कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

अनेकार्थसंग्रहः · पकारादयः

[अथ] पकारादयो यथा ।

पदं त्राणे क्रमे स्थानेऽपवादव्यवसाययोः ॥ २८३ ॥
5.19.283 · p. 198
विभक्त्यन्तेऽथ पादस्तु रश्मौ प्रत्यन्तपर्वते ।तुर्यांसे तरुमूलेऽथ पद्मो व्यूहेऽहिसंख्ययोः ॥ २८४ ॥
5.19.284 · p. 198
अनुष्टुप्
पद्मं तु पङ्कजे हस्तिबिन्दुष्वपि च पल्लवे ।पीथं जले रवौ पीथः पद्मा लक्ष्म्यां प्लवः कपौ ॥ २८५ ॥
5.19.285 · p. 198
अनुष्टुप्
भेकचण्डालयोः प्लक्षे वारिवायसशब्दयोः ।पुष्पं याने कुबेरस्य कुसुमे स्त्रीरजस्यपि ॥ २८६ ॥
5.19.286 · p. 198
अनुष्टुप्
नेत्ररोगे विकाशे च पक्षः पिच्छे ग्रहे च ये ।विरोधे केशहस्ते च साध्ये मासार्धपार्श्वयोः ॥ २८७ ॥
5.19.287 · p. 198
अनुष्टुप्
पणो ग्लहे भृतौ कार्षापणे मूल्ये वराटके ।पाको दैत्ये शिशौ पाके पात्रं भाजनदेहयोः ॥ २८८ ॥
5.19.288 · p. 198
अनुष्टुप्
पत्राणां निचये योग्ये पत्री बाणे खगे रथे ।श्येने पालिः स्मृता सेतौ कर्णपाल्यां स्थितौ ततौ ॥ २८९ ॥
5.19.289 · p. 198
अनुष्टुप्
पत्रं पक्षे दले भूर्जे वाहनेऽपि निगद्यते ।पोत्रं शूकररक्त्राग्रे हलाग्राम्बरयोरपि ॥ २९० ॥
5.19.290 · p. 198
अनुष्टुप्
पीलुः काण्डे तरौ पुष्पे परमाणौ मतङ्गजे ।पृथुर्भूपे विशाले च पुरं मन्दिरदेहयोः ॥ २९१ ॥
5.19.291 · p. 199
अनुष्टुप्
गुग्गुलेऽपि पुरः प्रोक्तः पुरुः स्वाद्रागपूरयोः ।स्वर्लोके प्रचुरे चाथ पारी पूरपरागयोः ॥ २९२ ॥
5.19.292 · p. 199
अनुष्टुप्
पात्र्यां कर्करिकायां च हस्तिनां पादबन्धने ।प्रस्थः सानौ तटे माने प्राणो गन्धरसे बले ॥ २९३ ॥
5.19.293 · p. 199
अनुष्टुप्
वायौ हृदयवायौ च पुस्तं पुस्तकशिल्पयोः ।पार्ष्णिरुन्मदयोषायामंह्रिमूलेथ पूरिते ॥ २९४ ॥
5.19.294 · p. 199
अनुष्टुप्
खातादावपि पूर्तं स्यात्पृषद्बिन्दौ मृगान्तरे ।प्लुतस्त्रिमात्रकेऽप्युक्तः प्लुतं वाजि[28]गतावपि ॥ २९५ ॥
5.19.295 · p. 199
अनुष्टुप्
पुण्ड्रः कीटे च वासन्त्यां चित्रके तिलकेऽपि च ।इक्षुभेदे पुण्डरीके पशुर्मेषे मृगान्तरे ॥ २९६ ॥
5.19.296 · p. 199
अनुष्टुप्
पौषं युद्धे क्षणे पौषो मासभेदेऽपि सम्मतः ।पूगं वृन्दे फले पूग्याः पयो दुग्धे जलेऽपि च ॥ २९७ ॥
5.19.297 · p. 199
अनुष्टुप्
पिङ्गा गोरोचनागौर्योः पिङ्गं बालकपीतयोः ।पिण्डः सिह्ले जपापुष्पे वोलेऽपि कवलाङ्गयोः ॥ २९८ ॥
5.19.298 · p. 199
अनुष्टुप्
पण्डः क्लीबे जडे पण्डा तत्त्वबुद्धौ स्मृता बुधैः ।पाण्डुर्गदान्तरे वर्णभेदे राजान्तरेऽपि च ॥ २९९ ॥
5.19.299 · p. 200
अनुष्टुप्
पिच्छः पुच्छे कचे वाजे क्लीबलिङ्गमुदाहृतम् ।पिञ्जा तूला हरिद्रा च पुष्टिर्वृद्धौ च पोषणे ॥ ३०० ॥
5.19.300 · p. 200
अनुष्टुप्
पल्लिर्भिल्लादिवासे स्यात्प्रजा संतानलोकयोः ।पक्तिस्तु गौरवे पाके पलं मांसे मितावपि ॥ ३०१ ॥
5.19.301 · p. 200
अनुष्टुप्
प्लक्षो द्वीपे वटे स्वच्छे पटुर्नीरोगदक्षयोः ।पर्व ग्रन्थौ पुराणाङ्गे दर्शप्रस्तावयोरपि ॥ ३०२ ॥
5.19.302 · p. 200
अनुष्टुप्
पट्टः चतुष्पथे पीठे व्रणस्यापि निबन्धने ।पतंगः शलभे सूर्ये पतंगं पारदे स्मृतम् ॥ ३०३ ॥
5.19.303 · p. 200
अनुष्टुप्
