कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ध्रुव

dhruvaपुं · masc.

In 20 kośas: 61 synonym verses, 11 as a nānārtha head word, 11 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.31 · p. 9
अश्लेषाभूः शिखी केतुर्ध्रुवस्तूत्तानपादजः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तिः (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.213 · p. 13
द्रुहिणो विरिञ्चिर्द्रुघणो विरिञ्चः परमेष्ठ्यजोऽष्टश्रवणः स्वयंभूः ।कमनः कविः सात्त्विकवेदगर्भौ स्थविरः शतानन्दपितामहौ कः ॥ २११ ॥धाता विधाता विधिवेधसौ ध्रुवः पुराणगो हंसगविश्वरेतसौ ।प्रजापतिर्ब्रह्मचतुर्मुखौ भवान्तकृज्जगत्कर्तृसरोरुहासनौ ॥ २१२ ॥शंभुः शतधृतिः स्रष्टा सुरज्येष्ठो विरिञ्चनः ।हिरण्यगर्भो लोकेशो नाभिपद्मात्मभूरपि ॥ २१३ ॥
metre not recognised
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1453 · p. 55
नेदिष्ठमन्तिकतमं विप्रकृष्टपरे पुनः ।दूरेऽतिदूरे दविष्ठं दवीयोऽथ सनातनम् ॥ १४५२ ॥शाश्वतानश्वरे नित्यं ध्रुवं स्थेयस्त्वतिस्थिरम् ।स्थास्नु स्थेष्ठं तत्कूटस्थं कालव्याप्येकरूपतः ॥ १४५३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.20
ध्रुव औत्तानपादिः स्यादगस्त्यः कुम्भसम्भवः ।मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.8
स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.72
शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः ॥ ७२ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.125 · p. 16
सनातनं ध्रुवं नित्यं शाश्वतं स्यादनश्वरम् ।धर्मः पुण्यं वृषः श्रेयः सुकृतं च समं स्मृतम् ॥ १२५ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.39 · p. 12
अलिन्दभेदैरेवं स्युर्गृहभेदाश्च षोडश ।ध्रुवं हीनमलिन्देन धन्यं स्यात्प्रागलिन्दकम् ॥ ३९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.131 · p. 228
अनाकुलं शाश्वतस्तु ध्रुवो नित्यः सनातनः ।सदातनश्च स्थास्नुस्तु स्थेयान् स्थिरतरोऽपि च ॥ १३१ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.18 · p. 250
फलपुष्पैर्विरहित एते वन्ध्यादयस्त्रिषु ।स्थाणुरस्त्री ध्रुवः शङ्कुर्ह्रस्वशाखार्थकः क्षुपः ॥ १८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.578 · p. 314
ताली कुम्भा पाटली स्याद्ध्रुवः स्याद्रक्तपुष्पिका ।स्यात्पाण्डुरफली पाण्डुर्धूसरा वृत्तबीजका ॥ ५७८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव साधारणप्रकाण्डः Kalpadrukośa 2.1.10 · p. 370
मनुजो रोचमानश्च स्यात्पुरूरव आर्द्धवः ।दशकोऽयं गणोऽथायस्त्वनलश्चानिलो ध्रुवः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव साधारणप्रकाण्डः Kalpadrukośa 2.1.15 · p. 371
ध्रुवो मिताशनः शक्तिः क्रीडनोऽन्यादृशो मुनिः ।एतादृगीदृक् शरभो धातुरूपो विराड्गयः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.99 · p. 390
