कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

नानार्थस्कन्धः · णान्ताः

ढान्ताः ॥

एकणः ।

णः प्रेमबन्धने स्या-दफले णुस्तु स्तुतौ प्रोक्तः ।
6.15.1 · p. 193
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 18 दिं (wrong syllable)

द्विणाः ।

धान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवेकृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे ।कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक-श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु ।व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो-ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः ।ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौमूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः ।संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणोघ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् ।काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौबाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥
6.15.3 · p. 193
शार्दूलविक्रीडितम्metre not read in every line
झिण्ट्यां तु द्वितये द्वयोस्तु निकषे शाणः प्रदिष्टो बुधैःकर्षांशे करपत्रके नरि मतः शाणी तु वस्त्रान्तरे ।त्रायन्त्यामवनेऽन्तिमेऽथ परवत्त्राणं भवेद्रक्षितेप्राणो हृत्पवने शिशौ च कवितासारे बले चानिले ॥ ४ ॥
6.15.4 · p. 194
शार्दूलविक्रीडितम्
प्रायो भूम्न्यसुषु त्रिषु त्वयमिह स्यात्पूरितेऽथ द्रुणंचापेऽसौ च पुमांस्तु वृश्चिकगतो भृङ्गेऽथ कूर्म्यां द्रुणी ।वार्द्रोण्यां च कृपीपतौ तु गदितः पुंस्याढके तच्चतु-ष्के द्रोणः करटेऽसिते द्रुणिरिव द्रोणी च नीवृद्भिदि ॥ ५ ॥
6.15.5 · p. 194
शार्दूलविक्रीडितम्
काष्ठाद्यै रचितासु नौषु च गवां घासादिभोज्यस्थितौमोणः शुष्कफले करण्ड उदितः स्यान्मक्षिकादावपि ।कण्ठाल्यां तु भवेत्स्त्रियामथ भवेद्गौणी च*त्रन्तरेभेद्ये स्या[279a]द्गुणयोगिकेऽथ रविजे वाद्यान्तरेऽस्रौ पुमान् ॥ ६ ॥
6.15.6 · p. 194
शार्दूलविक्रीडितम्metre not read in every line
वीणावादनसाधने च लगुडे गेहैकदेशे तथाकोणः कोकनदच्छवावरलुके रक्ते हयेऽग्नौ नदे ।शोणोऽथार्भकगर्भयोर्नरि भवेद्भ्रूणस्तु गर्भेऽस्त्रियांतीक्ष्णं लोहविषाजिमुष्किमरके तिग्मे तु भेद्यानुगम् ॥ ७ ॥
6.15.7 · p. 194
शार्दूलविक्रीडितम्
क्षारे पुंस्यथ कर्ण आदिमगतो राधासुते च श्रुतौचूर्णस्त्विन्दुपलाशिनोरथ मखे स्वर्णं तथा हेम्नि च ।********** यशःस्तुत्योः कुथायां गुणेवर्णोऽस्त्री तु विलेपनाक्षरभिदा रूपे द्विमुक्कुङ्कुमे ॥ ८ ॥
6.15.8 · p. 194
शार्दूलविक्रीडितम्metre not read in every line
पर्णः पुंसि तरौ दले तु गमने पाने सहाये तथासौपर्णेयपतत्रके च चरमे जर्णो जरच्चन्द्रयोः ।जीर्णः स्यात्तरुशीर्णयोरितरवत्पूर्णस्तु शब्दे पुमां-स्त्रय्यां पूरितकृत्स्नयोरथ भवेज्जीर्णं सुपक्वेऽपि च ॥ ९ ॥