प्रसवः शाखिनां पुष्पे फले गर्भस्य मोचने ।पुलाकः क्षुद्रधान्यांशे संक्षेपे भक्तसिक्थके ॥ ३०४ ॥
5.19.304 · p. 200
अनुष्टुप्
पर्यङ्को मञ्चके तन्त्रेऽप्यर्भके पृथुकः पुनः ।चिपिटेऽथ प्रमाणं स्यात्सत्ये माने च कारणे ॥ ३०५ ॥
5.19.305 · p. 200
अनुष्टुप्
प्रकाशः प्रकटे रोगे प्रद्योते पुंगवो गवि ।शब्दोत्तरस्थितः श्रेष्ठे पर्जन्यो वासवेन्द्रयोः ॥ ३०६ ॥
5.19.306 · p. 200
अनुष्टुप्
पर्याप्तं तु निषेधे स्याद्यथेच्छापूर्णशक्तिषु ।प्रदरो रोगभीत्योः स्यात्पललं मांसपङ्कयोः ॥ ३०७ ॥
5.19.307 · p. 201
अनुष्टुप्
परुषं कर्कशे रूक्षे पुद्गलः कायवित्तयोः ।प्रधानं प्रकृतौ पूज्ये महामात्रात्मनोरपि ॥ ३०८ ॥
5.19.308 · p. 201
अनुष्टुप्
पल्लवो नवपत्रे स्याद्धूर्तशृङ्गारयोरपि ।पुलकोऽथाश्रुसंताने रोमाञ्चे कृमिभिद्यपि ॥ ३०९ ॥
5.19.309 · p. 201
अनुष्टुप्
प्रवालो विद्रुमे वीणादण्डे पादपपल्लवे ।पलाशो राक्षसे वर्णभेदे वृक्षान्तरेऽपि च ॥ ३१० ॥
5.19.310 · p. 201
अनुष्टुप्
प्रघणस्ताम्रकुम्भे यो मुद्गरेऽलिन्दके तथा ।प्रणयः प्रार्थनाप्रेमविश्रम्भेषु निगद्यते ॥ ३११ ॥
5.19.311 · p. 201
अनुष्टुप्
पिण्डारो महिषीपाले याचके द्रमभिद्यथ ।पिचुलो झाबुके नीरवायसे निचुलेऽपि च ॥ ३१२ ॥
5.19.312 · p. 201
अनुष्टुप्
पाचलोऽग्नौ समीरे च पिङ्गला स्नायुवेश्ययोः ।पेचको गजलाङ्गूलमूले घूके निशाचरे ॥ ३१३ ॥
5.19.313 · p. 201
अनुष्टुप्
परञ्जस्तैलयन्त्रेऽसौ क्षुरिकाफलफेनयोः ।पिच्चटं [29] सीसके रङ्गे पूत्यण्डो गन्धकीटके ॥ ३१४ ॥
5.19.314 · p. 201
अनुष्टुप्
गन्धैणे पक्षिणी पौर्णमासी शाकिन्यपि स्मृता ।परिवापोऽसिकोशेऽम्बुस्थाने वपनतन्त्रयोः ॥ ३१५ ॥
5.19.315 · p. 201
अनुष्टुप्
परिबर्हः परीवारे राज्ययोग्ये च वस्तुनि ।स्मृतः पुष्कलकः स्थाणौ पूतिकाष्ठं सुरद्रुमे ॥ ३१६ ॥
5.19.316 · p. 202
अनुष्टुप्
पुण्डरीकं कजे श्वेते श्वेतच्छत्रेऽपि कथ्यते ।दिग्गजे राजिलाहौ च पुण्डरीकः कमण्डलौ ॥ ३१७ ॥
5.19.317 · p. 202
अनुष्टुप्
पुरस्कृतोऽग्रगे शस्ते प्रतिक्षिप्तो निराकृते ।पितामहः पितुस्ताते ब्रह्मण्यपि च कथ्यते ॥ ३१८ ॥
5.19.318 · p. 202
अनुष्टुप्
परायणोऽप्यथासक्ते कार्त्स्न्ये पारायणं स्मृतम् ।पाञ्चजन्यो हरौ पोटगले शङ्खे हरेरपि ॥ ३१९ ॥
5.19.319 · p. 202
अनुष्टुप्
परिधायो नितम्बे स्यात्परिवारे जलाशये ।पात्रटीरो जरत्पात्रे हुताग्नौ लोहकांस्ययोः ॥ ३२० ॥
5.19.320 · p. 202
अनुष्टुप्
प्रचलाको भुजंगेऽपि शराघातशिखण्डयोः ।चुचुके सेवने सूत्रे स्मृतं पिप्पलकं बुधैः ॥ ३२१ ॥
5.19.321 · p. 202
अनुष्टुप्
परपुष्टा वारयोषा परपुष्टः पिके स्मृतः ।प्रजापती रवौ सूर्यवेधसोः पाचके नृपे ॥ ३२२ ॥
5.19.322 · p. 202
अनुष्टुप्
पारिजातस्तु मन्दारे पारिभद्रेऽपि कथ्यते ।फलं हेतुकृते लाभे फणा सर्पफटे स्मृता ॥ ३२३ ॥
5.19.323 · p. 202
अनुष्टुप्
जटामन्थानकुण्डल्योः फटा च फणदम्भयोः ।फाल्गुनो मासभेदे स्यादर्जुनाख्ये तरावपि ॥ ३२४ ॥
5.19.324 · p. 202
अनुष्टुप्
फेनिलं बदरे कामफले रिष्टेऽपि कथ्यते ।फालकस्तु गतौ वीरभेदे दिव्येऽपि सम्मतः ॥ ३२५ ॥
5.19.325 · p. 203
अनुष्टुप्
फेरवो राक्षसे फेरौ स्वर्गलोके फलोदयः ।
5.19.44 · p. 203