नाट्यप्रियोऽस्थिपर्यायधन्वर्थोऽपि ध्रुवः स च ।एकदृक्स्यात्पञ्चमुखपर्यायोऽपि महाव्रती ॥ ९९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्प (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.216 · p. 403
ध्रुवो नक्षत्रनेमिः स्यादुत्तानचरणात्मजः ।ज्योतीरथो ग्रहाधारः सुनीतितनयार्थकः ॥ २१६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.9 · p. 406
गण्डो वृद्धिर्ध्रुवश्चापि व्याघातश्चापि हर्षणः ।वज्रं सिद्धिर्व्यतीपातो वरीयान्परिघः शिवः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.28 · p. 420
नुडवः खाडवः पूर्णोऽपूर्णश्चेत्यथ च ध्रुवाः ।मठश्च प्रतिमंट्टश्च तृतीयस्त्वपि सारकः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.63 · p. 468
आदीनवावयवयोर्दावमाधवयोरपि ।पणवध्रुवहावानां पुरोडाशांशयोरपि ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.78 · p. 470
पुरसद्माङ्गयोः शीर्षछत्रयोः पुण्डरीकके ।मधुद्रवे ध्रुवं शश्वत्तर्कयोः खपुरं घटे ॥ ७८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.72 · p. 34
ध्रुव औत्तानपादिः स्याद्ग्रहाधारः सुनीतिजः ।ज्योतीरथ्योऽप्यथागस्त्योऽगस्तिर्वातापिसूदनः ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.100 · p. 37
ध्रुवाणि भानि रोहिणी तथोत्तरात्रयं जगुः ।मृदूनि रेवती मृगः स मैत्रचित्रया युतः ॥ १०० ॥
पञ्चचामरम्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.17 · p. 136
छायातरुः स्थिरच्छायो ह्रस्वशाखाशिफः क्षुपः ।स्थाणुरस्त्री ध्रुवः शङ्कुः शाखापत्रविवर्जितः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.49 · p. 139
वटोऽस्त्रियां रक्तफलो न्यग्रोधो यक्षवासकः ।बहुपादो ध्रुवः शुङ्गी सिद्धार्थः स्कन्धसंभवः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.37 · p. 265
तोमरोऽस्त्री सर्वला स्त्री परिघः परिघातनः ।शूलिः स्त्री शूलमस्त्री*[स्यात् ] क्षिपणिः क्षिपका स्त्रियाम् ॥अरि क्लीबे चक्रमस्त्री गदादीनि पृथक्पृथक् ।शल्यं न स्त्री ध्रुवः शङ्कुः शम्बकः कीलकश्च सः ॥अस्रः पुंसि तथा कोणः स्त्रियः पाल्यश्रि-कोटयः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.66 · p. 18
******** शालि श्लाघ्यं प्रशस्तवत् ।प्रबर्हणं प्रवेकं च प्रधानं ध्रुवमन्तिमे ।श्रेयाञ्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभनः ॥ ६६ ॥
अनुष्टुप्metre not read in every line
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.74 · p. 19
असारं फल्गु सारं तु वरं क्लीबे ध्रुवं क्वचित् ।शून्यं शुन्यं रिक्तकं च वशिकं तुच्छमित्यपि ॥ ७४ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.285 · p. 23
तिरोहितं गूहितं च रुद्धमाच्छादितं च तत् ।अवकी[लित?]मुत्तालमुच्चण्डमवलम्बितम् ।अनश्वरं तु शाश्वतं सनातनं सदातनंध्रुवं च नित्यमक्षयं स्थिरं त्वकम्पमुच्यते ॥
अनुष्टुप्two metres in one verse