6.15.9 · p. 195
शार्दूलविक्रीडितम्
चूर्णः क्षोदे क्षारभेदे च वास-युक्तौ कीर्णं छन्नविक्षिप्तनष्टे ।दीर्णं भीते दारिते वाच्यलिङ्गं [279b]स्थूणा सूर्म्यां वेश्मनः स्तम्भकेऽपि ॥ १० ॥
6.15.10 · p. 195
शालिनीmetre not read in every line
ऊर्णो वर्ते स्याद्भ्रुवोर्लोम्नि च स्या-न्मेषादीनां पुंसि तूष्णो निदाघे ।उद्योते चाथान्यवद्दक्षवाचीतृष्णा त्विच्छा पातुमिच्छा च शस्ता ॥ ११ ॥
6.15.11 · p. 195
शालिनी
वीणा विद्युद्वल्लक्योः स्या-च्छ्राणं लोहे वाच्यवत्पक्ववाचि ।स्त्रीलिङ्गे तु स्याद्यवाग्वां जुगुप्सा-नुक्रोशार्थे त्वत्र शस्ता घृणापि ॥ १२ ॥
6.15.12 · p. 195
शालिनीmetre not read in every line
कृष्णो विष्णुपराशरात्मजसुभद्रेशेषु काके पिकेस्त्री द्राक्षाद्रुपदात्मजामगधजानीलीषु षण्ढे पुनः ।लोहे स्यान्मरिचे च मेचकवति त्रय्यां च जिष्णुः पुनःकृष्णे भास्वति वासवे च विजये जेतर्यसौ वाच्यवत् ॥ १३ ॥
6.15.13 · p. 195
शार्दूलविक्रीडितम्
देष्णुर्दातरि दुर्दमे च परवत् गेष्णुर्नटे गायकेवृष्णिर्यादवमेषयोस्त्रिषु पुनः पाखण्डचण्डार्थकः ।पश्चाद्भागकपादमूलसमदस्त्रीकुम्भिकासु द्वयोःपार्ष्णिः श्रेणिरभिन्नशिल्पिनिकरे पङ्क्तौ स्त्रियां पुंसि च ॥ १४ ॥
6.15.14 · p. 195
शार्दूलविक्रीडितम्
वेणिः[280a]केशनिबन्धने च सरितोः स्यात्संगमे च स्त्रियां ।जीमूताभिधभेषजे मणिरजाकण्ठस्तने गोलके ।रत्ने मेहनकाग्रके च युगुलेऽणिस्त्वाणिरक्षाग्रकेकीलेऽश्राववधौ द्वयोरथ कुणिस्तुन्नद्रुमे कोकिले ॥ १५ ॥
6.15.15 · p. 196
शार्दूलविक्रीडितम्metre not read in every line
भेद्याभः कुकरे गुवाकुभिदि तु झूणिः स्त्रियां दुःसुर-स्तुत्यां चाथ कपर्दकीयशतके भाष्येऽपि चूर्णिः स्त्रियाम् ।भूर्णिः स्त्री भुवि पोषके तु परवज्जूर्णिस्तु कान्ता ज्वरेसंतापिन्यपरोपमोऽथ जलदे मूल्ये च वाणिः पुमान् ॥ १६ ॥
6.15.16 · p. 196
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 1, syllable 12 तु (wrong syllable)
व्यूतौ स्त्री च निषङ्गके त्रिषु भवेत्तूणोऽथ नील्यां स्त्रियांवाणी तु श्रुतिभारतीद्वयगता फाणिस्तु खर्वे गुडे ।ऊर्म्यर्चिः किरणेषु पुंसि च घृणिः स्थाणुः पुमाञ्शंकरेन स्त्री स ध्रुवकीलयोरथ नृपे वंशे च वेणुः पुमान् ॥ १६ ॥
6.15.16 · p. 196
शार्दूलविक्रीडितम्
मुष्णस्तु सूर्येऽप्यनले च दिष्टोवेणुर्नदे देशविशेषके च ।सृणिः पुमान्वायुरवीन्दुवाचीस्त्री[280b]पुंसयोरङ्कुशवाचकश्च ॥
6.15.17 · p. 196
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 सृ (wrong syllable)
धूलौ रेणुरपि द्वयोर्नरि पुनः स्यात्पर्पटाह्वौषधेसूक्ष्मेऽल्पे च परोपमोऽथ च किणो न स्त्री व्रणाङ्के घुणे ।
6.15.18 · p. 196
शार्दूलविक्रीडितम्

