्दकेऽपि च ॥
7.20.124 · p. 245
अनुष्टुप्
वैरोचनो वलौ बुद्धे सिद्धे सूर्याग्निपुत्रयोः ।शिखरी द्रुममात्रे स्यादपामार्गे महीधरे ॥शिखण्डिनी स्त्रियां यूथीगुञ्जयोः प्रमदाभिदि ।शिखण्डी वैरिगाङ्गेयकपालबर्हिणेषु च ॥शृङ्गारी तु सशृङ्गारे सुवेशे गजपूगयोः ।भवेच्श्लेष्मधना मल्लीकेतक्योरपि च स्त्रियाम् ॥
7.20.125 · p. 245
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
सम्मृर्च्छनन्तु मोहे स्यादभिव्याप्तौ तथोच्छ्राये ।समुत्थानं समुद्योगं व्याधिनिर्णययोरपि ॥
7.20.126 · p. 246
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 च्छ्रा (wrong syllable)
सदादानो गन्धहस्तिन्यैरावतगणेशयोः ।सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च ।सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥समापनं परिच्छेदप्रमापनसमाप्तिषु ।सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् ।स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् ।समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् ।भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् ।सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् ।सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः ।सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥
7.20.127 · p. 246
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 द (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
सुदामा गोपभेदे स्यात्समुद्राचलयोः पुमान् ।सौदामनी विद्युति स्त्री विद्युद्भेदेऽप्सरोभिदि ॥हर्षयित्नुः सुते पुंसि क्लीबलिङ्गन्तु काञ्चने ।
7.20.128 · p. 246
अनुष्टुप्
तथातिसर्ज्जनं दाने रोगेऽपि च नपुंसकम् ॥
7.20.129 · p. 246
अनुष्टुप्
अपवर्जनं निर्वाणे त्यागे दाने च न द्वयोः ।अपसर्जनमाम्नाते दाने च परिवर्जने ॥
7.20.130 · p. 246
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नं (wrong syllable)
ज्येष्ठभातृ-धातृ-विप्रेष्वग्रजन्मा निगद्यते ।विसर्गेऽक्षरमात्रे स्यादभिनिष्ठानमित्यपि ।चण्डाले प्रान्तगे शिष्ये चान्तेवासी भवेत्पुमान् ॥
7.20.131 · p. 246
अनुष्टुप्metre not read in every line
स्नानेऽप्या चमने स्पर्शे स्यादुपस्पर्शनं तथा ।सुसंस्कृते विनिहते उपसम्पन्नमीरितम् ॥
7.20.132 · p. 246
अनुष्टुप्
धातुवादरते कांश्यकारे कारन्धमी पुमान् ।स्वच्छन्दे चटके कामे कामचारी भवेत्पुमान् ॥इक्ष्यौ वेणौ पोटगले किष्कुपर्वा पुमानयम् ।अग्नौ राहौ दुराचारे कृष्णवर्मा निगद्यते ॥कपिभिद्गन्धकभृङ्गे पुंसि स्याद्गन्धमादनः ।पर्वते न स्त्रियामेष सुरायां गन्धमादनी ॥मार्कण्डेये विधौ कङ्के चिरजीवी भवेत्पुमान् ।यमे जाम्बवति क्ष्माभृत्कपिराक्षसभित्सु च ॥
7.20.133 · p. 246
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
अमेरुद्रुमभिदो(?)र्ना जम्बुमाली निगद्यते ।स्यात्क्लीबं दन्तशुद्धौ ना खदिरे दन्तधावनः ॥केतुग्रहे हुताशे च स्यात्पुमान् धूमकेतनः ।शिवे सुते च पक्षान्ते मित्रे ना नन्दिवर्द्धनः ॥दाने च प्रतिपत्तौ च बोधने प्रतिपादनम् ।भुजङ्गे च मयूरे च प्रचलाकी भवेत्पुमान् ॥धनदे भास्करे विष्णौ विधौ च पद्मलाञ्छनः ।वाग्देवतायां तारायां पद्मायां पद्मलाञ्छना ॥कालीयके हरिद्रायां न द्वयोः पीतचन्दनम् ।भीमे षेष्ठे च महिष पृष्ठशृङ्गी भवेत्पुमान् ॥देवदारुणि कालीये न द्वयोर्वरचन्दनम् ।स्त्रीरत्नरोचनालाक्षाहरिद्राफलिनीषु च ॥साध्व्यां गौरीसरस्वत्योः पद्यायां वरवर्णिनी ।वासुदेवे मधुकरे स्यात्पुंसि मधुसूदनः ॥
7.20.134 · p. 247
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 भि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
शातकुम्भे कुसुम्भे च महारजनमुच्यते ।श्रीफले द्रोणकाके च त्र्यम्बके मृत्युवञ्चनः ॥
7.20.135 · p. 247
अनुष्टुप्
गोविन्दे वनमाली स्याद्वाराह्यां वनमालिनी ।राज्ञि वैषयिके पुंसि विषयेध्मास्मरेऽपि च ॥
7.20.136 · p. 247
अनुष्टुप्
देवशिल्पिनि चण्डांशौ विश्वकर्मा मुनावपि ।विघातिघोरदृष्ट्योस्तु विघ्नकारी पुमान्भवेत् ॥महेशे दैत्यभेदे स्याद् वृषपर्वा पुमानयम् ।विहङ्गे देवतायाञ्च व्योमचारी भवेत्पुमान् ॥शाकभेदे कृष्णभेद्यां स्त्रियाञ्च शकुलादनी ।मुनिभेदे नन्दिनि स्याच् शालङ्कायन इत्यपि ॥
7.20.137 · p. 247
अनुष्टुप्
भृङ्गरोट श्रीधरे च शैले च शिवकीर्तनः ।धनञ्जये हिमकरे मकरे श्वेतवाहनः ॥कुञ्जरे धान्यभेदे च स्यात्पुमान् षष्टिहायनः ।कर्पूरफेणचन्द्रेषु श्वेतधामा पुमानयम् ॥कामुके च कलाकेलौ संप्रयोगी निगद्यते ।स्वर्गद्रुमे पुमान्क्लीबं गोशीर्षे कुङ्कुमेऽपि च ॥
7.20.138 · p. 247
अनुष्टुप्
ज्योत्स्नायां स्यान्मलयजे कान्ताङ्गे हरिचन्दनम् ।महेन्द्रे गरुडे सूर्ये स्यात्पुमान् हरिवाहनः ॥
7.20.139 · p. 248
अनुष्टुप्
अन्तावसायी मुनिभिन्नापितश्वपचेषु ना ।कलानुनादी भ्रमरे कलविङ्के कपिजले ॥
7.20.140 · p. 248
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 पि (wrong syllable)
जायानुजीवी विहगे नटे वेश्यापतिष्वपि ।सहस्रवेधि तु क्लीबं रामठे पुंसि वेतसे ॥
7.20.141 · p. 248
अनुष्टुप्