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.15 · p. 108
विश्वं जगत्येव गणे च वाडवंद्वंद्वं समासेतरवाचकं तथा ।शम्यां तथा शीतशिवं प्रकीर्तितंध्रुवं तथा निश्चय-तर्कयोर्मतम् ॥ १५ ॥
upajati 12
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.41 · p. 25
पर्कट्यां पर्कटी प्लक्षः सतीदो लक्षणे नटी ।वटे वैश्रवणावासो न्यग्रोधो बहुपाद्ध्रुवः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.104 · p. 58
शाके कोलफलो द्वारदारुर्योगी हलीमकः ।गन्धसारः स्थिरसारः स्थिरको ध्रुवको ध्रुवः ॥ १०४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.25 · p. 9
स्वयंभूर्द्रुहिणो विश्वरेता हंसगसात्त्विकौ ।ध्रुवः पुराणगः शंभुर्वेदगर्भः पितामहः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.119 · p. 20
भरणीभूस्तमोऽथ स्याच्छिखी केतुस्तथाहिकः ।अश्लेषाभूरथोत्तानपादजो ध्रुव इत्यपि ॥ ११९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.340 · p. 94
अत्यन्तनिकटे नेदिष्ठं दूरे दवीयो मतम् ।दविष्टं त्वतिदूरे स्याच्छाश्वतं ध्रुवमित्यपि ॥ ३४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 वी (wrong syllable)
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.696 · p. 117
शाश्वते नित्य आधारसदातनसनातनाः ।चिरन्तनो ध्रुवः पूर्णनिरन्तनपरन्तनाः ॥ ६९६ ॥
अनुष्टुप्
genderविadj.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त तेजोभानुः Pañcatattvaprakāśa 4.323 · p. 23
ग्रहाधारो ध्रुवो ज्योतीरथ उत्तानपादजः ।ज्योतिर्मुखी दीपशिखा दीपलेखा प्रदीपिका ॥ ३२३ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.9 · p. 2
धाता विधाता लोकेशो विरञ्चिर्विश्वसृड्ध्रुवः ।सुरज्येष्ठः कमलभूः स्वयंभूर्नाभिभूरजः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.76 · p. 9
राहुस्तमः सैंहिकेयः स्वर्भाणु[नु]स्तु विधुंतुदः ।केतुः शिखी चाहिकः स्याद्ध्रुवस्तूत्तानपादजः ॥ ७६ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.103 · p. 44
विप्रकृष्टं परं दूरं ध्रुवं नित्यं च शाश्वतम् ।चञ्चलं चपलं लोलं तरलं चटुलं चलम् ॥ १०३ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.113 · p. 17
अश्लेषाभूश्च केतुश्च शिखी चेति ग्रहा मताः ।उत्तानपादजश्चैव ध्रुवाख्यः कथितो बुधैः ॥ ११३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.270 · p. 36
ब्रह्मा चतुर्मुखः शम्भुः स्रष्टा शतधृतिर्ध्रुवः ।विश्वरेताः जगत्कर्ता पितामहः प्रजापतिः ॥ २७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1970 · p. 325
शुष्के वृक्षे स्थाणुः शङ्कुर्ध्रुवश्च ध्रवको भवेत् ॥ १९७० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2641 · p. 426
सनातनं ध्रुवं नित्यं शाश्वतिकञ्च शाश्वतम् ।अनश्वरं प्रसिद्धं वै सप्तमन्तु सदातनम् ॥ २६४१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.37 · p. 4