त्रिणाः ।

पुंसि स्यादरुणो रवौ च गरुडज्येष्ठे च रागेऽस्फुटेसांध्ये शब्दविवर्जिते च कपिले कुष्ठे भवेदन्तिमे ॥ १७ ॥
6.15.17 · p. 196
शार्दूलविक्रीडितम्
मञ्जिष्ठातिविषात्रिवृत्सु वनिता तद्रागवत्स्वन्यव-द्वृक्षे पुंसि रसान्तरे च करुणः प्रोक्तो दयायां स्त्रियाम् ।सूर्ये वारिपतौ तरौ च वरुणोऽथो कुब्जपुष्पे भवे-देरण्डे तरुणः स यूनि परवत्स्याद्दारुणो ना रसे ॥ १८ ॥
6.15.18 · p. 196
शार्दूलविक्रीडितम्
स्वर्लोके परमेष्ठिनीह वरुणो गोत्रे तु मूले पदेशाखादौ भ्रमणे स्त्रियां न चरणोऽन्त्ये रासभे च ध्वनौ ।रक्षोभिद्रसयोस्तु पुंसि लवणः कान्तौ स्त्रियामन्यव-त्तद्युक्ते करणस्तु वैश्यवृषलीपुत्रे च काये कृतौ ॥ १९ ॥
6.15.19 · p. 197
शार्दूलविक्रीडितम्
क्षेत्रे साधन इन्द्रियेऽङ्गहरणे क्षेत्रे च गीते तथाक्लीबे स्याद्बवबालवप्रभृतिषु स्यात्त्वन्तिमे हिङ्गुनि ।जी[281a]रे स्याल्लवणान्तरेऽपि जरणं मानान्तरे धारणेक्षोण्यां स्त्री धरणं प्रिये तु रमणः पाटोलमूलेऽन्तिमे ॥ २० ॥
6.15.20 · p. 197
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
स्याच्छून्योषरयोस्त्रिलिङ्गमिरिणं क्लीबे तु नित्यं गृहेत्राणे त्रातरि हिंसने च शरणं स्याद्वारिपर्ण्यां पुनः ।क्लीबे कत्तृणमीरितं तृणभिदि त्राणे पुनर्यन्त्रणंन स्यात्पुंसि च बन्धने नियमनेऽथो मुद्गरे ब्रह्मणि ॥ २१ ॥
6.15.21 · p. 197
शार्दूलविक्रीडितम्
पर्शौ च द्रुघणोऽथ पुंसि हरिणः प्रोक्तः कुरङ्गेऽन्यव-त्पाण्डौ श्वेतकशुक्रकाञ्चनगतः क्लीबेऽथ चारुस्त्रियाम् ।अर्चायां कनकस्य किंच हरितायां वृत्तभेदे स्त्रियांमृग्यां च प्रघणस्तु ताम्रकलशेऽलिन्देऽप्यसौ मुद्गरे ॥ २२ ॥
6.15.22 · p. 197
शार्दूलविक्रीडितम्
आवर्ते प्रणते च दातरि वहौ क्षीणे क्रमान्निम्नक-क्ष्याभागे प्रवणोऽन्यवत्क्षणगतोऽप्यस्त्री तु शृङ्गाटके ।बन्द्यां स्वीकरणे करेऽधिगमने राहूपरागे तथा-दृत्यां च ग्रहणं दृशीक्षणमपि ज्ञाने तथा दर्शने ॥ २३ ॥
6.15.23 · p. 197
शार्दूलविक्रीडितम्
सेके प्रोक्षणमीरितं च हननेऽथो लक्षणो लक्ष्म[281b]णःसौमित्रौ नरि सारसे च चरमेत्याख्यासु चिह्नेष्वपि ।सारस्यौषधिभेदगौ तु वनिते स्तो दक्षिणस्त्वन्यव-त्प्रोक्तो दक्षिणजे वदान्यसरलान्यच्छन्दवर्तिष्वपि ॥ २४ ॥
6.15.24 · p. 197
शार्दूलविक्रीडितम्metre not read in every line
याम्यायां दिशि यज्ञदानविधिषु स्त्री तत्प्रतिष्ठास्वथस्निग्धाकर्कशयोस्त्रये च मसृणोऽथ स्यात्क्षुमायां स्त्रियाम् ।पुंसि द्वावुषणोषणौ रसभिदि स्त्रीत्वे कणायामिमौक्लीबे स्तो मरिचेऽथ पुंसि धिषणो वाचस्पतौ स्त्री धियि ।रतपरिभवयोः स्याद्धर्षणं स्त्रीत्वसत्यांनयनरुजि यमे स्याद्धर्षणो योगभेदे ।हरणमपि विवाहस्वे भुजे स्याद्धृतौ चश्रवणमपि हृतस्त्रि श्रोत्रतत्कर्मणोश्च ॥ २६ ॥
