वटद्रुम
vaṭadrumaIn 3 kośas: 0 synonym verses, 4 as a meaning of another word.
वटद्रुम as a meaning in nānārtha verses
- धरणिकोश ध्रुवध्रुवः शिवे स्याद्वसुयोगभेदयो- र्नित्ये च कीले च वटद्रुमे च । स्रुग्गीतिभेदावपि ? सालपर्णिका ध्रुबा स्मृता निश्चिततर्कयोर्ध्रुबम् ॥ Dharaṇikośa 22.3.2
- कोषकल्पतरु नन्दिन्यादःपतौ पाशधरे च पाशी नन्दी तु शंभोः प्रतिहारभेदे । ना गर्दभाण्डे [च] वटद्रुमे च ननान्दरि स्त्री च वसिष्ठधेन्वा[18a]म् ॥ ७८ ॥ Koṣakalpataru 6.21.78
- शब्दरत्नावली नन्दिन्तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
- शब्दरत्नावली रोहिन्रोचना स्त्री तु गोपित्ते रक्तकह्लारयोषितोः । रोचनः कूटशाल्मल्यां पुंसि स्याद्रोचके त्रिषु ॥ रोही वटद्रुमेऽश्वत्थे तया रोहितके पुमान् । लङ्घनं क्रमणे चोपवासे प्लवनेऽपि च ॥ ललना स्त्री शिवाभेदरसनाकामिनीषु च । लेखनन्तु लिपिन्यासे भूर्जे च छर्दनेऽपि च ॥ वर्जनं हिंसने दाने तथा त्यागविशेषके । वपनं मुण्डने क्लीबं वीजाधानेऽपि तत्स्मृतम् ॥ Śabdaratnāvalī 7.20.70