पूतनारी सदायोगी ध्रुवश्चानूरसूदनः ।हेमशङ्खः सदावर्ती कालनेमिरिपुः स्वभूः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.206 · p. 15
जड इत्येष पर्यायः शीतलस्य निगद्यते ।अथ ध्रुवो ग्रहाधार औत्तानपादिरित्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.15 · p. 58
अस्त्री स्थानुः ध्रुवः शङ्कुश्छिन्नशाखे महीरुहे ।क्षुपच्छापौ निगदितौ ह्रस्वशाखाशिके तरो ॥अविद्यमानशाखे तु बहुपत्रे महीरुहे ।अप्रकाण्डे झिण्टिकादौ स्तम्बगुल्मौ समीरितौ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.28 · p. 165
नित्ये ध्रूवः शाश्वतश्च सदातनसनातनौ ।अथ स्थेयान् स्थिरतरः स्थास्नुर्दृटतरोऽपि च ॥
अनुष्टुप्
genderविadj.doubtful
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.312 · p. 244
गोधनं धनं कीलस्तु पुंस्त्रियोः पुष्पलान्विता ।पुष्पलकः शिवकश्च शिवोऽपि ध्रुवको ध्रुवः ॥ ३१२ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.78 · p. 11
कालः कामः सखा सत्यो विश्वेदेवा अमी दश ।प्राभास आपः प्रत्यूषो धरः सोमो ध्रुवोऽनिलः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.446 · p. 59
अस्त्री स्थाणुर्ध्रुवः शङ्कुरङ्कूरोऽङ्कुरमस्त्रियाम् ।स्तम्बः प्रकाण्डमस्त्री स्याद्ध्रस्वशाखाशिफः क्षुपः ॥ ४४६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.710 · p. 91
शृङ्गारोऽलंक्रिया तोत्रं वैणुकं कदली ध्वजः ।आलानं बन्धनस्तम्भे कीलशङ्कुध्रुवाः समाः ॥ ७१० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1681 · p. 202
सदातनः सनातनो ध्रुवश्च नित्यशाश्वतौ ।वशीकृतोऽनुकूलितः सुखाकृतः प्रियाकृतः ॥ १६८१ ॥
पञ्चचामरम्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1769 · p. 214
वरतन्तुर्विप्रबन्धुर्ध्रुवः कुल्मलबर्हिषः ।जरत्कर्णो [जा]मदग्निः प्रस्कण्वः पावको भृगुः ॥ १७६९ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात ॐ Tantrābhidhāna 2.1.2 · p. 5
सर्वबीजोत्पादकश्च पञ्चदेवो ध्रुवस्त्रिकः ।सावित्री त्रिशिखो ब्रह्म त्रिगुणो गुणजीवकः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.3 · p. 28
विषबीजं श्रुतिमुखं ध्रुवं हालाहलं प्रिये (च तत्) ॥
genderक्लीneut.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.2 · p. 35
ध्रुवस्तारस्त्रिवृद्ब्रह्म वेदाद्य(दि)स्तारकोव्ययः ।प्रणवश्च त्रिमात्रोऽपि ओङ्कारो ज्योतिरादिमः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मध्वाचार्यविरचितमातृकानिघण्टु Tantrābhidhāna 6.1 · p. 41
ध्रुवस्तारस्तथौङ्कारो मूलज्योतिः शिवोऽव्ययः ।वेदाद्यस्तारकोऽव्यक्तः शाखादिः प्रणवः स्मृतः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
ॐकारो वर्तुलस्तारो बिन्दुशक्तिस्त्रितत्त्वकम् ।प्रणवश्चन्द्र साद्यश्च पञ्चदेवो ध्रुवस्त्रिकः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