6.15.26 · p. 197
शार्दूलविक्रीडितम्two metres in one verse
उडुभिदि तु युगे स्याच्छ्रावणो मासभेदेऽतनुमतनिगमे च स्त्री तु दध्यालिकायाम् ।श्रमण इह कुजीविन्युच्यते भिक्षुभेदेरुचिररुचि तु मुण्ड्यां मांसिकायां तु योषित् ॥ २७ ॥
6.15.27 · p. 198
मालिनी
स्याद्भीषणो दारुणगाढवाचीत्रये रसे कु[282a]न्दुरुकीभवेऽन्त्ये ।कल्याणमक्षय्यहिरण्यभद्रेखड्गे कृपाणश्छुरिकादिषु स्त्री ॥ २८ ॥
6.15.28 · p. 198
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 त्र (wrong syllable); pāda 2, syllable 5 कु (wrong syllable)
सिङ्घाणस्तु बलास-फेने स्यादादिलिङ्गस्थः ।नासायोमलगामीक्लीबे काचस्य पात्रेऽपि ॥ २९ ॥
6.15.29 · p. 198
metre not recognised
प्रमाणं ध्रुवे हेतुनीत्यादिशास्त्रेपरिच्छेदने चैकतायां तथोक्तम् ।प्रमातर्यपि प्रायशः क्लीब ऐक्येऽ-ऽप्यथो कोङ्कणं शस्त्रभेदेऽपि च * ॥ ३० ॥
6.15.30 · p. 198
भुजङ्गप्रयातम्metre not read in every linenearly भुजङ्गप्रयातम्
समञ्जसे निर्मितिसारयोश्चदैवेऽपि निर्माणमुशन्ति विज्ञाः ।अपाङ्गदेशे करिणां च मोक्षेनिर्याणमुक्तं किल निर्गमेऽपि ॥ ३१ ॥
6.15.31 · p. 198
उपजातिः
निर्वाणं गजमज्जने स्तिमितके मुक्तौ च निर्वर्तनेकुर्वाणस्त्रिषु कारके भृतिभुजि प्रोन्मृष्टपर्णे पुनः ।दौर्वीणं हरितारसे त्रिषु पुनः स्याद्वर्जने वारणंनागे पुंस्यथ यातनाकरणयोर्हेतौ वधे कारणम् ॥ ३२ ॥
6.15.32 · p. 199
शार्दूलविक्रीडितम्
बाणे ना त्रिषु याचके विचयने त्वन्त्येऽर्थने मार्गणंभेद्याभः कृमिकुत्स्ययोश्च कृपणोऽप्युक्तोऽभिचारे पुनः ।अन्त्ये कर्मकरे तु कार्मण इह स्याद्वाच्यवन्मत्कु[282b]ण-स्तूक्तोऽश्मश्रुणि पूरुषेऽरद इभे चोद्दंशतुङ्गद्रुषु ॥ ३३ ॥
6.15.33 · p. 199
शार्दूलविक्रीडितम्metre not read in every line
सर्पे शाखिनि धर्मणोऽथ करगे सूत्रेऽस्त्रियां शेखरेभूषाभिद्यपि कङ्कणोऽथ पुरणश्चन्द्रे समुद्रे नरि ।स्यात्पिष्टान्तरवाचि पूरणमथ त्रय्यां भवेत्पूरितेशा[ल्म]ल्यां पटसूत्रके च वनितालिङ्गे भवेत्पूरणी ॥ ३४ ॥
6.15.34 · p. 199
शार्दूलविक्रीडितम्
सुग्रीवे करमर्दके भिषजि च श्रीशे सुषेणः पुमा-************* द्रोषणः कोपने ।कुष्ठेऽन्त्ये पशुशृङ्गनागरदयोस्त्रय्यां विषाणं स्त्रियांकाकोल्यामजशृङ्गिकास्वथ करेणुः स्याद्गरेणुस्तथा ॥ ३५ ॥
6.15.35 · p. 199
शार्दूलविक्रीडितम्metre not read in every line
इभ्यां स्त्री नरि कर्णिकारकरिणोः केचिद्धरेणुः पुन-र्वा स्त्री खण्डिकरेणुकाकुलवधूषूक्तोऽथ हेम्नि क्रतोः ।भेदे विस्तकवित्तयोरपि सुवर्णालौ सुवर्णोऽस्त्रियांसंपाके गरुडे च काञ्चनशिखे प्रोक्तः सुपर्णो बुधैः ॥ ३६ ॥
6.15.36 · p. 199
शार्दूलविक्रीडितम्
पद्मिन्यां गरुडस्य मातरि तथा स्त्रीलिङ्गभाक्संमतःश्रीपर्णं कमलेऽग्निमन्थहठयोः कुम्भ्यां स्त्रियां शाल्मलौ ।गम्भार्यां[283a]रजते तु युग्मरहितं दुर्वर्णमुक्तं बुधैःपत्रोर्णं त्वरलौ तथाम्बरभिदि त्रय्यां त्वशुद्धे चिते ॥ ३७ ॥
6.15.37 · p. 199
शार्दूलविक्रीडितम्metre not read in every line
संकीर्णं प्रमथान्तरेऽश्वतरके नागे मृगेऽनामिका-ङ्गुष्ठोन्मानगतश्च पुंसि गदितो गोकर्ण एवं बुधैः ।मूर्वायां वनितारणिस्तु मिथुने निर्मथ्यकाष्ठे पुमां-स्तर्क्वायांशरणिः स्त्रियां च सरणिः पङ्क्तौ तथा वर्त्मनि ॥ ३८ ॥
6.15.38 · p. 199
शार्दूलविक्रीडितम्
पतितधेनुसमुद्धृतियष्टिकां-शुरविसिन्धुगता तरणिर्द्वयोः ।तरितरुण्योषधिगा तु भवेत्स्त्रियांरविगता तु नरीत्यपरे जगुः ॥ ३९ ॥
6.15.39 · p. 200
द्रुतविलम्बितम्two metres in one verse
स्यात्पण्यवीथ्यां विपणिर्द्विलिङ्गा-पणे च पण्येऽथ भवेत्प्रवेणिः ।वेण्यां कुथायां भरणं तु वृत्तौडुगतं तु तत्स्त्री ॥ ४० ॥
6.15.40 · p. 200
उपजातिःmetre not read in every line
विलासयाने भ्रमणी प्रभोः स्या-त्करण्डिकायामथ धारणी स्यात् ।इन्द्राणी वनितेन्द्रियेन्द्रवनितानिर्गुण्डिकासूदितानौकादण्डकजालयोः समुदिता स्त्री क्षेपणी पण्डितैः ।दूर्वायामपि वारुणी वरुणदिङ्मद्यार्थिका चोदितानाराच्यां[283b]व्रतचारिणीष्वपि तुलाभेदे स्त्रियामेषणी ॥ ४२ ॥
6.15.42 · p. 200
उपेन्द्रवज्राtwo metres in one verse
सारिणी लघुनदीप्रसारिणी-वाचिका दशमुखस्य मन्त्रिणि ।पुंगतोऽतिसरणेऽथ काकिणीमानदण्डपणतुर्यभागयोः ॥ ४३ ॥
6.15.43 · p. 200
रथोद्धता
कृष्णलैकककपर्दयोस्तथातोयमानभिदि च प्रकीर्तिता ।रोहिणी तु कटुकागलामय-रक्तधेनुषु च सोमवल्कके ॥ ४४ ॥
6.15.44 · p. 200
रथोद्धता
ऋक्षभिद्यपि बलस्य मातरिब्राह्मणी भवति कञ्जिकाद्विजा ।स्पृक्किका नरि तु भूसुरेऽन्तिमेत्वीरिता श्रुतिभिदि द्विजव्रजे ॥ ४५ ॥
6.15.45 · p. 200
रथोद्धता
निःश्रेणिः पुनरधिरोहिणीषु योषित्खर्जूरीविटपिनि तद्वदीरितेयम् ।अर्याणी हरिणदृशि प्रभौ तथार्य-स्त्रीजातावथ तरुमूर्ध्न्यपि प्रघाणः ॥ ४६ ॥
6.15.46 · p. 201
प्रहर्षिणी
जीर्णे वाच्यसमं पुराणमयुगे स्यात्पञ्चलक्ष्मण्यपिग्रन्थे भोगिकनायके क्षुरिणि ना ग्रामाधिपे ग्रामणीः ।श्रेष्ठे च त्रितये स्त्रियां तु गदिता नील्यां च वारस्त्रियांग्राम्यायां च घृणौ तु[284a] पुंसि किरणो विक्षेपणे त्वन्तिमे ।द्रुमभित्सेतुशालेषु वरणो नान्तिमे वृतौ ।गुणिन्यृजौ च प्रगुणो रवणः शब्दने खरे ॥ ४८ ॥
6.15.48 · p. 201
शार्दूलविक्रीडितम्two metres in one verse
स्यान्नीलिकायां स्त्रीलिङ्गे ग्रामीणा ***** ।ग्रामीण उक्तः शुनि वायसे चग्रामोद्भवे तु त्रिषु पक्षिणी तु ।स्याच्छाकिनी पक्षिवधूषु पौर्ण-मासीभवद्भाविदिनस्थरात्र्योः ॥ ४९ ॥
6.15.49 · p. 201
इन्द्रवज्राmetre not read in every line