प्रणवस्तारकोऽव्यक्तो वेदादिश्च शिवोऽव्ययः ।आदिमश्च ध्रुवोङ्कारौ मूलज्योतिः शिवादिकः ।त्रिवृद्ब्रह्मा त्रिमात्रश्च शब्दाः प्रणववाचकाः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात भूतडामरतन्त्रोक्तबीजाभिधान Tantrābhidhāna 10.32 · p. 63
प्रणवो विषबीजं स्यात् ध्रुवं हालाहलं स्मृतम् ।कालः श्रुतिमुखं ज्ञेयं बहुरूपि निरञ्जनम् ॥प्रणवम्॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव दिग्वर्गः Trikāṇḍaśeṣa 1.3.14 · p. 17
राहुस्तु ग्रहकल्लोलोऽभ्रपिशाचोऽप्यथाऽहिकः ।केतुर्ज्योतिरथस्तु स्याद्ग्रहाधारो ध्रुवश्च सः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.131 · p. 114
कस्तंभि युगमध्येऽस्त्री स्यादक्षश्चक्रधारणम् ।अक्षकीले त्वणिर्न क्ली ध्रुवः कीलोऽप्यनिर्न षण् ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.211
ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु ॥ २११ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास बश्लोकः Dharaṇikośa 22.3.2 · p. 137
ध्रुवः शिवे स्याद्वसुयोगभेदयो-र्नित्ये च कीले च वटद्रुमे च ।स्रुग्गीतिभेदावपि ? सालपर्णिकाध्रुबा स्मृता निश्चिततर्कयोर्ध्रुबम् ॥
upajati mixed
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.93 · p. 357
नवः स्तवे ना तरुणेऽन्यवत्स्याद्-ध्रुवः शिवे भान्तरयोगयोश्च ।मुनौ वसौ स्याद्वटशङ्कुकीलेस्त्री शालिपर्ण्यां स्रुचि गीतिभेदे ॥ ९३ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.94 · p. 357
मूर्वासु चान्त्ये * सुनिश्चितोहेस्थिरे तथा शाश्वतिकेऽन्यलिङ्गः ।स्रुवा तु मूर्वागजभ[76b]क्ष्ययोः स्या-त्स्रुगन्तरे पुंसि भवेत्स्त्रियां च ॥ ९४ ॥
metre not recognised
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.649 · p. 98
धीवरीत्याह ना तु स्याद् ध्रुवः शम्भुविरिञ्चयोः ।औत्तानपादौ कीलेऽथ त्रिर्नित्ये निश्चले स्फुटे ॥ ६४९ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास धकारादयः Paramānandīyanāmamālā 5.17.256 · p. 194
धन्वी धनुर्धरे छेके ध्रुवः कीलकशर्वयोः ।धवः प्रिये तरौ भीरौ धीदा कन्यामनीषयोः ॥ २५६ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र वद्विः Śivakoṣa 24.1.498 · p. 45
धवो भरोद्वहे धूर्ते ध्रुवः शङ्खे वटेऽपि च ।ध्रुवा मूर्वाशालिपर्ण्योः प्लवः प्लक्षे शिलारसे ॥ ४९८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वान्ताः Śabdaratnāvalī 7.29.12 · p. 285
द्यौः स्त्रियां स्वर्गनभसोर्दिवञ्चापि नपुंसकम् ।ध्रुवो धूर्ते वृक्षभेदे पतिमानुषयोरपि ।ध्रुवः शङ्कौ हरे विष्णौ भर्भदे वटयोगयोः ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वान्ताः Śabdaratnāvalī 7.29.13 · p. 286
तर्कनिश्चितयोः क्लीबं नित्यनिश्चलयोस्त्रिषु ।स्त्रियान्तु शालपर्ण्यां स्यात्तथा साध्वी स्त्रियामपि ॥गीतभेदे च स्रुग्भेदे त्रिलिङ्ग्यामाह माधवः ।नवस्त्रिषु नूतने स्यात्स्तुतिमात्रे पुमानयम् ॥नीवी परिपणे स्त्री तु स्त्रीकट्यंशुकबन्धने ।पक्वं विनाशाभिमुखे तथा परिणते त्रिषु ॥प्लवो ना विहगे भेके निषादे भेलके कपौ ।शलके प्रेरणे शत्रौ श्वपचे प्लवनेऽपि च ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable); pāda 3, syllable 4 षु (wrong syllable)