चतुर्णाः ।

तृप्त्यालिम्पनयोरातर्पणमाथर्वणः पुनः ।अथर्वज्ञे द्विजे वंशगुणे चारोहणं पुनः ॥ ४९ ॥
6.15.49 · p. 201
अनुष्टुप्
सोपाने च समारोहे कथितं च प्ररोहणे ।समुद्धृतावुद्धरणं वान्तान्नोन्मूलने तथा ॥ ५० ॥
6.15.50 · p. 201
अनुष्टुप्
स्याद्रक्तरेणुर्युजि नागरक्तेपलाशकल्युद्गमने च तद्वत् ।उत्क्षेपणं तु व्यजने च धान्य-विमर्दवस्तुन्युदितः प्रवीणैः ॥ ५१ ॥
6.15.51 · p. 201
उपजातिः
निगरणमशने कण्ठे पुनराधे चाथ निर्याणे ।मरणोपाये मुक्तौ निःसरणं प्रोक्तमाचार्यैः ॥ ५२ ॥
6.15.52 · p. 201
उपगीतिः
घण्टापथासंकटसैन्ययान-पूर्निर्गमद्वाररणोद्यमेषु ।संसारके संसरणं तथाहु-र्विदारणं यु[284b]द्ध विडम्बयोः स्यात् ॥ ५३ ॥
6.15.53 · p. 202
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 र्वि (wrong syllable); pāda 2, syllable 5 यु (wrong syllable)
भेदेऽप्ययोपायविनिर्गमेषुनिस्तारके निस्तरणं तथा स्यात् ।निदर्शनालोकविचारणेषुनिरूपणं ज्ञा विनिरूपयन्ति ॥ ५४ ॥
6.15.54 · p. 202
उपजातिः
नारायणो दैत्यरिपौ च वर्ण-भेदेऽन्तिमे यौगिकतैलवाची ।शतावरीशंकरयोषितोः स्त्रीपरायणं तत्पर आश्रये च ॥ ५५ ॥
6.15.55 · p. 202
उपजातिः
त्रय्यामभीष्टेऽप्यथ पारगत्यांतथा समासङ्गबहुत्ववाच्यपि ।पारायणं तत्र तुरायणं चमखान्तरे कामगुणस्तु रागे ॥ ५६ ॥
6.15.56 · p. 202
upajati mixed
आभोगके स्याद्विषयेऽथ कार्षा-पणो विकर्षापणवत्स्त्रियां न ।स्यात्कार्षिके षोडशके पणानांपारीरणः स्यात्कमठे च दण्डे ॥ ५७ ॥
6.15.57 · p. 202
उपजातिः
स्याच्छाटके चाथ समीरणः स्या-द्वाते फणिज्जे पथिके च पुंसि ।स्यात्पर्वरीणं दलनाडिकायांरसे दलादेर्घृतकम्बलेऽपि ॥ ५८ ॥
6.15.58 · p. 202
उपजातिः
पर्वण्यपि स्यादथतन्दुरीणःकीटे तथा तन्दुलतोयके च ।प्रवारणं वारणकामदाने-ऽध्वर्यौ हुताशे जुहुराण इन्दौ ॥ ५९ ॥
6.15.59 · p. 202
उपजातिः
दर्दराम्रे खञ्जरीटे मीना[285a]म्रीणो नृलिङ्गकः ।शिवे देवमणिर्वाजिकण्ठावर्ते च कौस्तुभे ॥ ६० ॥
6.15.60 · p. 203
अनुष्टुप्metre not read in every line
शिरोरत्ने काकचिञ्चाफले चूडामणिर्मतः ।अङ्कोटपादपे छागे लम्बकर्णोऽपि रासभे ॥ ६१ ॥
6.15.61 · p. 203
अनुष्टुप्
धर्माध्यक्षे परवत्परवाणिः पुंसि वर्षे च ।शरजीविनि शरवाणिःशरवक्त्रे किंच पापिष्ठे ॥ ६२ ॥
6.15.62 · p. 203
metre not recognised
गणभेदे तु पलाशेचैरण्डे हस्तिकर्णः स्यात् ।निम्बे तु शीर्णपर्णःखर्जूरीपादपे तद्वत् ॥ ६३ ॥
6.15.63 · p. 203
metre not recognised
स्याद्रागचूर्णो मदनेऽपि दन्त-प्रक्षालने रक्त*वालुकेऽपि ।स्यात्तैलपर्णी मलयोद्भवे स्त्रीश्रीवासके सिह्लकवाचिकापि ॥ ६४ ॥
6.15.64 · p. 203
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा
मूर्वौषधौ स्यादपि पीलुपर्णीबिम्ब्यामथो पुष्करिणी करिण्याम् ।स्यादम्बुजिन्यां सलिलाशये चदाक्षायणी त्वश्वयुगादिभेषु ॥ ६५ ॥
6.15.65 · p. 203
इन्द्रवज्रा
स्याद्रोहिणीशैलभुवोरथाङ्गा-रिणी हसन्त्यां रविमुक्तदिक्षु ।प्रेतापगायामपि यातुमात-र्युदीरिता वैतरिणी प्रवीणैः ॥ ६६ ॥
6.15.66 · p. 203
उपजातिः
शिखरिण्युक्ता वृत्तविशेषेरोमावल्यामुत्तमनार्याम् ।[285b]तद्वन्मल्लीनामनि वल्ल्यांभवति रसालानामनि तादृक् ॥ ६७ ॥
6.15.67 · p. 204
metre not recognised

पञ्चणाः ।

प्रतिरोधेऽवग्रहणं गदितं चानादरे तद्वत् ।प्रविदारणं तु युद्धे विदारणे चापि निर्दिष्टम् ॥ ६७ ॥
6.15.67 · p. 204
metre not recognised
अवतारणं तु वस्त्राञ्चलार्चनं भूतबाधायाम् ।परिभाषणं तु निन्दोपालम्भालापके नियमे ॥ ६८ ॥
6.15.68 · p. 204
metre not recognised
आलापेऽप्यथ दान क्लिन्नकरेभेऽप्यपाश्रये किंच ।प्रासादादिकवीथीवरण्डके मत्तवारणं प्राहुः ॥ ६९ ॥
6.15.69 · p. 204
गीतिः
कलिवृक्षे रोमाञ्चे भवति तथा रोमहर्षणं क्लीबे ।निष्फलपुंस्युन्मत्ते क्रकचे कीडे( ? )च कूटे च ॥ ७० ॥
6.15.70 · p. 204
आर्या
शरसंक्रमेऽपि तद्वद्विद्वांसो वातरायणं प्राहुः ।मण्डूकपर्ण उक्तोऽरलौ तथा शोणके प्लक्षे ॥ ७१ ॥
6.15.71 · p. 204
आर्या
स्त्रीलिङ्गे मञ्जिष्ठा गोजिह्वाब्राह्मिकासूक्तः ।
6.15.73 · p. 204
उपगीतिः

षण्णाः ।

दोहदलक्षणमुक्तं वयसः संधौ च गर्भे च ॥ ७२ ॥
6.15.72 · p. 204
उपगीतिः
सामान्यलक्षणं तु स्यामान्द्ये सामान्यतो मतौ ।कुचलावण्यशोभासु भवेद्यौवनलक्षणम् ॥ ७३ ॥
6.15.73 · p. 204
अनुष्टुप्