doubtful
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.417 · p. 240
ध्रुवो वटे स्मरारौ च गीतिस्रुग्भेदयोर्ध्रुवा ।धवो धूर्त्तेऽप्यथ नवो नूतने वासवे स्तुतौ ॥ ४१७ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.44 · p. 233
ध्रुवो धात्रीशकीलर्क्षनित्येषु स्त्री तु भूस्त्रुचोः ।क्ली तर्के निश्चिते व्योम्नि धीरोऽब्धौ मंथरे बुधे ॥ ४४ ॥
अनुष्टुप्

ध्रुव as a meaning in nānārtha verses

  • धरणिकोश सनातनस्तनयित्नुः स्मृतो मेघे घनस्य स्तनितेऽपि च । सनातनो ध्रुवो विष्णुः पितॄणामतिथावपि ॥ Dharaṇikośa 19.2.66
  • कोषकल्पतरु स्थाणुव्यूतौ स्त्री च निषङ्गके त्रिषु भवेत्तूणोऽथ नील्यां स्त्रियां वाणी तु श्रुतिभारतीद्वयगता फाणिस्तु खर्वे गुडे । ऊर्म्यर्चिः किरणेषु पुंसि च घृणिः स्थाणुः पुमाञ्शंकरे न स्त्री स ध्रुवकीलयोरथ नृपे वंशे च वेणुः पुमान् ॥ १६ ॥ Koṣakalpataru 6.15.16
  • कोषकल्पतरु प्रमाणप्रमाणं ध्रुवे हेतुनीत्यादिशास्त्रे परिच्छेदने चैकतायां तथोक्तम् । प्रमातर्यपि प्रायशः क्लीब ऐक्येऽ- ऽप्यथो कोङ्कणं शस्त्रभेदेऽपि च * ॥ ३० ॥ Koṣakalpataru 6.15.30
  • कोषकल्पतरु स्थितयुक्तेऽप्ययुक्तेऽप्यथ गत्यभावे स्थितं ध्रुवोर्ध्वेषु च सप्रतिज्ञे । सितः समाप्ते धवले च नि[286b]श्चिते शितं तु शाते निशितेऽथ शातम् ॥ ७ ॥ Koṣakalpataru 6.16.7
  • कोषकल्पतरु नित्यचण्डौषधौ स्त्री सतते ध्रुवे च नित्यं पराभं प्रवदन्ति सन्तः । भृत्यस्तु दासे भृतिवाचकं स्त्री चान्त्योऽधमे चान्तभवे पराभः ॥ ४२ ॥ Koṣakalpataru 6.26.42
  • कोषकल्पतरु अक्षरअस्त्यक्षरं ब्रह्मणि वर्णमुक्त्यो- रन्त्ये ध्रुवेऽन्योपममृक्षरो ना । स्यात्कण्टकेऽप्यृत्विजि वारिधारा- वाची तु षण्ढे प्रवरस्तु न स्त्री ॥ ८७ ॥ Koṣakalpataru 6.27.87
  • शब्दरत्नावली स्थाणुस्थाणुरस्त्री ध्रुवे पुंसि कीले स्मरहरेऽपि च । स्थूणा लोहप्रतिमायां गृहस्तम्भेऽपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.15.21
  • शब्दरत्नावली नक्षवनेमीनक्षवनेमी रेवत्यां स्त्रियां ना ध्रुवचन्द्रयोः ॥ Śabdaratnāvalī 7.25.52
  • शब्दरत्नाकर औत्तानपादिअनन्ते वित्तनाथे च तालाङ्केऽप्येककुण्डलः । ध्रुवेऽप्यौत्तानपादिः स्याद् गृध्रेऽपि कमलच्छदः ॥ २२३३ ॥ Śabdaratnākara 4.1.2233
  • तन्त्राभिधान ओंओङ्कारः प्रणवो ध्रुवश्च गिरिजे! तारश्च वेदादिको ह्रीं लज्जा गिरिजा च शक्तिरपि हृल्लेखा च माया परा । श्रींकारः कमला च विष्णुवनिता क्रोङ्कारबीजं शृणिः स्वाहा वह्निवधूः शिरोऽपि ठयुगं फट्कारमस्त्राक्षरम् ॥ ३२ ॥ Tantrābhidhāna 1.32
  • वैजयन्ती अणिअन्तोऽस्त्र्यवसिते मृत्यौ स्वरूपे निश्चयेऽन्तिके । नार्धमासेऽणिरक्ल्यश्रौ रूप्येऽक्षाग्रध्रुवे ध्रुवे ॥ ५ ॥ Vaijayantī 6.5.5